🕉️ 24 November 2026, Tuesday · 08:12:55 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 11/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

पवित्रारोपणम्

पवित्रारोपणम्. देवीगणेशदुर्गादीनाञ्चतुर्दशीचतुर्थीतृतीयानवम्यादयोयथाकुलाचारन्तिथयः तत्तत्तिथिष्वसम्भवेसर्वदेवानांश्रावणपौर्णमास्याङ्कार्यं तत्राप्यसम्भवेकातिक्यवधिर्गौणकालः इदन्नियम् अकुर्वाणोत्रजत्यधः तस्यसांवत्सरीपूजानिष्फलेत्याद्युक्तेः गौणकालेप्यकरणे तदायुतञ्जपेन्मन्त्रंस्तोत्रंवापिसमाहित इत्युक्तेरयुतसङ्ख्याकतद्देवतामूलमन्त्रजपःप्रायश्चित्तं तत्रपूर्वेद्युरधिवासनम्परेह्नेपवित्रारोपणं व्द्यहकालासम्भवेसद्योधिवासनपूर्वकन्तत्कार्यम् अथसङ्क्षेपतःप्रयोगः कार्पाससूत्रस्यवसूत्रींविधायअष्टोत्तरशतनव सूत्र्यादेवजानुपर्यन्तञ्चतुर्विंशतिग्रन्थिकमुत्तमपवित्रं चतुःपञ्चाशनवसूत्र्याऊरुलम्बिद्वादशग्रन्थिकम्मध्यमं सप्तविंशतिनवसूत्र्याअष्टग्रन्थिकन्नाभिपर्यन्तङ्कनिष्ठम्पवित्रञ्चकुलाविंशत्युत्तरशतेनसप्तत्यावानवसूत्र्यापादलम्बिनींवनमालामष्टोत्तरशतचतुर्विंशत्यन्यतरग्रन्थिकाङ्कृत्वाद्वादशनवसूत्र्याद्वादशग्रन्थिकङ्गन्धपवित्रं सप्तविंशतिनवसूत्र्यागुरुपवित्रन्त्रिसूत्र्याङ्गदेवतापवित्राणिकुर्यात् शिवपवित्राणिलिविस्तारानुसारेणकुर्यात सर्वाणिपवित्राणिपञ्चगव्येनप्रोक्ष्यप्रणवेनप्रक्षाल्यमूलेनाष्टोत्तरशतमभिमन्त्र्यग्रन्थीन्कुङ्कुमेनर ञ्जयित्वासर्वपवित्राणिवंशपात्रेसंस्थाप्यवस्त्रेणापिधायदेवपुरतोन्यस्य। क्रियालोपविधानार्थंयत्त्वया विहितम्प्रभो। मयैतत्क्रियतेदेव तवतुष्ट्यैपवित्रकम् १ नमेविघ्नोभवेदेवकुरुनाथदयाम्मयि। सर्वथासर्वदाविष्णोममत्वम्परमागतिः २ इतिमार्थ्याधिवासनङ्कुर्यात् तत्रदेशका लौसङ्कीर्त्य संवत्सरकृतपूजाफलावाप्त्यर्थ अमुकदेवताप्रीत्यर्थ अघिवासनविधिपूर्वकम्पवित्रारोपणङ्करिष्यइतिसङ्कल्प्यदेवपुरतः सर्वतोभद्रेजलपूर्णङ्कुम्भंसंस्थाप्य कुम्भेवंशपात्रन्तत्रता निपवित्राणिनिधायतेषु संवत्सरस्ययागस्यपवित्रीकरणायभोः। विष्णुलोकात्पवित्राद्यआगच्छेहनमोस्तुते १ इतिमत्रेणमूलमत्रेणचावाह्यत्रिसूत्र्याम्ब्रह्मविष्णुरुद्रानवसूत्र्यां ॐकारसोमवहिब्रह्मनागेश सूर्यशिवविश्वेदेवानुत्तममध्यमकनिष्ठपवित्रेषुब्रह्मविष्णुरुद्रान्सत्वरजस्तमांस्थावाह्यवनमालायाम्प्रकृतिञ्चावालमूलमन्त्रेण श्रीपवित्राद्यावाहितदेवताभ्योनमहत्यन्तेनगन्धाद्युपचारैः पूजयेत् ततः पूर्वसम्पादितंवितस्तिमात्रन्द्वादशग्रन्थिकङ्गन्धपवित्रमादाय विष्णुतेजोद्भबरम्यंसर्वपातकनाशनं सर्वकामप्रददेवतवाङ्गेधारयाम्यहम्

१ इतिमन्त्रेणमूलसम्पुटितेनदेवपादयोसमर्पयेत् देवस्थकरेबध्नीयादित्यन्ये ततोदेवं पञ्चोपचारैःसम्पूज्यप्रार्थयेत् आमन्त्रितोसिदेवेशपुराणपुरुषोत्तम। प्रातस्त्वाम्पूजयिष्यामिसान्निध्यङ्कुरुकेशव १ क्षीरोदधिमहानागशय्यावस्थितविग्रह। प्रातस्त्वाम्पूजयिष्यामिसन्निधौभवतेनमः २ ततःसाष्टाङ्गम्प्रणम्यपुष्पाञ्जलिन्दद्यात् इत्यधिवासनम् अत्रसर्वत्रमूलमत्रो-गुरूपदिष्टस्तान्त्रिकोवैदिकोवादेवगायत्रीरूपोवाग्राह्यः ततोरात्रिंसत्कथाजागरेणातिवाह्यप्रातःकालेसद्योधिवास-नेगोदोहान्त-रितेवाकालेपवित्रारोपणाङ्गभूतन्देवपूजनम्पवित्रपूजनञ्चकरिष्येइतिसङ्कल्प्यदेवम्पवित्राणिचफलाद्युपनैवे-द्यान्तगन्धाद्युपचारैः-सम्पूज्यगन्धदूर्वाक्षतयुतङ्कनिष्ठम्पवित्रमादाय देवदेवनमस्तुभ्यङ्गृहाणेदम्पवित्रकम्। पवित्रीकरणार्थायवर्षपूजाफलप्रदम् १ पवित्रकङ्कुरुष्वाद्ययन्मयादुष्कृतङ्कृतम्। शुद्धोभवाम्यहन्देवत्वत्प्रसादात्सुरेश्वर २ इतिमन्त्रेणमूलसम्पुटितेनदत्वामध्यमोत्तम-पवित्रेवनमालाञ्चैवमेवैतन्मन्त्रावृत्त्यादद्यात् अङ्गदेवताभ्योनाम्नासमर्प्य महानैवेद्यन्दत्त्वानीराज्यप्रार्थयेत्। मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः। इयंसवत्सरीपूजातवास्तुगरुडध्वज १ वनमालांयथादेवकौस्तुभंसततं हृदि। तद्वत्पवित्रतन्तूंस्त्वम्पूजाञ्चहृदयेवह २ जानताजानतावापियत्कृतन्नतवार्चनम्। केनचिद्विघ्नदोषेण परिपूर्णतदस्तुमे ३ मन्त्रहीनङ्क्रियाहीनम्भक्तिहनिंसुरेश्वर। यत्पूजितम्मयादेवपरिपूर्णं तदस्तुमे ४ अपराधसहस्राणिक्रियन्तेहर्निशम्मया। दासोहमितिमाम्मत्वाक्षमस्वपरमेश्वर ५ इति अत्रशिवादौगरुडध्वजेसादौवृषवाहनेत्यूहः वनमालामितिश्लोकस्यतुलोपः देव्यान्तुदेवदेवसुरेश्वरेत्यादौदेविदेविसुरेश्वरीत्यादिस्त्रीप्रत्ययान्तपदोहः कार्यः शेषंसमानं ततोगुरुंसम्पूज्यपवित्रन्दत्त्वान्य-ब्राह्मणेभ्यःसुवासिनीभ्यश्चान्यानिदत्त्वा स्वयम्प्रपिसकुटुम्बोधारयेत् ततोब्राह्मणैः सहभुक्त्वात्रिरात्रम्ब्रह्मचर्यादनियम-वान्देवेपवित्राणिधारयेत् देवस्यस्नानादिकोपचारान्पवित्राणिउत्तार्यकारयेत् त्रिरात्रान्तेदेवंसम्पूज्यपवित्राणिविसर्जयेत् अत्रशिवादिपवित्रारोपणेचतुर्दशी पूर्वविद्धाग्राह्या एवम्पूर्णिमा, पित्रिमुहूर्तसायाह्नव्याप्तापूर्वविद्धैवग्राह्या अष्टम्यादितिथ्यन्तराण्यपिपवित्रारोपणेप्रथ-मपरिच्छेदोक्तसामान्यतिथिनिर्णयानुसारेणग्राह्याणि इतिपवित्रारोपणविधिः॥ अथोपाकर्मकालः तत्रबव्हचानां श्रावणशुक्लपक्षेश्रवणनक्षत्रम्पञ्चमीहस्तइतिकालत्रयं तत्रश्रवणम्मुख्यकालस्तदलाभे-पञ्चम्यादिः तथाचकालत्तत्वविवेचनेसङ्ग्रहकारिकायाम्' बढ चानामुपा पर्वणिश्रवणेकार्यग्रहसङ्क्रान्त्यदूषिते। अध्वर्युभिर्बव्हचैश्वकथञ्चित्तदसम्भवे १ तत्रैव हस्तपञ्चम्यान्तयोः केवलयोरपि। तत्रदिनद्वयेश्रवणसत्वे यदिपूर्वसूर्योदय-मारभ्यप्रवृत्तंश्रवणन्द्वितीयदिनेसूर्योदयोत्तरन्त्रिमुहूर्तवर्तते तदापरदिनएवोपाकर्म धनिष्ठायोगमाशस्त्यात् यदित्रिमुहूर्त्तन्यूनन्तदा पूर्वदिनेएवसम्पूर्णव्यातेः यदि पूर्वदिनेसूर्योदयेनास्तिपरदिनेसूर्योदयोत्तरम्मुहूर्तद्वयंवर्ततेतदोत्तरदिनेएवउत्तराषाढाकर्म.

वेधनिषेधात् यदिपरदिनेमुहूर्तद्वयन्न्यूनम्पूर्वदिनेचोत्तराषाढाविद्धन्तदापञ्चम्यादिकालो ग्राह्यः पञ्चमीहस्तइति-कालद्वयन्तुऔदयिकम्मुहूर्तत्रयव्यापिमुख्यं तदलाभेपूर्वविद्धमपि एवम्भाद्रपद शुक्लपक्षेपिश्रवणपञ्चमीहस्तकालत्रय निर्णयोज्ञेयः एतद्वहुचैः पूर्वाहेकार्यम् अथयजुर्वेदिनिर्णयः तत्रबहूचानां श्रवणवत्सर्वयजुर्वेदिनांश्रावणपौर्णमासीमुख्यः कालः पौर्णमास्याःखण्डत्वेयदापूर्णिमापूर्वदिनेमुहूर्ताद्यनन्तरम्मवृत्ताद्वितीयदिनेषण्मुहूर्तव्यापि नीतदासर्वयाजुषाणामुत्तरैव यदाशुद्धाधिकतयादिनद्वयेपिसूर्योदयव्यापिनीतदासयजुर्वेदोपाकर्म र्वयाजुषाणाम्पूर्वैव पूर्वदिनेमुहूर्ताद्यनन्तरङ्गत्ताद्वितीय दिनेमुहूर्तद्वयत्रयादिव्यापिनीषण्मुहूर्तन्यूनातदातैत्तिरीयैरुत्तराग्राह्या तैत्तिरीयभिन्नयाजुषैःपूर्वा ग्राह्या यदापूर्वदिनेमुहूर्ताद्यनन्तरं-प्रवृत्ताद्वितीर्यादन्नेमुहूर्तद्वयन्यूनाभवतिक्षयवशान्नास्त्येववा तदासर्वयाजुषाणाम्पूर्वेव हिरण्यकेशीतैत्तिरीयाणां श्रावणी पौर्णमासीमुख्यः कालस्तदभावेश्रावणेहस्तः श्रावणशुक्लपञ्चमीतुतत्तत्सूत्रेनुक्तेर्नग्राह्या एतदेवभाद्रपदेपिकालद्वयमितिविशेषः खण्डतिथिले निर्णयः पूर्वोक्तएव हस्तनक्षत्रमपिऔदयिकंसङ्गवस्पशिग्राह्यमन्यथापूर्वविद्धमेव आपस्तम्बानां श्रावणी पौर्णमासी मुख्यातदभावे भाद्रपदीतिविशेषः बौधायनानांश्रावणी पौर्णमासीमुख्यादोषसम्भावनयातदभावेआपाढीतिविशेषः एतेषामपिखण्डतिथित्वे पूर्वोक्तएवनिर्णयः अथकाण्वमाध्यन्दिनादिकासायनानांश्रवणयुताश्रावण पूर्णिमा केवलावा हस्तयुक्तापञ्चमीकेवलावा मुख्यः कालः अतः केवलश्रवणेकेवलहस्तेचतैर्नकार्यं श्रावणमासेविघ्नदोषे-भाद्रपदगतपूर्णिमापञ्चम्योः कार्यं तिथेः खण्डत्वेषण्मुहूर्ताधिक्येउत्तराषण्मुहूर्त न्यूनत्वेपूर्वाग्राह्येयादिःर्वोक्तएवनिर्णयः अथसामवेदनाम्भाद्रपद शुक्लेहस्तनक्षत्रम्मुख्यः कालः सङ्क्रान्सा'दिदोषेणतत्रासम्भवेश्रावणमासेहस्तोग्राह्यइतिनिर्णयसिन्धुः अन्येतुभाद्रपदहस्तेदोसामवेदोपाकर्म पसम्भवेश्रावणपौर्णमास्यामुपाकर्मकृत्वाभाद्रपदस्यहस्तपर्यन्तन्नपठनी अन्ततः परम्पठनीयमिसाहुः हस्तस्यखण्डत्वे दिनद्वयेपराह्नपूर्णव्याप्तौअपराह्रैकदेशस्पर्शे वापरदिनेएवोपाकर्म पूर्वदिन एवापराहपूर्णव्याप्तौ पूर्वत्रैव सर्वत्रसामगानामपराहस्यै-वोपाकर्मकालत्वेनोक्तेः पूर्वदिनएवापराह्रैकदेशस्पर्शेदिनद्वयेप्य-पराह्नस्पर्शाभावेवापरत्रैव येषांसामवेदिनाम्प्रातःसङ्गवौकर्मकालत्वेनोक्तौतेषां पूर्वत्रापरा हव्याप्तित्यक्त्कापरै-दिनेसङ्गवोर्ध्ववर्तमानहस्तग्रहणं सिंहस्थेसूर्येउपाकर्मविधानन्तुयदिश्रावणेहस्तः पूर्णिमावासिंहस्थेसूर्येभवतितदातत्रो-पाकर्मनकर्कस्थेइतिसामगानां श्रावणमासगतहस्तपर्वणोर्व्यवस्थापरम् अन्यशाखिनसिंहस्थरवेर्विधिनिषेधोवानास्ति अथर्ववेदिनान्तुश्राव-ण्याम्भाद्रपदगतायांवापौर्णमास्याम्उपाकर्म तिथिखण्डे औदयिकसङ्गवकालव्यापिनीतिथिग्रति सर्वशाखिनांश्रावणभाद्रपदमासगतस्वस्वगृह्योक्तकालेषुग्रहणसङ्क्रान्त्याशौचादिदोषसम्भावनायांसर्वथा कर्मलोपमासौ-शाखान्तरोक्तकालानाङ्ग्राह्यत्वमावश्यकम्

सर्वसाधारणनिर्णयः

सर्वसाधारणनिर्णयः— तत्रापस्तम्बबौधायनसामगादीनांश्रावणभाद्रपदगतपञ्ञ्चमीपूर्णिमादेरप्यविशेषेणग्राह्यत्वप्राप्तौ-नर्मदोत्तरदेशेसिंहगतेसूर्येपञ्चम्यादेर्ग्रहणं नर्मदादक्षिणभागेकर्कटस्थेसूर्येश्रावणपञ्चम्यादेग्रहणमितिव्यवस्थेतिकौस्तुभे-उक्तं तेनऋग्वेदिनामपिसर्वथाकर्मलोपत्रसक्तौपूर्णिमापिसिंहस्थकर्कटस्थादिव्यवस्थयाग्राह्येतिममभाति सर्वशाखिभिःश्रावणमासेमुख्यकालेपर्जन्याभावेनत्रीह्याद्यौषधिप्रादुर्भावाभावेआशौचादौवाभाद्रपदश्रवणादौकार्यम् औषधि-प्रादुर्भावाभावेपिश्रावणमासे कार्यमितिकर्कादिमतं सर्वशाखिनाङ्गृह्योक्तमुख्यकालत्वेननिर्णीतेदिनेग्रहणस्य-सङ्क्रान्तेर्वासत्वेसङ्क्रान्तिरहिताः पञ्चम्यादयोग्राह्याः ग्रहणसङ्क्रान्तियोगचोपाकर्मसम्बन्धिन्यहोरात्रेभविष्यन्मध्यरात्रात्पूर्व-मतीतमध्यरात्रादूर्ध्वञ्चेतियामाष्टके विद्यमानश्रवणनक्षत्रपूर्णिमा दितिथ्यस्पृष्टोप्युपाकर्मदूषकः केचित्तूक्तयामाष्टकादन्यत्रापि-विद्यमानोग्राह्य-श्रवणादिनक्षत्रपर्वादितिथिस्पर्शीचेत्सोपिदूषकइत्याहुः नूतनोपनीतानाम्प्रथमोपाकर्मगुरुशुक्रास्तादौ मलमासादौसिंहस्थेगुरौचनकार्यं द्वितीया छुपाकर्मतुअस्तादावपि कार्यम् मलमासेतुद्वितीयाद्यपिनकार्यम् प्रथमोपाकर्मस्वस्तिवाचननान्दीश्राद्धादिकत्वाकार्यं नूतनोपनीतानांश्रावणमासगतपञ्चमीहस्तश्रवणादिकालेषुगुरु-शुक्रास्तादिप्रतिबन्धेनोपाकर्मारम्भाभावेभाद्रमासगतपञ्चमी श्रवणादयोग्राह्याः च॒नव॑दण्डञ्चधारयेत्। अजिनङ्कटिसूत्रञ्चनववस्त्रन्तथैवच १ इतिब्रह्मचारिणो विशेषःप्रतिवर्षञ्ज्ञेयः उपाकर्मोत्सर्जनेब्रह्मचारिसमावृतगृहस्थवानप्रस्थैः सर्वैः कर्तव्ये उत्सर्जन कालस्तुनेहप्रपथ्यते उपाकर्मदिनेथवेतिवचनानुसारेणसर्व शिष्टानामिदानीमुपाकर्मदिनेएवोत्सर्जन कर्मानुष्ठानाचारेणैतन्निर्णयस्यानुपयोगात् एते उपाकर्मोत्सर्जनेयदिन्यैः द्विजैः सहकरोतितदालौकिका शौकुर्यात् यदैकः करोतितदा स्वगृह्या नौकुर्यात् कात्यायनैस्तुऔपवसथ्य अग्नावेवहोतव्यन्नलौकिकानौ बढ्ढचादिःस्वयञ्चतुरवत्तीबहुभिचतुरवत्तिभिरुपाकर्मादिकङ्कुर्वन्नेकस्यापिजामदग्न्यादेः पञ्चावत्तिनःसत्वेत-दनुरोधेनपः मौऔंयज्ञोपवीतं चावत्तमेवकुर्यात् चतुरवत्तिनामपिपञ्चावत्तित्वस्यवैकल्पिकत्वोत्तयातेषामपिकर्मवैगुण्याभावात् अकरणेदोषश्रवणेनप्रत्यब्दमेतेकर्तव्ये क्वचित्पुस्तकेनिर्णयसिन्धावेतदकरणेप्राजापत्यकृच्छ्रमुपवासोवाप्रायश्चित्तन्दृश्यतेनसर्वत्र उपाकर्मोत्सर्जनयोरुभयोरपि ऋषिपूजनमुक्तम् ऋष्यादितर्पणतूत्सर्जनएव अत्रविवाहोत्तरन्तिलतर्पणेनदोषः अत्र सङ्कल्पेअधीतानाञ्छन्दसामाप्यायनद्वारा श्रीपरमेश्वरप्रीसर्थमुपाकर्मदिनेअद्योत्सर्जनाख्यङ्कर्मकरिष्यइति उपाकर्मणितुअधीतानामध्येष्यमाणानाञ्चछन्दसांयातयामतानिरासेनाप्यायनद्वारा श्रीपरमेश्वरप्रीसर्थ तिविशेषः अवशिष्टःसर्वोषिप्रयोगविशेषः स्वस्वगृह्यानुसारेणज्ञेयः अत्रनदीनांरजोदोषोन ब्रह्मादिदेवऋष्यादीनाञ्जलेसाभिध्यन्तेन स्नानात्सर्वदोषक्षयः ऋषिपूजनस्थानस्थितजलस्पर्शनपानाभ्यांसर्वकामावाप्तिः

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬