🕉️ 24 November 2026, Tuesday · 08:12:47 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · प्रथम परिच्छेद — काल, मलमास, तिथि-निर्णय, व्रत-परिभाषा · पृष्ठ 1/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

श्रीगणेशायनमः श्रीपाण्डुरङ्गायनमः। श्रीविठ्ठलं सुकरुणार्णवमाशुतोषं दीनेष्टपोपमघसंहतिसिन्धुशोषम्। श्रीरुक्मिणीमतिमुषं पुरुषं परं तं वन्दे दुरन्तचरितं हृदि सञ्चरन्तम् १ वन्दे प्रतिघ्नन्तमघानि शङ्करं धत्तां स मे मूर्ध्नि दिवानिशं करम्। शिवां च विघ्नेशमथो पितामहं सरस्वतीमाशु भजेऽपि तामहम् २ श्रीलक्ष्मी गरुडं सहस्रशिरसं प्रद्युम्नमीशं कपिं श्रीसूर्य विधुभौमविद्गुरुकविच्छायासुतान्षण्मुखम्। इन्द्राद्यान्विबुधान् गुरूंश्च जननीं तातं त्वनन्ताभिधं नत्वार्यान्वितनोमि माधवमुखान्धर्माब्धिसारं मितम् ३ दृष्ट्वा पूर्वनिबन्धान्निर्णयसिन्धुक्रमेण सिद्धार्थान्। प्रायेण मूलवचनान्युज्झित्य लिखामि वालबोधाय ४

1. तत्रकालः

तत्रकालः पड्डिधः वत्सरः अयनम् ऋतुः मासः पक्षो दिवस इति वत्सरः पञ्चधा चान्द्रः सौरः सावनो नाक्षत्रो वार्हस्पत्य इति शुक्लप्रतिपदादिदर्शान्तैश्चैत्रादिसञ्ज्ञैर्द्वादशभिर्मासैश्चतुःपञ्चाशदधिकशतत्रयदिनैः सतिमलमासेत्रयोदशभिर्मासैश्चान्द्रो वत्सरादिकालः वत्सरः चान्द्रस्यैवप्रभवोविभवः शुक्लइत्यादयः पष्टिसञ्ज्ञाः मेषादिषु द्वादशराशिपुरविभुक्तेषुपञ्चषष्ट्यधिकशतत्र्यदिनैः सौरोवत्सरः सम्पद्यते षष्ट्युत्तरश-तत्र दिनैः सावनः वक्ष्यमाणैर्द्वादशभिर्नाक्षत्रमासैर्नाक्षत्रोवत्सरः सचचतुर्विशत्यधिकशतन्त्र्यदिनैः स्यात् मेषाद्यन्यतमराशौबृहस्पतिनाभुक्तेवार्हस्पत्यः सचएकपष्ट्यधिकशतत्रयसङ्ख्यदिनैर्भवति कर्मादौसङ्कल्पेचान्द्रवत्सरएवस्मर्तव्योनान्यः अयनन्द्विविधं दक्षिणमुत्तरञ्च सूर्यस्यङ्कर्कसङ्क्रान्तिमारभ्यषडराशिभोगेनदक्षिणम् मकरसङ्क्रान्तिमा रभ्यराशिषभोगेनोत्तरायणम् ऋतुद्विविधः सौरचान्द्रश्च मीनारम्भोमेपारम्भोवा सुर्यस्यराशिद्वयभोगात्मकोवसन्ता दिषद्सञ्ज्ञकः सौरऋतुः चैत्रमारभ्य मासद्वयद्वयात्मकोवसन्तादिषद्सञ्ज्ञकश्चान्द्रः मलमासेतुकिञ्चिदूननवतिसङ्ख्यैदिनै चान्द्रऋतुः श्रौतस्मार्तादौ चान्द्रतुस्मरणप्रशस्तम् मासचतुर्धा चान्द्रः सौरः सावनो नाक्षत्र इति शुक्लप्रतिपदादिरमान्तः कृष्णप्रतिपदादिः पूर्णिमान्तोवाचान्द्रोमासः तत्रापि शुक्लादिमुख्यः कृष्णादिर्विन्ध्योत्तरएवग्राह्यः अयमेवचैत्रादिसञ्ज्ञकः कर्मादौस्मर्तव्यः केचि

न्मीनराशिमारभ्यसौराणाञ्चैत्रादिसञ्ज्ञामाहुः अर्कसङ्क्रान्तिमारभ्योत्तरसङ्क्रान्त्यवधिः सौरोमासः त्रिंशद्दिनैः सावनः चन्द्रस्याश्विन्यादिसप्तविंशतिनक्षत्रभोगेननाक्षत्रोमासः प्रतिपदादिपौर्णिमान्तःशुक्लपक्षः प्रतिपदादिदर्शान्तः कृष्णपक्षः दिवसःषष्टिघटिकात्मकः इतिश्रीधर्मसिन्धुसारेप्रथमोद्देशः १

2. सङ्क्रान्तिनिर्णयउच्यते

अथसङ्क्रान्तिनिर्णयउच्यते—मेषेसूर्यसङ्क्रान्तौप्रागूर्ध्वचपञ्चदशपञ्चदशघटिकाः पुण्यकालः दशदशेत्येके वृषेपूर्वाः षोडश मिथुनेपराः षोडश कर्केपूर्वास्त्रिंशत् सिंहेपूर्वाः

सङ्क्रान्तिपर्वकालः

षोडश कन्यायाम्पराः षोडश तुलायाम्मागूचपञ्चदशपञ्चदश दशदशेसेके वृश्चिकेपूर्वाः षोडश धनुषिपराः षोडश मकरेपराश्चत्वारिंशत् कुम्भेपूर्वाः षोडश मीनेपराः पोडश घटिकाद्वयाद्यल्पदिनशेषेमिथुनकन्याधनुर्मीनेष्व पिमकरेपिपूर्वाएवपुण्याः प्रभातेघटिकाद्वयाद्यल्पकालेतृपसिंहदृश्चिककुम्भेष्वपिकर्केपि पराएव पुण्याः प्रभातेकर्कसङ्क्रान्तौपूर्वदिने पुण्य मिसेके रात्रौसङ्क्रमेमध्यरात्रादर्वाक्सङ्क्रान्तीपूर्वदिनोत्तरार्धपुण्यम् मध्यरात्रात्परतः सङ्क्रान्तौ परदिनस्यपूर्वार्धपुण्यं निशीथमध्यएवसङ्क्रान्तौदिनद्वयेपिपूर्वदिनोत्तरार्धपरदिनपूर्वार्धचपुण्यम् इदम्भकरककातिरिक्तेसर्वत्ररात्रिसङ्क्रमेज्ञेयम् अयनेतुमकरेरात्रिसङ्क्रमे सर्वत्रपरदिनमेवपुण्यं रात्रौ कर्कसङ्क्रान्तौपूर्वदिनमेत्रपुण्यं सूर्यास्तोत्तरङ्घटिकात्रयंसायंसन्ध्या तत्रमकरसङ्क्रमेपूर्वदिनम्पुण्यं सूर्योदयात्माघटिकात्रयम्प्रातःसन्ध्यातत्रकर्कसङ्क्रान्तौपरदिनम्पुण्यमिति सन्ध्याकालेविशेषोज्योतिः शास्त्रेप्रसिद्धः अथदानम् मेषेमेषदानं वृषेगोदानम् मिथुनेवस्त्रान्नादिदेयं कर्केघृतधेनुः छत्रसुवर्णचसिंहे कन्यायाङ्गृहंवस्त्रञ्च तुलायान्तिला सङ्क्रान्तिपुदानानि गोरसाश्वदेयाः वृश्चिकेदीपः धनुषि वस्त्रंयानञ्च मकरेकाष्ठानिअग्निश्च कुम्भेगौर्जलन्तृणञ्च मीनेभूमिर्मालाचदेयाः एवमन्यान्यपिदानानिद्रष्टव्यानि अयनसङ्क्रान्तौमेषतुलासङ्क्रान्तौचपूर्वत्रिरात्रमेकरात्रंवोपोष्यस्नानदानादिकार्यं चरमोपोषणसङ्क्रान्तिमत्यहोरात्रे पुण्यकालवत्यहोरात्रे वायथापतेत्तथाकार्यम् अयमुपवासः पुत्रवगृहस्थभिन्नेनपापक्षयकामेनकार्यः काम्यो नतुनित्यः सर्वसङ्क्रान्तिषुपिण्डरहितं श्राद्धङ्कार्यम् अ॒यनद्वयेतुनित्यं यथातत्तत्सङ्क्रान्तिषुदानादिकङ्कर्तव्यन्तथैवताभ्यःपूर्वमयनांशप्रवृत्तौतत्तत्सङ्क्रान्त्युचितस्नानदानादिकङ्कर्तव्यम् अयनांशाज्योतिःशास्त्रेम-अयनांशनिर्णयः सिद्धाः तेचेदानीन्द्वादशाधिकसप्तदशशतसङ्ख्याकेशालिवाहनशके-एकविंशतिरयनांशाइत्येकविंशतितमेदिनेपूर्वमयनांशपर्वकालइतिपर्यवसन्नोर्थः एवं न्यूनाधिकशकेऊह्यं वृषसिंहदृश्चिककुम्भेषुसङ्क्रान्तिर्विष्णुपदसञ्ज्ञा मिथुनकन्याधनुमनेषुसङ्क्रान्तिःषडशीतिसञ्ज्ञा मेषतुलयोर्विषुवसञ्ज्ञा कर्कमकरयोरयनसञ्ज्ञा एतासुचतुविधासुउत्तरोत्तरं पुण्याधिक्यं मङ्गलकृत्येषु सर्वसङ्क्रान्तिष्वविशेषेणपूर्वतःपरतचषोडशषोडशघटिकास्त्याज्याः चन्द्रादिसङ्क्रान्तिषुतुपूर्वत्रपरत्रचमिलिखाक्रमेणद्वेनवद्वेचतु-

मङ्गलेषु सङ्क्रान्तित्याज्यघटिकाः

रशीतिः षट्सार्धशतञ्चघटिकास्त्याज्याः रात्रौसङ्क्रमणेग्रहणवन्द्रात्रावेवस्त्रानदानादिकङ्कर्तव्यमितिकेचित् रात्रौसङ्क्रमणेपिदिवैवस्नानादिकन्नतुरात्रावितितुसर्वसम्मतं बहुदेशाचारश्चैवं यस्यजन्मर्क्षेरविसङ्क्रमस्तस्पधनक्षयादिपीडातत्परिहारार्थपद्मपत्रादियुक्तजलेनस्नानं विषुवायनयोरहिसङ्क्रमेपूर्वापररात्रौतदहिचाध्यापनाध्ययने वर्जयेत् रात्रिसङ्क्रयेपूर्वापरदिनयोस्तद्रात्रौचवर्जयेत् एवम्पक्षिणीसङ्क्रान्तिः द्वादशप्रहरपर्यन्तमनध्यायादिकमितितात्पर्यम् अन्योपिविशेषोऽयनसङ्क्रान्तौवक्ष्यते इतिसङ्क्रान्त्युदेशोद्वितीयः २

3. मलमासः

अथमलमासः सद्विविधः अधिमासः क्षयमासश्च सङ्क्रान्तिरहितोमासोऽधिमासः सङ्क्रान्तिद्वययुक्तोमासःक्षयमासः पूर्वाधिमासादुत्तरोधिमासस्त्रिंशत्तममासमारभ्याष्टसुनवसुवामासेष्वन्यतमोभवति क्षयमासस्तुएकचत्वारिंशदधिकशतसङ्ख्यैर्वपैरेकोनविंशतिसङ्ङ्ख्यैर्वावर्षैर्भवति नत्वधिकमासवदल्पकालेन क्षयमासः कार्तिकमार्गशीर्षपौषेप्वन्यतमोभवतिनेतरः यस्मिन्वर्षेक्षयमासस्तस्मिन्वर्षेऽधिकमासद्वयं क्षयमासात्पूर्व

अधिमासोदाहरण

मेकोऽधिमासः क्षयमासानन्तरमेकोऽधिमासइति अधिकमासोदाहरणं चैत्रामावास्यायाम्मेषसङ्क्रान्तिः ततःशुक्लप्रतिपदमारभ्यामावास्यापर्यन्तंसङ्क्रान्तिर्नास्ति ततःशुक्लप्रतिपदिवृषभसङ्क्रान्तिरिति पूर्वःसङ्क्रान्तिरहितोमासोऽधिकवैशाखसञ्ज्ञः वृषभसङ्क्रान्तियुतस्तुशुद्धवैशाखसञ्ज्ञः अथक्षयमासोदाहरणम् भाद्रपदकृष्णामावास्थायाङ्कन्यासङ्क्रान्तिः ततआश्विनोऽधिमासः शुद्धाश्विनप्रतिपदितुलासङ्क्रान्तिः कार्तिकशुक्लृप्रतिपदिष्टचिकसङ्क्रान्तिः ततोमार्गशीर्षशुद्धप्रतिपदिधनुःसङ्क्रान्तिः तस्मिन्नेवमासेऽमावास्यायाम्मकरसङ्क्रान्तिरितिधनुर्मकरसङ्क्रान्तिद्वय

क्षयमासनिर्णयः

युक्तएकोमासःक्षयमाससञ्ज्ञकः सचमार्गशीर्षपौषाख्यमासद्वयात्मककोन्मासोज्ञेयः तस्यप्रतिपदादितिथीनां पूर्वार्धेमार्गशीर्ष उत्तरार्धेपौषइत्येवंसर्वतिथीनाम्मासद्वयात्मकत्वात् अतिथिपूर्वार्धेमृतस्यमार्गशीर्षेप्रत्यब्दश्राद्धमुत्तरार्धमृतस्यतु पौष एवञ्जननेवर्धापनादिविधिरपि ततऊर्ध्वमाघामावास्यायां कुम्भसङ्क्रान्तिः ततः फाल्गुनोऽधिमासः शुद्धफाल्गुनशुक्लप्रतिपदिमीनसङ्क्रान्तिः एवं पूर्वापराधिमासद्वययुक्तःक्षयमासोयस्मिन्वर्षे तत्रत्रयोदशमासात्मकङ्किञ्चिदूननवत्यधिकशतत्रयदिनैर्वर्षं तत्रक्षयमासात्पूर्वोऽधिमासःसंसर्पसञ्ज्ञःसर्वकर्मार्हःशुभकर्मणिनत्याज्यः अंहस्पतिसञ्ज्ञः क्षयमासस्तदुत्तरभाव्यधिकमासश्च सर्वकर्मसुवर्ज्यः एवन्त्रिवत्सरान्तरस्थः केवलोधिकमा सोपिवर्ज्यः

4. तत्रवर्ज्यावर्ज्यनिर्णयः

तत्रवर्ज्यावर्ज्यनिर्णयः अनन्यगतिकन्निसनैमित्तिकङ्काम्यञ्चअधिकमासक्षयमासयोः कर्तव्यं सगतिकन्नित्यनैमित्तिकङ्काम्यञ्चवर्ज्यं तथाहि सन्ध्याग्निहोत्रादिनित्यं ग्रहणस्नानादिनैमित्तिकं कारीर्यादिकंरक्षोगृहीतजीवनार्थरक्षोघ्नेष्ट्यादिकञ्चकाम्यं

मलमासेऽपिकार्यं ज्योतिष्टोमादिनित्यञ्जातेष्ट्यादिनैमित्तिकं पुत्रकामेष्ट्यादिकाम्यञ्च मलमासोत्तरं शुद्धमास्येवकर्तव्यम् आरब्धकाम्यस्यमलमासेप्यनुष्ठानं नूतनारम्भः समाप्तिश्चनकर्तव्या तथा पूजालोपादिनिमित्तकपुनर्मूर्तिप्रतिष्ठां गर्भाधानाद्यन्नप्राशनान्तसंस्कारान्प्राप्तकालाननन्यगतिकान् ज्वरादिरोगशान्तिमलभ्ययोगेश्राद्धव्रतादिकं नैमित्तिकप्रायश्चित्तं नित्यश्राद्धमूनमासिकादिश्राद्धानि दर्शश्राद्धञ्च मलेपिकुर्यात् चैत्रादौमलमासेमृतानाङ्कदाचिद्बहुकालेनतस्मिन्नेवचैत्रादौमलमासेप्राप्तेमलमासएवप्रतिसांवत्सरिकंश्राद्धङ्कर्तव्यं चैत्रादौशुद्धमासेमृतानान्तुप्रत्याब्दिकंश्राद्धम्मलमासेनकर्तव्यं शुद्धेएवचैत्रादौकर्तव्यं शुद्धमासेमृतानान्तुप्रथमाब्दिकम्मलमासए-

मलमासेप्रथमाब्दिकश्राद्धादिविचारः

वकार्यनशुद्धे द्वितीयाब्दिकन्तुशुद्धेएव एकादशाहान्तकर्मसपिण्डीकर्मचमलेपिकार्यं द्वितीयमासिकादिश्राद्धन्तुमलेशुद्धेचावृत्त्याद्विवारङ्कर्तव्यम् एवञ्चयत्रद्वादशमासिकमधिकमासेप्राप्तन्तस्यमलेशुद्धे च द्विरावृत्तिङ्कृत्वा ऊनाब्दकालेऊनाब्दिकञ्चकृत्वाचतुर्दशेमासेप्रथमाब्दिकङ्कार्यं यस्मिन्वर्षेक्षयमासाव्यवहितोऽधिकमासः यथाकार्तिकोधिमासस्तदुत्तरोमासोवृश्चिकधनुःसङ्क्रान्तियुक्तखात्क्षयसञ्ज्ञकस्तत्रकार्तिकमासयम्प्रसाब्दिकम्पूर्वेऽधिमासेउत्तरेक्षयमासेचकार्यं यत्रापिक्षयाद्व्यवहितपूर्वोधिमासोयथाऽऽश्विनोधिमासोमार्गशीर्षःक्षयस्तत्रापिआश्विनमासगतं श्राद्धमधिकेशुद्धेचआश्विनेकार्य द्वयोरपिकर्मार्हत्वादितिभाति व्यवहितक्षयमासगतंला ब्दिकङ्क्षयमासएवकार्यं तथाचपूर्वोक्तेमार्गशीर्षक्षयोदाहरणेमार्गशीर्षगतं पौषगतञ्चाब्दिकमेकस्मिन्नेवमासेतिथिपूर्वार्धादिविभागविनैवकार्यमितिफलितम्

5. मलमासेवर्ज्यानि

अथमलमासेवर्ज्यानि उपाकर्मोत्सर्जनेअष्टका श्राद्धानिअधिकेवर्ज्यानि चूड़ामौञ्जीबन्धविवाहास्तीर्थादियात्रा वास्तुकर्मगृहप्रवेशदेवप्रतिष्ठाकूपारामात्सर्गोनूतनवस्त्रालङ्कारधारणं तुलापुरुषादिमहादानानि यज्ञकर्माधानमपूर्वतीर्थदेवदर्शनंसन्न्यासः काम्यतृपोत्सर्गोराजाभिषेकोत्रतानि सगतिकमन्नप्राशनंसमावर्तनमतिक्रान्तनामक र्मादिसंस्काराः पवित्रारोपणदमनार्पणे श्रवणाकर्मसर्पबल्यादिपाकसंस्थाःशयनपरिवर्तनाद्युत्सवःशपथदिव्यादिकर्म एतानिमलमासेवर्ज्यानि नैमित्तिकानिरजोदर्शनशान्तिविच्छिन्नाधान पुनःप्रतिष्ठादीनि यदिनिमित्तानन्तरमेव क्रियन्तेतदानमलमासादिदोषः कालातिपत्तौतुशुद्धेएवकर्तव्यानि आग्रयणन्दुर्भिक्षसङ्कटेमलमा सेकार्यमन्यथा शुद्धेएव युगादिमन्वादिश्राद्धानाम्मासद्वयेप्यावृत्तिः क्षयात्पूर्वोऽधिमासः संसर्पसञ्ज्ञकः पूर्वमुक्तः तत्रचूडाकर्मव्रतबन्धविवाहाय्याधानयज्ञोत्सवमहालयराजाभिषेकाएववर्ज्याः नान्यानिकर्माणि अपूर्वग्रतारम्भोव्रतसमाप्तिश्चमलमासेनभवति सपूर्वमाघस्नानादेःक्षयमासेप्यारम्भसमाप्तीइति मकरसङ्क्रान्तियुक्तक्षयमासगतपौर्णमास्याम्माघस्नानमारभ्य कुम्भसङ्क्रान्तियुतमाघपौर्णमास्यांसमापनीयम् एवङ्कार्तिकेप्यूह्यं यत्रवैशाखादिरधि-

कस्तत्रवैशाखस्नानादिमासव्रतानाञ्चैत्रपूर्णिमायामारब्धानांशुद्धवैशाखपौर्णमास्यांसमाप्तिरितितेषाम्मासद्वयमनुष्ठानं यन्मलमासेवर्ज्यमुक्तन्तद्गुरुशुक्रास्तबाल्यवार्धकेष्वपि सिंहस्थेगुरौचवज्ञेयं तत्रास्तात्प्राक्सप्ताहंवार्धकमुदयानन्तरंसप्ताहम्बाल्यमितिमध्यमःपक्षः पञ्चदशा

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬