🕉️ 24 November 2026, Tuesday · 08:12:46 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 15/81
इस पृष्ठ में: 9. अयाश्विनमासः

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

9. अयाश्विनमासः

अयाश्विनमासः तुलामेषसङ्क्रान्तिर्विषुवसञ्ज्ञा तस्याः पूर्वाः पराञ्चपञ्चदशपञ्चदश नाड्यः पुण्यकालः विशेषः प्रागुक्तएव आश्विन शुक्ल प्रतिपदिदेवीनवरात्रारम्भः नवरात्रशब्दः आश्विन शुक्ल प्रतिपदमारभ्यमहानवमीपर्यन्तङ्क्रियमाणकर्मनामधेयं तत्रकर्मणिपूजैवप्रधानम् उपवासादिकंस्तोत्रजपादिकञ्चाङ्गं तथाचयथाकुलाचारमुपवासैकभक्तनक्तायाचितान्य-तमत्रतयुक्तंयथाकुलाचारंसप्तशतीलक्ष्मीहृदयादिस्तोत्रजपसहितम्प्रतिप दिनवम्यन्तनवतिथ्यधिकरणकपूजाख्यङ्कर्मन-वरात्रशब्दवाच्यम् पूजा-प्राधान्योक्तैरेवक्वचित्कुलेजपोपवासादिनियमस्यव्यतिरेकउपलभ्यते पूजायास्तुनकापिकुलेनवरात्रकर्मण्यभावोदृश्यते यत्कुलेनवरात्रमेवनानुष्ठीयतेतत्रनवरात्रपूजादेरप्यभाव आस्तान्नाम सचनवरात्रारम्भः सूर्योदयोत्तरन्त्रिमुहूर्तव्यापिन्याम्प्रतिपदिकार्यः तदभावेद्विमुहूर्तव्यापिन्यामपि क्वचिन्मुहूर्तमात्रव्यापिन्यामप्युक्तः सर्वथादर्शयुक्तप्रतिपनवरात्रारम्भः दिनकार्यइतिबहुग्रन्थसम्मतम् मुहूर्तन्यूनव्याप्तौ सूर्योदयास्पर्शेवादर्श-'युतापिग्राह्या प्रथमदिनेषष्टिघटिकाप्रतिपद्वितीयदिनेमुहूर्तद्वयादिपरिमितावर्धतेतदापूर्णत्वात्पूर्वैवग्राह्या द्वितीयावेधनिषेधोपिएतत्पक्षद्वयेएवयोज्यः पुरुषार्थचिन्तामणौ तुपूर्वदिने मुहूर्तचतुष्टयोत्तरम्मुहूर्तपञ्चकोत्तरंवाप्रवृत्ताद्वितीय दिनेमुहूर्तद्वयादिपरिमिता प्रतिपत्तदापरस्याःक्षयगामितयानिषिद्धवादमायुक्तापिपूर्वैवग्राह्येत्युक्तं तत्रसूर्यो दयोत्तरन्दशघटीमध्येतत्रासम्भवेमध्याह्नेऽभिजिन्मुहूर्तेप्रारम्भः कार्योनत्वपरा एवञ्च प्रतिपदआद्यषोडशना-डीनिषेर्धाश्चत्रावैधृतियोगनिषेधचोक्तकालानुरोधेनसतिसम्भवे पालनीयोनतुनिषेधानुरोधेनपूर्वाह्नः प्रारम्भकालः प्रतिपत्तिथिर्वातिक्रमणीयः अत्रकर्मणिब्राह्मणादिचतुर्वर्णस्यम्लेच्छादे चाधिकारः तत्रविप्रेणजपहोमान्नर्बालनै-वेद्यैःसात्विकीपूजाकार्या नैवेद्यैश्वनिरामिषैः। मद्यन्दत्त्वाब्राह्मणस्तुब्राह्मण्यादेवहीयते। मद्यपूजाद्यधिकारः मपेयमदेयमित्यादिनिषेधान्मांसमद्यादियुतराजसपूजायाम्ब्राह्मणस्य नाधिकारः मद्यपानेमरणान्तप्रायश्चित्तोक्तेः स्पर्शेतदङ्गच्छेदोक्तेश्वल्पमायश्चित्तेनदोपानपगमेनपातित्यापातात् इत्थमेव सर्वेप्राचीनानवीनाश्चनिबन्धकारानिर्बन्धेनलिखन्ति नवीनतराभास्कररायप्रभृतयोपिसप्तशतीटीकादौमाचीनग्रन्थाननुसृत्यैवमेवपरिकुर्वन्ति सभायाञ्चैतन्मतमेव श्लाघन्तेच आचरणन्त्वन्यथाकुर्वन्तितस्किस्वयन्दुर्दैववशेन

ब्राह्मण्यभ्रष्टोभूवमन्येप्येवम्माभूवन्नितिभूतदययावास्वपातित्यगोपनायवान्येषाङ्कलियुगस्थविप्राणामधिकाराभावालोचनयावेतनवयन्तत्वञ्जानीमः क्षत्रियवैश्ययोमंसादियुतजपहोमसहितराजसपूजायामप्यधिकारः सचकेवलङ्काम्य-एवनतुनित्यः निष्कामक्षत्रियादेःसात्विकपूजाकरणेमोक्षादिफलातिशयः एवंशूद्रादेरपि शूद्रादेर्मन्त्रहीना जपादिरहितामांसादि-द्रव्यकातामसपूजापिविहिता शूद्रेणसप्तशसादिजप-होमसहिता सात्विकीपूजाब्राह्मणद्वारा कार्या स्त्रीशूद्रादेः स्वतः पौराणमन्त्रपाठेपिनाधिकारः अत एवशूद्रः सुखमवाप्नुयादिसत्रभाष्येस्त्रीशूद्रयोःश्रवणादेवफलन्नतुपाठादित्युक्तम् एतेन स्त्रीशूद्रयोगताविष्णुसहस्रनाम-पाठोदोषायैवेतिज्ञेयं कचित्पौराणमन्त्रयुक्तपूजायां स्त्रीशूद्रयोःस्वतोप्यधिकारउक्तः जपहोमादौविप्रद्वारैव म्लेच्छादीनान्तुब्राह्मणद्वारापि जपहोमेसमन्त्रङ्कपूजायाञ्चनाधिकारः किन्तुतैस्तत्तदुपचाराणान्देवीमुद्दिश्यमनसोत्सर्गमात्रङ्कर्तव्यम् अथनवरात्रेऽनुकल्पाः तृतीयादिनवम्यन्तं सप्तरात्रंवाकर्तव्यम् पञ्चम्यादिपञ्चरात्रंवासप्तम्यादित्रिरात्रंवा अष्टम्यादिद्विरात्रंवा एषाम्पक्षाणांस्वस्वकुलाचारानुसारेण प्रतिबन्धादिना अनुकल्पाः पूर्वपूर्वपक्षासम्भवानुसारेणवाव्यवस्था तत्रतृतीयापञ्चम्योनिर्णयः प्रतिपदादिवत् सप्तम्यादेस्तुनिर्णयोवक्ष्यते नवरात्रादिपक्षेषुक्षयवृद्धिवशेनदिनाधिक्यन्यूनत्वेपूजाद्यावृत्तिःकार्या केचित्तुदिनक्षयेष्टावेवपूजाश्चण्डीपाठांश्चकुर्वन्ति इदन्देवीपूजनात्मकन्नवरात्रकर्मनित्यम्अकरणेदोषश्रवणात् फलश्रवणात्काम्यञ्च। अत्रनवरात्रेघटस्थापनम्प्रातर्मध्याह्ने-प्रदोषकालेचेतित्रिकालन्द्विकालमेककालंवास्वस्वकुलदेवतापूजनंसप्तशसादिजपोऽखण्डदीपःआचारप्राप्तमालाबन्धनम्उपवासनक्तैकभक्तादिनियमः सुवासिनीभोजनङ्कुमारीभोजनपूजनादि अन्तेसप्तशत्यादिस्तोत्रमन्त्रहोमादिइयेतानिव्यानि. विहितानि एतेषाम्मध्येक्कचित्कुलेघटस्थापनादीनिद्वित्रादीन्येवानुष्टीय-न्तेनसर्वाणि क्वचित्घटस्थापनादि-रहितानिकानिचित्कचित्सर्षाण्येवेयेतेषांसमुच्चयविनवरात्रेकर्तकल्पौकुलाचारानुसारेणव्यवस्थितौज्ञेयौ कुलपरम्पराभाप्तादधि-कंशक्तिसखेपिनानुष्ठेयमितिशिष्टाचारः फलकामनयाप्रार्थितमुपवासादिकङ्कुलाचाराभावेपिकुर्वन्ति इदङ्कलशस्थापनंरात्रौनकार्यं तत्रकलशस्थापनार्थशुद्धमृदावेदिकाङ्क्रुखापञ्चपल्लवदूर्वाफलताम्बूलकुकु मधूपादिसम्भारान्सम्पादयेत्। अथसङ्क्षेपतो नवरात्रारम्भप्रयोगः प्रतिपदिप्रातः कृताभ्यङ्गस्नानः कुङ्कुमचन्दनादिकृतपुण्ड्रोधृतपवित्रः प्रयोगः सपत्नीकोदशघटिकामध्येऽभिजिन्मुहूर्तेवादेशकालौसङ्कीर्सममसकुटुम्बस्यामुकदेवताप्रीतिद्वारा सर्वापच्छान्तिपूर्वकदीर्घायुर्धनपुत्रादिवृद्धिशत्रुजयकीर्तिलाभप्रमुखचतुर्विधपुरुपार्थसिप्रयोगः

द्ध्यर्थमद्यप्रभृतिमहानवमीपर्यन्तम्प्रसहन्त्रिकालमेककालंवामुकदेवतापूजामुपवासनक्तैकभक्तान्यतमनियमसहितामखण्डदीपप्रज्वालनङ्कुमारीपूजनञ्चण्डीसप्तशतीपाठंसुवासिन्यादिभोजनमित्यादियावत्कुलाचारमाप्तमन्द्यएवमादिरूपंशारदनवरात्रोत्सवाख्यङ्कर्मकरिष्ये देवतापूजाङ्गलेनघटस्थापनञ्चकरिष्ये तदादौनिर्विघ्नतासिद्ध्यर्थगणपतिपूजन॑पुण्याहवाचनञ्चण्डी सप्तशतीजपाद्यर्थब्राह्मणवरणञ्चकरिष्ये एतानिकृत्वा घटस्थापनसलेमही द्यौरितिभूमिंस्पृष्ट्वातस्याम्भुविअङ्करारोपणार्थंशुद्धमृदम्प्रक्षिप्यओषधयःसमितितस्याम्मृदियवादीन्प्रक्षिप्यआकलशेष्वितिकुम्भन्निधायइमम्मेगङ्गेइतिजलेनापूर्यगन्धद्वारामितिगन्धंयाओषधीरितिसर्वाओषधीःकाण्डात्काण्डादितिदूर्वाःअश्वत्थेवइतिपञ्चपल्लवान्स्योनापृथिवीतिमृदःयाःफलिनीरितिफलंसहिरत्नानी तिहिरण्य रूपइतिरत्नहिरण्येप्रक्षिप्ययुवासुवासाइतिसूत्रेणावेष्ट्यपूर्णादर्वीतिपूर्णपात्रन्निधायतत्त्वायामीतिवरुणंसम्पूज्यतत्कलशोपरिकुलदेवताप्रतिमांसंस्थाप्यपूजयेत् स्वस्थानेएववासंस्थाप्यपूजयेत् तद्यथा जयन्तीमङ्गलाकाली भद्रकाली कपालिनी। दुर्गाक्षमाशिवाधात्रीखाहा स्वधानमोस्तुते १ आगच्छवरदेदेविदैयदर्पनिषूदिनि। पूजाङ्गृहाणसुमुखिनमस्तेशङ्करमिये २ अनेनपुरुषसूक्त श्रीसूक्तप्रथमऋग्भ्याञ्चावाह्यजयन्तीमङ्गलाकालीतिमत्रेण सूक्तऋग्भिश्वासनादिषोडशोपचारैः सम्पूजयेत् सर्वमङ्गलमाङ्गल्येइसादिभिःसम्प्रार्थ्यप्रसहम्बलिदानपक्षेमाषभक्तेनकूष्माण्डेनवाबलिन्दद्यात् अन्तेएववाबलिदानन्नवाबलिदानं ततः अखण्डदीपकन्देव्याः प्रीतयेनवरात्रकम्। उज्ज्वालये अहोरात्रमेकचित्तो धृतवतः १ इसखण्डदीपम्प्रतिष्ठापयेत् अथचण्डीपाठप्रकारः यजमानेनवृतोहञ्चण्डीसप्तशतीपाठं नारायणहृदयलक्ष्मी हृदयपाउंवा करिष्येइत्यादिसङ्कल्प्य आसनादिविधाय आधारेअन्यहस्तलिखितम्पुस्तकंस्थापयित्वानारायणं नमस्कृसेतिवचनात् ॐ नारायचण्डीपाठविधिः णायनमः नरायनरोत्तमायनमः देव्यैसरस्वत्यैनमः व्यासायनमः इतिनमस्कृत्यप्रणवमुच्चार्यसर्वपाठान्तेप्रणवम्पठेत् पुस्तकवाचनेनियमाः हस्तेपुस्तकं नधारयेत् स्वयम्ब्राह्मणभिनेनचलिखितंविफलम् अध्यायन्त्राप्यविरमेन्नतुमध्ये कदाचन। कृतेविरामेमध्येतुअध्यायादिपठेत्पुनः १ ग्रन्थार्थबुध्यमानः स्पष्टाक्षरन्नातिशीघ्रन्नातिमन्दरसभावस्वरयुतंवाचयेत् त्रिवर्गफलका मेनचण्डीपाठःसदैव कर्तव्यः तस्मान्ममैतन्माहात्म्यम्पठितव्यंसमाहितैः। श्रोतव्यञ्चसदाभत्त्येत्यादिवचनात् नैमित्तिकपाठोप्युक्तः शान्तिकर्मणिसर्वत्रतथा दुःस्वप्नदर्शने। ग्रहपीडासुचोग्रासु माहात्म्यंशृणुयान्मम १ इयादि तथा अरण्येप्रान्तरेवापिदावाग्निपरिवारितः।दस्युभिर्वाटतःशून्येगृहीतोवापिशत्रुभिः १ इत्यादि सङ्कटान्युद्दिश्य सर्वबाधासुचोग्रासुवेदनाभ्यर्दितोपिवा। स्मरन्ममैतन्माहात्म्यन्नरोमुच्येतसङ्कटात् १ इत्युक्तम्

उपसर्गोपशान्सर्थत्रयः पाठाःकार्याः ग्रहपीडाशान्तयेपञ्च महाभयेसप्त शान्त्यर्थवाजपेयफलार्थचनव राजवश्यार्थमेकादश वैरनाशार्थद्वादश स्त्रीपुंसवश्यतार्थचतुर्दश सौ+ख्यायलक्ष्म्यर्थचपञ्चदश पुत्रपौत्रधनधान्यार्थषोडश राजभयनाशायसप्तदश उच्चाटनायाष्टादश वनभयेविंशतिः बन्धमोचनायपञ्चविंशतिः दुश्चिकित्स्यरोगकुलोच्छेदायुर्नाशवैरिटद्धिव्याधिद्धित्रिविधोत्पाता दिमहासङ्कटनाशोराज्यवृद्धिश्चशतावृत्तिभिः सहस्रावर्तनैः शताश्वमेधफलंसर्वमनोरथावाप्तिर्मोक्षश्रेतिवाराहीतन्त्रेउक्तं सर्वत्रकाम्यपाठेआदौसङ्कल्पपूर्वकम्पूजनमन्तेवलिदानञ्चकार्यम् अत्राचाराद्वेदपारायणमपिकार्यं तद्विधिबधायनोक्तः कौस्तुभेज्ञेयः अथकुमारीपूजा एकवर्षातुयाकन्यापूजार्थं तांविवर्जयेत्। द्विवर्षकन्यामारभ्यदशवर्षावधिकुमारीणाङ्क्रमेण कुमारिकात्रिमूर्तिःककुमारीपूजा ल्याणीरोहिणीकाली चण्डिकाशाम्भवी दुर्गाभद्रेतिनामानि आसाङ्कुमारीणाम्मसे कम्पूजामन्त्राः फलविशेषाः लक्षणानिचान्यत्रज्ञेयानि ब्राह्मणेनब्राह्मणीसेवैसवर्णाप्रशस्ता विजातीयापिक्कचित्कामनाविशेषेणोक्ता एकैकवृद्ध्यामसहमेकावा कुमारीपूज्या मन्त्राक्षरमयींलक्ष्मीमातृणांरूपधारिणीम्। नवदुर्गात्मिकांसाक्षात्कन्यामावाहयाम्यहम् ? जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि। पूजाङ्गृहाणकौमारिजगन्मातर्नमोस्तुते १ इतिमन्त्रेणपादक्षालनपूर्वकंवस्त्रकुङ्कुमगन्धधूपदीपभोजनैः पूजयेदितिसङ्क्षेपः कुमारीपूजावदेवी पूजाचण्डीपाठश्चैकोत्तरवृद्ध्यापिविहितः भवानीसहस्रनामपाठोपिकचिदुक्तः अयंशारदनवरात्रोत्सवो मलमासेनिषिद्धः शुक्रास्तादौतुभवति प्रथमारम्भस्तुनकार्यः शावाशौचजननाशौचयोस्तुसर्वोपिघटस्थापनादिविधिर्ब्राह्मणद्वाराकार्यः केचिदारम्भोत्तरम्मध्ये आशौचपातेस्खयमेवारब्धम्पूजादिकङ्कार्यमित्याहुः आशौचादीविधिः शिष्टास्त्वाशौचेपूजादेवतास्पर्शादेर्लोक विद्विष्टत्वादन्येनैवकारयन्ति अपरेतृतीयादिपञ्चम्यादिसप्तम्याद्यनुकल्पेननवरात्रविधीनांसत्वात्प्रतिपद्याशौचेतृतीयाद्यनुकल्पाश्रयणं कुर्वन्तिसर्वथालोपप्रसक्तावेवब्राह्मणद्वाराकुर्वन्ति उपवासादिशारीरनियमःस्वयङ्कार्यः एवंरजस्वला पिउपवासादिकंस्वयङ्कृत्यापूजादिकमन्येनकारयेत् अत्रसभर्तकस्त्रीणाम्उपवासेगन्धताम्बूलादिग्रहणन्नदोषायेत्याहुः। अथपञ्चम्यामुपाङ्गललिताव्रतम् अत्रपञ्चमीअपराह्नव्यापिनीग्राह्या अपराहस्यैवतत्पूजाकालत्वोउपाङ्गललिपपत्तेः दिनद्वयेकार्त्स्न्येनापराहव्याप्तौसाम्येनवैषम्येणवापरा हैकदेताव्रतम्. शव्याप्तौ च पूर्वैव युग्मवाक्यात परत्रैवापराहव्याप्सौपरैव केचित्तुरात्रिव्यापिनगृह्णन्ति पूजादिकञ्चरात्रावेवक्कुर्वन्तितत्रमूलञ्चिन्त्यम् अत्रपूजादिविधिग्रन्थान्तरेप्रसिद्धइतिनलिख्यते आश्विनशुक्लपक्षेमूलनक्षत्रे पुस्तकेषुसरस्वतीमावाह्य पूजयेत् मूलेषुस्थापन॑देव्याःपूर्वाषाढासुपूजनम्। उत्तरासुबलिन्दद्याच्छ्रवणेनविसर्जयेत्

सरस्वत्यावाहनादि— १ इतिवचनात् अत्रपूजयेत्प्रत्यहमितिरुद्रयामलवचनात् मूलेआवाहनन्तदङ्गभूतम्पूजनञ्चकरिष्येइत्यादिसङ्कल्प्यावाहनपूजनेकार्ये पूर्वाषाढासुपूजनङ्करिष्यइतिसङ्कल्प्यावाहन-रहितपूजैवकेवलम् उत्तराषाढासुबलिदानन्तदङ्गभूताम्पूजाञ्चकरिष्येइत्येवन्तेकार्ये श्रवणेविसर्जनङ्कर्तुतदङ्गभूतां-पूजाङ्करिष्यइतिसङ्कल्प्य सम्पूज्यविसर्जयेदितिक्रमः तत्रमूलस्यप्रथमेपादेसूर्यास्तात्मा त्रिमुहूर्तव्यापिनि सरस्वसावाहनं त्रिमुहूर्त न्यूनत्वेरात्रौवामथमपादसत्वेतस्यविशेषवचनंविनाग्राह्यत्वाभावाद्वितीयादिपादेपरदिनएवावाहनम् एवं पूर्वाषाढा दिनक्षत्रं पूजादौदिनव्याप्येवग्राह्यं विसर्जनन्तु श्रवणप्रथमपादेरात्रिभागगतेपिकार्यं विशेषवचनात् तच्चरात्रेःप्रथममहरपर्यन्तमेवेतिभाति अथसप्तम्यादिदिनत्रयेपत्रिकापूजनंविहितन्तत्रसप्तम्यादितिथित्रयंसूर्यो दयेमुहूर्तमात्रमपिग्राह्यं तत्राधिवासनादिप्रयोगविस्तारः कौस्तुभादौज्ञेयः यत्तुसप्तमीप्रभृतित्रिरात्रन्नवरात्रकर्मकुर्वन्तितत्रसप्तमी सूर्योदयोत्तरम्मुहूर्ताधिकव्यापिनी ग्राह्या मुहूर्तन्यूनत्वेपूर्वा अथमहाष्टमीघटिकामात्राप्यौदयिकी नवमीयुताग्राह्या सप्तमीस्वल्पयुतासर्वथासाज्या यदातुपूर्वत्रसप्तमीयुतापरत्रोदयेनास्तिघटिकान्यूनावावर्ततेतदापूर्वा महाष्टम्यादि. सप्तमीविद्धापिग्राह्या इयम्भौमवारेऽतिप्रशस्ता यदाचपूर्वदिनेपष्टिघटिकाष्टमीपरदिने-मुहूर्तादिव्यापिनीतदानवमीयुतामप्युत्तरांसक्त्वासम्पूर्णत्वात्पूर्वैवग्राह्या एवन्नवम्याक्षयवशेनदशमीदिनेसृर्योदयो-त्तरमनुवृत्त्यभावेऽष्टमीं नवमीयुतामौदयकीमपित्यक्त्वासप्तमीयुतैवाष्टमीग्राह्या अष्टम्याम्पुत्रवतोपवासोनकार्यः कुलाचारमासौकिञ्चिद्भक्ष्यम्मकल्प्यकार्यः महानवमीतुर्बालदानव्यतिरिक्तविषयेपूजोपोषणादावष्टमीषिन्दाग्राह्या साचर्यादअष्टमीदिनेसायन्त्रिमुहूर्तास्यात्तदैवग्राया त्रिमुहूर्त न्यूनत्वेपरैव ग्राह्या नवमीप्रयुक्त महाबलदानेतुदशमीविद्धा यदाशुद्धाधिकानवमीतदाबलिदानमपिपूर्णत्वात् पूर्वत्रैवकार्यम् अष्टमीनवम्योः सन्धीपूजोक्तासाष्टमीनवम्योः पृथक्त्वेदिवारात्रौवाष्टम्यन्त नाडीनक्म्याद्यनाड्योः कार्या यदितु अष्टमी नवम्योर्मध्याह्नेऽपराह्नेवा योगस्तदाष्टमीनवमीपूजयोरप्येक दिनेएवमाप्तेरष्टमीनवमीपूजान्तत्सन्धिपूजाञ्चतन्त्रेणकरिष्येइ तिसङ्कल्प्यतन्त्रेणपूजाकार्या यदिशुद्धाधिकाष्टमीतदापूर्वेचुरष्टमीपूजापरेयुःसन्धिपूजानवमीपूजयोस्तन्त्रम् अत्रनवरात्रेस्वयम्पूजादिकङ्कर्तुमशक्ता-वन्येनकारयेत् षोडशोपचारपूजाविस्तारङ्कर्तुमशक्तोगन्धादिपञ्चोपचारपूजाङ्कुर्यात् नवम्याम्पूजांविधाय होमःकार्यः केचिदष्टम्यामेवहोमइसाहुः अन्येतुअष्टम्यामुपक्रम्यनवम्यांहोमःसमाप नवम्यांहोमादि. नीयः सचारुणोदयमारभ्यसायङ्कालपर्यन्तमष्टमीनवम्योःसन्धौसम्भवति निशापान्तत्सन्धौतुरात्रौहोमादेरयोग्यत्वान्नवम्यामेवहोमोपक्रमसमाप्ती कार्येइसाहुः अत्रयथाकुलाचारंव्यवस्था सचहोमोनवार्णवमन्त्रेणकार्यः अथवाजयन्तीमङ्गलाकालीतिश्लोकेन अथवानमोदेव्यै महादेव्यैइतिश्लोकेन अथवासप्तशती श्लोकैः अथवासप्तश-

तीस्तोत्रस्यसप्तशतमन्त्रैः कवचार्गलाकीलकरहस्यत्रयश्लोकसहितैर्होमः सप्तशतमन्त्रविभागोन्यत्रज्ञेयः अत्रापिविकल्पेषुयथाकुलाचारंव्यवस्था होमद्रव्यञ्चसर्पिमिश्रितंशुक्लतिलमिश्रञ्चपायसं केवलतिलैर्वाहोमः क्वचिल्किंशुकपुष्पदूर्वासर्षपलाजपूगयवश्रीफलरक्तचन्दनखण्डनानाविधफलानामपिपायसेमिश्रणङ्कार्यमित्युक्तं होमश्रजपदशांशेनकार्यः कुलाचारप्राप्तश्चेन्नृसिंहभैरवादिदैवत्यमन्त्रहोमोषिकार्यः अत्रसविस्तरःसग्रहमखोहोमप्रयोगःकौस्तुभेज्ञेयः अथबलिदानं ब्राह्मणेनमाषादिमिश्रान्नेनकूष्माण्डेनेवा कार्यं यद्वाघृतमयंयवपिष्टादिमयंवासिंहव्याघ्रनरमेषादिकङ्कृत्वा खजेनघातयेत् ब्राह्मणेनपशुमांसमद्यादिवलिदानेब्राह्मण्यभ्रष्टता सकामेनक्षत्रियादिनासिंहव्याघ्रनरमहिपछाग सूकरमृगपक्षिमत्स्यनकुलगोधादिप्राणिस्खगात्ररुधिरादिमयोबलिर्देयः कृष्णसारमृगःक्षत्रियादिभिरपिनदेयः अत्रबलिदानमन्त्रादिप्रकारः सिन्धौज्ञेयः अत्रशतचण्डीसहस्रचण्डीप्रयोगःकौस्तुभादौज्ञेयः द्विविधाशौचेपिनवम्यांहोमङ्घटादिदेवतोत्थापनञ्च ब्राह्मणद्वाराकारयित्वास्वयम्पारणङ्कृत्वाशौचान्तेब्राह्मणभोजनन्दक्षिणादिदानञ्चकार्यम् एवंरजस्वलापिपारणाकालेपारणङ्कृत्वाशुद्धौदानादिकङ्कुर्यात् विधवायास्तुरजोदोषे भोजननिषेधात्पारणापिशुद्धयुत्तरमेव एवन्त्रतान्तरेप्यूयम् प्रतिपदादियावदष्टमी लोहाभिसारिकङ्कर्मराज्ञांविहितं तत्रछत्रचामरादिराजचिह्नानाङ्गजाश्वादीनाञ्चापादिशशस्त्राश्वादिपूजा. स्त्राणान्दुन्दुभ्यादीनाञ्चपूजाहोमादिकङ्कार्यं येहयान्पालयन्तितेराजभिन्नाअपिस्वातीयुतामाश्विनप्रतिपदन्द्वितीयांवारभ्य नवमीपर्यन्तंवाजिनीराजनाख्यङ्कर्मकुर्युः तत्रोच्चैश्रवःपूजारैवतपूजाचप्रतिमायाङ्कार्या प्रत्यक्षमश्व पूजानीराजनञ्चकार्यं कर्मद्वयेपितत्पूजामन्त्राहोमादिमन्त्राः सविस्तरप्रयोगश्चकौस्तुभे इदानीमश्ववन्तः प्राकृतजनास्तुविजयादशम्यामश्वान्तोयेऽवगाह्यपुष्पमालाभिर्विभूष्याश्वशालायाम्मवेशयन्ति तत्र गन्धर्वकुलजातस्त्वम्माभूयाः कुलदूषकः। ब्रह्मणःसत्यवाक्येनसोमस्यवरुणस्यच १ प्रभावाच्चहुताशस्यवर्धयत्वन्तुरङ्गमान्। रिपून्विजित्यसमरेसहभर्त्रासुखी भव २ इतिमन्त्रेणकेवलाश्वपूजापिकर्तुमुचिता अथपारणाविसर्जनयोः कालः तत्रविसर्जनन्दशम्याङ्कार्यं दिनद्वयेदशमीसत्वेपूर्वदशम्यांश्रवणान्त्यपादयोगतत्रैवविसर्जनं तत्रतधारणाविसर्जंद्योगाभावेतुपरदशम्यामेव परत्रदशम्यभावेपूर्वदशम्यान्नक्षत्रयोगेससनयोः कालः सतिवाकार्यं नक्षत्रयोगानुरोधेनक्रियमाणं विसर्जनमपराह्णेपिभवति

अन्यथाप्रातरेव तत्रमृदादिप्रतिमायाविसर्जनपूर्वकञ्जलादौत्यागः धातुप्रतिमायास्तु घटादिस्थानादुत्तिष्ठेत्यादिमन्त्रैरुत्था-पनमात्रङ्कार्यं नतुवसर्जनं यद्दिनेविसर्जनन्तत्रैवनियमत्यागस्यौचित्यात् विसर्जनोत्तरन्तद्दिनेएवपारणङ्कार्यम् अन्येतु सत्यपिदशम्यांविसर्जनविधौनवम्यामेवपारणङ्कार्यं नवम्याम्पारणं कुर्यात् दशम्यामभिषेकञ्चकृत्वामूर्तिविसर्जये-दित्यादिवचनादित्याहुः अत्रैवंव्यवस्था प्रथमदिनेस्वल्पाष्टम्यायुक्तानवमीद्वितीयदिनेपारणपर्याप्तनवम्यायुक्ता-दशमीतत्परदिनेश्रवणयुक्ताविसर्जनाहर्हादशमी तत्राष्टमीनवम्युपवासयोःप्रथमदिनेसिद्धवादवशिष्टनवम्याम्पारणमवशिष्ट-दशम्यांविसर्जनं यदातुअवशिष्टनवमी दिनेएवदशमी श्रवणयुक्ताविसर्जनार्हातदा विसर्जनोत्तरम्पारणं यदापूर्व-दिनेषष्टिदण्डाष्टमीपरदिनेष्टमीशेषयुतानवमीतत्परदिनेनवमीशेषयुतादशमीतदानवम्यायुक्तदशम्यामेव विसर्जनोत्तरम्पारणा अथनवमीषष्टिदण्डा द्वितीयदिनेनवमी शेषयुक्तादशमीतत्रापिनवम्यायुक्तदशम्यामेव विसर्जनपारणे यदातु अष्टमीनवमीदशम्यस्तिस्रोपितिथयः सूर्योदयमारभ्यास्तमयपर्यन्तमखण्डास्तत्तत्कृत्यपर्याप्तास्तदा दाक्षिणात्यानान्नवम्यामेवपारणाचारान्नवम्यामेवपारणविसर्जने यषान्दशम्यामेवाचारस्तेषान्तदुभयन्दशम्यामेव अथविजयादशमीसापरदिनेएवापराह्नव्याप्तौपरा दिनद्वयेपराहव्याप्तौदिनद्वयेपिश्रवणयोगेसत्यसतिवापूर्वा एवन्दिनद्वयेऽपराविजयादशमी. हव्यात्यभावेपि श्रवणयोगसत्त्वासत्त्वयोः पूर्वेव दिनद्वयेपराह्नव्यायव्यात्योरेकतरदिनेश्रवणयोगेयद्दिनेश्रवणयोगःसैवग्राह्या एवमपरा हैकदेशव्याप्तावृह्यं यदापूर्वदिनेएवापराह्णव्याप्तापरदिनेचश्रवणयोगाभावःतदापिपूर्वैव यदातुपूर्वदिनेएवापरांह्रव्यापिनीपरदिनेचमुहूर्तत्रयादिव्यापिनी अपराह्णात्पूर्व मेवसमाप्तापरत्रैव श्रवणयोगवतीतदापरैव अपराह्नेदशम्यभावेपि यान्तिथिसमनुप्राप्यउदयंयातिभास्करइत्यादिसाकल्यवचनैः-श्रवणयुक्तायाग्राह्याया-औदयिकस्वल्पदशम्याः कर्मकालेसत्वापादनातू सिन्धौतुइदं परदिनेपराह्नकालेश्रवणसत्वेएव श्रवणस्याप्यपराह्णात् पूर्वमेवसमा सौतुपूवैवेत्युक्तं युक्तञ्चैतत् यदापरदिनेएवापराव्याप्तिःपूर्वदिनेएवापराह्णात्परत्रसायाहादौश्रवणयोगस्तदातुपरैवग्राह्येतिममप्रतिभाति अत्रापराजितापूजनंसीमोल्लङ्घनंशमीपूअपराजिताशजनन्देशान्तरयात्रार्थिनाम्प्रस्थानञ्चविहितं तत्पूजाप्रकारस्तु अपराहेमीपूजनादि. ग्रामादीशान्यान्दिशिगत्वाशुचिदेशेभ्रुवमुपलिप्यचन्दनादिनाष्टदलमालिख्यममसकुटुम्बस्यक्षेमसिद्ध्यर्थअपराजितापूजनङ्करिष्येइतिसङ्कल्प्य जितायै नमइत्यपराजितामावाह्यतद्दक्षिणेक्रियाशक्त्यै नमइतिजयां वामतः उमायैनम - तिविजयाञ्चा वाह्य अपराजितायैनमःजयायैनमः विजयायैनमः इतिनाममन्त्रैः षोडशोपचारपूजाङ्कृत्वाप्रार्थयेत् इमाम्पूजाम्मयादेवियथाशक्तिनिवेदिताम्। रक्षार्थतुसमादायत्रजखस्थानमुत्तमम् १ इति अथराज्ञःसङ्कल्पेयात्रायविजयसिद्ध्यर्थमितिविशेषः पूजान-

मस्कारान्ते हारेणतुविचित्रेणभास्वत्कनकमेखला। अपराजिताभद्ररताकरोतुविजयम्मम १ इत्यादिमन्त्रैर्विजयं-प्रार्थ्यपूर्ववद्विसृजेदितिसङ्क्षेपः ततः सर्वेजनाःग्रामाद्वहिरीशानदिगवस्थितांशमीङ्गत्वापूजयेयुः सीमोल्लङ्घनन्तुशमीपूजनात्पूर्वपश्चाद्वाकार्यं राजातुअश्वमारुह्यसहपुरोहितःसामासःशमीमूलङ्गवावाहना-दवरुह्यस्वस्तिवाचनपूर्वकंशमीसम्पूज्यकार्योद्देशानमासैः सहसंवदन्प्रदक्षिणाङ्कुर्यात् पूजाप्रकारस्तु ममदुष्कृतामङ्गलादिनिरासार्थक्षेमार्थयात्रायांविजयार्थचशमीपूजाङ्करिष्ये शम्यलाभे अश्मन्तकवृक्षपूजाङ्करिष्येइतिसङ्कल्पः राजातुशमीमूलेदिक्पालपूजांवास्तुदेवतापूजाञ्चकुर्यात् अमङ्गलानांशमनींशमनीन्दुष्कृतस्यच। दुःखप्रणाशिनीन्धन्याम्प्रपद्येहंशमशुभाम् १ इतिपूजामत्रः पूजान्ते शमीशमयतेपापंशमीलोहितकण्टका। धरित्र्यर्जुनबाणानांरामस्यप्रियवादिनी १ करिष्यमाणयात्रायांयथाकालंसुर्खमया। तत्रनिर्विघ्नकर्त्रीत्वम्भवश्रीरामपूजिते २ इतिप्रार्थयेत् अश्मन्तकपूजने अश्मन्तकमहावृक्षमहादोषनिवारण। इष्टानां दर्शनन्देहिशत्रूणाञ्चविनाशनम् १ इतिप्रार्थयेत् राजाशत्रोर्मूर्तिकृत्वाशस्त्रेणविध्येत् प्राकृताः शमीशाखाश्छि वाआनयन्तितन्निर्मूलं गृहीत्वासाक्षतामाशमी मूलगताम्मृदम्। गीतवादिनघोषैरान येत्स्वगृहम्प्रति १ ततो भूपणवस्त्रादिधारयेत्स्वजनैः सह। नीराज्यमानः पुण्याभिर्युवतीभिःसुमङ्गलम् २ इति अत्रदेशान्तरञ्जिङ्गमिषुभिर्विजयमुहूर्तेचन्द्राद्यानुकूल्याभावेविजयमुहूर्तः पिप्रयाणकार्यं तत्रविजयमुहूर्तोद्विविधः ईषत्सन्ध्यामतिऋम्यकिञ्चिदुद्भिन्भतारकः विजयोनामकालोयंसर्वकार्यार्थसाधकः १ इसेक : एकादशोमुहूर्तोपिविजयःपरिकीर्त्तितः। तस्मिन्त्सर्वैविधातव्यायात्राविजयकाङ्क्षिभिः १ इसपरः उक्तद्वयान्यतरमुहूर्तेदशमीयुक्ते प्रस्थानङ्कार्यन वे कादशीयुक्ते आश्वयुक्शुक्लदशमीविजयाख्याखिलेशुभा। प्रयाणेतुविशेषेणकिम्पुनःश्रवणान्विता ? इतिज्योतिर्ग्रन्थोक्ते रन्यान्यपिकर्माणिमासविशेषनरपेक्षाण्यत्रचन्द्राग्रनुकूल्याभावेप्यनुष्ठेयानि मासविशेषेविहितानितुचूडाकर्मविष्ण्वादिदेवताप्रतिष्ठादीनिनकुर्यात् राज्ञाम्पट्टाभिषेकेनवमी-विद्धादशमीश्रवणयुतापिनग्राह्याकिंवौदर्दायक्येवग्राह्या आश्विनस्यशुक्लान्दशमी मेकादशीम्पूर्णमासींवारभ्यमुहूर्तावशिष्टायांरात्रौतीर्थादौगत्वा सहमा सपर्यन्तङ्कार्तिक स्नानं कार्यं तत्प्रकारः विष्णुस्मृत्वादेशकालौसङ्कीर्य नमःकमलनाभायनमस्तेजलशायिने। " कार्तिकस्नानम्. नमस्तेस्तुहृषीकेशगृहाणार्घ्यनमोस्तुते १ इस दवा कार्तिकेऽहङ्करिष्यामिप्रातःस्नान॑जनार्दन। मीसर्थतवदेवेशदामोदरमयासह १ ध्यात्वाह॑त्वाञ्चदेवेशजलेस्मिन्स्त्रातुमुद्यतः। तवमसादात्पा“मेदामोदरविनश्यतु २ इतिमन्त्राभ्यांस्त्रात्वा पुनरर्ध्यवर्दद्यात् तत्रमन्त्रौ नित्यनैमित्तिके कृष्णकार्तिकेपापनाशने। गृहाणार्घ्यम-यादत्तंराधयासहितोहरे १ वतिनः कार्तिकेमासिस्नातस्यविधिवन्मम। गृहाणार्घ्यमयादत्त॑राधयासहितोहरे २ कुरुक्षेत्रगङ्गापुष्करादितीर्थविशेषेणफर्लावशेषः अथान्यो-

पिविशेषः कार्तिकंसकलम्मार्सनित्यस्नायीजितेन्द्रियः। जपन्हविष्यभुग्दान्तः सर्वपापैःप्रमुच्यते १ स्मृत्वाभागीरथींविष्णुंशिवंसूर्यञ्जलेविशेत्। नाभिमात्रेजलेतिष्ठन्व्रती स्नायाद्यथाविधि २ इदङ्कार्तिकस्नानम्प्रातःस्नानम्प्रातःसन्ध्याञ्चकृत्वाकार्यं ताभ्यांवि नेतरकर्मानधिकारात् यद्यपिप्रातः सन्ध्यायाः सूर्योदयेसमाप्तिस्तथाप्यत्रवचनवलादुदयात्पूर्वसन्ध्यांसमाप्यकार्तिकस्नानङ्कार्यमितिनिर्णयसिन्धौउक्तं नवग्रन्थान्तरेदृश्यते एवम्मासस्त्रानाशक्तौत्र्यहंस्त्रायात्। अन्येषामपिकार्तिकमासवतानामत्रैवारम्भः तानियथा तुलसीदललक्षेणकार्तिकेयोर्चयेद्धरिम्। पत्रेपत्रेमुनिश्रेष्ठ मौक्तिकंलभतेफकार्तिकवतानि लम् १ तुलसीमञ्जरीभिर्हरिहरार्चनेमुक्तिः फलं रोपणपालनस्पशैः पापक्षयः तुलसीछायायांश्राद्धात्पितृतृप्तिः तुलसीशोभितगृहेतीर्थरूपेयमकिङ्करा नायान्तिइत्यादितुलसीमाहात्म्यम् एवन्धात्रीमाहात्म्यमपि कार्तिकेधात्रिवृक्षाघश्चि-तोषरम्। ब्राह्मणान् भोजयेदद्भक्त्या स्वयम्भुञ्जीतवन्धुभिः १ धात्री छायासु श्राद्धन्धात्रीपत्रैःफलैश्चहरिपूजनञ्चमहाफलं देवर्पिसर्वयज्ञतीर्थानान्धात्रीवृक्षेनिवासोक्तेः अत्रैवहरिजागरविधिः जागरङ्कार्तिकेमासियः कुर्यादरुणोदये। दामोदराग्रे सेनानीर्गोसहस्रफलंलभेत् १ शिवविष्णुगृहाभावेसर्वदेवालयेष्वपि। कुर्यादश्वत्थमूलेपुतुलसीनांवनेष्वपि २ विष्णुनामप्रवन्धानियोगायाद्विष्णुर्सान्निधौ। गोसहस्रप्रदानस्यफलमाप्नोतिमानवः ३ वाद्यकृत्पुरुषश्चापिवाजपेयफलंलभेत्। सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् ४ सर्वमेतल्लभेत्पुण्यन्तेषान्तुद्रव्यदः पुमान्। अर्चनादर्शनाद्वापितषडंशमवाप्नुयात् ५ इतिकौस्तुभे सर्वाभावेब्राह्मणानांविष्णुभक्तानांवाश्वत्थवटयोर्वासेवनकुर्यादितितत्रैव सरोरुहाणितुलसीमालतीमुनिपुष्पकम्। कार्तिकेविहितान्येवं दीपदानञ्चपञ्चमम् १ कार्तिकेमासोपवासोवानप्रस्थयतिविधवाभिःकार्यः गृहस्थैर्नकार्यः कृच्छ्रवाप्यतिकृच्छ्रवाप्राजापत्यमथापिवा। एकरात्रन्त्रतङ्कुर्यात्रिरात्रत्रतमेववा ? शाकाहारम्पयोहारम्फलाहारमथापित्रा। चरेद्यवान्नाहारंवासम्प्राप्ते कार्तिकेत्रती २ अथकातिकेवर्ज्यानि पलाण्डुलशुनहिङ्गुछत्राकगृअनमूलकालाबुशिशुवृन्ताककूष्माण्डबृहतीफलकलिङ्गकपित्थतैललवणशाकद्विपाचितानपर्युपितान्नदग्धान्नानिमाषमुद्गमसूरचणकार्तिकेवर्ज्यानि. ककुलित्थनिष्पावाढक्यादिद्दिदलानचवर्जयेत् सप्तम्यान्धात्रीफलं तिलाञ्चाष्टम्यां नारिकेरंरविवारे धात्रीफलंसर्वदावर्ज्यं कांस्यपात्रभोजनवर्जनवतेकांस्यपात्रङ्घृतपूर्णदद्यात् मधुत्यागेघृतपाय सशर्करादानंसमाप्तौकार्यं तैलत्यागेतिलदानं कार्तिकेमौनभोजीसतिलाङ्घण्टान्दद्यात् स्वर्णयुतानिमापयुतानित्रिंशत्कृष्माण्डान्यत्रमासेदद्यात् कार्तिकेकांस्यभोजीकृमिभुक् फलवर्जनेफलंरसत्यागेरसोधान्यत्यागेधान्यानिदेयानि सर्वत्रगोदानंवा एकतःसर्वदानानिदीपदानन्तथैकतः। कार्तिकेदीपदानस्पकलां नार्हन्तिषोडशीम् १ एतावद्वतासम्भवेचातुर्मास्यव्रतासम्भवेवाकार्तिकेकिं

चिद्रतमवश्यङ्कार्यम् अव्रतःकार्तिकोयेषाङ्गतोमूढधियामिह। तेषाम्पुण्यस्यलेशोऽपिनभवेत्सुकरात्मनाम् १ इत्युक्तेः शालग्रामादिदेवताग्रेस्वस्तिकमण्डलादिकंरङ्गवल्यादिनाकरोतिसास्वर्गादिफलम्भुक्त्वा सप्तजन्मसुवैधव्यन्नाप्नोति कार्तिकेपुराणेतिहासश्रवणारम्भसमाप्तीविहिते तत्प्रकारः ब्राह्मणवाचकङ्कुर्यान्नान्यवर्णजमादरात्। श्रावयेपुराणादिश्रवणम्. च्चतुरोवर्णान्कृत्वा ब्राह्मणमग्रतः १ विस्पष्टमदुतंशान्तंस्पष्टाक्षरपदं तथा। कलास्वरसमायुक्तंरसभावसमन्वितम् २ ब्राह्मणादिषुसर्वेषुग्रन्थार्थचार्पयेन्नृप। यएवंवाचयेद्राजन्सविप्रोव्यासउच्यते ३ समाप्तेषुपुराणेपुशक्तयातन्तर्पयेन्नृप। वाचकः पूजितोयेनप्रसन्नास्तस्यदेवताः ४ श्राद्धेयस्यद्विजोभुङ्गेवाचकःश्रद्धयान्वितः। भवन्ति पितरस्तस्पतृप्तावर्षशतन्नृप ५ इति कार्तिकस्नानकालेऽभिलाषाष्टकङ्काशीखण्डोक्तं त्रकामेनपठितव्यम् अत्रैवदुग्धव्रतंसमर्थ्यदुग्धदानङ्कृत्वाद्विदलवतंसङ्कल्पयेत् अत्रोत्पतौयेषान्दलद्वयन्दृश्यतेतेवर्जनीयाइत्येके अन्येत्वेवंलक्षणायांवचनाभावात्स्वरूपतो-येषां द्विदलन्दृश्यतेतेवर्ज्यानतु-अन्येनापिपत्रपुष्पादिकमित्याहुः एवमन्यान्यपिताम्बूलकेशकर्तनादिवर्जनरूपाणिवतानिज्ञेयानि अत्राकाशदीपउक्तः सूर्यास्तेगृहाददूरे पुरुषप्रमाणयज्ञियकाष्ठम्भूमौनिखन्यतस्यमूर्ध्निअष्टदलाद्याकृतिनिर्मितेदीपयन्त्रेमध्येमुख्यदीपंसआकाशदीपः मन्ततोष्टावितिसंस्थाप्यनिवेदयेत् दामोदरायनभसितुलायान्दोलयासह। प्रदीपन्तेप्रयच्छामिनमोऽनन्तायवेधसे १ इतिमन्त्रः एवम्मासमाकाशदीपदानान्महाश्रीमाप्तिः आश्विनपौर्णमास्याङ्कोजागरव्रतं सापूर्वत्रैवनिशीथव्याप्तौ पूर्वाउत्तरदिनेएव दिनद्वयेपिवानिशीथव्याप्तौदिनद्वयेनिशीथास्पर्शेवाउत्तरैव केचित्पूर्वदिनेनिशीथव्याकोजागरी. प्तिरेवपरदिनेप्रदोषव्याप्तिरेवतदापरेत्याहुः अत्रलक्ष्मीन्द्रयोः पूजनञ्जागरणमक्षक्रीडाचविहिता तत्रपद्मासनस्थांलक्ष्मीध्यात्वाक्षतपुञ्जेॐ लक्ष्म्यै नमइत्यावाहनादिषोडशोपचारैःसम्पूज्य नमस्तेसर्वदेवानांवरदासिहरिप्रिये। यागतिस्त्वत्प्रपन्नानांसामेभूयात्वदर्चनात् ? इतिपुष्पाञ्जलिन्दचान मेत् चतुर्दन्तसमारूढोवज्रपाणिःपुरन्दरः।शचीपतिश्चध्यातव्योनानाभरणभूषितः १ इतिध्यात्वाक्षतपु आदाविन्द्रायनमइतिसम्पूज्य विचित्रैरावतस्थायभाखत्कुलिशपाणये। पौलोम्यालिङ्गिताङ्गायसहस्त्राक्षायतेनमः १ इतिपुष्पा अलिन्दचानमेत् नारिकेलोदकम्पीत्वा अक्षक्रीडांसमारभेत्। निशीथेवरदालक्ष्मी कोजागततिभाषिणी १ तस्मै वित्तम्प्रयच्छामिअक्षैः क्रीडां करोतियः। नारिकेलान्पृथुकाञ्चेदेवभ्यः पितृभ्यः समर्प्यवन्धुभिः सहस्वयं भक्षयेत् अस्यामेवाश्वयुजीकर्माश्वलायनैः कार्यं तच्चपर्वद्वैधेपूर्वाहसन्धौशेषपर्वणिप्रकृतीष्टिङ्कृत्वा कार्यम् अपराह्नसन्धौविकृतिमिमाङ्कृत्वाप्रकृतेरन्वाधानं तत्प्रयोगोऽन्यत्रज्ञेयः अथाग्रयणकालः आश्विनकार्तिकयोःपौर्णमास्याममावास्यायांवाशुक्लपक्षगतकृत्तिकादिविशाखान्तनक्षत्रेषुशुक्लपक्षस्थरेवत्यांवाव्रीह्याग्रयणम् एवंश्रावणभाद्रप-

दयोरुक्तेषुपर्वसुनक्षत्रेषु श्यामाकाग्रयणं चैत्रवैशाखयोः पर्वादिषुयवाग्रयणं तत्र पौर्णमासीपर्वणिसङ्गवात्पूर्वसङ्घौपूर्वदिनेआग्रयणङ्कृत्वाप्रकृत्यन्वाधानम् मध्याह्णत्परत्रसन्धौसन्धिदिने-आग्रयणङ्कृत्वाप्रकृत्यन्वाधानम् मध्याह्नेसङ्गवादूर्ध्वमध्याहात्पूर्वत्रवासन्धौसन्धिदिनेआग्रयणेष्टिङ्कृत्वाप्रकृतीष्टिः सद्यः परदिनेवाकार्या दर्शेतुपूर्वाह्नेऽपराहेवा सन्धौयथाकालन्दशेष्टिङ्कृत्वाप्रतिपन्मध्येआग्रयणेष्टिःकार्या एवन्नक्षत्राग्रयणपक्षेपिपौर्णमासेष्टेःप्राकदर्शेष्टेःपरंयथाभवेत्तथा आग्रगणकार्यं तथाचदीपिका दर्शेट्याः परमुक्तमाग्रयणप्राक्पौर्णमासाचतदिति यद्यपिअथोपूर्वाहपर्वक्षयइत्युपक्रमात्पूर्वाहसन्धावेवायङ्क्रम-इतिहेमाद्रि-सिद्धान्तानुसारिदीपिकामतं तथापिसर्वावस्थेसन्धावित्थमेवक्रमअत्रपक्षेअथोपदञ्चार्थेयोज्यम् पूर्वातिकौस्तुभ-सिद्धान्तानुसार्यत्रत्यसिद्धान्तोज्ञेयः पर्वक्षयेचेत्यर्थः इत्थञ्चकृष्णपक्षेनभवतीतिसिद्धम् एतद्दीपिकाकारमतममावास्यापर्वण्याग्रयणविधानस्याखण्डदर्शेवैयर्थ्यापत्त्यानयुक्तमितिगृह्याग्निसागरोक्तिर्नसमीचीनाप्रति-विकृत्यन्तराणाङ्खण्डपर्वणिप्रकृत्युत्तरम्प्रतिपद्यनुष्ठानेपिपर्वानुग्रहसम्मतिवद्भाति खण्डदर्शेपिप्रतिपदिक्रियमाणाग्रयणस्यदर्शपर्वानुग्रहसम्मतिसम्भवात् खण्डदर्शदर्शपर्वविधानसार्थक्यसम्भवाचेतिदिक श्रावणादौश्यामाकाग्रयणं नकृतञ्चेच्छरदित्रीयाग्रयणेनसमानतत्रङ्कार्यं तत्रस्मार्तेव्रीह्याग्रयणंश्यामाकाग्रयणञ्चतत्रेण करिष्यइतिसङ्कल्प्येन्द्राग्निविश्वेदेवार्थमष्टोत्री हिमुष्टीन्निरूप्यशूर्पान्तरेश्यामाकान्सोमायनाम्नानिरूप्यपुनः प्रथमशूर्पेद्यावापृथिव्यर्थव्रीहिनिर्वापः एवंहोमेपिविश्वेदेवहोमात्परंसौम्यश्यामाकचरुं हुलाद्यावापृथिवीहोमः आश्विनपौर्णमास्यामपराह्णादिसन्धावाग्रयणेक्रियमाणे-आश्वयुजीकर्मणापिसमानतन्त्रताकार्या तथाचजीर्णवीहिचरुर्नववी हिचरुर्नवश्यामाकचरुश्चेतिस्थालीत्रयेचरुत्रयं-पूर्वाह्लादिसन्धौतुसन्धिदिनेमकृतियागोत्तरमाश्वयुजीपूर्वदिने सन्धिदिनेवाप्रकृतियागात्पूर्वमाग्रयणइतिकालैक्याभावान्नैकतव्रता श्यामाकचर्वसम्भवेश्यामाकतृणैः प्रस्तरङ्कृत्वानुवादुत्तरतआस्तीर्य तत्र चोनिधानन्तावतैश्यामाकाग्रयण-सिद्धिरितिवृत्तिकृन्नारायणः यवाग्रयणन्तुकृताकृतं व्रीह्याग्रयणस्यवसन्तपर्यन्तङ्गौणकालः यवाग्रयणस्थवर्षर्तुपर्यन्तम् अनापदगौणकालेकुर्वन्कालातिपत्तिप्रायश्चित्तपूर्वमाग्रयणकुर्यात् आपदिगौणकालेकुर्वन्मायश्चित्तन्नकुर्यात् गौणकालेप्यतिक्रान्तेवेश्वानरेष्टिम्प्रायश्चित्तङ्कृत्वातिक्रान्ताग्रयणङ्कुर्यात् स्मार्तेतु वैश्वानरदेवताकःस्थालीपाङ्कोग्रायः यएवाहिताग्नेः पुरोडाशास्तएवौपासनाग्निमतञ्चरवइत्युक्तेः प्रथमाग्रयणस्यारदत्ययेविभ्रष्टेष्टितद्देवताकस्थालीपाकंवा कृत्वाऽऽगामिमुख्यकालेप्रथमाग्रयणङ्कार्यं गौणकालेप्रथमाग्रयणन्नभवति अनारब्धानान्दर्शपूर्णमासाग्रयणादीनां-प्रायश्चित्तवि कल्पाद्विभ्रष्टेष्टिरपिविकल्पिताज्ञेया आग्रयणमकृत्वाकिमपिनवोत्पन्नंसस्यं-नभक्षणीयम् अकृताग्रपणोऽश्नीयान्नवान्न॑यदिवैनरः। वैश्वानरायकर्तव्यञ्चरुःपूर्णाहुतिस्तुवा १ यद्वा

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬