निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अत्रविशेषोवैशाखप्रकरणेउक्तः एकादश्यादिदिनपञ्चकेभीष्मपञ्चकव्रतमुक्तं तच्चशुद्धैकादश्यामारभ्यचतुर्दश्यविद्धौदयिकपौर्णमास्यांसमापनीयं यदिशुद्धैकादश्यामारम्भेक्षयवशेनपौर्णमास्याम्पञ्चदिनात्मकव्रतसमाप्तिर्नघटतेतदाविद्धैकादश्यामप्यारम्भः शुद्धैकादश्यामारम्भेपिदिनवृद्धिवशेनपरविद्धपौर्णमास्यांसमापनेयदिषड्दिनापत्तिस्तदाचतुर्दशीविद्धपूर्णिमायामपिसमाप्तिःकार्या व्रतप्रयोगःकौस्तुभादौज्ञेयः कार्तिकमासेएकादश्यादिपर्वणिचन्द्रतारादिवलान्वितेशिवविष्णुमन्त्रग्रहणादिरूपादीक्षाकर्तव्या
कार्तिकेतुकृतादीक्षानृणाञ्जन्मवमोचनीतिनारदोक्तेः तथात्रतुलसीकाष्ठमालाधारणमुक्तं स्कान्दद्वारकामाहात्म्येविष्णुधर्मेच निवेद्यकेशवेमालान्तुलसीकाष्ठसम्भवाम्। वहतेयोनरोभत्तयातस्यनैवास्ति पातकम् १ तुलसीकाष्ठसम्भूतेमालेकृष्णजनप्रिये। विभर्मित्वामहङ्कण्ठे कुरुमाङ्कृष्णवल्लभम् २ एवंसम्प्रार्थ्यविधिवन्मालाङ्कृष्णगलेर्पिताम्। धारयेत्कार्तिकेयोवै
सगच्छेद्वैष्णवम्पदम् ३ इतिनिर्णयसिन्धौस्पष्टं यत्तुतत्रैवमालाधारणप्रकरणान्तेसर्वपुस्तकेष्वदृश्यमानमपि अत्रमूलञ्चिन्त्यमितिवाक्यं क्वचिन्निर्णयसिन्धुपुस्तकेदृश्यते तस्यमालाधारणविधिवाक्यानान्नाप्रामाणिकत्वेतात्पर्यं स्वयमेवस्कन्दपुराणस्थविष्णुधर्मस्थत्वेनोक्तानांस्वयमेवाप्रामाणिकत्वोक्तौव्याघातप्रसङ्गात् तुलसीकाष्ठघटितैरुद्राक्षाकारकारितैः। निर्मिताम्मालिकाङ्कण्ठेनिधायार्चनमारभेत् १ तुलसीकाष्ठमालाया भूषितःकर्मआचरन्। पितृृणान्देवतानाञ्चकृतङ्कोटिगुणम्भवेत् २ इतिपद्मपुराणेपातालखण्डेनवसप्ततितमाध्यायेप्रत्यक्षोपलभ्यमानवचनविरोधाच्च किन्त्वाषाढमासप्रकरणे आषाढशुद्धद्वादश्यामनुराधायोगरहितायाम्पारणङ्कार्यमित्युक्त्वातत्रप्रमाणत्वेनाभाकासितपक्षेषुमैत्राद्यपादेस्वपितीहविष्णुरित्यादीनिभविष्यस्थवष्णुधर्मस्थानिवाक्यानिलिखित्वायथान्तेइदन्निर्मूलमित्युक्तम्एवम्प्रकरणान्तरेपि तस्यचमाधवादिमूलग्रन्थेषु नोपलभ्यतेइत्येवतत्परिभाषातात्पर्यं नत्वप्रामाणिकत्वे तथात्वेभाद्रकार्तिकयोस्तद्वाक्यानुसारेणपारणनिर्णयलेखनासाङ्गत्यप्रसङ्गात् कौस्तुभादिसर्वनवीनग्रन्थेषुतद्वाक्यानुसारेणैवनिर्णयस्यासङ्गत्यापाताच्च सर्वशिष्टानान्तदनुसारेणैवपारणाचरणस्याप्यप्रमाणत्वापत्तेश्च तद्वदत्रापिज्ञेयम् एतेनमाधवादिष्वनुपलम्भादेवाप्रामाण्यापत्तिरिति निरस्तम् बहूनाम्माधवाद्यलिखितानांवाक्यानामाचाराणाञ्चाप्रामाण्यापत्तेः यत्रतु यानियत्तुइत्येवमादिरूपेणयत्पदोपक्रममनूद्यतानिनिर्मूलानीत्येवमादिरीत्यादूष्यन्ते यथाश्रवणद्वादशीप्रकरणेश्रवणस्योत्तरापाढावेधनिषेधकवाक्यानितत्रतेषामप्रमाणत्वे एवसर्वथातात्पर्यमितिसूक्ष्मबुद्धयोविदाङ्कुर्वन्तु ननुमाधवादिग्रन्थेष्वनुपलम्भान्ननिर्मूलत्वमुच्यतेकिन्तुकाष्ठमालाधारणनिषेधवाक्यानाम्बाधकानामुपलम्भादितिचेत् किन्तानिवाक्यानिसामान्यतःकाष्ठमालाधारणनिषेधकानिदृश्यन्ते विशेषतस्तुलसीकाष्ठमालानिषेधकानिवा आद्येसामान्यतःकाष्ठमालानिषेधकवाक्यानांविशेषरूपैस्तुलसीधात्रीकाष्ठमालाधारणविधिवाक्यैर्वाधःस्पष्टः द्वितीयेषोडशीग्रहणाग्रहणवद्विहितप्रतिषिद्धत्वेनविकल्पमवगच्छ सचविकल्पोवैष्णवावैष्णवविषयतयाव्यवस्थितोभविष्यति मूलवाक्येषुविष्ण्वादिपदश्रवणादितिननिर्मूलत्वसम्भवः अतएवैतद्वाक्यानाम्माधवाद्यनुल्लेखस्याशयोहरिवासरलक्षणवाक्येपुरुषार्थचिन्तामणौवैष्णवानामेवावश्यकत्वादेतदनुपन्यासेपिमाधवादीनान्नन्यूनतेत्युक्तयारीत्योहितुंशक्यः एवन्धात्रीकाष्ठमालाधारणविधिर्ज्ञेयः रामार्चनचन्द्रिकादौतुलसीकाष्ठमालयाजपविधिवाक्यानि तुलसीकाष्ठघटितैर्मणिभिर्जपमालिकेत्यादीनिस्पष्टानि एवङ्ग्रन्थान्तरेषुबहूनिवाक्यान्युपलभ्यन्ते तथाचप्रयोगपारिजाताह्निकेपूजाप्रकरणेउक्तम् आदौदेवपूजासाधनमग्रोदकगन्धपुष्पाक्षतादिकंसम्भृत्यपादौपाणीप्रक्षाल्ययथाशक्तिधृतदुकूलादिशुद्धवस्त्रोभूषणभूषितोमुक्ताफलप्रवालपद्माक्षतुलसीमणिनिर्मितमालाःकण्ठेधृत्वाइतिसर्वदेशीयवैष्णवेषुतुलसी-
काष्ठमालाधारणजपाचारश्चोपलभ्यतेभस्मादिधारणद्वेषिवैष्णवस्पर्धयाशैवागमाग्राहिभिः केवलन्द्विष्यतइत्यलम्बहुनेतिदिक् अथधात्रीमूलेदेवपूजाविधिः सर्वपापक्षयद्वारा श्रीदामोदरप्रीत्यर्थन्धात्रीमूलेश्रीदामोदरपूजाङ्करिष्ये पुरुषसूक्तेनषोडशोपचारैःसम्पूज्यगन्धपुष्पफलयुतमर्घ्यन्दद्यात् अर्घ्यङ्गृहाणभगवन्सर्वकामप्रदोभव। अक्षयासन्ततिर्मेस्तुदामोदरनमोस्तुते १ ततोपराधसहस्राणीतिप्रार्थ्यधात्रीङ्कुङ्कुमगन्धादिनाभ्यर्च्यपुष्पैःपूजयेत् धात्र्यैनमः शान्त्यैन॰ मेधायै॰ प्रकृत्यै॰ विष्णुपत्न्यै॰ महालक्ष्म्यै॰ रमायै॰ कमलायै॰ इन्दिरायै॰ लोकमात्रे॰ कल्याण्यै॰ कमनीयायै॰ सावित्र्यै॰ जगद्धात्र्यै॰ गायत्र्यै॰ सुधृत्यै॰ अव्यक्तायै॰ विश्वरूपायै॰ सुरूपायै॰ अब्धिभवायै॰ ततोधात्रीमूलेसव्येनतर्पणङ्कार्यम् पितापितामहश्चान्येअपुत्रायेचगोत्रिणः। तेपिबन्तुमयादत्तन्धात्रीमूलेऽक्षयम्पयः १ आब्रह्मस्तम्बपर्यन्तं॰। दामोदरनिवासायैधात्र्यैदेव्यैनमोस्तुते। सूत्रेणानेनबध्नामिसर्वदेवनिवासिनीम् १ इतिसूत्रेण वेष्टयेत् धात्र्यैनमइतिचतुर्दिक्षुबलीन्दत्त्वाऽष्टदीपान्दद्यात् अष्टकृत्वःप्रदक्षिणीकृत्यनमेत् धात्रीदेविनस्तुभ्यंसर्वपापक्षयङ्करि। पुत्रान्देहिमहाप्राज्ञेयशोदेहिबलञ्चमे १ प्रज्ञाम्मेधां चसौभाग्यंविष्णुभक्तिञ्चशाश्वतीम्। नीरोगङ्कुरुमान्नित्यन्निष्पापङ्कुरुसर्वदा २ ततोघृतपूर्णंसहेमकांस्यपात्रन्दद्यादितिसङ्क्षेपः कार्तिकशुक्लद्वादश्यांरेवतीयोगरहितायाम्पारणम् अपरिहार्ययोगेचतुर्थपादोवर्ज्यइत्यादिविशेषःश्रवणनिर्णयप्रकरणोक्तोद्रष्टव्यः
अथप्रबोधोत्सवतुलसीविवाहौ तत्रप्रबोधत्सवःकार्तिकशुक्लैकादश्याङ्क्वचिदुक्तः रामार्चनचन्द्रिकादौद्वादश्यामुक्तः उत्थापनमन्त्रेद्वादशीग्रहणात्द्वदश्यामेवयुक्तः तत्रापिद्वादश्यांरेवत्यन्त्यपादयोगोरात्रिप्रथमभागेप्रशस्तः तदभावेतत्रैवरात्रौरेवतीनक्षत्रमात्रयोगोपि तदभावेरात्रिप्रथमभागेकेवलद्वादश्यपि एवङ्केवलरेवत्यपि द्वादशीरेवत्योरुभयोरपिरात्रावभावेदिवैवद्वादशीमध्येकार्यइतिकौस्तुभे स्थितं तथापिपारणाहेपूर्वरात्रौइतिवचनात्पारणाहेरात्रिपूर्वभागेद्वादश्यभावेपित्रयोदश्यामेवपारणाहेप्रबोधोत्सवइतिदेशाचारः एवन्तुलसीविवाहस्यनवम्यादिदिनत्रये एकादश्यादिपूर्णिमान्तेयत्रक्वापिदिने कार्तिकशुक्लान्तर्गतविवाहनक्षत्रेषुवाविधानादनेककालत्वन्तथापिपारणाहेप्रबोधोत्सवकर्मणासहतन्त्रतयैवसर्वत्रानुष्ठीयतेइतिसोपिपारणाहेपूर्वरात्रेकार्यः प्रबोधोत्सवात्पृथक्चिकीर्षायाङ्कालान्तरेवाकार्यःतत्रपुण्याहवाचननान्दीश्राद्धविवाहहोमाद्यङ्गसहितस्तुलसीविवाहप्रयोगःकौस्तुभादौज्ञेयः सङ्क्षेपतस्तु प्रबोधोत्सवेनैकतन्त्रतयाशिष्टाचारमनुसृत्यलिख्यते देशकालौसङ्कीर्त्यश्रीदामोदरप्री-
त्यर्थम्प्रबोधोत्सवंसङ्क्षेपतस्तुलसीविवाहविधिञ्चतन्त्रेणकरिष्ये तदङ्गतयापुरुषसूक्तेनविधिनाषोडशोपचारैस्तत्रेणश्रीमहाविष्णुपूजान्तुलसीपूजाञ्चकरिष्ये न्यासादिविधाय श्रीविष्णुन्तुलसीञ्चध्यावासहस्रशीर्षेतिश्रीमहाविष्णुन्तुलसीञ्चावाह्य पुरुषएवेत्यादिभिः श्रीमहाविष्णवेदामोदरायश्रीदेव्यैतुलस्यैचनमआसनमित्यादिस्नानान्ते मङ्गलवाद्यैः सुगन्धितैलहरिद्राभ्यान्नागवल्लीदलगृहीताभ्याम्उष्णोदकेनचमङ्गलस्नानंविष्णवेतुलस्यैच सुवासिनीभिःकारयित्वास्वयंवादत्त्वापञ्चामृतस्नानंसमर्प्यशुद्धोदकेनाभिषिच्यवस्त्रयज्ञोपवीतचन्दनन्दत्त्वातुलस्यैहरिद्राकुङ्कुमकण्ठसूत्रमङ्गलालङ्कारान्दत्त्वामत्रपुष्पान्तपूजांसमाप्यघण्टादिवाद्यघोषेणदेवम्प्रवाधयेत् तत्रमन्त्राः इदंविष्णु ० योजागारेतितुआचारप्राप्तः ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्यसोमादिभिर्वन्दितवन्दनीय। बुध्यस्वदेवेशजगन्निवासमन्त्रप्रभावेनसुखेनदेव १ इयञ्चद्वादशीदेवप्रवोधार्थन्तुनिर्मिता। त्वयैवसर्वलोकानां हितार्थंशेषशायिना २ उत्तिष्ठोत्तिष्ठगोविन्दत्यजनिद्राञ्जगत्पते। त्रयिसुप्तेजगत्सुप्तमुत्थितेचोत्थितञ्जगत् ३ एवमुत्थाप्य चरणम्पवित्रं॰ १ गतामेघावियच्चैवनिर्मलन्निर्मलादिशः। शारदानिचपुष्पाणिगृहाणममकेशव १ इत्यादिमन्त्राभ्याम्पुष्पाञ्जलिन्दद्यात् अथाचारात्तुलसीसम्मुखांश्रीकृष्णप्रतिमाङ्कृत्वामध्येन्तःपटन्धृत्वामङ्गलाष्टकपद्यानिपठित्वाअन्तःपटंविसृज्याक्षताप्रक्षेपङ्कृत्वादामोदरहस्तेतुलसीदानङ्कुर्यात् देवीङ्कनकसम्पन्नाङ्कनकाभरणैर्युताम्। दास्यामिविष्णवेतुभ्यम्ब्रह्मलोकजिगीषया १ मयासंवर्धितांयथाशक्त्यलङ्कृतामिमान्तुलसीन्देवीन्दामोदरायश्रीधरायवरायतुभ्यमहंसम्प्रददे देवपुरतःसाक्षतजलङ्क्षिपेत् श्रीमहाविष्णुःप्रीयतामित्युक्त्काइमान्देवीम्प्रतिगृह्णातुभवान्इतिवदेत् ततोदेवहस्तस्पर्शन्तुलस्याःकृत्वा कइदङ्कस्माअदात्कामःकामायादात्कामोदाताकामःप्रतिग्रहीताकामंसमुद्रमाविशकामेनत्वाप्रतिगृह्णामिकामैतत्तेवृष्टिरसिद्यौस्त्वाददातुपृथिवीप्र तिगृह्णातुिइतिमन्त्रमन्येनवाचयेत् यजमानः त्वन्देविमेग्रतोभूयास्तुलसीदेविपार्श्वतः। देवित्वम्पृष्ठतोभूयास्त्वद्दानान्मोक्षमाप्नुयाम् १ दानस्यप्रतिष्ठासिद्ध्यर्थमिमान्दक्षिणांसम्प्रददेदेवपुरतोदक्षिणामर्पयेत् ततः स्वस्तिनोमिमीतां शन्नइत्यादिस्वस्वशाखोक्तानिशान्तिसूक्तानिविष्णुसूक्तानिचपठेयुः तुलसीयुनायविष्णवेमहानीराजनङ्कृत्वामन्त्रपुष्पन्दत्त्वासपत्नीकःसगोत्रजःसामात्योयजमानश्चतस्रःप्रदक्षिणाःकुर्वीत ब्राह्मणेभ्योदक्षिणान्दत्त्वायथाशक्तिब्राह्मणभोजनंसङ्कल्प्यकर्मेश्वरार्पणङ्कुर्यात् एवन्देवं प्रवोध्यकार्तिकेयद्यद्द्रव्यस्यवर्जनङ्कृतन्तत्तद्द्रव्यमुक्तरीत्याद्रव्यान्तरञ्चब्राह्मणेभ्योदत्त्वाव्रतसम्पूर्णताम्प्रार्थयेत् इदंव्रतम्मयादेवकृतम्प्रीत्यैतवप्रभो।
न्यूनंसम्पूर्णतांयातुत्वत्प्रसादाज्जनार्दन १ इति ततोव्रतम्भगवदर्पणङ्कुर्यात् चातुर्मास्यव्रतसमाप्तिरप्यत्रैवेतिकेचित् कार्तिक्रमासव्रतोद्यापनञ्चातुर्मास्यव्रतोद्यापनञ्चचतुर्दश्याम्पूर्णिमायावेत्यपरे अथवैकुण्ठचतुर्दशी पूर्वेद्युरुपवासङ्कृत्वारुणोदयव्यापिन्याञ्चतुर्दश्यांशिवंसम्पूज्यप्रातः
पारणङ्कार्यं तथाचचतुर्दशीयुक्तारुणोदयवतिअहोरात्रेउपवासःफलितः उभयत्रारुणोदयव्याप्तौपरत्रारुणोदयेपूजापूर्वत्रोपवासः उभयत्राव्याप्तौचतुर्दशीयुक्ताहोरात्रेएवारुणोदयेपूजापूर्वत्रोपवासश्च केचित्तुविष्णुपूजायामियन्निशीथव्यापिनीग्राह्या दिनद्वयेतद्व्याप्तौनिशीथप्रदोषोभयव्यापिनीग्राह्येत्याहुः अस्यामेवचतुर्दश्याम्परविद्धायाङ्कार्तिकमासव्रतोद्यापनाङ्गत्वेनोपवासङ्कृत्वाधिवासनंविधाय रात्रौजागरणङ्कुर्याद्गीतवाद्यादिमङ्गलैः। नराणाञ्जागरेविष्णोर्गीतन्नृत्यञ्चकुर्वताम् १ गोसहस्रञ्चददताम्फलंसममुदाहृतम्। इत्यादिवाक्यैर्विहितङ्गीतनृत्यवाद्यविष्णुचरितपठनस्वेच्छालापलीलानुकारैर्हरिजागरङ्कृत्वापरविद्धपौर्णमास्यांसपत्नीकाचार्यंवृत्वाअतोदेवेतिद्वाभ्यान्तिलपायसंहुत्वागोदानङ्कार्यमितिमासव्रतोद्यापनं कार्तिकशुक्लद्वादशीपौर्णमासीचमन्वादिः सापौर्वाह्णिकीग्राह्या अन्यत्पूर्वमुक्तम् अस्याञ्चातुर्मास्यव्रतसमाप्तिः तत्रचातुर्मास्यव्रतानांसमाप्तौदानानि नक्तव्रतेवस्त्रयुग्मम् एकान्तरोपवासेगौः भूशयने शय्या षष्ठकालभोजनेगौः व्रीहिगोधूमादिधान्यत्यागेसौवर्णव्रीहिगोधूमादिदानं कृच्छ्रव्रतेगोयुग्मं शाकाहारेगौः पयोमात्रभक्षणेपयोवर्जनेचगौः मधुदधिघृतवर्जनेवस्त्रङ्गौश्च ब्रह्मचर्येस्वर्णं ताम्बूलवर्जनेवस्त्रयुग्मम् मौनेघण्टाघृतकुम्भोवस्त्रद्वयञ्च रङ्गवल्लीकरणेगौःसुवर्णपद्मञ्च दीपदानव्रतेदीपिकावस्त्रद्वयञ्च भूमिभोजनेकांस्यपात्रङ्गौश्च गोग्रासेगोवृषौ प्रदक्षिणाशतेवस्त्रम् अभ्यङ्गवर्जनेतैलपूर्णघटः नखकेशधारणेमधुसर्पिर्हेमदानं यत्रविशेषतोदानन्नोक्तन्तत्रस्वर्णङ्गौश्च गुडवर्जनेगुडपूर्णंससुवर्णन्ताम्रपात्रम् एवंलवणवर्जनेलवणपूर्णन्ताम्रपात्रमितिक्वचित्
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा