🕉️ 24 November 2026, Tuesday · 08:17:50 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 21/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

भद्रामुखपुच्छलक्षणम्

अन्यथापूर्वदिने अथभद्रामुखपुच्छलक्षणम् पूर्णिमायाम्भद्रायास्तृतीयपादान्तेघटीत्रयम्पुच्छं चतुर्थपादाद्यघटीपञ्चकम्मुखं तथाचमध्यममानेनषष्टिघटीमितायाम्पूर्णिमायाम्पूर्णिमाप्रवृत्त्युत्तरसार्धैकोनविंशतिघटिकोत्तरङ्घटीत्रयम्पुच्छं सार्धद्वाविंशतिघटिकोत्तरङ्घटीपञ्चकम्मुखं तिथेश्चतुःषष्टिघटीमितत्वे

होलिकापूजा

पूर्णिमायाएकविंशतिघटिकोत्तरम्पुच्छं चतुर्विंशतिघटिकोत्तरम्मुखम् एवन्तिथेर्मानान्तरेप्यूह्यम् पूजाविधिः देशकालौसङ्कीर्त्यसकुटुम्बस्यममदुण्ढाराक्षसीप्रीत्यर्थन्तत्पीडापरिहारार्थंहोलिकापूजनमहङ्करिष्येइतिसङ्कल्प्य शुष्कानाङ्काष्ठानाङ्गोमयपिण्डानाञ्चराशिङ्कृत्वावह्निनाप्रदीप्यतत्र अस्माभिर्भयसन्त्रस्तैःकृतात्वंहोलिके यतः। अतस्त्वाम्पूजयिष्यामिभूतेभूतिप्रदाभव १ इतिपूजामन्त्रेणश्रीहोलिकायैनमोहोलिकामावाहयामीत्यावाह्य होलिकायैनमइतिमन्त्रेणासनपाद्यादिषोडशोपचारान्दत्त्वा तमग्निन्त्रिःपरिक्रम्यगायन्तुचहसन्तुच। जल्पन्तुस्वेच्छयालोकानिःशङ्कायस्ययन्मतम् १ ज्योतिर्निबन्धे पञ्चमीप्रमुखास्तासुतिथयोनन्तपुण्यदाः। दशस्युः शोभनास्तासुकाष्ठस्तेयंविधीयते १ चाण्डालमुतिकागेहाच्छिशुहारितवन्हिना। प्राप्तायाम्पूर्णिमायान्तुकुर्यात्तत्काष्ठदीपनम् २ ग्रामाद्बहिश्चमध्येवातूर्यनादसमन्वितः। स्नात्वाराजाशुचिर्भूत्वास्वस्तिवाचनतत्परः ३ दत्त्वादानानिभूरीणिदीपयेद्धोलिकाचितिम्। ततोभ्युक्ष्यचितिंसर्वांसाज्येनपयसासुधीः ४ नारिकेलानिदेयानिवीजपूरफलानिच। गीतवाद्यैस्तथानृत्यैरात्रिःसानीयतेजनैः ५ तमग्निन्त्रिःपरिक्रम्यशब्दैर्लिङ्गभगाङ्कितैः। तेनशब्देनसापापाराक्षसीतृप्तिमाप्नुयात् ६ एवंरात्रौहोलिकोत्सवङ्कृत्वा प्रातःप्रतिपदियःश्वपचन्दृष्ट्वास्नानङ्कुर्यात् नतस्यदुष्कृतङ्किञ्चिन्नाधयोव्याधयोपिच। कृत्वाचावश्यकार्याणिसन्तर्प्यपितृदेवताः १ वन्दयेद्धोलिकाभूतिंसर्वदुष्टोपशान्तये। वन्दनेमन्त्रः वन्दितासिसुरेन्द्रेणब्रह्मणाशङ्करेणच। अतस्त्वम्पाहिनोदेविभूतेभूतिप्रदा भव १ इति होलिकादिनङ्करिसञ्ज्ञकतदुत्तरदिनञ्चशुभेवर्ज्यं होलिकाग्रहणभावुकायनम्प्रेतदाहदिवसोत्रपञ्चमः। तत्परञ्चकरिसञ्ज्ञकन्दिनंवर्जितंसकलकर्मसूभयम् १ इत्युक्तेः ग्रहणायनप्रेतदाहेषुनिशीथविभागेनपूर्वदिनकरिदिनयोर्निर्णयोज्ञेयः नरोदोलागतन्दृष्ट्वागोविन्दम्पुरुषोत्तमम्।

वसन्तारम्भचूतपुष्पाशनादि

फाल्गुन्यांसंयतोभूत्वागोविन्दस्यपुरंव्रजेत् १ फाल्गुनकृष्णप्रतिपदिवसन्तारम्भोत्सवः साचौदयिकीग्राह्या दिनद्वयेसत्वेपूर्वा अत्रतैलाभ्यङ्ग उक्तः अत्रप्रतिपदिचूतपुष्पप्राशनमुक्तं तत्प्रकारः गोमयोपलिप्ते गृहाङ्गणेशुक्लवस्त्रासनउपविष्टःप्राङ्मुखःसुवासिन्याकृतचन्दनतिलकनीराजनःसचन्दनमाम्रकुसुमम्प्राश्नीयात् तत्रमन्त्रः चूतमग्र्यंवसन्तस्यमाकन्दकुसुमन्तव। सचन्दनम्पिवाम्यद्यसर्वकामार्थसिद्धये १ इति कृष्णद्वितीयायान्देशग्रामाधिपतिर्विततेवितानादिशोभितेदेशेरम्यासनेउपविश्यपौरजानपदान्लोकान्सिन्दूरादिक्षोदैःचन्दनादिभिःपट्टवासैश्चविकीर्यतेभ्यस्ताम्बूलादिदत्त्वानृत्यगीतविनोदैर्महोत्सवङ्कुर्यात् इदानीम्प्राकृतजनास्तुकृष्णपञ्चमीपर्यन्तमेतमुत्सवङ्कुर्वन्ति इतिहोलिकोत्सवः फाल्गुना-

चान्द्रवत्सरभेदाः

मावास्यामन्वादिःसापराह्णव्यापिनीग्राह्या इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेफाल्गुनमासकृत्यनिर्णयोद्देशःसमाप्तः

15. परिच्छेदद्वयशेपाख्यम्प्रकीर्णप्रकरणमुच्यते

अथपरिच्छेदद्वयशेपाख्यम्प्रकीर्णप्रकरणमुच्यते द्वादशस्वपिमासेषुश्राद्धेव्यतीपातादियोगस्यभरण्यादिनक्षत्रस्यचापराह्णव्याप्त्यादर्शवन्निर्णयोज्ञेयः उपवासादौप्रचुराचाराभावान्नोक्तः अथचान्द्रसांवत्सरभेदाः प्रभवोविभवःशुक्लःप्रमोदोथप्रजापतिः। अङ्गिराःश्रीमुखोभावोयुवाधातातथैवच १ ईश्वरोबहुधान्यश्चप्रमाथीविक्रमोवृपः। चित्रभानुःसुभानुश्चतारणःपार्थिवोव्ययः २ सर्वजित्सर्वधारी चविरोधीविकृतिःखरः। नन्दनोविजयश्चैवजयोमन्मथदुर्मुखौ ३ हेमलम्बोविलम्बोथविकारीशार्वरीप्लवः। शुभकृच्छोभकृत्क्रोधीविश्वावसुपराभवौ ४ प्लवङ्गःकीलकः सौम्यः साधारणविरोधकृत्। परिधावीप्रमादीचआनन्दोराक्षसोनलः ५ पिङ्गलःकालयुक्तश्चसिद्धार्थीरौद्रदुर्मती। दुन्दुभीरुधिरोद्गारीरक्ताक्षीक्रोधनःक्षयः ६ इति रवेः राशिसङ्क्रमवन्नक्षत्रसङ्क्रमेपिपोडशनाड्यःपूर्वत्रपरत्रचपुण्यकालः

चन्द्रादिसङ्क्रान्तिपर्वकालः

अथचन्द्रादीनांसङ्क्रान्तौपुण्यकालः चन्द्रस्यसङ्क्रान्तौमाक्परत्रचत्रयोदशपलाधिकाएकाघटीपुण्यकालः भौमस्यैकपलाधिकाश्चतस्रोनाड्यः बुधस्यचतुर्दशपलाधिकास्तिस्रः गुरोःसप्तत्रिंशत्पलाधिकाश्चतस्रः शुक्रस्यैकपलाधिकाश्चतस्रः शनेःसप्तपलाधिकाःषोडश एताःसर्वाःप्राक्परत्रचबोद्धव्याः रात्रौग्रहान्तराणांसङ्क्रमेरात्रावेवपुण्यकालः सूर्यसङ्क्रान्तिवद्दिवापुण्यत्वविधायकाभावात् चन्द्रादिसङ्क्रान्तिषुस्नानं काम्यन्नतुनित्यम् आदित्यादिसूचितपीडानिरासार्थंस्नानानि मञ्जिष्ठागजमदकुङ्कुमरक्तचन्दनानिजलपूर्णेताम्रपात्रेप्रक्षिप्यस्नानंसूर्यपीडाहरम्

नवग्रहस्नानानि

उशीरशिरीषकुङ्कुमरक्तचन्दनयुतशङ्खतोयेनस्नानञ्चन्द्रदोषहरं खदिरदेवदारुतिलामलकयुतरौप्यपात्रजलेनस्नानम्भौमे गजमदयुतसङ्गमजलेनमृत्पात्रस्थेनस्नानम्बुधे औदुम्बरबिल्ववटामलकानाम्फलैर्युतसौवर्णपात्रजलेनस्नानङ्गुरौ गोरोचनगजमदशतपुष्पाशतावरीयुतराजतपात्रजलेनस्नानंशुक्रे तिलमाषप्रियङ्गुगन्धपुष्पयुतलोहपात्रस्थजलेनस्नानंशनौ गुग्गुलुहिङ्गुहरितालमनःशिलायुतमहिषशृङ्गपात्रजलेनस्नानंराहौ वराहोत्खातपर्वताग्रमृच्छागक्षीरयुतड्गपात्रजलेनस्त्रानङ्केतौ

ग्रहदानानि

अथग्रहप्रीत्यर्थन्दानानि माणिक्यगोधूमधेनुरक्तवस्त्रगुडहेमताम्ररक्तचन्दनकमलानिरवेःप्रीत्यर्थन्दानानि वंशपात्रस्थतण्डुलकर्पूरमौक्तिकश्वेतवस्त्रघृतपूर्णकुम्भवृषभाश्चन्द्रस्य प्रवालगोधूममसूरिकारक्तवृषगुडसुवर्णरक्तवस्त्रताम्राणिभौमस्य नीलवस्त्रसुवर्णकांस्यमुद्गगारुत्मतदासीहस्तिदन्तपुष्पाणिबुधस्य पुष्परागमणिहरिद्राशर्कराश्वपीतधान्यपीतवस्त्रलवणसुवर्णानिसुरगुरोः चित्रवस्त्रश्वेताश्वधेनुवज्रमणिसुवर्णरजतगन्धतण्डुलाःशुक्रस्य इन्द्रनीलमापतैलतिलकुलित्थमहिषीलोहकृष्णधेनवःशनेः गोमेदाश्वनीलवस्त्रकम्बलतैल-

शनिव्रतम्

तिललोहानिराहोः वैडूर्यतैलतिलकम्बलकस्तूरीच्छागवस्त्राणिकेतोर्दानानि शनिपीडापरिहारार्थंशनिवारेतैलाभ्यङ्गस्तैलदानञ्च अथशनिव्रतं लोहमयंशनिन्तैलकुम्भे लौहेमृन्मयेवानिक्षिप्यकृष्णवस्त्राभ्याङ्कम्बलेनवायुतङ्कृष्णैःसुगन्धपुष्पैश्चकृसरान्नैस्तिलोदनैःपूजयित्वाकृष्णायद्विजायतदभावेऽन्यस्मैसशनिर्देयः तत्रशन्नोदेवीरितिमन्त्रः शूद्रादेस्तु यःपुनर्नष्टराज्यायनलायपरितोषितः। स्वप्नेददौनिजंराज्यंसमेसौरिःप्रसीदतु १ नमोर्कपुत्रायशनैश्चरायनीहारवर्णाञ्जनमेचकाय। श्रुत्वारहस्यं भवकामदस्त्वम्फलप्रदोमेभवसूर्यपुत्र २ इत्यादयः एवंव्रतम्प्रतिशनिवारंसंवत्सरं कार्यं कोणस्थःपिङ्गलोबभ्रुःकृष्णोरौद्रोन्तकोयमः। सौरिः शनैश्चरोमन्दः पिप्पलादेन संस्तुतः।

शनिस्तोत्रम्

इतिदशनामानिवानित्यम्पठनीयानि अथशनिस्तोत्रम् पिप्पलादउवाच नमस्ते कोणसंस्थायपिङ्गलायनमोस्तुते।नमस्तेबभ्रुरूपायकृष्णायचनमोस्तुते १ नमस्तेरौद्रदेहायनमस्तेचान्तकायच। नमस्तेयमसञ्ज्ञायनमस्तेसौरयेविभो २ नमस्तेमन्दसञ्ज्ञायशनैश्चरनमोस्तुते। प्रसादङ्कुरुदेवेशदीनस्यप्रणतस्यच ३ अनेनस्तोत्रेणप्रत्यहम्प्रातःशनिस्तवनेनसार्धसप्तवार्षिकशनिपीडानाशः रविवारेसूर्यपूजोपवाससूर्यमन्त्रजपैः सर्वरोगनाशः ह्रींह्रींसःसूर्यायेतिषडक्षरःसूर्यमन्त्रः इतिश्रीमत्काश्युपाध्यायसूरिसूनुयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनाथोपाध्यायविरचिते धर्मसिन्धुसारेप्रकीर्णनिर्णयः

16. ग्रन्थप्रयोजनसमूलत्वादिकम्

ग्रन्थप्रयोजनसमूलत्वादिकम्। उक्त आद्यपरिच्छेदेसामान्येनविनिर्णयः। द्वितीयेस्मिन्परिच्छेदेविशेषेणविनिर्णयः। मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसानराः।

कृतकार्याःप्राङ्निवन्धैस्तदर्थन्नायमुद्यमः २ येपुनर्मन्दमतयोलसाअज्ञाश्चनिर्णयम्। धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया ३ निबन्धोयन्धर्मसिन्धुसारनामासुबोधनः। अमुनाप्रीयतांश्रीमद्विठ्ठलोभक्तवत्सलः ४ सर्वत्रमूलवचनानीहज्ञेयानितद्विचारश्च। कौस्तुभनिर्णयसिन्धुश्रीमाधवकृतनिवन्धेभ्यः ५ प्रेम्णासद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि। संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव ६ इति श्रीमत्काश्युपाध्यायसूरिसूनुयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेप्रकीर्णनिर्णयोद्देशःसमाप्तः॥

॥इतिद्वितीयपरिच्छेदःसमाप्तः॥

श्रीगणेशायनमः। श्रीपाण्डुरङ्गमकलङ्ककलानिधानकान्ताननं यदबुधानमनं मुधा न। श्रीवत्सकौस्तुभरमोल्लसितोरसं तं वन्दे पदाब्जभृतनन्ददुदारसन्तम् १ भीमाप्रियं सुकरुणार्णवमाशुतोषं दीनेष्टपोषमघसंहतिसिन्धुशोषम्। श्रीरुक्मिणीमतिमुषं पुरुषं परं तं वन्दे दुरन्तचरितं हृदि सञ्चरन्तम् २ वन्दे प्रतिघ्नन्तमघानि शङ्करं धत्तां स मे मूर्ध्नि दिवानिशं करम्। शिवां च विघ्नेशमथो पितामहं सरस्वतीमाशु भजेऽपि तामहम् ३ श्रीलक्ष्मीं गरुडं सहस्रशिरसं प्रद्युम्नमीशं कपिं श्रीसूर्यं विधुभौमविद्गुरुकविच्छायासुतान्षण्मुखम्। इन्द्राद्यान्विबुधान् गुरूंश्च जननीं तातं त्वनन्ताभिधं नत्वार्यान्वितनोमि माधवमुखान् धर्माब्धिसारं मितम् ४ दृष्ट्वा पूर्वनिबन्धान् प्राच्यांश्च नवांश्च तेषु सिद्धार्थान्। प्रायेण मूलवचनान्युज्झित्य लिखामि वालबोधाय ५ उत्त्का धर्माब्धिसारेस्मिन्निर्णयं कालगोचरम्। परिच्छेदे प्रथमजे द्वितीये च यथाक्रमम् ६ अथ गर्भादिसंस्कारान्धर्मान्गृह्यादिसम्मतान्। वक्ष्ये सङ्क्षेपतः सन्तोऽनुगृह्णन्तु दयालवः ७ काशीनाथाभिधेनात्रानन्तोपाध्यायसूतुना। निर्णीयते यदेतत्तु शोधनीयं मनीषिभिः ८

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬