निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
आश्रयणानुकल्पाः— समिन्द्ररायेतिशतवारञ्जपेन्मनुम्। अथाग्रयणानुकल्पाः पृथगाग्रयणप्रयोगाशक्तौप्रकृतीष्टिसमानतन्त्राग्रयण-प्रयोगः तत्रपौर्णमासेष्ट्यासमानतन्त्रत्वे आदावाग्रयणप्रधानम्प-श्वात्माकृतप्रधानं दर्शष्ट्यकतत्रत्वेपूर्वदर्शेष्टिप्रधानयागः पश्चादाग्रयणम-धानयागः अन्यत्पूर्वोत्तराङ्गजातमाग्रयणविकृतिसंवन्ध्येवकार्यं विरोधे वैकृतन्तत्रमितिसिद्धान्तात् एतदसम्भवेनवश्यामाकव्रीहियत्रैः पुरोडाशङ्कृत्वादर्श पूर्णमासौकुर्यात् यद्रानवत्रीह्यादिभिरग्निहोत्रहोमङ्कुर्यात् अथवा नवान्नान्यग्निहोत्र्यागवाखादयित्वातस्याः पयसाग्निहोत्रञ्जुहुयात् यद्वानवान्नेनब्राह्मणान्भोजयेदितिसङ्क्षेपः इदं मलमासेनकार्यं गुर्वाद्यस्तेपिनकार्यमितिकेचित् जीर्णधान्यालाभेतुमलमासादौकार्यम् अस्यामेवपौर्णमास्याञ्ज्येष्ठापत्यनीराजनादि-कम्परविद्धायाङ्कार्यम् आश्विनकृष्ण समिन्द्ररायेतिशतवारं-जपेन्मनुं तीष्टिसमानतन्त्राग्रयणप्रयोगः चतुर्थीकरकचतुर्थीसाचन्द्रोदयव्यापिनीग्राह्या दिनद्वयेतद्व्यात्यादौसङ्कष्टचतुर्थीवन्त्रिर्णयः कृष्णाष्टम्यांराधाकुण्डेस्नानम्मथुरामण्डलवासिभिःकार्यं सारुणोदयव्यापिनी तदभावेसूर्योदयव्यापिनीग्राह्या आश्विनकृष्णद्वादशीगोवत्सद्वादशीसाप्रदोषव्यापिनी गावेत्सद्वादशी. ग्राह्या दिनद्वयेतदव्याप्तौपरा सायङ्कालाख्यगौणकालेसखात् उभयतव्या सौ पूर्वेतिबहवः परेतिकेचित् अत्रवत्सतुल्यवर्णासवत्साम्पयस्विनीङ्गांसम्पूज्यगोः पादेताम्रपात्रेणा यन्दयात् तत्रमन्त्रः क्षीरोदार्णवसम्भूतेसुरासुरनमस्कृते। सर्वदेवमये मातगृहाणार्घ्यं नमोस्तुते १ ततोमाषादिवटकान्गोग्रासार्थदत्त्वाप्रार्थयेत् सर्वदेवमये देविसर्वदेवैरलङ्कृते। मातर्ममाभिलषितंसफलङ्कुरुनन्दिनि १ तद्दिनेतैलपकंस्थालीपक्कङ्गोक्षीरङ्गोघृतङ्गोर्दधितक्रञ्चवर्जयेत् नक्तम्मापान्नभोजनम्भूशय्याब्रह्मचर्यचकार्यम् इमामेवद्वादशीमारभ्यपञ्जसुदिनेषुपूर्वरात्रेनीराजनविधिर्नारदेनोक्तः नीराजयेयुर्देवां-श्वविमान्गाश्चतुरङ्गमान्। ज्येष्ठान् श्रेष्ठाञ्जघन्यांश्चमातृमुख्याश्चयोषितः १ इसि त्रयोदश्यामपमृत्युनाशार्थयमायनिशामुखेबहिर्दीपोदेयः इमामेवत्रयोदशीमारभ्यगो त्रिरात्रत्रतमुक्तं तत्प्रयोगः कौस्तुभे आश्विन कृष्णचतुर्दश्यां चन्द्रोदयव्यापिन्यान्नरकनरकचतुर्दशी. भीरुभिस्तिलतैलेनाभ्यङ्गस्नान॑कार्यम् अत्रराज्यन्त्ययाममारभ्यारुणोदयावधिस्ततश्चन्द्रोदयावधिस्ततः सूर्योदयावधिरितिकाला येपूर्वपूर्वी जघन्यउत्तरोत्तरः श्रेष्ठः अतचन्द्रोदयोत्तरोमुख्यःकालःप्रातःकालोगौणः तत्रपूर्वदिनेएवचन्द्रोदयव्यासपूर्वा परत्रैवतव्याप्तौपरा अस्मिन्पक्षेतद्दिनेऽस्तमयादिकालेविहितमुल्कादा-नदीपदानादिकन्तत्कालेचतुर्दश्यभावेषिकार्यं दिनद्वयेचन्द्रोदयव्या सौपूर्वा दिनद्वये चन्द्रोदयाव्याप्तौपक्षत्रयंसम्भवति पूर्वत्रचन्द्रोदयोत्तरमुपःकालंसूर्योदयञ्चव्याप्यमवृत्ता चतुर्दशीपरत्रचन्द्रोदयात्पूर्वसमाप्ता यथात्रयोदशी घट्यः ५८ पलानि ५० चतुर्दशी ५७ अस्मिन्प्रथमपक्षेउषःकालैकदेशेचतुर्दशीयुक्तेऽभ्यङ्गस्तानकार्यम् अथपूर्वत्रसूर्यो-दयमात्रंव्याप्यप्रवृत्तापरत्रचन्द्रोदयात्पूर्वसमाप्ता अथवा सूर्योदयास्पर्शेनक्षयएवचतु-
र्दश्याः यथात्रयोदशी ५९ पलानि ५९ चतुर्दशी ५७ यथावा त्रयोदशी २ तद्दिने चतुर्दशी ५४ अत्रपक्षद्वयेपरत्रचन्द्रोदयेभ्यङ्गस्नानं चतुर्थयामादिजघन्यकालेचतुर्दशीव्याप्तिसत्वात् एतत्पक्षद्वयेकेचिदरुणोदया-त्पूर्वमपिचतुर्दशीमध्येएवस्त्रानङ्कार्यमितिवदन्ति अपरेत्वरुणोदयोत्तरञ्चन्द्रोदयादिकालेऽमावास्यादियुक्तेपिस्नानमितिवदन्ति यत्तुचतुर्दशीक्षयेपूर्वत्रत्रयोदश्याञ्चन्द्रोदयेस्नानमत्याहुस्तदयुक्तम् अत्राभ्यङ्गस्नानेविशेषः सीतालोष्ठसमायुक्त सकण्टकदलान्वित। हरपापमपामार्गभ्राम्यमाणः पुनः पुनः १ इतिमत्रेणलाङ्गलोदृतलोष्ठयुतापामार्गतुम्बी चक्रमर्दनशाखानांस्त्रानमध्ये त्रिवारम्भ्रामणकार्यम् अभ्यङ्गस्नानोत्तरन्तिलकादिकृत्वाकार्तिकस्नानकार्यम् उक्तका-लेषुस्नानासम्भवेसूर्योदयोत्तरङ्गौण कालेपियत्यादिभिरप्यवश्यमभ्यङ्गस्नानङ्कार्यं कातिकस्नानोत्तरंयमतर्पणं कार्यं तद्यथा यमायनमः यमन्तर्पयामीत्युत्त्कातिलमिश्रान् त्रीनअलीन्सव्येनापसव्येनवादेवतीर्थेनपितृतीर्थेनवा दक्षिणामुखोदयात् एवमग्रेपि यमतर्पणम्. धर्मराजाय॰ मृत्यवे॰ अन्तकाय॰ वैवस्वताय॰ कालाय॰ सर्वभूतक्षयाय॰ औदुम्बराय॰ दाय॰ नीलाय॰ परमेष्ठिने॰ वृकोदराय॰ चित्राय ० चित्रगुप्ताय॰ जीवत्पिटकस्तुय वैर्देवतीर्थेनसव्येनकुर्यात् ततःप्रदोषसमयेदीपानद-द्यान्मनोहरान्। देवालयेमठेवा पिप्राकारोद्यानवीथिषु १ गोवाजिहस्तिशालायामेवङ्घस्रत्रयेपिच।तुलासंस्थेसहस्रांशौमदोपेभूतदर्शयोः २ उल्काहस्तानराः कुर्युः पितृणाम्मार्गदर्शनम्। तत्रदानमन्त्रः अग्निदग्धाश्रयेजीवायेप्यदग्धाः कुलेमम। उज्ज्वलज्ज्योतिषादग्धास्तेयान्तुपरमाङ्गतिम् १ यमलोकम्परित्यज्यआगतायेमहालये। उज्ज्वलज्ज्योतिषावर्त्मप्रपश्यन्तुव्रजन्तुते २ अस्मा॑नक्तभोजनम्महाफलम् अथाश्विनामावा-'स्यायाम्मातरभ्यङ्गःप्रदोषेदीपदानलक्ष्मीपूजनादिविहितं तत्रसूर्योदयंव्याप्यास्तोत्त-रङ्घटिकाधिकरात्रिव्यापिनिदर्शेसतिनसन्देहः अत्रमातरभ्यङ्गदेवपूजादिकङ्कृत्वापरा-ह्णेपार्वणश्राद्धङ्कृत्वाप्रदोषसमयेदीपदानोल्काप्रदर्शनलक्ष्मीपूजनानिकृत्वाभोजनङ्कार्यलक्ष्मीपूजनादि. म् अत्रदर्शेबालवृद्धादिभिन्नैर्दिवानभोक्तव्यं रात्रौभोक्तव्यमितिव शेषोवाचनिकः तथाचपरदिनेएवदिनद्वयेवाप्रदोषव्याप्तौम्परा पूर्वत्रैवप्रदोषव्याप्तौलक्ष्मीपूजादौपूर्वा अभ्यङ्गस्नानादौपरा एवमुभयत्रप्रदोषव्यायभावेपि पुरुषार्थचन्ता-मणौतुपूर्वत्रैवव्याप्तिरितिपक्षेपरत्रयामत्रयाधिक-व्यापिदर्शेदर्शापेक्षया-प्रतिपवृद्धिसत्वे लक्ष्मीपूजादिकमपिपरत्रैवेत्युक्तम् एतन्मतेउभयत्रप्रदोपाव्याप्तिपक्षेपि-परत्रदर्शस्यसार्धयामत्रयाधिकव्यापित्वात्परैवयुक्तेतिभाति चतुर्दश्यादिदिनत्रयेपिदीपावलि-सञ्ज्ञके यत्रयत्राहिखातीनक्षत्रयोगस्तस्यतस्यप्राशस्त्यातिशयः अस्यामेवनिशीथोत्तरन्नगरस्त्री-भिःस्वगृहाङ्गणादलक्ष्मीनिःसारणकार्यम् इतिश्रीमदनन्तोपाध्यायसुनुकाशीनाथो-पाध्यायविरचितेधर्मसिन्धुसारेद्वितीयपरिच्छेदे आश्विनमासकृत्यनिर्णयोद्देशःसमाप्तः
अथकार्तिकमासः वृश्चिकसङ्क्रान्तौपूर्वाःषोडशनाड्यःपुण्याःशेषम्प्राग्वत् अथकार्तिकशुक्लप्रतिपत्कृत्यम् अत्राभङ्गआवश्यकः एवञ्चचतुर्दश्यादिदिनत्रयेभ्यङ्गाद्युत्सवस्याकरणेनरकादिदोषश्रवणात्करणेलक्ष्मीप्राप्त्यलक्ष्मीपरिहारादिफलश्रवणाच्चनित्यकाम्योभयरूपत्वम् अस्याम्प्रतिपदिवलिपूजादीपोत्सवोगोक्रीडनङ्गोवर्धनपूजामार्गपालीबन्धनंवष्टिकाकर्षणन्नववस्त्रादिधारणाद्युत्सवोद्यूतन्नारीकर्तृकनीराजनम्मङ्गलमालिकाचेत्येवमादीनिकृत्यानि तत्रयदिउदयंव्याप्यदशमुहूर्ताप्रतिपत्तदाचन्द्रदर्शनाभावाच्चन्द्रदर्शनप्रयुक्तद्वितीयावेधनिषेधाप्रवृत्तेःसर्वकार्याणिपरप्रतिपद्येवभवन्ति इष्टिनिर्णयप्रकरणेत्रिमुहूर्तद्वितीयाप्रवेशमात्रेणचन्द्रदर्शनमुक्तन्तत्सूक्ष्मदर्शनाभिप्रायम् अत्रतुस्थूलदर्शनमेवनिषेधप्रयोजकन्त-च्चपण्मुहूर्तद्वितीयाप्रवेशएवेतिनविरोधइतिभाति यदिनवमुहूर्तानास्तितदावलिपूजागोक्रीडागोवर्धनपूजामार्गपालीबन्धनवष्टिकाकर्षणानिपूर्वविद्धप्रतिपदिकार्याणि अभ्य-ङ्गनववस्त्रादिधारणद्यूतनारीकर्तृकनीराजनमङ्गलमालिकादीनिऔदयिकमुहूर्तव्यापिन्यामपिकार्याणि बलिपूजादेःकेनचिन्निमित्तेन पूर्वविद्धायामनुष्ठानासम्भवेपरविद्धायामनुष्ठानङ्कार्यन्नतुकर्मत्यागस्तिथ्यन्तरपरिग्रहोवा यथाबौधायनीयाद्यैःस्वस्वसूत्रोक्तानुष्ठानासम्भवेआपस्तम्बीयादिसूत्रोक्तानुष्ठानङ्कार्यं नतुकर्मलोपःशाखान्तरपरिग्रहोवातद्वदितिमाधवीयेस्पष्टं तत्रराजापञ्चवर्णरङ्गैर्बलिं द्विभुजमालिख्यअन्यजनाःशुक्लतण्डुलैर्विरच्यपूजयेयुः तत्रमन्त्रः बलिराजनमस्तुभ्यं विरोचनसुतप्रभो।
भविष्येन्द्रसुरारातेपूजेयम्प्रतिगृह्यताम् १ बलिमुद्दिश्ययत्किञ्चिद्दानकरणेऽक्षय्यंविष्णुप्रीतिकरन्तत् योयादृशेनभावेन तिष्ठत्यस्याम्मुनीश्वर। हर्षदैन्यादिरूपेणतस्यवर्षम्प्रयातिहि १ अस्यान्द्यूतङ्कर्त्तव्यम्प्रभाते सर्वमानवैः। तस्मिन्द्यूतेजयोयस्यतस्यसंवत्सरञ्जयः २ विशेषवच्चभोक्तव्यम्प्रशस्तैर्ब्राह्मणैःसह। वलिराज्येदीपदानात्सदालक्ष्मीःस्थिराभवेत् ३ दीपैनींराजनादत्रसैषा दीपावलीस्मृता। बलिराज्यंसमासाद्ययैर्नदीपावलीकृता ४ तेषाङ्गृहेकथन्दीपाःप्रज्वलिष्यन्तिकेशव। इत्यादि अत्रलक्ष्मीपूजाकुबेरपूजाचोक्ता लक्ष्मीर्यालोकपालानान्धेनुरूपेणसंस्थिता। घृतंवहतियज्ञार्थेममपापंव्यपोहतु १ अग्रतःसन्तुमेगावोगावोमेसन्तुपृष्ठतः।
गावोमेहृदयेसन्तुगवाम्मध्येवसाम्यहम् २ इतिमन्त्राभ्याङ्गवांसवत्सानाम्बलीवर्दानाञ्चपूजनंविभूषणञ्चकृत्वादोहनभारवहनादिकंवर्जयेत् अथ गोवर्धनपूजा मुख्यगोवर्धनसान्निध्येतस्यैवपूजा तदसान्निध्येगोमयेनान्नकूटेनवागोवर्धनङ्कृत्वातत्सहितगोपालपूजाकार्या तत्रश्रीकृष्णप्रीत्यर्थङ्गोवर्धनपूजनगोपालपूजना-त्मकम्महोत्सवङ्करिष्यइतिसङ्कल्प्य बलिराज्ञोद्वारपालोभवानद्यभवप्रभो। निजवाक्यार्थनार्थायसगोवर्थनगोपते १ इतिमन्त्रेणसगोवर्धनङ्गोपालमावाह्यस्थापयेत् ततो गोपालमूर्तेविश्वेशशक्रोत्सवविभेदक। गोवर्धनकृतच्छत्रपूजाम्मेहरगोपते १ गोवर्धनधराधा-
रगोकुलत्राणकारक। विष्णुबाहुकृतच्छायगवाङ्कोटिप्रदोभव २ इतिमन्त्राभ्यांश्रीगोपालगोवर्धनौषोडशोपचारैःपूजयेत् तत्रयथावैभवम्महानैवेद्योदेयः ततःतदङ्गत्वेनप्रत्यक्षधेनौमृद्धेनौवागोपूजाम्पूर्वोक्तमन्त्राभ्याङ्कृत्वाआगावोअग्मन्प्रैतेवदन्त्वितिऋग्भ्याङ्गृहसिद्धचरुहोमःकार्यः ब्राह्मणेभ्योन्नगवादिदानङ्गोभ्यस्तृणदानङ्गिरयेबलिदानञ्च ततोगोविप्रहोमाग्निगिरिप्रदक्षिणासहचरीभिर्गोभिर्युतैःकार्याअथापराह्णेमार्गपालीबन्धनं तत्रपूर्वस्यान्दिशिकुशकाशमयरज्जुविशेषंयथाचारङ्कृत्वोच्चस्तम्भेक्षेचबध्वा मार्गपालिनमस्तेस्तुसर्वलोकसुखप्रदे। विधेयैःपुत्रदाराद्यैःपुनरेहिव्रतस्यमे १ इतिनमस्कृत्यप्रार्थ्यतदधोमार्गेणगोगजादिसहिताःविप्रराजादयः सर्वेगच्छेयुः एवङ्काशादिमयींवष्टिकान्दृढाङ्कृत्वाएकतोराजपुत्राअन्यत्रहीनजातयोजयज्ञानार्थङ्कर्षयेयुः अत्रहीनजातिजयेराजजयः प्रातर्द्युतङ्कार्यमित्युक्तम् एवन्नारीभिर्नीराजनमपिप्रातरेवकार्यं रात्रौगीतवाद्याद्युत्सवःकार्यः नवैर्वस्त्रैश्चसम्पूज्याद्विजसम्बन्धिवान्धवाइति अथद्वितीया यमोयमुनयापूर्वम्भोजितःस्वगृहेस्वयम्।
अतोयमद्वितीया साप्रोक्तालोकेयुधिष्ठिर १ अस्यान्निजगृहेनभोक्तव्यंयत्नेनभगिनीहस्ताद्भोक्तव्यं तेनधनधान्यसुखलाभः वस्त्रालङ्करणैःसर्वाभगिन्यःपूज्याः स्वभगिन्यभावेमित्रादिभगिन्यःपूज्याः भगिन्याअपिभ्रातृपूजनेअवैधव्यम्भ्रातुश्चिरजीवनन्तदकरणे सप्तजन्मसुभ्रातृनाशः इयम्पूर्वेद्युरेवापराह्णव्याप्तौपूर्वा उभयत्रव्याप्त्यव्याप्त्यादिपक्षान्तरेपुपरैव अस्यांयमुनास्नानमपराह्णेचित्रगुप्तयमदूतसहितयमपूजनंयमायार्घ्यदानञ्चविहितं कार्तिकशुक्लषष्ठ्याम्भौमयुतायांवह्निंसमभ्यर्च्यतत्प्रीत्यर्थंविप्रभोजनङ्कार्यं कार्तिकशुक्लाष्टमीगोपाष्टमी अत्रगोपूजनगोप्रदक्षिणगवानुगमनैरिष्टकामावाप्तिः कार्तिकशुक्लनवम्याम्मथुराप्रदक्षिणोक्ता इयंयुगादिरपि अस्याम्पूर्वाह्णव्यापिन्यामपिण्डकंश्राद्धमुक्तम्
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा