निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
हविष्यम्ब्रह्मचर्यचमाघमासेमहाफलम् १ अत्रेन्धनकम्वलवस्त्रोपानत्तैलघृततूलपूर्णपटीसुवर्णान्नदानानिमहाफलानि नवह्निंसेवयेत्स्नातोह्यस्नातोपिवरानने। होमार्थंसेवयेद्वह्निंशीतार्थेनकदाचन १ अहन्यहनिदातव्यास्तिलाःशर्करयान्विताः। त्रयोभागास्तिलानाञ्चतुर्थःशर्करायाः अत्राभ्यङ्गोवर्ज्यः माघेमास्युषसिस्नानङ्कृत्वादाम्पत्यमर्चयेत्। माघेयत्नेनसन्त्याज्यम्मूलकम्मदिरोपमम् १ पितॄणान्देवतानाञ्चमूलकन्नैवदापयेत्। यदामाघोमलमासोभवतितदाकाम्यानान्तत्रसमाप्तिनिषेधान्मासद्वयंस्नानन्तन्नियमाश्चकर्तव्याः मासोपवासचान्द्रायणादिकन्तुमलमासएवसमापयेदित्युक्तम् इदम्माघस्नानन्नित्यकाम्योभयरूपम् मासपर्यन्तस्नानेण्यशक्तरूयहमेकाहंवास्नायात् तत्राद्यन्दिनत्रयमितिकेचित् त्रयोदश्यादिदिनत्रयमितिबहुसम्मतम् पौषपूर्णिमानन्तरासुअष्टमीसप्तमीनवमीष्वष्टकादिश्राद्धानिप्रागुक्तानि पौषामावास्यायामर्धोदययोगः अमार्कपातश्रवणैर्युक्ताचेत्पौषमाघयोः।
अर्धोदयःसविज्ञेयःकोटिसूर्यग्रहैःसमः १ किञ्चिन्न्यूनम्महोदयइतिचतुर्थपादङ्केचित्पठन्ति पौषमाघयोर्मध्यवर्तिनीत्यर्थइत्येके अमान्तमासेपौषस्यपूर्णिमान्तमासेमाघस्यचेत्यर्थइत्यपरे सर्वथापौषपौर्णमास्युत्तरामावास्येत्यर्थः दिवैवयोगःशस्तोयन्नतुरात्रौकदाचन। अर्धोदयेतुसम्प्राप्तेसर्वगङ्गासमञ्जलम् १ शुद्धात्मानोद्विजाःसर्वेभवेयुर्व्रह्यसन्निभाः। यत्किञ्चिद्दीयतेदानन्तद्दानम्मेरुर्सान्निभम् २
अथामत्रदानप्रयोगः देशकालौसङ्कीर्त्यसमुद्रमेखलायाःपृथ्व्याःसम्यग्दानफलकामोहमर्धोदयविहितामत्रदानङ्करिष्येइतिसङ्कल्प्योपलिप्तेदेशेधौततण्डुलैरष्टदलङ्कृत्वातत्रचतुःपष्टिपलञ्चत्वारिंशत्पलम्बापञ्चविंशतिपलंवाकांस्यपात्रङ्कृताग्न्युत्तारणंस्थापयेत् तत्राष्टगुञ्जात्मकोमाषः चत्वारिंशन्माषाःकर्षः पलङ्कर्षचतुष्टयम् अमरसिंहमतेतु अशीतिगुञ्जात्मकःकर्षः पलङ्कर्षचतुष्टयं कांस्यपात्रेपायसन्निक्षिप्यपायसेष्टदलङ्कृत्वातत्कर्णिकायाङ्क-
र्षतदर्धतदर्धान्यतमपरिमाणहेमलिङ्गन्निधायकांस्यपात्रेब्रह्माणम्पायसेविष्णुंलिङ्गेशिवंयथाधिकारंवैदिकैर्मन्त्रैर्नामभिर्वावाहनाद्युपचारैःसम्पूजयेत् ततोविप्रंवस्त्रादिभिःपूजयेत् सुवर्णपायसामत्रंयस्मादेतत्त्रयीमयम्। आवयोस्तारकंयस्मात्तद्गृहाणद्विजोत्तम १ अमुकगोत्रायामुकशर्मणेतुभ्यम्इदंसुवर्णलिङ्गपायसयुक्तममत्रंसमुद्रमेखलापृथ्वीदानफलकामोहंसम्प्रददेनममेतिविप्रहस्तेजलन्दद्यात् विप्रःदेवस्यत्वेतिप्रतिगृह्णीयात् दातादानस्यसम्पूर्णतार्थमिमान्दक्षिणांसम्प्रददइतियथाशक्तिहिरण्यन्दद्यात् हेमाद्र्यद्युक्तःप्रकारान्तरेणार्धोदयव्रतप्रयोगोब्रह्मादियुततिलपर्वतत्रयशय्यात्रयगोत्रयदानहोमादिसहितःकौस्तुभेद्रष्टव्यः इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेपौषमासकृत्यनिर्णयोद्देशःसमाप्तः
अथमाघमासः कुम्भसङ्क्रान्तौपूर्वंषोडशनाड्यःपुण्याः माघेवेणीस्नानमहिमा सितासितेतुयत्स्नानम्माघमासेयुधिष्ठिर। नतेषाम्पुनरावृत्तिःकल्पकोटिशतैरपि १ कुरुक्षेत्रसमागङ्गायत्रकुत्रावगाहिता। तस्माद्दशगुणाविन्ध्येकाश्यांशतगुणाततः २ काश्याःशतगुणाप्रोक्तागङ्गायमुनयान्विता। सहस्रगुणितासापिमाघेपश्चिमवाहिनी ३ अथमाघेतिलपात्रदानम्प्रशस्तं तत्प्रयोगः ताम्रपात्रेतिलान्कृत्वापलषोडशनिर्मिते। सहिरण्यंस्वशक्त्यावाविप्रायप्रतिपादयेत् १ वाङ्मनःकायजत्रिविधपापनाशपूर्वकं ब्रह्मलोकप्राप्तिकामस्तिलपात्रदानङ्करिष्ये उक्तपरिमाणेताम्रपात्रे प्रस्थतिलान्कर्षसुवर्णयुतान्यथाशक्तिसुवर्णयुतान्वाकृत्वाविप्रंसम्पूज्य देवदेवजगन्नाथ वाञ्छितार्थफलप्रद। तिलपात्रम्प्रदास्यामितवाङ्गेसंस्थितोह्यहम् १ इतिमन्त्रेणदद्यात् धान्यमानेतुकुडवोमुष्टीनांस्याच्चतुष्टये। चत्वारःकुडवाःप्रस्थश्चतुःप्रस्थमथाढकम् १ अष्टाढकोभवेद्द्रोणोद्विद्रोणःशूर्पउच्यते। सार्धशूर्पाेभवेत्खारीत्युक्तरीत्या पलंसुवर्णाश्चत्वारःकुडवम्प्रस्थमाढकम्। द्रोणञ्चखारिकाचेतिपूर्वपूर्वाच्चतुर्गुणम् १ इत्युक्तरीत्यावा प्रस्थमानस्वरूपञ्ज्ञेयं यद्वाहिरण्यरहितान् तिलांस्ताम्रपात्रेनिधाय तिलाःपुण्याःपवित्राश्चसर्वपापहराःस्मृताः। शुक्लाश्चैवतथाकृष्णाविष्णुगात्रसमुद्भवाः १ यानिकानिच पापानिब्रह्महत्यासमानिच। तिलपात्रप्रदानेनतानिनश्यन्तुमेसदा १ इदन्तिलपात्रं यथाशक्तिदक्षिणासहितंयमदैवतम्ब्रह्मलोकप्राप्तिकामस्तुभ्यमहंसम्प्रददइतिदद्यात् अथ हिरण्यतुलसीपत्रदानमन्त्रः सुवर्णतुलसीदानाद्ब्रह्मणःकार्यसम्भवात्।
पापम्प्रशममांयातुसर्वेसन्तुमनोरथाः १ अथशालग्रामदानमन्त्रः शालग्रामशिला पुण्याभुक्तिमुक्तिप्रदायिनी। शालग्रामप्रदानेनममसन्तुमनोरथाः १ चक्राङ्कितसमायुक्ताशालग्रामशिलाशुभा।
दानेनैवभवेत्तस्याउभयोर्वाञ्छितम्फलम् १ अथप्रयागेवेणीदानं तत्रसर्वेषांवपनविधिः ऊर्ध्वमब्दाद्द्विमासोनाद्यदातीर्थंव्रजेन्नरः। तदातद्वपनंशस्तम्प्रायश्चित्तमृतेद्विज १ प्रयागेतुयोजनत्रयादागतस्यद-
शमासादर्वागपि प्रथमयात्रायान्तुजीवत्पितृकगुर्विणीपतिकृतचूडबालानामपिसभर्तृकस्त्रीणामपिवपनमितिविशेषः केचित्तुसभर्तृकस्त्रीणां सर्वान्केशान्समुद्धृत्यछेदयेदङ्गुलद्वयमित्याहुः तत्प्रयोगः वेणीभूतकेशाकृतमाङ्गलिकवेषास्त्रीभर्तारन्नत्वातदाज्ञयासर्ववपनंव्द्यङ्गुलकेशच्छेदंवाकृत्वास्नात्वात्रिवेणीपूजाङ्कुर्यात् भर्त्रावाकारयेत् पूजान्तेपत्नी छिन्नवेणीयुक्तंवैणवपात्रमञ्जलौघृत्वातस्यांहैमवेणीम्मौक्तिकादिकञ्चनिधाय वेण्यांवेणीप्रदानेनममपापंव्यपोहतु। जन्मान्तरेष्वपिसदासौभाग्यम्ममबर्धताम् १ इतित्रिवेण्यां क्षिपेत् विप्राःसुमङ्गलीरियंवधूरितिपठेयुः ततोविप्रान्सुवासिनीश्चवस्त्रादिनातोषयेत् अथत्रिवेण्यान्देहत्यागविधिः येवैतन्वंविसृजन्तिधीरास्तेजनासोअमृतत्वम्भजन्तेइतिश्रुतिर्माघमासविषया तनुन्त्यजतिवैमाघेतस्यमुक्तिर्नसंशयइतिब्रह्मोक्तेः अन्यमासेतनुत्यागात्स्वर्गप्राप्तिः तत्रयथाशक्तिसर्वप्रायश्चित्तङ्कृत्वा श्राद्धाधिकार्यभावेस्वीयजीवच्छ्राद्धंसपिण्डनान्तङ्कृत्वागोदानादिकृत्वाकृतोपवासः पारणाहेफलोल्लेखपूर्वकंसङ्कल्प्यविष्णुन्ध्यात्वावेणीम्प्रविशेदिति जीवच्छ्राद्धप्रयोगःकौस्तुभेद्रष्टव्यः माघम्प्रकृत्य तिलस्नायीतिलोद्वर्तीतिलहोमीतिलोदकी।
तिलभुक्तिलदाताचषट्तिलाःपापनाशनाः १ इत्युक्तेवाक्येतिलस्नायीपदेनतिलयुक्तोदकेनस्नानन्तिलहोमपदेनायुतलक्षतिलहोमाद्यात्मकस्यग्रहमखस्यापिसङ्ग्रहः तिलोदकीतितिलयुक्तोदकेनदेवपूजातर्पणसन्ध्यादिकम्पानञ्चकार्यमित्यर्थः सचहोमस्त्रिधा प्रथमोयुतहोमःस्याल्लक्षहोमस्ततःपरः। कोटिहोमस्तृतीयस्तुसर्वकामफलप्रदः१इति लक्षहोमादिप्रयोगःकुण्डमण्डपनिर्माणादिसहितःकौस्तुभमयूखादौज्ञेयः माघशुक्लचतुर्थ्यान्दुण्डिराञ्जोद्देशेननक्तव्रतन्तत्पूजातिललड्डुकादिनैवेद्यन्तिलभक्षणञ्चोक्तम् अत्रप्रदोषव्यापिनीग्राह्या अस्यामेवप्रदोषव्यापिन्याङ्कुन्दपुष्पैःशिवंसम्पूज्योपवासन्नक्तभोजनंवाकुर्यात् श्रियम्प्राप्नुयात् अत्रविनायकव्रतस्यतुभाद्रशुक्लचतुर्थीवन्निर्णयः माघशुक्लपञ्चमीवसन्तपञ्चमीतस्यांवसन्तोत्सवारम्भः अस्यांरतिकामयोःपूजोक्ता इयम्परत्रैवपूर्वाह्णव्याप्तौपरा अन्यथापूर्वैव माघशुक्लसप्तमी रथसप्तमी सारुणोदयव्यापिनीग्राह्या दिनद्वयेरुणोदयव्याप्तौपूर्वा
यदाघटिकादिमात्राषष्ठीसप्तमीचक्षयवशादरुणोदयात्पूर्वंसमाप्यतेतदाषष्ठीयुक्ताग्राह्या तत्रषष्ठ्यांसप्तमीक्षयघटीःप्रवेश्यारुणोदयेस्नानङ्कार्यम् अत्रव्रतेषष्ठ्यामेकभक्तङ्कृत्वासप्तम्यामरुणोदयेस्नानङ्कार्यं तत्रमन्त्रः यदाजन्मकृतं पापम्मयाजन्मसुजन्मसु। तन्मेरोगञ्चशोकञ्चमाकरीहन्तुसप्तमी १ एतज्जन्मकृतम्पापंयच्च जन्मान्तरार्जितम्। मनोवाक्कायजंयच्चज्ञाताज्ञातेचयेपुनः २ इतिसप्तविधम्पापंस्नानान्मेसप्तसप्तिके। सप्तव्याधिसमायुक्तंहरमाकरिसप्तमि ३ अथार्घ्यमन्त्रः सप्तसप्तिवहप्रीतसप्तलोकप्रदीपन। सप्तमीसहितोदेवगृहाणार्ध्यन्दिवाकर १ इति इयञ्चमन्वादिरपि शुक्लपक्षमन्वादित्वात्पौर्वाह्णिकीग्राह्येत्युक्तम् माघशुक्लाष्टमीभीष्माष्टमी अस्याम्भी-
ष्मोद्देशेनयेश्राद्धङ्कुर्वन्तितेसन्ततिमन्तोभवन्ति तत्रश्राद्धङ्काम्यन्तर्पणन्तुनित्यं तर्पणे कृतेसंवत्सरोपात्तदुरितनाशः अकृतेपुण्यनाशइत्युक्तेः तत्रतर्पणमन्त्रः वैयाघ्रपद्यगोत्रायसाङ्कृत्यप्रवरायच। गङ्गापुत्रायभीष्मायआजन्मब्रह्मचारिणे १ अपुत्रायजलन्दद्मिनमोभीष्मायवर्मणे। भीष्मःशान्तनवोवीरःसत्यवादीजितेन्द्रियः २ आभिरद्भिरवाप्नोतुपुत्रपौत्रोचिताङ्क्रियाम्। इति एवमपसव्येनतर्पणङ्कृत्वाचम्यसव्येनार्घ्यन्दद्यात् वसूनामवतारायशन्तनोरात्मजायच। अर्घ्यन्ददामिभीष्मायआबाल्यब्रह्मचारिणे १ इति अत्रजीवत्पितृकस्यनाधिकारइतिकौस्तुभः जीवत्पितृकस्याप्यधिकारइतिबहवः अत्रमध्याह्नव्यापिनीअष्टमीग्राह्या श्राद्धादेरेकोद्दिष्टत्वादिति माघशुक्लद्वादश्यान्तिलोत्पत्तिरतोऽस्यामुपोष्यतिलस्नानन्तिलैर्विष्णुपूजनन्तिलनैवेद्यन्तिलतैलेनदीपदानन्तिलहोमस्तिलदानञ्चतिलभक्षणञ्चकार्यम् माघीपूर्णिमापरा अत्रकृत्यम्
एवम्माघावसानेतुदेयम्भोज्यमवारितम्। भोजयेद्द्विजदाम्पत्यम्भूषयेद्वस्त्रभूषणैः १ कम्बलाजिनरक्तवस्त्राणितूलगर्भचोलकानिउपानहौ प्रच्छादनपटाश्चैतानिमाधवःप्रीयतामित्युक्त्वादेयानि अथकृतस्यमाघस्नानस्यसाङ्गतार्थमुद्यापनङ्करिष्यइतिसङ्कल्प्य सवित्रेप्रसवित्रेचपरन्धामजलेमम। त्वत्तेजसापरिभ्रष्टम्पापंयातुसहस्रधा १ दिवाकरजगन्नाथप्रभाकरनमोस्तुते। परिपूर्णङ्करिष्येहम्माघस्नानं तवाज्ञया २ इतिमन्त्राभ्यामपिसङ्कल्पःकार्यः एवञ्चतुर्दश्यांसङ्कल्पोपवासाधिवासनमाधवपूजनानिकृत्वापूर्णिमायान्तिलचर्वाज्यैरष्टोत्तरशतहोमङ्कृत्वातिलशर्करागर्भत्रिंशन्मोदकात्मकंवायनन्देयं तत्रमन्त्रौ सवितःप्रसवस्त्वंहिपरन्धामजलेमम। त्वत्तेजसापरिभ्रष्टम्पापंयातुसहस्रधा १ दिवाकरजगन्नाथप्रभाकरनमोस्तुते। परिपूर्णकुरुंष्वेहमाघस्नानमुषःपते २ इति ततोदम्पत्योःसूक्ष्मवाससीसप्तधान्यानिचदत्त्वाब्राह्मणे भ्योदाम्पत्यायचषड्रसभोजनन्देयं तत्रमन्त्रः सूर्योमेप्रीयतान्देवोविष्णुमूर्तिर्निरअनः। इति एवम्माघप्लवीयातिभित्त्वादेवन्दिवाकरम्।
परिव्राड्योगयुक्तश्चरणेचाभिमुखेहतः १ इति माघकृष्णाष्टम्याञ्चतुरष्टकाकरणाशक्तएकाष्टकाम्पूर्वेद्युःश्राद्धान्वष्टक्यश्राद्धसहिताङ्कुर्यात् दिनत्रयेकर्तुमशक्तोष्टम्यामेवैकामष्टकाङ्कुर्यात् अथशिवरात्रिः सानिशीथव्यापिनीग्राह्या निशीथस्तुरात्रेरष्टमोमुहूर्तइत्युक्तं तत्रपरदिनएवार्धंरात्रौपरा पूर्वत्रैवतद्व्याप्तौपूर्वा दिनद्वयेप्यर्धरात्रव्याप्त्यभावेपिपरैव दिनद्वयेकार्त्स्न्येनैकदेशेनवार्धरात्रव्याप्तौपूर्वेतिहेमाद्र्यशयानुसारीकौस्तुभः परैवेतिमाधवनिर्णयसिन्धुपुरुषार्थचिन्तामण्यादयोबहवः परेद्युर्निशीथैकदेशव्याप्तौपूर्वेद्युःसम्पूर्णतद्व्याप्तौपूर्वैव पूर्वदिनेनिशीथैकदेशव्याप्तौपरदिनेसम्पूर्णद्व्याप्तौपरैव इदंव्रतंरविवारभौमवारयोगेशिवयोगयोगेचातिप्रशस्तम् अथपारणानिर्णयः यामत्रयादर्वाक्चतुर्दशीसमाप्तौचतुर्दश्यन्तेपारणं यामत्रयोर्ध्वगामिन्याञ्चतुर्दश्याम्प्रातश्चतुर्दशी-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा