🕉️ 24 November 2026, Tuesday · 08:08:52 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 18/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

लक्षपूजाफलादि

अस्यामेवलक्षप्रदक्षिणालक्षनमस्काराणामापाढ्यादावारब्धानामुद्यापनङ्कार्यम् एवन्तुलसीलक्षपूजां कार्तिकमाघवारभ्यप्रत्यहंसहस्रतुलसीसमर्पणेनलक्षसमाप्यमाच्यांवैशाख्यांवोद्यापन कार्यम् एवम्पुष्पादिलक्षपूजाअपि तत्रबिल्वपत्रलक्षेणलक्ष्मीप्राप्तिः फलं दूर्वालक्षेणारिष्टशान्तिः चम्पकलक्षेणायुष्यम् अतसीलक्षेणविद्या तुलसीलक्षेणविष्णुप्रसादः गोधूमतण्डुलादिप्रशस्तधान्यलक्षेणदुःखनाशः एवंसर्वपुष्पैःसर्वकामावाप्तिः एवंलक्षवत्तिंव्रतमपिमासत्रयकृत्वाकार्तिकेमाघेवैशाखेवाउत्तरोत्तरमशस्तेसमापनीयम् एवन्धारणपारणव्रतोद्यापनमपिपौर्णमास्यामेव कार्तिकमासव्रतानाम्मासोपवासादीनान्द्वादश्यामेवसमापनं तत्रासम्भवेपौर्णमास्याम् एवङ्गोपद्मव्रतमाषाढशुक्लैकादश्यादावारभ्यप्रत्यहन्त्रयस्त्रिंशद्गोपद्मानिविलिख्यगन्धपुष्पैःप्रपूज्यतावत्सख्याकार्घ्यनमस्कारप्रदक्षिणाःकृत्वाकार्तिकद्वादश्यान्त्रयस्त्रिंशदपूपवायनन्दद्यादेवंवत्सरपञ्चकमनुष्ठायोद्यापनङ्कुर्यात् लक्षप्रदक्षिणादिगोपद्मपर्यन्तोद्यापनानामितिकर्तव्यताःकौस्तुभे

कालाष्टमी

द्रष्टव्याः कार्तिकपौर्णमास्याःकृत्तिकानक्षत्रयोगेमहापुण्यत्वं रोहिणीयोगेमहाकार्तिकीत्वं कार्तिक्याङ्कृत्तिकायोगेयःकार्तिकेयदर्शनङ्करोतिससप्तसुजन्मसुधनाढ्योवेदपारगोविप्रोभवेत् विशाखास्थेसूर्येसतियद्दिनेचन्द्रनक्षत्रङ्कृत्तिकातत्रपद्मकयोगः अयं पुष्करतीर्थेऽतिप्रशस्तः अस्यामेवत्रिपुराख्यदीपदानमुक्तम् कार्तिकेपौर्णमास्याङ्काम्यवृषोत्सर्गोऽतिप्रशस्तः एवङ्गजाश्वरथघृतधेन्वादिमहादानमपिप्रशस्तं वृषोत्सर्गस्याश्विनीपौर्णमासीग्रहणद्वयमयनद्वयंविषुवद्वयञ्चेतिकालान्तराणि अन्यत्रमाघीचैत्री वैशाखीफाल्गुन्याषाढीचेतिपौर्णमास्योरेवतीनक्षत्रंवैधृतिव्यतीपातौयुगादिमन्वादिसूर्यसङ्क्रान्तिपितृक्षयाहाष्टकाअपिकालाउक्ताः अत्रवृषोत्सर्गप्रयोगोतिविस्तृतोनानाशाखाभेदभिन्नःकौस्तुभेद्रष्टव्यः कार्तिककृष्णाष्टमीकालाष्टमी इयम्पूर्णिमान्तमासपक्षेमार्गशीर्षेकृष्णाष्टमीत्युच्यते सेयम्मध्याह्नव्यापिनीग्राह्या दिनद्वयेमध्याह्नव्याप्तौपूर्वैवेतिसिन्धौस्थितम् प्रदोषव्यापिनीतिकौस्तुभे उभयदिनेप्रदोषव्याप्तौतदेकदेशस्पर्शेवापरैव यदापूर्वत्रप्रदोषव्याप्तिरेवपरत्रमध्याह्नव्याप्तिरेवतदाबहुशिष्टाचारानुरोधात्मदोषव्याप्यैवनिर्णयोनमध्याह्नव्याप्येतिभाति अत्रकालभैरवपूजाङ्कृत्वात्रयोऽर्ध्यादेयाः उपवासोजागरश्चकार्यः इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेकार्तिकमासकृत्यनिर्णयोद्देशःसमाप्तः॥

अष्टकादिश्राद्धानि

11. मार्गशीर्षमासः

अथमार्गशीर्षमासः धनुःसङ्क्रान्तौपराःषोडशनाड्यःपुण्याः अन्यत्प्रागुक्तम् मार्गशीर्षशुक्लपञ्चम्यान्नागपूजादाक्षिणात्यानाम्प्रसिद्धा इयंषष्ठीयुताग्राह्येत्यादिविशेषःप्रथमपरिच्छेदेउक्तः मार्गशीर्षशुक्लषष्ठीचम्पाषष्ठीमहाराष्ट्रेषुप्रसिद्धा अत्रतिथिद्वैधेयस्मिन्दिनेरविवारभौमवारशततारकावैधृतीनाम्मध्येधिकैर्योगःसापूर्वापरावामुहूर्तत्रयध्यापिनीग्राह्या दिनद्वयेपियोगाभावेपरैवत्रिमुहूर्ताग्राह्या इयमेवस्कन्दषष्ठीसापूर्वाग्राह्या अथसप्तम्यांसूर्यव्रतन्तद्विधिःकौस्तुभे मृगयुतायाम्पौर्णमास्यांलवणदानेसुन्दररूपता मार्गशीर्षपौर्णमास्यान्दत्तात्रेयोत्पत्तिः इयम्प्रदोषव्यापिनीग्राह्या मार्गशीर्षशुक्लचतुर्दश्याम्पौर्णमास्यांवाप्रदोषेआश्वलायनैःप्रत्यवरोहणङ्कार्यं तत्रकर्मकालव्यापिनीतिथिः तत्प्रयोगःप्रयोगरत्नकौस्तुभादौज्ञेयः मार्गशीर्षादिमासचतुष्टयस्यकृष्णाष्टमीष्वष्टकाश्राद्धानि तत्पूर्वसप्तमीषुपूर्वेद्युःश्राद्धानि तदुत्तरनवमीषुचान्वष्टक्यश्राद्धानि कर्तव्यानि एवम्भाद्रकृष्णपक्षेपिअष्टकादिश्राद्धानिकार्याणीतिपञ्चाष्टकापक्षआश्वलायनभिन्नशाखिनाम् आश्वलायनानान्तुमार्गादिचतुरष्टकापक्षएव भाद्रपदकृष्णाष्टम्यां तुमाध्यावर्षश्राद्धङ्करिष्ये इतिसङ्कल्प्यसर्वमष्टकाश्राद्धवत्कार्यं सप्तम्यान्तुमाघ्यावर्षश्राद्धङ्कर्तुम्पूर्वेद्युःश्राद्धङ्करिष्यइतिसङ्कल्पः नवम्यामन्वष्टकाश्राद्धङ्करिष्यइतिसङ्कल्प-

रविवारेषुसौरव्रतम्

इतिविशेषः एवम्भाद्रकृष्णाष्टमीश्राद्धस्यमाघ्यावर्षसञ्ज्ञकत्वादाश्वलायनानाञ्चतुरष्टका पक्षः अन्यशाखिनाम्पौषादित्र्यष्टकापक्षोपि एवंसर्वाअष्टकाःकर्तुमशक्तेनएकैवाष्टका कार्या साचमाघपौर्णमास्यनन्तरकृष्णपक्षस्यसप्तम्यामष्टम्यान्नवम्यामितिदिनत्रयेकार्या दिनत्रयेश्राद्धत्रयङ्कर्तुमशक्तेनमाघकृष्णेष्टमीश्राद्धमेवकार्यं तत्राष्टकाश्राद्धेऽपराह्णाव्या पिन्यष्टमीग्राह्या दिनद्वयेव्याप्त्यव्याप्त्यादौदर्शवन्निर्णयः अष्टम्यनुरोधेनपूर्वपरदिनयोःपूर्वेद्युःश्राद्धान्वष्टक्यश्राद्धेकार्ये नतुसप्तम्यादेरपराह्णव्याप्तिरपेक्षणीया एकदिनेप्यशक्तस्यप्रत्याम्नायाः अनडुहोयवसमाहरेत्अग्निनावाकक्षन्दहेदपिवानूचानेभ्यउदकुम्भमाहरेदपिवाश्राद्धमन्त्रानधीयीतेति क्वचिदुपवासोप्युक्तः एवंश्रवणाकर्मादिपाकसंस्थालोपेप्रतिपाकयज्ञम्प्राजापत्यकृच्छ्रम्प्रायश्चित्तमुक्तम् मलमासेष्टकाश्राद्धानिनकार्याणीतिनारायणवृत्तिः अष्टकादिश्राद्धत्रयप्रयोगःकौस्तुभप्रयोगरत्नादौ अत्राष्टमीश्राद्धेकामकालसञ्ज्ञकौविश्वेदेवौ सप्तमीनवम्योस्तुपुरूरवार्द्रवाविति आहिताग्नेःपूर्वेद्युः श्राद्धाङ्गहोमोष्टकाङ्गहोमोन्वष्टकाग्नौकरणहोमोदिनत्रयेहविःश्रपणञ्चदक्षिणाग्नौभवतीतिविशेषः शेषमनाहिताग्निवत् अष्टकालोपेप्राजापत्यमुपवासोवाप्रायश्चित्तम् अन्वष्टक्यलोपेतद्दिनेशतवारमेभिर्द्युभिःसुमनाइतिमन्त्रजपः मार्गशीर्षादिरविवारेषुकाम्यंसौरव्रतमुक्तं तत्रभक्ष्याणि मार्गेतुलसीपत्रत्रयम् पौषेत्रिपलङ्घृतम् माघेतिलानाम्मुष्टित्रयम् फाल्गुनेत्रिपलन्दधि चैत्रेत्रिपलन्दुग्धं वैशाखेगोमयं ज्येष्ठेतोयाञ्जलित्रयम् आषाढेमरीचकत्रयं श्रावणेत्रिपलाःसक्तवः भाद्रेगोमूत्रम् आश्विनेशर्करा कार्तिकेसद्धविरिति इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेमार्गशीर्षमासकृत्यनिर्णयोद्देशःसमाप्तः॥

मकरसङ्क्रान्तिनिर्णयः

12. पौषः

अथपौषः दिवामकरसङ्क्रमेसङ्क्रान्त्यनन्तरञ्चत्वारिंशन्नाड्यःपुण्याः घटिकाद्यल्पदिनशेषेमकरसङ्क्रान्तौसङ्क्रान्त्यासन्नपूर्वकालेदिवैवस्नानश्राद्धदानभोजनानिकार्याणि रात्रौश्राद्धदानादेर्निषेधात्स्वल्पदिनभागेस्नानश्राद्धस्वभोजनादेःकर्तुमशक्यत्वाद्रात्रौभोजननिषेधात्पुत्रवद्गृहिणउपवासनिषेधाच्च तस्मादीदृशेविषयेपरपुण्यकालत्वं बाधित्वामकरसङ्क्रान्तेःपूर्वभागएवपुण्यत्वञ्ज्ञेयं रात्रौपूर्वभागेपरभागेनिशीथेवामकरसङ्क्रमेउत्तरदिनम्पुण्यं तत्राप्युत्तरदिनपूर्वार्धम्पुण्यतरं तत्रापिसूर्योदयोत्तरम्पञ्चनाड्यःपुण्यतमाः एवंरात्रिसङ्क्रान्तिविषयेऽन्यत्रापि यत्रपूर्वदिनोत्तरार्धस्यपुण्यत्वन्तत्रदिनान्तेपञ्चनाडीनाम्पुण्यतमत्वं यत्रोत्तरदिनपूर्वार्धस्यपुण्यत्वन्तत्रोदयोत्तरम्पञ्चनाडीनाम्पुण्यतमत्वम् एवन्दिवासङ्क्रमेपिसङ्क्रान्तिसन्निहितनाडीनाम्मकरादिषूत्तरासाङ्कर्कादिषुपूर्वासाम्पुण्यतमत्वञ्ज्ञेयं यायाःसन्निहितानाड्यस्तास्ताःपुण्यतमाःस्मृताइत्युक्तेः मुहूर्तचिन्तामण्यादौतुसूर्यास्तादूर्ध्वङ्घटीत्रयंसन्ध्या-

अत्रकृत्यम्

कालस्तत्रमकरसङ्क्रमेपरदिनेपुण्यत्वम्बाधित्वापूर्वदिनेपुण्यत्वमुक्तन्नेदंसर्वत्रधर्मशास्त्रग्रन्थेषुदृश्यते शुक्लपक्षेतुसप्तम्यांसङ्क्रान्तिर्ग्रहणाधिका अत्रकृत्यं रविसङ्क्रमणेप्राप्तेनस्नायाद्यस्तुमानवः। सप्तजन्मनिरोगीस्यान्निर्धनश्चैवजायते १ इतिवचनान्मनुष्यमात्रस्यस्नानन्नित्यम् एवंश्राद्धमप्यधिकारिणोनित्यं तच्चापिण्डकं सङ्क्रान्तौयानिदत्तानिहव्यकव्यानिदातृभिः। तानिनित्यन्ददात्यर्कःपुनर्जन्मनिजन्मनि १ अयनसङ्क्रान्तौत्रिदिनमुपवासः यद्वासङ्क्रान्तिमत्यहोरात्रेपुण्यकालवत्यहोरात्रेवोपवासङ्कृत्वोक्तपुण्यकालेस्नानदानादिकार्यम् अयमुपवासःसापत्यगृहस्थेननकार्यः धेनुं तिलमयींराजन्दद्याच्चैवोत्तरायणे। तिलतैलेनदीपाश्चदेयाःशिवगृहेशुभाः १ सतिलैस्तण्डुलैश्चैवपूजयेद्वधिवच्छिवम्। तस्याङ्कृष्णतिलैःस्नानङ्कार्यञ्चोद्वर्तनन्तिलैः २ तिलादेयाश्चहोतव्याभक्ष्याश्चैवोत्तरायणे। शुक्लतिलैर्देवादितर्पणङ्कृष्णतिलैःपितृतर्पणञ्चकार्यम् अत्रशम्भौघृताभिषेकोमहाफलः अत्रसुवर्णयुततिलताम्रपात्रन्देयन्तत्प्रयोगोवक्ष्यते अत्रैवंशिवपूजाव्रतम् पूर्वदिनेउपोष्यसङ्क्रान्तिदिनेतिलोद्वर्तनतिलस्नानतिलतर्पणानिकृत्वाशिवङ्गव्येनाज्येनमर्दयित्वाशुद्धोदकेनप्रक्षाल्यवस्त्राद्युपचारैःपूजयित्वा सुवर्णहीरकनीलपद्मरागमौक्तिकमितिपञ्चरत्नानिकर्षार्धसुवर्णंवासमर्प्यतिलदीपैःससुवर्णैःसाक्षतैस्तिलैःसम्पूज्यघृतकम्बलन्दत्त्वावितानचामरेसमर्प्यविप्रेभ्यःससुवर्णतिलान्दत्त्वातिलान्हुत्वाविप्रान्यतींश्चसम्भोज्यदक्षिणान्दत्वासतिलम्पञ्चगव्यम्पीत्वापारणङ्कुर्यादिति अत्र वस्त्रदानम्महाफलं तिलपूर्वमनड्वाहन्दत्त्वारोगैःप्रमुच्यते। अत्रक्षीरेणभास्करंस्नापयेत्सूर्यलोकप्राप्तिः दिवाविषुवायनसङ्क्रान्तौतस्मिन्दिनेपूर्वरात्रौआगामिरात्रौचानध्यायः रात्रौतत्सङ्क्रमेतस्यांरात्रौपूर्वदिवसेआगामिदिवसेचेतिपक्षिणीअनध्यायः अत्र रात्रौसङ्क्रमेग्रहणवद्रात्रावेवस्नानदानादीतिपक्षःकैश्चिल्लिखितोनसर्वशिष्टसम्मतः अयनदिनन्तत्परङ्करिसञ्ज्ञकञ्चदिनंशुभेपुवर्ज्यमित्युक्तं तत्रार्धरात्रादर्वागयनसङ्क्रान्तौतद्दिनं तत्परदिनञ्चवर्ज्यं निशीथात्परत्रनिशीथेवासङ्क्रान्तौपरन्तत्परञ्चवर्ज्यमितिभाति एवं ग्रहणेप्यूह्यम् पौषशुक्लाष्टम्याम्बुधवासरयुतायांस्नानजपहोमतर्पणविप्रभोजनानिकार्याणि अस्याम्भरणीयोगेमहापुण्यत्वमित्येके रोहिण्यार्द्रायोगेइतिपरे पौषशुक्लैकादशीमन्वादिः निर्णयःप्रागुक्तः

माघस्नानम्

अथमाघस्नानम् तत्रपौषस्यशुक्लैकादश्याम्पौर्णमास्याममावास्यायांवामाघस्नानारम्भः माघेद्वादशीपूर्णिमादौसमापनं यद्वामकरसङ्क्रमणप्रभृतिकुम्भसङ्क्रमणपर्यन्तंस्नानङ्कार्यम् अथस्नानकालः अरुणोदयमारभ्य प्रातःकालावधिः उत्तमन्तुसनक्षत्रंलुप्ततारञ्चमध्यमम्। सवितर्युदितेभूपततोहीनम्प्रकीर्तितम् १ माघमासेरटन्त्यापःकिञ्चिदभ्युदितेरवौ। ब्रह्मघ्नंवासुरापंवाकम्पतन्तम्पुनीमहे २ अत्राधिकारिणः ब्रह्मचारीगृहस्थोवावानप्रस्थोऽथभिक्षुकः। बालवृद्धयुवानश्चनरना-

स्नानविधिः

रीनपुंसकाः १ इति अथजलतारतम्येनफलं तप्तेनवारिणास्नानंयद्गृहेक्रियतेनरैः। षडब्दफलदन्तद्धिमकरस्थेदिवाकरे १ वाप्यादौद्वादशाब्दफलं तडागेतद्द्विगुणं नद्यान्तच्चतुर्गुणम् महानद्यांशतगुणम् महानदीसङ्गमेतच्चतुर्गुणं गङ्गायांसहस्रगुणं गङ्गायमुनासङ्गमेएतच्छतगुणमिति यत्रकुत्रापिस्नानेप्रयागस्मरणङ्कार्यम् इदंसमुद्रेप्यतिप्रशस्तम् अथविधिः माघमासमिमम्पूर्णंस्नास्येहन्देवमाधव। तीर्थस्यास्यजलेनित्यमितिसङ्कल्प्यचेतसि १ इत्येकतीर्थम्परिगृह्य दुःखदारिद्र्यनाशायश्रीविष्णोस्तोषणायच। प्रातःस्नानङ्करोम्यद्यमाघेपापविनाशनम् १ मकरस्थेरवौमाघेगोविन्दाच्युतमाधव। स्नानेनानेनमेदेवयथोक्तफलदोभव २ इमौमन्त्रौसमुच्चार्यस्नायान्मौनसमन्वितः। प्रत्यहंसूर्यार्घ्यमन्त्रः सवित्रेप्रसवित्रेचपरन्धामजलेमम्। त्वत्तेजसा परिभ्रष्टम्पापंयातुसहस्रधा १ इति पितृतर्पणादिनित्यंविधायमाधवम्पूजयेत् भूमौशयीतहोतव्यमाज्यन्तिलसमन्वितम्।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬