🕉️ 24 November 2026, Tuesday · 08:04:03 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · प्रथम परिच्छेद — काल, मलमास, तिथि-निर्णय, व्रत-परिभाषा · पृष्ठ 2/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

गुरुशुक्रास्तादौ सिहस्थैगुरौचवर्ज्यादि

हपञ्चाहत्र्यहादिपक्षाआपदनापदादिविषयतयादेशविशेषपरतयाच योज्याः अयंवर्ज्यावर्ज्यनिर्णयःसिंहस्थेगुरावपिज्ञेयः तत्रविशेष उच्यते कर्णवेधचौलमौञ्जीवन्धविवाहदेवयात्रावतवास्तुकर्मदेवप्रतिष्ठासन्न्यासाविशेषतोवर्ज्याइति अथसिंहस्थापवादः मघानक्षत्रगतेसिंहांशगतेचगुरौसर्वदेशेषुसर्वमाङ्गलिककर्मणान्निषेधः सिंहांशोत्तरङ्गोदादक्षिणेभागीरथ्युत्तरेसिंहस्थदोषोनास्ति गङ्गागोदामध्यदेशेतुसर्वसिंहस्थेविवाहव्रतबन्धयोर्दोषः अन्यकर्माणिसिंहांशोत्तरंसर्वदेशेषुकर्तव्यानि मेषस्थेसूर्येसर्वदेशेषुसर्वमाङ्गलिककर्मणांसर्वसिंहस्थेनदोषः कचिदृषस्थितेऽर्केपि दोषाभावउक्तः अत्रसिंहस्थेगुरौगोदावरीस्त्रानं कन्यागतेकृष्णास्त्रानम्महापुण्यं गो-दावर्यांयात्रिकाणाम्मुण्डनोपवासावावश्यकौ नतुतत्तीरवासिनां गर्भिण्यामपिभार्यायांविवाहादिमङ्गलोत्तरमपिगोदावर्यामुण्डनेदोषोनास्ति गयागोदावरीयात्रायाम्मलमासगुरुशुक्रास्तादिदोषोनास्ति मलमासेव्रतविशेषोऽन्यत्रज्ञेयः इतिमलमासगुरुशुक्रास्तसिंहस्थगुरुवर्ज्यावर्ज्यनिर्णयस्तृतीयउद्देशः ३

6. तिथिनिर्णयेसामान्यपरिभाषा

अथतिथिनिर्णयेसामान्यपरिभाषा तिथिद्विविधा पूर्णासखण्डाच सूर्योदयमारभ्यषष्टिनाडिकाव्याप्तापूर्णा एतदन्यासखण्डा सखण्डापिद्विविधा शुद्धाविद्धाच सूर्योदयमारभ्यअस्तमयपर्यन्तंविद्यमानाशिवरात्र्यादौनिशीथपर्यन्तंविद्यमानाचशुद्धा तर्दन्याविद्धा वेधोपिद्विविधः प्रातर्वेधः सायंवेधश्च सूर्योदयोत्तरंषघटिकापरिमितत ध्यन्तरस्पर्शात्मकः प्रातर्वेधः सूर्यास्तात्माक्षघटीमिततिथ्यन्तरस्पर्शः सायंवेधः एकादशीव्रतविषयेतुवेधोवक्ष्यते क्वचित्तिथिविशेषेवेधाधिक्यम् पञ्चमीद्वादशनाडीभिः षष्ठींविद्धाङ्करोति दशैमीपञ्चदशभिरेकादशीवेधकृत् चतुर्दशीअष्टादशनाडीभिःपक्षदशींविध्यति विद्धाश्चतिथयःक्कचित्कर्मणिग्राह्याःकुत्रचित्त्याज्याश्च भवन्ति तत्रसम्पूर्णा शुद्धाचतिथिःप्रायेणनिर्णयन्नापेक्षतेसन्देहाभावात् निषेधविषयेसखण्डापिननिर्णया निषेधस्तुनिवृत्यात्माकालमात्रमपेक्षतेइतिवचनेनअष्टम्यादिषुनारिकेलादिभक्षणनिषेधादेस्तत्कालमात्रव्याप्ततिथ्यपेक्षणात् विहितव्रतादिविषयेतुनिर्णयउच्यते तत्रकर्मणोयस्ययःकालस्तत्कालव्यापिनीतिथिग्रह्या यथाविनायकादिव्रतेमध्याह्लादौपूजनादिविधानान्मध्याह्लादिव्यापिनी दिनद्वयेकर्मकालेव्याप्तावव्याप्तौतदेकदेशव्याप्तौवा युग्मवाक्यादिनापूर्वविद्धायाः परविद्धायावा तिथेग्रह्यत्वं युग्मवाक्यन्तु युग्मानियुगभूतानांषण्मुन्योर्वसुरन्ध्रयोः। रुद्रेणद्वादशीयुक्ताचतुर्दश्याचपूर्णिमा। प्रतिपद्यप्यमावास्यातिथ्योर्युग्मम्महाफलमिति १ युग्मन्द्वितीयाअग्निस्तृतीया द्वितीया तृतीयावि-

द्धाग्राह्या तृतीया द्वितीयाविद्धाग्राह्येत्येवन्द्वितीयातृतीययोर्युग्मं चतुर्थीपञ्चम्योर्युग्मम्पष्ठीसप्तम्योर्युग्मम् अष्टमीनवम्योर्युग्मम् एकादशीद्वादश्योर्युग्मं चतुर्दशीपौर्णमास्योयुग्मम् अमावास्याप्रतिपदोर्युग्ममित्यर्थः क्वचिच्चतुर्थीगणनाथस्यमातृविद्धाप्रशस्यतइत्यादिविशेषवाक्यैर्ग्राह्यत्वनिर्णयः वचनवशेनग्राह्यायास्तिथेःकर्मकालेसत्त्वाभावे साकल्यवचनैःसत्त्वम्भावनीयं तानिच यान्तिथिंसमनुप्राप्यउदयंयातिभास्करः। सा तिथिःसकलाज्ञेयास्नानदानजपादिषु इत्यादीनि इतिसामान्यनिर्णयश्चतुर्थउद्देशः ४

7. कर्मविशेषेनिर्णयः

कर्मविशेषेनिर्णयः– कर्माणिद्विविधानिदैवानिपित्र्याणिच दैवानिषड्विधानि एकभक्तनक्तायाचितोपवासवतदानाख्यानि मध्याह्नेएकवारमेकान्नभोजनमेकभक्तम्

एकभक्तादीनांस्वरूपाणि

रात्रावेवप्रदोषकालेभोजनन्नक्तं याचनांविनातहिनेलब्धस्यान्नादेर्भोजनमयाचतिं दिनान्तरलब्धस्यापिपाचकंस्त्री पुत्रादिकम्प्रतियाचनमन्तरेणभोजनमयाचितमितिकेचित् अहोरात्रभोजनाभावउपवासः पूजाद्यात्मकः कर्मविशेषोव्रतं स्वत्वनिवृत्तिपूर्वकम्परस्खत्वापादनन्दानं तानिचैकभक्तादीनिक्कचित्रताद्यङ्गतयाविहितानि क्वचिदेकादश्या ग्रुपवासप्रतिनिधितयाविहितानि कचित्खतन्त्राणीतित्रिविधानि तत्रान्याङ्गानाम्प्रतिनिधिभूतानाञ्चतत्तत्प्रधानवशेननिर्णयः स्वतन्त्राणान्निर्णयउच्यते तत्रदिनम्पञ्चधाविभज्यप्रथमभागःप्रातः कालोज्ञेयः द्वितीयःसङ्गवःतृतीयोमध्याह्नः चतुर्थोभागोऽपराह्णः पञ्चमः सायाह्नः सूर्यास्तोत्तरं त्रिमुहूर्तःप्रदोषः तत्रैकभक्तेमध्याहव्यापिनीतिथिग्रह्या तत्रापिदिनार्धसमयेऽतीतेत्रिंशदघटिका

एकभक्त निर्णयः

त्मकमध्यमदिनमानेनषोडशादिघटीत्रयम्मुख्योभोजनकालः ततऊर्ध्वमासायङ्गौणकालः अत्रपूर्वेद्यरेवमुख्यकालेव्याप्तिः परेयुरेवव्याप्तिरुभयेयुर्व्याप्तिरुभयत्रापिव्याप्यभावः उभयत्रसाम्येनैकदेशव्याप्तिर्वैषम्येणैकदेशव्याप्तिरितिषट्पक्षावन्ति तत्रपूर्वेयुरेवमुख्यकालेग्राह्यतिथिसत्त्वेपूर्वैव परत्रैव सत्त्वेपरैवेससन्देहः उभयत्रापिपूर्णव्यापित्वेयुग्मवाक्यान्निर्णयः उभयत्रव्याप्त्यभावेपूर्वैव गौणकालव्याप्तिसत्वात साम्येनैकदेशव्या सौपूर्वा वैषम्येणैकदेशव्याप्तौदिनद्वयेपिकर्मपर्याप्ततिथिलाभेयुग्मवाक्यान्निर्णयः कर्मपर्याप्ततिथ्यलाभेपूर्वैवेति इतिएकभक्तम् भवनक्तं तत्र सूर्यास्तोत्तरत्रिमुहूर्तात्मकप्रदोषव्यापिनीतिथिर्नक्तेग्राह्या अन्यतरदिनेतद्व्याप्सौतदेकदेशस्पर्शे वासैर्वग्राह्या भोजनन्तु अस्तोत्तरङ्घटिकात्रयसन्ध्याकालन्त्यक्त्वाकार्यं सन्ध्याकालेभोजननिद्रामैथुनाध्ययनवर्जनात् यतिभिरपुत्रविधुरैर्विधवाभिश्चनक्तंसायाहव्यापिन्यान्दि

नक्तनिर्णयः

नाष्टमभागेकार्यं रात्रौतेषाम्भोजननिषेधात् एवंसौरनक्तमपिसायाह्नध्यापिन्यान्दिवैवकार्यं दिनद्वयेप्रदोषव्याप्सौपरा दिनद्वयेप्रदोषव्याप्त्यभावेपरत्रैवसा-

याह्नेदिनाष्टमभागेनक्तङ्कार्य॑नतुरात्रौ साम्येनैकदेशव्याप्तौपरैव वैषम्येणप्रदोषैकदेशव्याप्तौतदाधिक्यवतीपूर्वापिग्राह्या यदिपूजाभोजनपर्याप्तन्तदाधिक्यंलभ्यते नोचेत्साम्यपक्षवदुत्तरैवनत्वाधिक्यवशात्पूर्वेति नक्तव्रतभोजनंवैधत्वाद्रविवासरसङ्क्रान्त्यादावपिरात्रावेवकार्यं रविवारादौरात्रिभोजननिषेधस्यरागप्राप्तभोजनपरत्वात् एकादश्याद्युपवासप्रत्याम्नायभूतन्नक्तन्तूपवासनिर्णीतदिनेएवेति अयाचितस्यत्वहोरात्रसाध्यत्वादुपवासवन्निर्णयः पित्र्याणामपराण्हादिव्यापित्वेननिर्णयस्तत्तत्प्रकरणेवक्ष्यते एकभक्तनक्तायाचितोपवासानाम्पूर्वतिथावनुष्ठितानाम्परेद्युस्तिथ्यन्तेपारणं यामत्रयोर्ध्वगामिन्यान्तिथौप्रातःपारणमितिसर्वत्रज्ञेयमितिमाधवः इति एकभक्तादिनिर्णयः पञ्चमउद्देशः ५

8. व्रतपरिभाषा

अथव्रतपरिभाषा तत्रस्त्रीशूद्राणान्द्विरात्राधिकोपवासेनाधिकारः स्त्रीणामपि भर्त्रनुज्ञांविनाव्रतोपवासादौनाधिकारः उपवासदिनेश्राद्धदिनेचकाष्ठेनदन्तधावनन्न कार्य पर्णादिनाद्वादशगण्डूपैर्वाकार्यं जलपूर्णताम्रपात्रङ्गृहीत्वोदङ्मुखःप्रातरुपवासादिव्रतंसङ्कल्पयेत् अपूर्वव्रतारम्भोव्रतोद्यापनञ्च मलमासेगुर्वाग्रस्तेवैधृतिव्यतीपातादिदुर्योगेविष्टौऋरवारेनिषिद्धेदर्शादितिथौनभवति एवङ्खण्डतिथावपिनभवति उदयस्थातिथिर्याहिनभवेद्दिनमध्यभाक्। साखण्डानवतानांस्यादारम्भश्वसमापनम् १ इतिसत्यव्रतोक्तेः क्षमासत्यन्दयादानंशौचमिन्द्रियनिग्रहः। देवपूजाचहवनंसन्तोषस्तेयवर्जनम् १ सर्वत्रतेष्वयन्धर्मः अत्रहोमोव्याहृतिभिःकाम्यव्रतविशेषेज्ञेयः यद्देवतायाउपोषणव्रतन्तदेवताजपस्तद्ध्यानन्तत्कथा श्रवणन्तदर्चनन्तश्नामश्रवणकीर्तनादिकङ्कार्यम् उपवासेऽन्नावलोकनगन्धादिकमभ्यङ्गन्ताम्बूलमनुलेपनञ्चत्यजेत् सभर्तृकस्त्रीणांसौभाग्यवतेऽभ्यङ्गताम्बूलादिनवर्ज्यम् अष्टैतान्यत्रतघ्नानिआपोमूलम्फलम्पयः। हविर्ब्राह्मणकाम्याचगुराईचनमौषधम् १ प्रमादादिनाव्रतभङ्गेदिनत्रयमुपोष्यक्षौरङ्कृत्वा पुनर्वतङ्कुर्यात् अशक्तस्योपवासप्रतिनिधिरेकब्राह्मणभोजनन्तावद्धनादिदानवासहस्रगायत्री जपोवाद्वादशप्राणायामावाप्रायश्चित्तं स्वीकृतन्त्रतङ्कर्तुमशक्तः प्रतिनिधिनाकारयेत् पुत्रः पत्नीभर्ता भ्रातापुरोहितःसखाचेतिप्रतिनिधयः पुत्रादिः पित्राद्युद्देशेनव्रतङ्कुर्वन् स्वयमपिव्रतफलं लभते असकृज्जलपानाच्चसकृत्ताम्बूलचर्वणात्। उपवासःप्रणश्येतदिवाखापाञ्चमैथुनात् १ स्मरणङ्कीर्तनङ्केलिःप्रेक्षणङ्गुह्यभाषणम्। सङ्कल्पोनिश्चयोमैथुनक्रियाचेत्यष्टविधमैथुनम् प्राणसङ्कटेष्वसकृज्जलपानेदोषोनास्ति चर्मस्थञ्जलङ्गोभिन्नक्षीरम्मसूरञ्जम्बीरफलंशुक्तिचूर्णमिसामिषगणोव्रतेवर्ज्यः अश्रुपातक्रोधादिनासद्योव्रतनाशः परान्नभोजनेचापि यस्यान्न॑तस्यतत्फलम्। तिलमुद्गभिन्नचणकादिकोशीधान्यम्माषादिकम्मूलकञ्चेत्येवमादिक्षारगणंलवणमधुमांसादिकञ्चवर्जयेत् श्यामाकाश्चैवनीवारागोधूमाश्चव्रतेहिताः। व्रीहिमुद्गयवतिलकङ्गुकलायादिधान्यंरक्तेतरमूलकंसूरणादिकन्दः सैन्धवसामुद्रल-

हविष्याणि

वणेगव्यदधिसर्पिर्दुग्धानिपनसफलमाम्रफलन्नारीकेलंहरीतकीपिप्पलीजीरकंशुण्ठीतिन्तिणीकदलीलवलीधात्रीफलानिगुडेतरेक्षुविकार इत्येतानि अतैलपक्वानि हविष्याणि गव्यन्तक्रम्माहिषङ्घृतमपिक्वचित् अनुक्तव्रतविधिस्थलेमाषादिपरिमितसुवर्णरजतादिप्रतिमापूज्या द्रव्यानुक्तावाज्यहोमः देवतानुक्तौप्रजापतिः मन्त्रानुक्तौ समस्तव्याहृतिभिः सङ्ख्या नुक्तावष्टोत्तरशतमष्टाविंशतिरष्टौवाहोमसङ्ख्या उपवासे कृतेब्राह्मणभोजनन्तत्साङ्गतार्थम् उद्यापनानुक्तौगांसुवर्णवादद्यात् विप्रवचनाद्व्रतसाङ्गता विप्रचनञ्चदक्षिणान्दत्वैव ग्राह्यं सर्वत्र गृहीतव्रतत्यागेचाण्डालतुल्यत्वं विधवाभिर्व्र

व्रतादौ सूतकादिप्रप्तौ निर्णयः

तादौ चित्ररक्तादिवस्त्रन्नधार्यश्वेतमेवधार्यं सूतकादौस्त्रीणांरजोदोषाज्वरादौचगृहीतव्रतादौशारीरनियमान्स्वयं कुर्यात् पूजादिकमन्यद्वाराकारयेत् अपूर्वारम्भस्तुसूतकादौनभवति काम्येप्रतिनिधिर्नास्तिनित्येनैमित्तिके चसः।काम्येप्युपक्रमादूर्ध्वङ्केचित्प्रतिनिधिंविदुः १ नस्यात्प्रतिनिधिर्मन्त्रस्वामिदेवाग्निकर्मसु।नापिप्रतिनिधातव्यन्निषिद्धंवस्तुकुत्रचित् १ व्रतादिसन्निपातेदानहोमाद्यविरुद्धङ्क्रमेणकार्यं विरुद्धेतुनक्तभोजनोपवासादावेकंस्वयङ्कृत्वान्यत्पुत्रभार्यादिनाकारयेत्

उपवासपारणकभक्तादीनामेकदिने प्राप्तौ निर्णयः

यत्र चतुर्दश्यष्टम्यादौ दिवाभोजननिषेधोव्रतान्तरपारणाचप्राप्तातत्र भोजनमेवकार्यम् पारणायाविधिप्राप्तत्वात् निषेधस्तुरागप्राप्तभोजनपरः एवं रविवारादौ सङ्कटचतुर्थ्यादिव्रतेरात्रिभोजनमेवकार्यं यत्राष्टम्यादौदिवाभोजननिषेधोरात्रौतुरविवारादिप्रयुक्तभोजननिषेधस्तत्रार्थप्राप्तउपवासः यत्र तु पुत्रवद्गृहस्थस्यसङ्क्रान्त्यादावुपवासोपिनिषिद्धोभोजनस्याप्यष्टम्यादिप्रयुक्तनिषेधस्तत्र किञ्चि-द्भक्ष्यम्प्रकल्प्योपवासएवकार्यः चान्द्रायणमध्येएकादश्यादिप्राप्तौ ग्राससङ्ख्यानियमेन भोजनमेवकार्यम् एवङ्कृच्छ्रादिव्रतेपि एवमेकादश्यामेकान्तरोपकासादिप्रयुक्तपारणायां प्राप्तायाञ्जलपारणङ्कृत्वोपवसेत् एवं द्वादश्यां मासोपवासश्राद्धप्रदोषादिप्रयुक्त-पारणप्रतिबन्धेजलपारणकार्यम् एकादश्यादौसङ्क्रमे पुत्रवद्गृहस्थस्योपवासनिषेध एकादश्युपवासश्चप्राप्तस्तत्रापिकिञ्चिदापोमूलम्फलम्पयोवाभक्ष्यङ्कल्प्यं द्वयोरुपवासयोर्नक्त-योरेकभक्तयोर्वैकस्मिन्दिनेप्राप्तौ अमुकोपवासममुकोपवासञ्चोभयन्तन्त्रेणकरिष्यइत्यादिसङ्कल्प्य सहैवोपवासपूजाहोमानामनुष्ठानं यत्रोपवासैकभक्तयोरेकदिनेप्राप्तिस्तत्र तिथिद्वैधेगौण-कालव्याप्तिमाश्रित्यएकम्पूर्वतिथौद्वितीयंशेषतिथौकार्यम् अखण्डतिथावेकं पुत्रादिनाकारयेदि-त्युक्तम् एवं काम्यन्नित्यस्यबाधकमित्यादिवाक्यैःका-म्यनित्यादिबलाबलबाधाबाध-सम्भवासम्भवादिविचार्यानुष्ठानमूह्यम् इतिसामान्यव्रतपरिभाषोदेशःषष्ठः ६

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬