🕉️ 24 November 2026, Tuesday · 08:18:04 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 20/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

पारणा

मध्येएवपारणमितिमाधवादयः निर्णयसिन्धौतुयामत्रयादर्वाक्चतुर्दशीसमाप्तावपिचतुर्दशीमध्येएवपारणन्नतुकदाचिदपिचतुर्दश्यन्ते उपोषणञ्चतुर्दश्याञ्चतुर्दश्याञ्चपारणम्। कृतैःसुकृतलक्षैस्तुलभ्यतेयदिवानवा १ सिक्थेसिक्थेफलं तस्यशक्तोवक्तुन्नपार्वति।इत्यादिनाचतुर्दशीमध्येपारणेपुण्यातिशयोक्तेरित्युक्तम् अत्रैवंव्यवस्थाबोध्या यदानित्यङ्कृत्यपूर्वकपारणपर्याप्ताचतुर्दशीनास्तितदावायेषाञ्चतुर्दशीशेषदिनेदर्शादिश्राद्धप्रसक्तिस्तैर्वातिथ्यन्तेपारणं द्वादश्यामिवात्रनित्यकृत्यापकर्षकवाक्याभावात् तिथ्यन्तपारणविधायकवाक्यसत्वेनसङ्कटविषयकजलपारणविधिवाक्यानामत्राप्रवृत्तेश्च कर्मपर्याप्तचतुर्दशीसत्वेश्राद्धप्रसक्त्यभावेचतिथिमध्यएवपारणमिति अथव्रतप्रयोगः त्रयोदश्याङ्कृतैकभक्तश्चतुर्दश्याङ्कृतनित्यक्रियःप्रातमन्त्रेणसङ्कल्पङ्कुर्यात् शिवरात्रिव्रतंह्येतत्करिष्येहम्महाफलम्।

व्रतप्रयोगः

निर्विघ्नमस्तुमेवात्रत्वत्प्रसादाज्जगत्पते १ चतुर्दश्यान्निराहारोभूत्वाशम्भोपरेऽहनि। भोक्ष्येहम्भुक्तिमुक्त्यर्थंशरणम्मेभवेश्वर २ इति द्विजस्तु रात्रीम्प्रपद्येजननीमित्यृचावपिपठित्वाजलमुत्सृजेत् ततःसायाह्नेकृष्णतिलैःस्नानङ्कृत्वाधृतभस्मत्रिपुण्ड्ररुद्राक्षोनिशामुखेशिवायतनङ्गत्वाक्षालितपादःस्वाचान्तउदङ्मुखोदेशकालौसङ्कीर्त्यशिवरात्रौप्रथमयामपूजाङ्करिष्येइतियामचतुष्टयेपूजाचतुष्टयचिकीर्षायांसङ्कल्पः सकृत्पूजाचिकीर्षायांश्रीशिवप्रीत्यर्थंशिवरात्रौश्रीशिवपूजाङ्करिष्यइतिसङ्कल्पः तत्रादौसामान्यतः पूजाविधिरुच्यते यामभेदेनविशेषस्तुवक्ष्यते अस्यश्रीशिवपञ्चाक्षरमन्त्रस्यवामदेवऋषिः अनुष्टुप्छन्दः श्रीसदाशिवदेवता न्यासेपूजनेजपेचविनियोगः वामदेवऋषयेनमःशिरंसि अनुष्टुप्छन्दसेनमोमुखे श्रीसदाशिवदेवतायैनमोहृदि ॐनन्तत्पुरुषायनमः हृदये ॐमम्अघोरायनमःपादयोः ॐशिंसद्योजातायनमःगुह्ये ॐवांवामदेवाय॰मूर्ध्नि ॐयम्ईशानाय॰मुखे ॐॐहृदयायनमः ॐनंशिरसेस्वाहा ॐमंशिखायैवषट् ॐशिङ्कवचायहुं ॐवान्नेत्रत्रयायवौषट् ॐयम्अस्त्रायफट् कुम्भपूजांविधाय ध्यायेन्नित्यम्महेशं रजतगिरिनिभञ्चारुचन्द्रावतंसंरत्नाकल्पोज्ज्वलाङ्गम्परशुमृगवराभीतिहस्तम्प्रसन्नम्। पद्मासीनंसमन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्ववन्द्यन्निखिलभयहरम्पञ्चवक्त्रन्त्रिनेत्रम् १ इतिध्यात्वाप्राणप्रतिष्ठाङ्कृत्वा स्थाप्यलिङ्गंस्पृशन् ॐभुःपुरुषं साम्बसदाशिवमावाहयामि ॐभुवःपुरुषंसाम्ब॰ ॐस्वःपुरुषंसाम्ब॰ ॐभूर्भुवःस्वःपुरुषंसां॰ इत्यावाहयेत् स्वामिन्सर्वजगन्नाथयावत्पूजावसानकम्। तावत्त्वम्प्रीतिभावेनलिङ्गेस्मिन्सन्निधौभव १ इतिपुष्पाञ्जलिन्दद्यात् स्थावरलिङ्गेपूर्वसंस्कृतचरलिङ्गेचप्राणप्रतिष्ठाद्यावाहनान्तन्नकार्यम् ॐसद्योजातम्प्रपद्यामिसद्योजातायवैनमोनमः ॐनमःशिवायश्रीसाम्बसदाशिवायनमः आसनंसमर्पयामि। स्त्रीशुद्रश्चेत् ॐनमःशिवायेतिपञ्चाक्षरीस्थानेश्रीशिवायनमइतिनमोन्तमन्त्रेणपूजयेत् ॐभवेभवेनातिभ-

चतुर्यामेषुपूजाचतुष्टयम्

वेभवस्वमांॐनमःशिवायश्रीसाम्बसदाशिवायनमःपाद्यंसमर्पयामि। ॐभवोद्भवायनमःॐनमःशिवायसाम्बस॰ अर्घ्य॰। ॐवामदेवायनमःॐनमःशिवायश्रीसाम्ब॰ आचमनं॰। ॐज्येष्ठायनमःॐनमःशिवाय॰ स्नानं॰। ततोमूलमन्त्रेणआप्यायस्वेत्यादिभिश्चपञ्चामृतैःसंस्नाप्यआपोहिष्ठेतितिसृभिःशुद्धोदकेनप्रक्षाल्यएकादशावृत्त्यैकावृत्त्यावारुद्रेणपुरुषसूक्तेनचचन्दनकुङ्कुमकर्पूरंवासितजलेनाभिषेकङ्कृत्वा ॐनमःशिवायेतिस्नानान्तेआचमनन्दत्वासाक्षतजलेनतर्पणङ्कार्यम् ॐभवन्देवन्तर्पयामि १ शर्वन्देवन्तर्पयामि २ ईशानन्देवन्तर्पयामि ३ पशुपतिदेवन्तर्पयामि ४ उग्रन्देवन्त॰ ५ रुद्रन्देवन्त॰ ६ भीमन्देवन्त॰ ७ महान्तन्देवन्त॰ ८ भवस्यदेवस्यपत्नीन्तर्पयामि शर्वस्य देवस्यपत्नीन्तर्पयामि ईशानस्यदेवस्यपत्नीन्त॰ पशुपतेर्देवस्यप॰ उग्रस्यदेवस्यप॰ रुद्रस्यदेवस्यप॰ भीमस्यदेवस्यप॰ महतोदेवस्यप॰ ८ अँज्येष्ठायनमःओन्नमःशिवायश्रीसाम्ब॰ वस्त्रं॰ मूलेनाचमनम्। ॐरुद्रायनमःॐनमःशिवाय॰यज्ञोपवीतं॰ मूलेनाचमनम्। ॐकालायनमः ॐनमःशिवायसाम्बसदाशिवायनमः चन्दनं॰। ॐबलविकरणायनमः ॐनमःशिवायसाम्बसदाशिवायनमः अक्षतान्॰। ॐबलविकरणायनमः ॐनमःशिवायश्रीसाम्बसदाशिवायनमः पुष्पाणि। सहस्रमष्टोत्तरशतंवासहस्रादिनामभिर्मूलमन्त्रेणवाबिल्वपत्राणिदद्यात्। ॐबलायनमःॐनमःशिवायश्रीसाम्बसदाशिवायनमः धूपं॰। ॐबलप्रमथनायनमःॐनमःशिवायसा॰ दीपं॰। ॐसर्वभूतदमनायनमःॐनमःशिवाय॰नैवेद्यम्। मूलेनाचमनम्फलञ्च। ॐमनोन्मनायनमःॐनमःशिवाय॰ताम्बूलं॰। मूलेनवैदिकैर्मन्त्रैश्चनीराजनं॰। ईशानःसर्वविद्यानामीश्वरःसर्वभूतानाम्ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॐनमःशिवाय॰मन्त्रपुष्पं॰। भवायदेवायनमःशर्वायदेवायेत्याद्यष्टौभवस्यदेवस्यपत्न्यै इत्याद्यष्टौचनमस्कारान्कृत्वा शिवाय॰रुद्राय॰पशुपतये॰नीलकण्ठाय॰महेश्वराय॰हरिकेशाय॰विरूपाक्षाय॰पिनाकिने॰त्रिपुरान्तका॰शम्भवे॰शूलिने॰महादेवायनमइतिद्वादशनामभिर्द्वादशपुष्पाञ्जलीन्दत्वामूलेनप्रदक्षिणानमस्कारान्कृत्वामूलमन्त्रमष्टोत्तरशतञ्जप्त्वाक्षमापयित्वाऽनेनपूजनेनसाम्बसदाशिवःप्रीयतामितिनिवेदयेत् अथ चतुर्षुयामेषुपूजाचतुष्टयेविशेषः तत्रप्रथमयामेमूलमन्त्रान्तेश्रीशिवायासनंसमर्पयामीतिशिवनाम्नासर्वोपचारसमर्पणं द्वितीययामेशिवरात्रौद्वितीययामपूजाङ्करिष्यइतिसङ्कल्प्यश्रीशङ्करायासनमितिशङ्करनाम्ना। ततोमहानिशिपूजाङ्करिष्यइतिसङ्कल्प्यपूर्ववत्पूजा ततस्तृतीययामपूजाङ्करिष्यइत्युक्त्वा श्रीमहेश्वरायासनमित्यादि। एवमेवचतुर्थयामेश्रीरुद्रायेतिरुद्रनाम्ना। प्रतियामं तैलाभ्यङ्गपञ्चामृतोष्णोदकशुद्धोदकगन्धोदकाभिषेकाःकार्याः यज्ञोपवीतान्तेगोरोचनकस्तूरीकुङ्कुमकर्पूरागरुचन्दनमिश्रितानुलेपेनलिङ्गंलेपयेत् पञ्चविंशतिपलमितःसार्वे-

पार्थिवलिङ्गपूजा

नुलेपइतिअनुलेपपरिमाणं यथाशक्तिवा धत्तूरकरवीरकुसुमैर्बिल्वपत्रैश्चपूजनमतिप्रशस्तम् पुष्पाभावेशालितण्डुलगोधूमयवैःपूजा नैवेद्योत्तरन्ताम्बूलमुखवासौउक्तौ नागवल्लीपत्रक्रमुकफलशुक्त्यादिचूर्णेतित्रयन्ताम्बूलसञ्ज्ञम् एतदेवनारिकेलकर्पूरैलाकङ्कोलैःसहितम्मुखवाससञ्ज्ञम् एतेषामन्यतमद्रव्यालाभेतत्तद्द्रव्यंस्मरेद्बुधः सर्वपूजान्तेप्रार्थना नित्यन्नैमित्तिकङ्काम्यंयत्कृतन्तुमयाशिव। तत्सर्वम्परमेशानमयातुभ्यंसमर्पितम् १ इति शिवरात्रिव्रतन्देवपूजाजपपरायणः। करोमिविधिवद्दत्तङ्गृहाणार्घ्यन्नमोस्तुते १ इत्यर्ध्यः एवंयामचतुष्टयेर्घ्यभेदःकौस्तुभे ततःप्रभातेस्नात्वापुनःशिवसम्पूज्यपूर्वोक्तद्वादशनामभिर्द्वादशब्राह्मणानशक्तावेकंवासम्पूज्यतिलपक्वान्नपूर्णान्द्वादशकुम्भानेकुंवादत्त्वा व्रतमर्पयेत् यन्मयाद्यकृतम्पुण्यन्तद्रुद्रस्यनिवेदितम्। त्वत्प्रसादान्महादेवव्रतमद्यसमर्पितम् १. प्रसन्नोभवमेश्रीमन्सद्गतिःप्रतिपाद्यताम्। त्वदालोकनमात्रेणपवित्रोस्मिनसंशयः २ इति ततोब्राह्मणान्भोजयित्वापूर्वनिर्णीतेकालेस्वजनैःसहपारणङ्कुर्यात् तत्रमन्त्रः संसारक्लेशदग्धस्यव्रतेनानेनशङ्कर। प्रसीदसुमुखोनाथज्ञानदृष्टिप्रदोभव १ इति इति शिवरात्रिव्रतविधिः अथमृन्मयलिङ्गेशिवपूजाचिकीर्षायान्तद्विधिः ॐहरायनमइति मृदमाहृत्यशोधितायान्तस्याञ्जलप्रक्षेपेणसम्पीड्यतेनपिण्डेनॐमहेश्वरायनमइतिलिङ्गकुर्यात्। तच्चलिङ्गमशीतिगुञ्जात्मककर्षादधिकपरिमाणमङ्गुष्ठमात्रन्ततोधिकंवाकार्यन्नन्यूनम्। मृन्मयलिङ्गेपञ्चसूत्रसम्पादनाभावेपिनदोषः अतएव सप्तकृत्वस्तुलारूढंवृद्धिमेतिनहीयते। बाणलिङ्गमितिप्रोक्तंशेषन्नार्मदमुच्यते १ इत्युक्तलक्षणाद्वाणलिङ्गादतिदुर्लभाद्दुःसम्पाद्यपञ्चसूत्रसम्पादानात्सुवर्णादिलिङ्गाच्चमृन्मयलिङ्गश्रेष्ठं द्वापरेपारदंश्रेष्ठम्पार्थिवन्तुकलौयुगे। इतिवचनाच्च ततः ॐशूलपाणयेनमः शिवइहप्रतिष्ठितोभवेतिसबिल्वपत्रेपूजापीठेप्रतिष्ठाप्य ध्यायेन्नित्यम्महेशमतिध्यात्वा ॐपिनाकधृषेनमःश्रीसाम्बसदाशिवइहागच्छइहप्रतिष्ठेहसन्निहितोभवेत्यावाहयेत् इहद्विजानांसर्वत्रमूलमन्त्रोपिज्ञेयः ततः ॐनमःशिवायेतिमूलमन्त्रेणपाद्यमर्घ्यमाचमनन्दत्त्वापशुपतयेनमइतिमूलेनचस्नानंवस्त्रमुपवीतङ्गन्धम्पुष्पन्धूपदीपनैवेद्यफलताम्बूलनीराजनमन्त्रपुष्पाञ्जलीन्दत्त्वा शर्वायक्षितिमूर्तयेनमइतिप्राच्याम्पूजयेत् भवायजलमूर्तये नमःईशान्यां रुद्रायाग्निमूर्तये॰ उदीच्याम् उग्रायवायुमूर्तयेनमःवायव्यां भीमायाकाशमूं॰ प्रतीच्यां पशुपतयेयजमानमूर्तयेनमइतिनैर्ऋत्यां महादेवायसोममूर्तयेनमइतिदक्षिणस्यां

लिङ्गविशेषफलम्

ईशानायसूर्यमूर्तयेनमइत्याग्नेय्यां ततःस्तुत्वानमस्कृत्यमहादेवायनमइतिविसर्जयेदितिसङ्क्षेपः विस्तरस्तुपुरुषार्थचिन्तामणौज्ञेयः शिवरात्रिश्चेत्पूर्वोक्तपूजाविधिःपार्थिवलिङ्गेपिकार्यः पार्थिवलिङ्गोद्यापनविधिःकौस्तुभादौज्ञेयःलिङ्गविशेषेणफलविशेषः आयुष्यंहीरजेलिङ्गे मौक्तिकेरोगनाशः वैडूर्येशत्रुनाशः पद्मरागेलक्ष्मीः पुष्परागजेसुखम् ऐन्द्रनीलेयशः मारकतेपुष्टिः स्फाटिकेसर्वकामाः राजतेराज्यम्पि-

तृमुक्तिः हैमेसत्यलोकः ताम्रेपुष्टिरायुश्च पैत्तलेतुष्टिः कांस्येकीर्तिः लौहेशत्रुनाशः सीसजेआयुष्यम् मतान्तरे सौवर्णेब्रह्मस्वपरिहारःस्थिरलक्ष्मीश्च एवङ्गन्धमयेसौभाग्यं हस्तिदन्तजेसेनापत्यं व्रीह्यादिधान्यपिष्टजेपुष्टिसुखरोगनाशादि माषजेस्त्रीः नावनीतेसुखं गोमयजेरोगनाशः गौडेन्नादि वंशाङ्कुरजेवंशवृद्धिरित्यन्यत्रविस्तरः एवं लिङ्गसङ्ख्याविशेषात्फलविशेषःकौस्तुभे शिवनिर्माल्यग्रहणाग्रहणविचारस्तृतीयपरिच्छेदेज्ञेयः मासशिवरात्रिनिर्णयःप्रथमपरिच्छेदेउक्तः शिवरात्रिव्रतोद्यापनङ्कौस्तुभादौज्ञेयम् मासशिवरात्रिव्रतोद्यापनमपिकौस्तुभेस्पष्टम् माघामावास्यायामपराह्णव्यापिन्यांयुगादित्वादपिण्डकंश्राद्धङ्कार्यं तच्चदर्शश्राद्धेनसहतन्त्रङ्कार्यम् माघामावास्यायांशततारकायोगेपरमःपुण्यकालस्तत्रश्राद्धात्परमापितृतृप्तिः धनिष्ठायोगेतुतिलान्नेनश्राद्धङ्कार्यं तेनवर्षायुतकालम्पितृतृप्तिः इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेमाघमासकृत्यनिर्णयोद्देशः

होलिकानिर्णयः

14. फाल्गुनमासः

अथफाल्गुनमासः मीनसङ्क्रान्तौपराःषोडशनाड्यःपुण्याः रात्रौतुप्रागुक्तम् फाल्गुनेगोव्रीहिवस्त्रदानङ्गोविन्दप्रीतयेकार्यम् अथफाल्गुनशुक्लप्रतिपदमारभ्यद्वादशदिनपर्यन्तम्पयोव्रतंश्रीभागवतेउक्तं तत्प्रयोगोमूलानुसारेणोह्यः फाल्गुनीपौर्णमासी मन्वादिःसापौर्वाह्णिकी इयमेवहोलिका साप्रदोषव्यापिनीभद्रारहिताग्राह्या दिनद्वये प्रदोषव्याप्तौपरदिनेप्रदोषैकदेशव्याप्तौवापरैव पूर्वदिनेभद्रादोषात् परदिनेप्रदोषस्पर्शाभावेपूर्वदिनेप्रदोषेभद्रासत्वेयदिपूर्णिमापरदिनेसार्धत्रियामाततोधिकावातत्पदिनेचप्रतिपद्वृद्धिगामिनीतदापरदिनेप्रतिपदिप्रदोषव्यापिन्यांहोलिका उक्तविषयेयदिप्रतिपदोहासस्तदापूर्वदिनेभद्रापुच्छेवाभद्रामुखमात्रन्त्यक्त्वाभद्रायामेववाहोलिकादीपनम् परदिनेप्रदोषस्पर्शाभावेपूर्वदिनेयदिनिशीथात्प्राक्भद्रासमाप्तिस्तदाभद्रावसानोत्तरमेवहोलिकादीपनं निशीथोत्तरम्भद्रासमाप्तौभद्रामुखन्त्यक्त्वाभद्रायामेव प्रदोषेभद्रामुखव्याप्तेभद्रोत्तरम्प्रदोषोत्तरंवा दिनद्वयेपिपूर्णिमायाःप्रदोषस्पर्शाभावेपूर्वदिनएवभद्रापुच्छेतदलाभेभद्रायामेवप्रदोषोत्तरमेवहोलिका रात्रौपूर्वार्धभद्रायाग्राह्यत्वोक्तेः नतुपूर्वप्रदोषादौचतुर्दश्यान्नवापरत्रसायाह्नादौ दिवाहोलिकादीपनं तुसर्वग्रन्थविरुद्धम् इदंहोलिकापूजनंश्रवणाकर्मादिवद्भुक्त्वापिकुर्वन्ति युक्तञ्चैतत् केचिद्धोलिकापूजनङ्कृत्वाभुञ्जतेतेषाम्भोजनस्यपूजनस्यवाननियमेनशास्त्रविहितकाललाभः इदञ्चन्द्रग्रहणसत्वेवेधमध्येकार्यं ग्रस्तोदयेपरदिनेप्रदोषेपूर्णिमासत्वेग्रहणमध्यएवकार्यम्

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬