🕉️ 24 November 2026, Tuesday · 08:12:40 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 14/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

विधवाकर्तृकमहालयः

विधवाकर्तृकमहालयः—लाचेदुत्तरोत्तरपक्षस्वीकारःपाकारम्भोत्तरञ्चेत्ताङ्गृहान्तरेऽपरुध्यमहालयःकर्तव्यः एवं विधवाकर्तृक-श्राद्धेपिज्ञेयम् अत्रापुत्राविधवा ममभर्तृतत्पितृपितामहानाम्भर्तुर्मातृपितामहीप्रपितामहीनाम्ममपितृपितामह-मपितामहानाम्मममातृपितामही प्रपितामहीनाम्मममातामहमातृपितामहमातृप्रपितामहानाम्मममातामहीमातृपितामहीमातृप्रपितामहीनान्तृप्त्यर्थंसकृन्महालयापरपक्षश्राद्धङ्करिष्यइतिस्वयंसङ्कल्प्यब्राह्मणद्वारा अग्नौकरणादिसहितंसर्वमविकृतं-प्रयोगङ्कारयेत् ब्राह्मणस्त्वमुकनान्यायजमानायाभर्तृतत्पितृपितामहेत्यायुच्चार्यप्रयोगङ्कुर्यात् अशक्तौभर्त्रादित्रयंस्खपिसाङ्कल्पविधिः त्रादित्रयंस्खमात्रादित्रयंस्वमातामहादित्रयंसपत्नीकमितिपार्वणचतुष्टयोदेशेनमहालयःअत्यशक्तौस्वभर्त्रादित्रयंस्वपित्रादित्रयञ्चेतिपार्वणद्वयमेवकार्यम् महालयः पितरिसन्न्यस्तेपातित्यादियुते-वाजीवत्पितृकेणापिपुत्रेणपितुः पित्रादि सर्वपित्रुद्देशेनपिण्डदानरहितःसाङ्कल्पविधिनाकार्यः वृद्धौतीर्थेचसन्न्यस्तेतातेचपतितेसति।

जीवत्पितृकादेः साङ्कल्पविधिः— येभ्यएवपितादद्यात्तेभ्योदद्यात्स्वयंसृतः १ मुण्डनम्पिण्डदानञ्चप्रेतकर्मचसर्वशः। नजीवत्पितृकः कुर्याहुर्विणीपतिरेवच २ इत्यादिवचनात् पिण्डदानादिविस्तरङ्कर्तुमशक्तेनापिसाङ्कल्पविधिःकार्यः साङ्कल्पिक विधावर्घ्यदानंसमन्त्रकावाहनमन्नौकरणम्पिण्डदानंविकिरदानंस्वधांवाचयिष्ये ॐ स्वधोच्यतामित्यादिस्वधावाचन-प्रयोगचवर्जयेत् अनेकब्राह्मणालाभेदेवस्थानेशालग्रामादिदेवमूर्तिसंस्थाप्यश्राद्धङ्कार्यं सर्वथाविप्रालाभेदर्भबटु विधिनाश्राद्धम् पित्रोर्मरणेप्रथमाब्देमहालयःकृताकृतः महालयोमलमासेनकार्यः अपरपक्षेप्रतिवार्षिकमा तौमृततिथौवार्षिकङ्कृत्वातिथ्यन्तरेसकृन्महालयःकार्यः प्रतिवार्षिका प्रतिपदादिदर्शान्तादिपक्षेषुमृततिथौवार्षिकङ्कदिप्राप्तौ. खापाकान्तरेणमहालयः अमायाम्प्रतिवार्षिकसकृन्महालयप्राप्तौपूर्ववार्षिकन्ततोमहालयः ततोदर्शश्राद्धमितित्रयम्पाकभेदेन महालयमात्रप्राप्तावपिपूर्वमहालयः ततोदर्शः मृततिथौसकृन्महालयपक्षेतत्तत्तिथैर्ग्राह्यखनर्णयोपराहव्या त्यादर्शवदितिभाति अत्रापरपक्षेभरणीश्राद्धाद्गया श्राद्धफलप्राप्तिः भरणी श्राद्धमपिण्डकम्पड्दैवतं भरणीश्राद्ध साङ्कल्पविधिनाकार्यं देवाधूरिलोचनौ पुरूरवाईवौवा भरणीश्राद्धङ्काम्यङ्गया श्राद्धफलका मेनप्रतिवर्षकार्यं केचित्पित्रादिमरणोत्तरम्प्रथमवर्षेएवकुन्तिद्वितीयादिवर्षेन कुर्वन्तितत्रमूलञ्चिन्त्यम् ममतु नन्दैवन्नापिवापित्र्यंयावत्पूर्णानवत्सरः। इत्यादिवचनेनसर्वस्यापिदर्शादिश्राद्धस्यप्रथमाब्दे निषेधाद्वर्षान्ते एवपितृत्वप्रातेवद्वितीयादिवर्षेएवकर्तुयुक्तमितिभाति यत्तुपितृभिन्नोपियोयोम्रियतेतस्यतस्यप्रथमाब्देभरणीश्राद्धङ्क्रियतेतत्रापिमूलन्नपश्यामः गयाश्राद्धफलार्थमाचारमनुस्मृत्य-क्रियते चेन्मृताद्येकमेवपार्वणमुद्दिश्यसदैवङ्कार्यम् अत्रसपिण्डवाचारोपिचिन्त्यः अत्रापरप-क्षेसप्तम्यादिदिनत्रयेमाघ्यावर्षश्राद्धङ्कर्तुपूर्वेयुः श्राद्धङ्करिष्ये माघ्यावर्षश्राद्धङ्करिष्ये-

अन्वष्टक्यादिश्राद्धम्— ऽन्वष्टक्यश्राद्धङ्करिष्येइतिक्रमेणसङ्कल्पङ्कृत्वा सर्वोप्यष्टकाविधिराश्वलायनैः कार्यः इदमाश्वलायनानामष्टकाविकृतिरूपमेकाष्टकाकरणपक्षेपिकार्यम् इतरशाखिनात्वष्टकारूपमेवेतिपञ्चाष्टकाकरणपक्षेऽष्ट-काश्राद्धङ्करिष्यइतिसङ्कल्प्यकार्यमेकाष्टकापक्षेतुनकार्यं नवम्यामन्वष्टक्यश्राद्धन्नवदैवतंसर्वशाखिभिरष्टम्यामष्टका श्राद्धाकरणेपिगृह्याग्नौयथोक्तविधिनाकार्यम् अस्यामन्वष्टक्यस्यमुख्यत्वात् गृह्याग्निरहितैस्तुयेषाम्पूर्वमातामृतापश्चात्पितामृत-स्तैर्मृतमातापितकैः पाणिहोमादिविधिनानवन्दैवत्यं कार्यं जीवत्पितृकेणमृतमातृकेणानुपनीतेनापिमात्रादि-त्रितयमात्रोद्देशेनैकपार्वणकम्पुरूरवार्द्रवदेवसहितंसपिण्डकं श्राद्धङ्कार्यं स्वमातरिजीवन्त्याम्मृतसापत्नमात्रादि-त्रयोदेशेनकार्यं स्वमातृसापत्नमात्रोर्मृतौद्विवचनप्रयोगेणसापत्नमात्रनेकत्वेचमात्रासहबहुवचनप्रयोगेणएकस्मिन्विप्रे-एकएवक्षणोर्घ्यः पिण्ड चैकवदेयः पितामहीप्रपितामह्योर्द्वीविप्रौपिण्डौचेत्येवम्पार्वणमावश्यकं केचिन्मातृबहुत्वे विप्रपिण्डादिभेदमाहुः स्वमातृसापत्नमातृजीव ने तुगृह्याग्निरहितेनमृतपितृकेणापिकार्यम् अन्वष्टक्ये मातृयजनस्यमुख्यत्वादतएवात्रकैश्चिन्मातृपार्वणस्यैवप्राथम्यमुक्तमितिभाति पूर्वपित्मृतौपश्चान्मातृमृतावपिगृह्याग्निमतामस्यान्नवम्यामन्वष्टक्यमावश्यकन्नित्यत्वात् अन्येषाम्पश्चान्मातृमृतौनावश्यकं केचिन्नवम्याम्पूर्वमृतमातृश्राद्धम्मृतेभर्तरिलुप्यतइतिवचनप्रामाण्यमाश्रित्यपितृमरणोत्तरनकुर्वन्ति भर्तुरग्रेसहदाहेन-वामृतानाम्मातामहीभगिनीअविधवानवमी दुहितृमातृष्वसृपितृष्वस्रादीनामपुत्राणपितृमात्रादि-कुलोत्पन्नानां सर्वासामे॒वसौभाग्यवतीनामस्यान्नवम्या॑श्राद्धङ्कार्यम् भर्तुरग्रेमृतानान्तत्तद्भर्तुमरणोत्तरं चनकार्यम् अतएवास्या अविधवानवमीत्वप्रसिद्धिः अतःपत्न्याअपिनवमीश्राद्धङ्कार्यम् अस्याविधवानवमी श्राद्धस्यमहालयवद्यावदृश्चिकदर्शनङ्गौणकालः एवन्दौहित्रमतिपच्छ्राद्धस्यापीतिकालतत्त्वविवेचने अत्राविधवानवमीश्राद्धेसुवासिनीनाम्प्रतिसांवत्सरिक-श्राद्धादौचसुवासिनीभोजनमपिकार्यम् भर्तुरग्रेमृतानारीसहदाहेनवामृता। तस्याःस्थानेनियुञ्जीतविभैःसहसुवासिनीम् १ इत्यादिमार्कडेयवचनात् अस्यान्नवम्याम्पि ण्डदानञ्जीवत्पितृकेणापिगर्भिणीपतिनाचापिकार्यं नवमीश्राद्धासम्भवे ममान्वष्टक्याकरणजनितप्रत्यवायपरिहारार्थं शतवारमेभिर्वृभिः सुमनाइतिमन्त्रजपङ्करिष्येइतिसङ्कल्प्यतज्जपङ्कुर्यात् अन्वष्टक्येसामवेदिभिः पितृपार्वणमेवकार्य मातृमातामहपार्वणेनकार्ये इतिसिन्धुः अत्रद्वादश्या॑सन्न्यासिनाम्महालयः सचापराव्यापिन्यामित्युक्तं तत्रवैष्णवाअपराह्णव्यापिन्याद्वादश्याएकादशीव्रतदिनेसत्वेस्खल्पायामपिद्वादश्यांशुद्ध त्रयोदश्यांवैकादशीपारणादिनेएवसन्न्यासिदैवत्यं श्राद्धङ्कुर्वन्ति ममत्वीदृशेविषयेवैष्णवैःसन्न्यासिमहालयोदर्शेकार्यइतिभाति अत्रत्रयोदश्याम्मघायुतायकेवलायांवा श्राद्धन्नित्यं केवलमघायामपिश्राद्धङ्कार्यम् अत्रश्राद्धविधौबहुग्रन्थेपुबहवःपक्षाः अपुत्रेण पुत्रिणा

मघात्रयोदशीश्राद्धम्

मघात्रयोदशीश्राद्धम्.— वागृहिणासपत्नीकपितृपार्वणमातामहपार्वणाभ्याम्पितृव्यभ्रातृ-मातुलपितृष्वसृमातृष्वसृभगिनी-श्वशुरादिपार्वणैश्चसहितम्अपिण्डकंसाङ्कल्पविधिनाश्राद्धङ्कार्यम् अथवापित्रादिपार्वणद्वयम्महालयवत्पितृव्याद्येकोद्दिष्ट-गणांश्चोद्दिश्यसाङ्कल्पविधिनाश्राद्धङ्कार्यं यद्वादर्शवत्षड्दैवतं श्राद्धमपिण्डकङ्कार्यम् अथवा निष्कामेण पुत्रिणाश्राद्धविधिनाश्राद्धन्नानुष्ठेयङ्किन्तुपित्रादिपार्वणद्वयं केवलम्पितृव्यादिसहितंवोद्दिश्यैतेषान्तृप्त्यर्थब्राह्मणभोजनं-करिष्यइतिसङ्कल्प्यपितृरूपिणेब्राह्मणायगन्धं समर्पयामीत्येवम्पञ्चोपचारान्समर्प्यब्रह्मार्पणमित्यादिपठित्वानेनब्राह्मणभोजनेनपित्रादिरूपीश्वरःप्रीयतामित्यन्नमुत्सृज्यपायसादिमधुरान्नेनविमान्भोजयित्वादक्षिणाभिः सन्तोप्यस्वयम्भुञ्जीतेत्येतावदेवकर्तव्यम् अपुत्रिणः सकामस्यचपिण्डदानरहितश्राद्धविधिनाश्राद्धन्नदोषाय कचिदपुत्रिणः पिण्डदानमप्युक्तम् एवमुक्तपक्षेष्वन्यतमपक्षेणमघात्रयोदशी श्राद्धमवश्यानुष्ठेयम् अकरणेदोषोक्ते नित्यत्वात् हस्तनक्षत्रस्थेसूर्येमघायुतात्रयोदशीगजच्छायासञ्ज्ञिता अस्यांश्राद्धेनफलभूयस्त्वम् अत्रमहालयस्ययुगादेवप्राप्तौ मघात्रयोदशीमहालययुगादिश्राद्धानितन्त्रेणकरिष्यइतिसङ्कल्प्यतन्त्रेणकुर्यात् नतुदर्शेननित्यश्राद्धस्येवकस्यचित्प्रसङ्गसिद्धिः अत्रैवम्भाति अङ्गानामैक्यम्प्रधानमात्रभेदस्तन्त्रं तेनविश्वेदेवपाकाद्यङ्गानामैक्यविप्रार्घ्यपिण्डादेर्भेदएव प्रसङ्गसिद्धिस्थलेतुप्रधानमपिनभिद्यतइति त्रयोदशी श्राद्धेऽपरपक्षत्वादूरिलोचनाविश्वेदेवाःश्राद्धसागरेउक्ताः अविभक्तैरपिभ्रातृभिर्मघात्रयोदशीश्राद्धम्पृथकार्यमिति-सिन्धुकौस्तुभादौ विभक्रपिस हैवेतिश्राद्धसागरे अथात्रचतुर्दश्यां पित्रादित्रयमध्येएकस्यापिशस्त्रविषाग्निजलादि॑श्शृङ्गिव्याघ्रसर्पादिनिमित्तेनदुर्मरणेनमृतस्यैकोद्दिष्टविधिनाश्राद्धङ्कार्यम् पित्रादिचतुर्दश्यांशस्त्राद्वयोःशस्त्रादिहतत्वेद्वेएकोद्दिष्टेकार्ये पित्रादीनान्त्रयाणांशस्त्रादिहतत्वे दिहतश्राद्धम्. पार्वणमेवकार्यं केचिदेकोद्दिष्टत्रयङ्कार्यमित्याहुः सहगमनेप्रयागादौ चविधिप्राप्तेऽग्निजलादिमरणेचतुर्दशी श्राद्धन्नकार्यं युद्धप्रायोपवेशनयोर्वेधत्वेपीदङ्कार्यम् अत्रशस्त्रादिहतपितृव्यभ्रात्रादेरप्यपुत्रस्यैकोद्दिष्ट॑कार्यम् इदन्धुरिलोचनसञ्ज्ञकदेवसहितङ्कार्यम् अत्रसम्बन्धगोत्रनामा युच्चार्यामुकनिमित्तेन मृतस्य चतुर्दशीनिमित्तमेकोदिष्ट॑श्राद्धंसदैवंसपिण्डङ्करिष्यइतिसङ्कल्प्य प्रत्येकोहिष्टमेकार्थ्येकपवित्रैकपिण्डयुतं श्राद्धङ्कार्यम् पित्रादेर्भ्रात्रादेश्वशस्त्र हतत्वेपृथक्पाकादिनामहालयवत्सहतन्त्रेणवैकोहिष्टद्वयादि एवं चतुर्दश्यामेकोदिष्टङ्कृत्वापित्रादिसर्वपितृगणोद्देशेनसकृन्महालयस्तिथ्यन्तरेऽवश्यङ्कार्यः अस्याञ्चतुर्दश्यांयदिशस्त्रादिमृतयोर्मातापित्रोर्मृता हस्तदाचतुर्दशीनिमि

दौहित्रश्राद्धम

दौहित्रश्राद्धम.— तमेकोद्दिष्टङ्कृत्वापुनस्तदैवमृतादित्रयोद्देशेनसांवत्सरिकम्पार्वणविधिनाकार्यमितिश्राद्धसागरे कौस्तुभादौतुसांवत्सरिकपार्वर्णेनैवचतुर्दशीश्राद्धसिद्धिर्नपृथक्कार्यमित्युक्तं दिनान्तरेचसकृन्महालयःकार्यः अत्रचतुर्दशीश्राद्धस्यकथञ्चिद्विघ्नेतुअत्रैवपक्षेऽग्रिमपक्षे वा दिनान्तरेतत्पार्वणविधिनैवकार्यनत्वेकोद्दिष्टम् अत्रैकोद्दिष्टेपराहव्यापिन्येवचतुर्दशीग्राह्यानत्वितरैकोद्दिष्टतिथिवन्मध्याह्नव्यापिनीतिकौस्तुभे हस्तनक्षत्रेसूर्येसतिचा-न्द्रहस्तनक्षत्रयुतामावास्यागजच्छायातस्यांश्राद्धदानादिकार्यम् इत्यमायाङ्गजच्छाया आश्विनशुक्लप्रतिपदिदौहित्रेणानुपनीतेनापिसपत्नीकमातामहस्यपार्वर्णमातुलेसत्यपिअवश्यङ्कार्यम् मातामहीसत्वेकेवलमातामहपावणम् इदञ्जीवल्पितृकेणैवकार्यम् इदंसपिण्डकमपिण्डकंवा अत्रपुरूरवाईवसञ्ज्ञकाविश्वेदेवाः धूरिलोचना इतिकेचित् इयम्प्रतिपदपराहव्यापिनीग्राह्येतिबहवः सङ्गवव्यापिनीतिकेचित् अस्य श्राद्धस्ययावदृश्चिकदर्शनङ्गौणकालइतिकालतत्त्वविवेचने इतिमहालयादिनिर्णयोद्देशः ८ अथकपिलाषष्ठीनिर्णयः भाद्रपदकृष्णपक्षेभौमवारव्यतीपातरोहिणीयुताषष्ठीकपिलाषष्ठी अत्रहस्तस्थेसूर्येफलातिशयः अयंयोगोदिवैवग्रामोनरात्रौ सूर्यपर्वत्वादितिभाति अस्यांहुतञ्चदत्तञ्चसर्वकोटिगुणम्भवेत्। अत्रश्राद्धङ्कार्यमितिविशेषवचनन्नोपलभ्यते तथापिअलभ्ययोगेश्राद्धविधानादर्शवत् षड्दैवतं श्राद्धङ्कार्यम् अथात्रसङ्क्षेपतोव्रतविधिः सूर्योद्देशेनोपवासंसङ्कल्प्यदेवदारूशीर कुङ्कुमैलामनःशिलापद्मकाष्ठतण्डुलान्मधुगव्रतविधिः व्याभ्याम्पेषयित्वाक्षीरालोडितेन कल्केनाङ्गंविलिप्यस्त्रायात् तत्रमन्त्रः आपस्त्वमसिदेवेशज्योतिषाम्पतिरेवच। पापनाशयमेदेववाङ्मनःकायकर्मजम् १ ततः पञ्चगव्येन स्नात्वापञ्चपल्लवैर्मार्जयित्वामृत्तिकास्त्रानं कुर्यात् तर्पणादिनित्यविधिङ्कृत्वावरुणम्पूजयित्वासर्वतोभद्रमध्येकलशोपरितण्डुलादौ पद्मंलिखित्वातस्याष्टसुपत्रेषुपूर्वादा मूर्यतपनंस्वर्णरेतसंरविमादित्यन्दिवाकरम्प्रभाकरंसूर्यमित्यावाह्यमध्येसौवर्णरथेसूर्यमग्रेऽरुणञ्चावाह्यकरवीरार्कादि पुष्पैर्धूपादिभिःसम्पूजयेत् दिक्पालादिदेवताः सम्पूज्यद्वादशार्थ्यान्सूर्यायदद्यात सविस्तर पूजाविधिदशार्घ्यमन्त्राचकौस्तुभेज्ञेयाः सूर्याग्रे प्रभाकरनमस्तुभ्यंसंसारान्मांसमुद्धर। भुक्तिमुक्तिमदोयस्मात्तस्माच्छान्तिप्र-यच्छमे १ नमोनमस्तेवरदऋक्सामयजुषाम्पते। नमोस्तुविश्वरूपायविश्वधात्रेनमोस्तुते२ इतिप्रार्थ्यउदुत्यमित्यादिसौरसूक्तानिजपित्वारात्रौजागरणङ्कृत्वामातराकृष्णेनेति मन्त्रेणार्कसमिच्चर्वाज्यतिलैःप्रतिद्रव्यमष्टोत्तरशतंहुत्वाघण्टादिसर्वालङ्कारयुताङ्कपिलां गाम्मन्त्रैःसम्पूज्यविप्रायदद्यात् गोपूजामन्त्राः कौस्तुभे दानमन्त्रस्तु नमस्तेकपिलेदेविसर्वपापप्रणाशिनि। संसारार्णवमग्नम्माङ्गोमातस्त्रातुमर्हसि १ वस्त्रयुगच्छन्नांसघण्टामित्यादिविशेष-णान्युक्त्वाइमा॑गान्तुभ्यमहंसम्प्रददेइतिदत्वासुवर्णदक्षिणान्दद्यात् ततस्तस्मै विप्रायरथंसूर्यप्रतिमाञ्चदद्यात् तत्रमन्त्रः दिव्यमूर्तिर्जग चक्षुर्द्वादशात्मादिवाकरः। कपि-

लासहितोदेवोमममुक्तिम्मयच्छतु १ यथात्वङ्कपिलेपुण्यासर्वलोकस्यपावनी। प्रदत्तासह सूर्येणमममुक्तिप्रदाभव २ इत्यादि ततः कपिलाप्रार्थनादिविस्तारः कौस्तुभे अथवोपोषणजागरहोमादिविधिमकृत्वाषष्ठ्यामेवस्नानरथादिपूजनकपिलादानादिकार्यम् इति सङ्क्षेपतःकपिलाषष्ठीव्रतविधिः इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचिते धर्मसिन्धुसारेभाद्रपदमासकृत्यनिर्णयोद्देशः

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬