निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
रक्षाबन्धनादि— इतिसर्वशाखिसाधारणनिर्णयः अथरक्षाबन्धनमस्यामेवपूर्णिमायां भद्रारहितायान्त्रिमुहूर्ताधिको-दयव्यापिन्यामपराह्णेप्रदोषेवाकार्यम् उदयेत्रिमुहूर्तन्यूनत्वेपूर्वेद्युर्भद्रारहिते प्रदोषादिकालेकार्यम् इदङ्ग्रहणसङ्क्रान्तिदिने-पिकर्तव्यम् मन्त्रस्तु येनबद्धोबलीराजादानवेन्द्रोमहाबलः। तेनखामभिबध्नामिरक्षेमाचलमाचल १ इति अत्रैव पूर्णिमायांहयग्रीवोत्पत्तिः श्रावण पूर्णिमाकुलधर्मादौत्रिमुहूर्तसायाहव्याप्तापूर्वविद्धैव ग्राह्या त्रिमुहूर्त न्यूनवेपरा अस्पामेवपौर्णमास्यामाश्वलायनानांश्रवणाकर्मसर्पवलिश्वरात्रावुक्तः तैत्तिरीयाणान्तुसर्पबलिरेवोक्तः कात्यायनानांसामगानाञ्च श्रवणाकर्मसर्पवली द्वावप्युक्त श्रवणाकर्मसर्पवल्याश्वयुजीप्रत्यवरोहणादिपाकसंस्थानांस्वस्वकालेष्वकरणे-प्राजापसम्प्रायश्चित्तङ्कार्यनतुकालान्तरेतदनुष्ठानं श्रवणाकर्मादिसंस्थाः पत्न्यामृतुमसामपिकार्याः प्रथमारम्भस्तुनभवति अत्रपौर्णमासी अस्तमयप्रभृतिमवृत्तकर्मपर्याप्त कालव्यापिनीपूर्वैवचेत्पूर्वैवग्राह्या दिनद्वयेतत्सम्बन्धस्यसत्वे असलेवापरैव प्रयोगस्तुखखसूत्रेषुज्ञेयः श्रावणकृष्णचतुर्थ्याम्मारभ्यकृष्णचतुर्थीपुयावज्जीवमेकविंशतिवर्षाणिवाएकवर्षवासङ्कष्ट-चतुर्थीवतङ्कार्यम् अशक्तप्रतिवर्ष श्रावणचतुर्थ्यामेवकार्यम् अत्रचन्द्रोदयव्याझ्यातिथिनिर्णयःप्रथमपरिच्छेदेउक्तः सोधापनत्रतप्रयोगः कौस्तुभादौज्ञेयः अथजन्माष्टमीव्रतं तत्राष्टमी द्विविधा शुद्धाविद्धाच दिवारात्रौवासप्तमीयोगरहितायत्र दिनेयावतीतत्रतावतीशुद्धा दिवारात्रौवासप्तमीयोगवतीयस्मिन्नहोरात्रेयावतीतत्रताजन्माष्टमीनिर्णयः वतीविद्धा सापुनर्द्विविधारोहिणीयुतारोहिणीयोगरहिताचेति तत्र रोहिणीयोगरहितकेवलाष्टमीभेदाः सप्तमीनाड्यः ५९ पलानि ५९ अष्टमी ५८/५ अस्यांशुद्धायांसन्देहोनास्तिद्वितीयकोव्यभावात् सप्तमी २ अष्टमी ५५ अस्यांविद्धायामप्यसन्देहः दिनान्तरेअभावेन द्वितीयकोव्यभावात् यदादिनद्वये केवलाष्टमीवर्ततेतदाचखारःपक्षाः पूर्वेयुरेवनिशीथव्यापिनीपरे रेवनिशीथव्यापिनी दिनद्वयेषिनिशीथव्यापिनी दिनद्वयेपिनिशीथव्याप्त्यभावइति राज्यर्धनिशीथपदार्थः स्थूलदृष्ट्यावष्टमोमुहूर्तोनिशीथः तत्रपूर्वेद्युरेवनिशीथव्यापिनीयथा सप्तमी ४० अष्टमी ४२ अत्र सप्तमीयुतापूर्वविद्धैवाष्टम्युपोष्या यथावाष्टमी ६०।४ इयंशुद्धाधिकापिपूर्वैव परेरेव निशीथेयथा सप्तमी ४७ अष्टमी ४६ अत्रपरैवाष्टम्युपोप्या उभयत्रनिशीथेयथा सप्तमी ४२ अष्टमी ४६ अत्रापिपरैवाष्टमीग्राह्या दिनद्वयेनिशीथव्याप्यभावोयथा अष्टमी ४२ अत्रापिपरैवाष्टमीग्राह्या अत्रसर्वत्रसप्तमीयुक्तायांरात्रि पूर्वार्धावसानेकलया-प्यष्टम्याःसत्वेएवनिशीथव्यापित्वं नवमीयुक्तायांरात्र्युत्तरार्धादिभागेसत्वएवोत्तरत्रनिशीथव्यापित्वं सप्तमीदिनेउत्तरभागे-एवसत्त्वेनवमीयुतदिनेपूर्वभागएवसत्वेचनिशीथाव्यापित्वपक्षएवमन्तव्यः एवंवक्ष्यमाणरोहिणीयुक्तभेदेष्वपिज्ञेयं रोहिणीयुताष्टम्यामपिपूर्वदिनएवनिशीथेऽष्टमीरोहिण्योर्योगः परदिनएवनिशीथेयोगः दिनद्वये
रोहिणीयुक्ताष्टमीभेदाः— निशीथेयोगइतिपक्षत्रयम् पूर्वेद्युरेवनिशीथेयोगोयथा सप्तमी ४० तहिनेकृत्तिका ३५ अष्टमी ४६ तहिनेरोहिणी ३६ अत्रपूर्वविद्धैवाष्टम्युपोष्या परदिने एवनिशीथयोगो यथा सप्तमी ४२ तहिनेकृत्तिका ५० अष्टमी ४७ रोहिणी ४६ अत्रपरैवाष्टमी ग्राह्या दिनद्वयेनिशीथेऽष्टमीरोहिण्योर्योगोयथा सप्तमी ४२ कृत्तिका ४३ अष्टमी ४७ रोहिणी ४८ अत्रपरैवाष्टमीग्राह्या अथरोहिणीयुताष्टम्यामेर्वादनद्वयेपिनिशीथेरोहिणीयोगाभावोबहुधासम्भवति परेयुरेवनिशीथव्यापिनी अष्टमीपरेयुरेवनिशीथादन्यत्ररोहिणीयुक्ताचेसेकःपक्षः यथासप्तमी ४७ अष्टमी ५० अष्टमीदिनेकृत्तिका ४६ अत्रपक्षेपरैवाष्टमीग्राह्याएतत्तुल्ययुक्त्यापूर्वेद्युरेवनिशीथव्यापिनीपूर्वेयुरेव निशीथादन्यत्ररोहिणीयुतेतिपक्षेपि-पूर्वेवग्राह्या ५० दिनद्वयेपिनिशीथादन्यत्ररोहिणीयुतापरेरेर्वानशीथव्यापिनीतितिद्वीय पक्षः सप्तमी ४८ तद्दिने कृत्तिका ३० अष्टमी ४८ रोहिणी २५ अत्रापिपरैवग्राह्या दिनद्वयेनिशीथादन्य-त्ररोहिणीयुक्तापूर्वेयुरेवनिशीथव्यापिनीतितृतीयोयथा सप्तमी २५ कृत्तिका ४८ अष्टमी २० रोहिणी ४३ अत्रापिपरैव रोहिणीयोगसाम्येपिपूर्वत्रसप्तमीविद्धत्वात् यथावाष्टमी ६०।४ कृत्तिका ५० अत्रपूर्वैवग्राह्या अहोरात्रद्वयेरोहिणीयोगसाम्येपि पूर्वस्याः शुद्धत्वात्पूर्णव्याप्तेश्च दिनद्वयेपनिशीथव्यापिनीपरेयुरेवनिशीथादन्यत्ररो हिणीयुतेतिचतुर्थः यथासप्तमी ४३ अष्टमी ४९ कृत्तिका ४६ अत्रपैरवाष्टमी एवं दिनद्वयेपिनिशीथव्यापिनीपूर्वत्रैवनिशीथादन्यत्ररोहिणीयुतेतिपञ्चमोयथा सप्तमी ४१ तहिनेरोहिणी ४३ अष्टमी ४७ अत्रपूर्वेचाष्टम्युपोप्या दिनद्वयेपिनिशीथव्यापिनीदिनद्वये निशीथादन्यत्ररोहिणीयुतेतिषष्ठोयथा सप्तमी ४२ कृत्तिका ४८ अष्टमी ४८ रोहिणी ४२ अत्रपरैव दिनद्वयेपनिशीथाव्यापिनीपूर्वेयुरेवनिशीथादन्यत्ररो-हिणीयुतेतिसप्तमोयथा सप्तमी ४८ तहिनेरोहिणी ५८ अष्टमी ४२ अत्रपरैवाष्टमी ग्राह्या अत्रैवपक्षेपरेद्युरेवउभयत्रवानिशीथादन्यत्र-रोहिणीयोगेपिपरैवेतिकैमुसेनसिद्धम् पूर्वेयुरेवनिशीथव्यापिनीपरेयुरेव निशीथादन्यत्ररोहिणीयुतेतिचरमःपक्षः यथा सप्तमी ३० अष्टमी २५ तहिनेकृत्तिका ५ यथावाष्टमी ६०१४ अष्टमीशेषदिनेकत्तिका ? अत्रोदाहरणद्वयेपिपरैवाष्टमीग्राह्या स्वल्पस्यापिरोहिणीयोगस्यप्राशस्त्येन मुहूर्तमात्राया अपिपरस्याग्राह्यतयापूर्वत्रविद्यमानायानिशीथव्याप्तेरनादरात् सर्वपक्षेपुर्यादिपरदिनेमुहूर्तन्यूनावर्ततेतदासानग्राह्या किन्तुपूर्ववतितुपुरुषार्थचिन्तामणावुक्तम् परेयुरेवनिशी-थव्यापिनी पूर्वेद्युरेव निशीथादन्यत्र रोहिणीयुता यथासप्तमी ४८ रो-हिणी ५५ अष्टमी ४८ अत्रपरैव विद्धायान्निशीथोत्तरंरोहिणीयोगस्यामयोजकत्वात्
जन्माष्टमीनिर्णयसङ्ग्रहः— अत्रविस्तरेणोक्तानाम्बहुपक्षाणांसङ्क्षेपेणनिर्णयसङ्ग्रहः पुरुषार्थचिन्तामणौ शुद्धसमायां शुद्धन्यूनायांवाविद्धसमायांविद्धन्यूनायांवाकेवलाष्टम्यांसन्देहएवनास्ति शुद्धाधिकाऽपिकेवलाष्टमी पूर्वैव विद्धाधिकातुपूर्वदिनएवनिशीथव्याप्तीपूर्वा दिनद्वयेनिशीथव्याप्तावव्याप्तौवापरैवेति अथरोहिणीयोगेयदिशुद्ध-समायांशुद्धन्यूनायांवाईषदपिरोहिणीयोगस्तदानसन्देहः शुद्धाधिकायाम्पूर्वदिनेदिनद्वयेपिवारोहिणीयोगेपूर्वैव शुद्धाधिकायामुत्तरदिनेएवरोहिणीयोगेमुहूर्तमात्राप्युत्तरैव विद्धाधिकायाम्पूर्वदिनएवनिशीथात्पूर्वनिशीथेवारोहिणीयोगेपूर्वा दिनद्वयेपिपरत्रेववानिशीथेनिशीथं विहायवा रोहिणीयोगेपरैवेतिसङ्क्षेपेणनिर्णयसङ्ग्रहः एवङ्कौस्तुभा-दिनवीनग्रन्थानुसृतमाधवमतानुसारेणजन्माष्टमीनिर्णीता अत्रकेचित्केवलाष्टमीजन्माष्टमीसैवरोहिणीयुताजयन्तीसञ्ज्ञकेति-जयन्यष्टम्योर्वतैक्यमाहुः अन्येतुजन्माष्टमीव्रतञ्जयन्तीव्रतञ्चभिन्नंरोहिणीयोगाभावेजयन्तीव्रतलोपाज्जन्माष्टमी व्रतमेवकार्यं यस्मिन्वर्षेजयन्त्याख्ययोगोजन्माष्टमीतदाअन्तर्भूताजयन्त्यांस्यादिति जयन्ती दिनेनिशीथा ख्यकर्मकालेऽष्टम्या द्यभावेपिसाकल्यवचनापादितकर्मकालव्याप्तिमादायत्रतद्वयमपिजयन्तीदिन एवतन्त्रेणानुष्ठेयं व्रतद्वयस्याप्यकरणेमहादोष-श्रवणेनफलश्रवणेनचनित्यकाम्योभयरूपत्वात् नतुनिशीथव्याप्तायाम्पूर्वाष्टम्याञ्जन्माष्टमीव्रतङ्कृत्वाजयन्तीदिनेपारणमनुष्ठेयं निसव्रतलोपेमसवायापाता दित्याहुः निर्णयसिन्धौतुक्तरीत्यामाधवमतमुपपाद्यहेमाद्रिमतेनजन्माष्टमी व्रतमेवनित्यञ्जयन्तीव्रतं तुनित्यमपिकलियुगेलुप्तमितिकेचिन्नानुतिष्ठन्तिइत्युक्त्वा स्वमतेनयस्मिन् वर्षे पूर्वदिने ए-वनिशीथेष्टमीपरदिनेएवनिशीथादन्यत्रजयन्त्याख्ययोगस्तत्रोपोषणद्वयकार्यं व्रत‘द्वयस्यापिनित्यत्वेनाकरणेदोपात् जयन्त्या-मष्टम्यन्तर्भावोक्तिस्तुमूर्खप्रतारणामात्रमितिप्रतिपादितम् ममतुकौस्तुभादिनवीनर्पारगृहीतमाधवमतरीसाजयन्त्यन्त-र्भावेनाष्ट मीव्रतानुष्ठानमेवयुक्तम्प्रतिभाति अत्रत्रतेबुधसोमवारयोगःप्राशस्त्यविधायकोनतुरोहिणीवनिर्णायकः अथद्वितीर्यादनेभोजनरूपम्पारणन्त्रताङ्गंविहितन्तत्कालोनिर्णीयते केवलतिथ्युपवा सेतिथ्यन्तेनक्षत्रयुक्ततिथ्युपवा सेउभयान्तेपारणङ्कार्यं यदितिथिन-
पारणाकालः—क्षत्रयोरेकतरान्तोदिनेलभ्यतेउभयान्तस्तुरात्रौतदादिवैवान्यतरान्तेपारणं यदा दिवानैकस्याप्यन्तस्तदा-निशीथादर्वागन्यतरान्तेउभयान्तेवापारणं यदातुनिशीथाव्यवहितपूर्वक्षणेएकतरान्तउ भयान्तोवातदानिशीथेपिपारणं-कार्यम् भोजनासम्भवेपारणासम्पसर्थफलाद्याहारोविधेयः केचित्तूक्तविषयेनिशीथेपारणन्नका-किन्तूपवासात्तृतीयेद्विदि-वाकार्यमित्याहुस्तन्नयुक्तम् अशक्तस्तुएकतरान्ताभावेषि उ-त्सवान्तेप्रातरेवदेवपूजाविसर्जनादिकृत्वापारणं कुर्यात् अथसङ्क्षेपेणव्रतविधिः प्रातः कृतनित्यक्रियःप्राङ्मुखोदेशादिसङ्कीर्त्यतत्तत्कालेसप्तम्यादिसत्वे-पिप्रधानभूतामष्टमीमेवसङ्कीर्त्यश्रीकृष्णप्रीत्यर्थजन्माष्टमीत्रतङ्करिष्येजयन्तीयोगसत्वेजप्रतविधिः न्माष्टमीव्रतञ्जयन्तीव्रतञ्चतन्त्रेणकरिष्येइतिसङ्कल्पयेत् ताम्रपात्रेजलङ्गृहीत्वा वासुदेवंसमुद्दिश्यसर्वपापप्रशान्तये। उपवासङ्करिष्यामिकृष्णाष्टम्यान्नभस्यहम् १ अशक्तौ फलानिभक्षयिष्यामीत्याद्यूहः आजन्ममरणंयावद्यन्मयादुष्कृतङ्कृतम्। तत्प्रणाशय गोविन्दप्रसीदपुरुषोत्तम १ इतिपात्रस्थञ्जलङ्क्षिपेत् ततः सुवर्णरजतादिमय्योमृन्मय्योवाभित्तिलिखितावाप्रतिमायथाकुलाचारङ्कार्याः तायथा पर्यप्रसुप्तदेवक्याः स्तनम्पिबन्तीं श्रीकृष्णप्रतिमा॑निधायजयन्तीसत्वेत्वन्यदेवक्याउत्सङ्गेद्वितीयांश्रीकृष्णमूर्त्तिनि-धायपर्यङ्कस्थदेवकीचरणसंवाहनपरांलक्ष्मीनिधायभित्त्यादौखड्गधरंवसुदेवनन्दगोपीगोपान्लिखित्वाप्रदेशान्तरेमञ्च केमसूतकन्ययासहयशोदाप्रतिमाम्पीठान्तरेवसुदेवदेवकीनन्दयशोदा श्रीकृष्णरामचण्डिकाइतिसप्तप्रतिमाःस्थापयेत् एतावत्प्रतिमाकरणाशक्तौवसुदेवादिचण्डिकान्ताः सप्तवा यथाचारंयथाशक्तिवाकृत्वा अन्याः सर्वायथायथं ध्यायेदितिभाति निशीथासम्नमाक्कालेस्नात्वाश्रीकृष्णमीसर्थसपरिवार श्रीकृष्णपूजाङ्करिप्यइतिसङ्कल्प्यन्यासान्शङ्खादिपूजान्तन्निसवत्कृत्वा पर्यङ्कस्थाङ्किन्नराद्यैर्युतान्ध्यायेत्तुदेवकीम्। श्रीकृष्णम्बालकन्ध्यायेत्पर्यङ्केस्तनपायिनम् १ श्रीवत्सवक्षसंशान्तन्नीलोत्पल-दलच्छविम्। सु॑वाहयन्तीन्देवक्याःपादौ॰यायेच्चतांश्रियम् २ एवन्ध्यालादेवक्यैनमः इति देवकीमावाह्यमूलमन्त्रेणपुरुषसूक्तऋचावाश्रीकृष्णायनमः श्रीकृष्णमावाहयामीतिआवाह्यलक्ष्मीं-चावाह्यदेवक्यै-वसुदेवाययशोदायैनन्दायकृष्णायरामग्यचण्डिकायैइतिनाम्नावाह्यलिखितादिदेवताःसकलपरिवारदेवताभ्यो नम-इयावाह्यमूलमन्त्रेणसूक्तऋचा वाअत्रावाहितदेवक्यादिपरिवारदेवतासहित श्रीकृष्णायनमइसासनपाद्यार्ध्याचमनीया-भ्यङ्गस्नानानिदत्त्वापञ्चामृतस्त्रानान्तेचन्दनेनानुलेपयेत् शुद्धोदकाभिषेकान्तेवस्त्रयज्ञोपवीतगन्धपुष्पाणिधूपदीपौच विश्वेश्वरायविश्वायतथाविश्वोद्भवायच। वि-श्वस्यपतयेतुभ्यङ्गोविन्दायनमोनमः १ यज्ञेश्वरायदेवायतथायज्ञोद्भवायच। यज्ञानाम्पतयेनाथगोविन्दायनमोनमः २ इतिमत्राभ्याम्मूलमन्त्रादिसमुच्चिताभ्यान्दद्यात् जगन्नाथनमस्तुभ्यंसंसारभयनाशन। जगदीश्वरायदेवायभूतानाम्पतयेनमः १ इतिनै-
वेद्यं मूलमन्त्रादिकंसर्वत्रयोज्यं ताम्बूलादिनमस्कारप्रदक्षिणापुष्पाञ्जल्यन्तङ्कार्यम् अथवोद्यापनप्रकरणोक्तविधिनापूजा सायथा उक्तप्रकारेणध्यानावाहनेकृत्वा देवाब्रह्मादयोयेनस्वरूपन्नविदुस्तव। अतस्त्वाम्पूजयिष्यामिमातुरुत्सङ्गवासिनम् १ पु-रुपए वेदमासनम्। अवतारसहस्राणिकरोषिमधुसूदन। नतेसङ्ख्यावताराणाङ्कविजानातितत्त्वतः २ एतावानस्येतिपाद्यम्। जातः कंसवधार्थायभूभारोत्तारणायच। देवानाञ्चहितार्थायधर्मसंस्थापनायच। कौरवाणांविनाशायपाण्डवानांहितायच। गृहाणार्घ्यमयादत्तन्देवक्यासहितोहरे ३ त्रिपा॰ अर्ध्यम्। सुरासुरनरेशायक्षीराब्धिशयनायच।कृष्णायवासुदेवायददाम्याचमनंशुभम् ४ तस्मा॰ आचमनीयम्। नारायणनमस्तेस्तुनरकार्णवतारक। गङ्गोदकंसमानीतंस्नानार्थप्रतिगृह्यताम् ५ यत्पुरुषे॰ स्नानम्। पयोदधिघृतक्षौद्र शर्करास्त्रानमुत्तमम्। तृप्त्यर्थदेवदेवे-शगृह्यतान्देवकीसुत ६ इतिपञ्चामृतम्। शुद्धोदकस्नानमाचमनम्। क्षौमञ्चपट्टसूत्राढ्यं मयानीतांशुकंशुभम्। गृह्यतान्देवदेवेशमयादत्तंसुरोत्तम ७ तंयज्ञं॰ वस्त्रम्। नमः कृष्णायदेवायशङ्खचक्रधरायच। ब्रह्मसूत्रञ्जगन्नाथगृहाणपरमेश्वर ८ तस्माद्यज्ञा॰ यज्ञोपवीतम्। नानागन्धसमायुक्तञ्चन्दनञ्चारुचर्चितम्। कुङ्कुमाक्ताक्षतैर्युक्तङ्गृह्यताम्परमेश्वर ९ तस्माद्यज्ञा॰ गन्धम्। पुष्पाणियानिदिव्यानिपारिजातोद्भवानिच। मालतीकेसरादीनिपूजार्थम्प्रतिगृह्यताम् १० तस्माद॰ पुष्पाणि। अथाङ्गपूजा श्रीकृष्णाय नमःपादौपूजयामि। सङ्कर्षणायनमः गुल्फौ॰। कालात्मनेन॰ जानुनीपू॰। विश्वकर्मणेन॰ जेपू॰। विश्व नेत्राय॰ कटीपू॰। विश्वकर्जेन॰ पू॰। पद्मनाभायनमः नाभि॑पू॰। परमात्मनेन॰ हृदयम्पू॰। श्रीकण्ठायन॰ कण्ठम्पू॰। सर्वास्त्रधारिणेन॰बाहूपू॰। वाचस्पतयेन मुखम्पू॰। केशवायन॰ ललाटम्पू॰। सर्वात्मनेन शिरः पू॰।विश्वरूपिणेनारायणायनमः सर्वाङ्गपूजयामि। वनस्पतिरसो॰ ११ यत्पुरुषं॰ धूपं॰। व॑ज्योतिःसर्वदेवाना॑तेज॒स्त्वन्तेजसाम्परम्। आत्मज्योतिर्नमस्तुभ्यन्दीपोयम्प्रतिगृह्यताम् १२ ब्राह्मणो॰ दीपं॰। नानागन्धसमायुक्तम्भक्ष्यभोज्यञ्चतुर्विधम्। नैवेद्यार्थमयादत्तङ्गृहाणपरमेश्वर १३ चन्द्रमामनसो॰ नैवेद्यं ०। आचमनङ्करोद्वर्तनं॰। ताम्बूलञ्च सकर्पूरम्पूगीफलसमन्वितम्। मुखवासकरंरम्यन्त्रीतिदम्प्रतिगृह्यताम् १४ सौवर्णराजतं ताम्रन्नानारत्नसमन्वितम्। कर्मसाहुण्यसिद्ध्यर्थदक्षिणाप्रतिगृह्यताम् १५ रम्भाफलं नारिकेलन्तथैवाम्रफलानिच। पूजितोसिसुर श्रेष्ठगृह्यताङ्कंससूदन १६ नाभ्याआ॰ नीराजनं॰। यानिका॰ १७ सप्तास्या॰ प्रदक्षिणां यज्ञेनेसादिवेदमन्त्रैः पुष्पा अलिं नमस्कारान १८ अपराधस॰ पूजान्निवेदयेत्। सर्वोपचारपूजनसमा सौद्वादशाङ्गुलविस्तार॑रौप्यमयङ्खण्डिलादिलिखितवारोहिणीयुतञ्चन्द्रं सोमेश्वरायसोमायतथासोमोद्भवायच। सोमस्यपतयेनिसन्तुभ्यंसोमायवैनमः १ इतिसम्पूज्यसपुष्पकुशचन्दनन्तो-
यंशङ्खेनादाय क्षीरोदार्णवसम्भूतअत्रिगोत्रसमुद्भव। गृहाणार्ध्यशशाङ्केशरोहिणीसहितोमम १ ज्योत्स्नापतेनमस्तुभ्यञ्ज्योतिषाम्पतयेनमः। नमस्तेरोहिणीकान्त अर्घ्यनः प्रतिगृह्यताम् २ इतिमन्त्राभ्याञ्चन्द्रायार्घ्यदद्यात् ततः श्रीकृष्णायार्घ्यदद्यात् तत्रमन्त्रः जातःकंसवधार्थायभूभारोत्तारणायच। पाण्डवानांहितार्थायधर्मसंस्थापनायच १ कौरवाणांविनाशायदैयानान्निधनायच। गृहाणार्घ्यमयादत्तन्देवक्यासहितोहरे २ इति ततः प्रार्थयेत् त्राहिमांसर्वलोकेशहरेसंसारसागरात्। त्राहिमांसर्वपापघ्नदुःखशोकार्णवात्प्रभो १ सर्वलोकेश्वरत्राहिपतितम्माम्भवार्णवे। त्राहिमांसर्वदुःखघ्नरोगशोकार्णवाद्धरे २ दुर्गतांस्त्राय सेविष्णोयेस्मरन्तिसकृत्सकृत्। त्राहिमान्देवदेवेशत्वत्तोनान्योस्तिरक्षिता ३ यद्वाकचनकौमारेयौवनेयच्चवार्धके। तत्पुण्यंवृद्धिमायातुपापन्दह हलायुध ४ इति अथपूजानन्तरङ्कृसम् अग्निपुराणे इसेवम्पूजयित्वातुपुरुषसूक्तैः सवैष्णवैः। स्तुत्वावादित्रनिर्घोषैर्गीतवादित्रमङ्गलैः १ सुकथाभिर्विचित्राभिस्तथाप्रेक्षणकैरपि।पूर्वेतिहासैः पौराणैःक्षिपेत्तांशर्वरीनृप २ इति अत्रकथासुवैचित्र्यन्देशभाषाकाव्यकृतं सूक्तानाम्मागुक्तेः पुराणकथानामन्तेभिधानात् प्रेक्षणकानिनृत्यादीनि तथाचवैदिकसूक्तकरणकस्तुतिविशिष्टः-पौराणेतिहासमिश्रितोगीतनृसयुतदेशभाषाकाव्यप्रमुखक-थाकरणकोजागरोविप्रादिवर्णत्रयस्यविधीयते शूद्रादीन्मति-एतादृशजागरस्यविधातुमयोग्यत्वात् वचनान्तरेणतुसूक्तादिरहितगीतादिविशिष्टोवर्णचतुष्टयसाधारणोविधीयते गोकुलस्थजन्मलीलादिश्रवणोत्तरवैष्णवैः परस्परन्दध्यादिभिः सेचनङ्कार्यम्। दधिक्षीरघृताम्बुभिः। आसिञ्चन्तोविलिम्पन्तइत्यादिभागवतवचनेनतथाविधिकल्पनात् अयमुत्सवोधुना महाराष्ट्रदेशेगोपाल-कालेतिव्यर्वाहयतइतिमेभाति एतत्सर्के कोस्तुभेश्रीमदनन्तदेवैःस्पष्टीकृतमस्तीतिनमह्यमसूयाकार्या एतादृशकथा-युतोजागरोन्यत्ररामनवम्येकादश्या द्युत्सवेष्वप्यूद्यः पूजाजागरादिविशिष्टव्रतोत्सवसाम्यात् महारा-ष्ट्रीयेषुतथाचाराच्च भगवत्प्रेमादिभाग्यशालिनस्तु पर्वणिस्युरुतान्वहमितिन्यायेनप्रत्यहमेवोक्तविधिकथोत्सवङ्कुर्वन्तीतिभाति ततोनवम्याम्ब्राह्मणान् भोजनदक्षिणादिभिः सन्तोष्योक्तपारणानिर्णीतेकालेभोजनङ्कुर्यात् अस्यैवजयन्ती नतस्यसंवत्सरसाध्यःप्रयोगः श्रावणकृष्णाष्टमीमारभ्यप्रतिमासङ्कृष्णाष्टम्यामुक्तविधिनापूजादिरूपः पुराणान्तरेउ अत्रोद्यापन विधिग्रन्थान्तरेज्ञेयः इतिजन्माष्टमीनिर्णयः॥ नभोमासस्थदर्शेतुशुचिर्दर्भान्समाहरेत्। अयातयामास्तेदर्भाविनियोज्याः पुनःपुनः १ केचिद्भादर्भाहरणं द्रामायान्दर्भग्रहणमाहुः कुशाःकाशायवादूर्वाउशीराचसकुन्दकाः। गोधूमाग्रीहयोमौ आदशदर्भाः सबल्वजाः १ विरिश्चिनासहोत्पन्नपरमेष्ठिनिसर्गज। नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव २ एवमन्त्रंसमुच्चार्यततः पूर्वोत्तरामुखः। हुम्फट्-कारेणमन्त्रेणसकृच्छिवाससुद्धरेत् ३ चतुभिर्दभर्विमस्पपवित्रं क्षत्रियादेरेकैकन्यूनं
सर्वेषाम्बाभवेद्वाभ्याम्पवित्रङ्ग्रन्थितन्नवा इतिश्रीमन्दनन्तोपाध्यायसूतुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेश्रावणमास-निर्णयोद्देशः।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा