निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
तत्रादौगर्भाधानसंस्कारउच्यते तदुपयोगितयाप्रथमरजोदर्शनेदुष्टमासादिनिर्णीयते तत्रचैत्रज्येष्ठाषाढभाद्रपदकार्तिकपौषमासादुष्टाः प्रतिपद्रिक्ताष्टमीषष्ठीद्वादशीपञ्चदश्योऽनिष्टफलास्तिथयः तथा रविभौममन्दवारेषुभरणीकृत्तिकाऽऽर्द्राश्लेषामघापूर्वात्रयविशाखाज्येष्ठानक्षत्रेषुविष्कम्भगण्डातिगण्डशूलव्याघातवज्रपरिघपूर्वार्धव्यतीपातवैधृतियोगेषुविष्ट्याङ्ग्रहणेरात्रिसन्ध्यापराह्णकालेषुनिद्रायां जीर्णरक्तनीलचित्रवस्त्रेषुनग्नत्वेपरगृहपरग्रामेषुअल्पाधिकनीलादिरक्तत्वेचानिष्टफलं सम्मार्जनीकाष्ठतृणाग्निशूर्पान्हस्तेदधानाकुलटास्यात् वस्त्रेविषमारक्तबिन्दवःपुत्रफलाः समाःकन्याफलाः
अथप्रथमर्तै अक्षतैरासनङ्कृत्वातत्रतामुपवेश्यपतिपुत्रवत्यःस्त्रियो हरिद्राकुङ्कुमगन्धपुष्पस्रक्ताम्बूलादितस्यैदत्त्वादीपैर्नीराज्यसदीपालङ्कृतेगृहेतांवासयेयुः सुवासिनीभ्योगन्धादिकंलवणमुद्रादिचदद्यात्
अथसर्वर्तुसाधारणनियमाः त्रिरात्रमस्पृश्याभूत्वाअभ्यङ्गाञ्जनस्नानदिवास्वापाग्निस्पर्शदन्तधावनमांसाशनसूर्याद्यवलोकान्भुमौरेखाकरणञ्चवर्जयेदधःशयीत अञ्जलिनाताम्रलोहपात्रेणवाजलन्नपिबेत् याखर्वपात्रेणपिवतितस्याःखर्वःपुत्रः नखनिकृन्तनेकुनखीपुत्रः पर्णेनपानेउन्मत्तइति द्वितीयादिषुऋतुषुप्रवासगन्धमाल्यादिधारणताम्बूलगोरसभक्षणपीठाद्यारोहणंवर्जयेत् मृन्मयेआयसेभूमौवाभुञ्जीत ग्रहणादिनिमित्तकस्नानप्राप्तौनोदकमज्जनरूपंस्नानङ्किन्तुपात्रान्तरितजलेनस्नात्वा नवस्त्रपी-
डनङ्कुर्यान्नान्यद्वासश्चधारयेत्। एवम्मृताशौचादिनिमित्तस्नानप्राप्तावपि सगोत्रयोर्योनिसम्बन्धिन्योर्वाब्राह्मण्योरजस्वलयोःपरस्परंस्पर्शेउक्तरीत्यातदैवस्नानमात्रेणशुद्धिः बुद्ध्यास्पर्शेएकरात्रमुपवासः गोत्रादिसम्बन्धाभावेअबुद्ध्यास्पर्शे तस्मिन्दिनेस्नात्वानभुञ्जीत मत्यास्पर्शेतुआशुद्धेर्नभुञ्जीत भोजने तुशुद्ध्यनन्तरन्तावद्दिनसङ्ख्ययोपवसेत् उपवासाशक्तौतुतत्प्रत्याम्नायब्राह्मणभोजनादिकुर्यात् सर्वत्रशुद्ध्युत्तरम्पञ्चगव्याशनञ्ज्ञेयं शूद्रीब्राह्मण्योरजस्वलयोःस्पर्शे आशुद्धेरभोजनंशुद्धौकृच्छ्रप्रायश्चित्तम्ब्राह्मण्याःशूद्र्यास्तुपादकृच्छ्रमात्रं रजस्वलायाः सूतिकायावाचाण्डालस्पर्शेआशुद्धेर्नभोजनमतिकृच्छ्रञ्च अमत्यास्पर्शेप्राजापत्यं दण्डादिपरम्परयाचाण्डालादिस्पर्शेस्नानमात्रम् भुञ्जानायाःस्पर्शेप्राजापत्यन्द्वादशब्राह्मणभोजनञ्च मिताक्षरायान्तु पतितान्यजचाण्डालैःकामतःस्पर्शेआशुद्धेरभुक्त्वाशुद्ध्युत्तरम्प्रथमेह्निस्पर्शेत्र्यहमुपवासः द्वितीयेद्व्यहं तृतीयेएकाहः अकामतस्तुआशुद्धेरभोजनमात्रम् एवङ्ग्रामकुक्कुटसूकरश्ववायसरजकादिस्पर्शेपि अशक्तौतुस्नात्वा यावन्नक्षत्रदर्शनमभोजनम् भुञ्जानायाःश्वचाण्डालादिस्पर्शेआशुद्धेरभोजनंषड्राात्रं गोमूत्रयावकाहारः अशक्तौसुवर्णदानंविप्रभोजनंवा उच्छिष्टयोरजस्वलयोःस्पर्शे उच्छिष्टचाण्डालेनस्पर्शेवाकृच्छ्रेणशुद्धिः उच्छिष्टद्विजस्पर्शेरजस्वलायाख्यहमूर्ध्वोच्छिष्टे अधरोच्छिष्टेत्वेकाहमुपवासः इत्युक्तम् उच्छिष्टशूद्रस्पर्शेअधिकङ्कल्प्यम् पुष्पिण्याःसूतक्याद्यशुद्धनरस्पर्शेआशुद्धेरभोजनं भोजनेतुकृच्छ्रम् पञ्चनखद्विशफैकशफपशुस्पर्शेअण्डजस्पर्शेचाशुद्धेरभोजनं रजस्वलायाःश्वजम्बुकगर्दभदंशेआशुद्धेरभोजनं शुद्धौपञ्चरात्रमुपवासः नाभेरूर्ध्वन्दंशेदशरात्रम्मूर्ध्निदंशेविंशतिरात्रम् भुञ्जानारञ्जस्वलारजस्वलाम्पश्यतिचेदाशुद्धेरभोजनं चण्डालम्पश्यतिचेदुपवासत्रयमपि कामतश्चाण्डालम्पश्यतिचेत्प्राजापत्यं रजस्वलायाःशवसूतिकाभ्यांस्पर्शेशुद्ध्यन्तेत्रिरात्रमुपवासः आशुद्धेरभोजनञ्च भोजनेतुकृछ्रं सर्वत्रब्रह्मकुर्चविधिनापञ्चगव्याशनमुक्तमेव आशौचिभिःस्पर्शेस्नानात्प्राग्रजोदर्शनेचतुर्थदिनपर्यन्तमभोजनम् अशक्तौतुसद्यःस्नात्वाभुञ्जीत एवम्बन्धुमरणश्रवणेस्नानात्प्राग्रजोदर्शनेपि तथारजोदर्शनोत्तरम्बन्धुमरणश्रवणेपिशक्तायाःआशुद्धेरभोजनमशक्तायाःसद्यःस्नानेनभोजनं सर्वत्रास्पृश्यंस्पर्शेअशक्तायाःस्नानेकृतेभोजनम्
शुद्ध्यन्तेऽनशनप्रत्याम्नायइतिकेचित् रजस्वलायाःप्रथमदिननिर्णयस्तुरात्रेःपूर्वभागद्वयेपूर्वन्दिनम्प्रथमं तृतीयेभागेरजोदर्शने उत्तरदिनम्प्रथमं यद्वार्धरात्रात्पूर्वम्पूर्वदिनम्प्रथमम् अर्धरात्रादूर्ध्वम् उत्तरदिनम्प्रथमम् एवञ्जननमरणाशौचेपिज्ञेयं यस्याःप्रायेणमा-
सेरजोदर्शनन्तस्याःसप्तदशदिनपर्यन्तम्पुनारजोदर्शनेस्नानाच्छुद्धिः अष्टादशाहेएकरात्रमशुचित्वम्एकोनविंशेद्विरात्रंविंशतिप्रभृतित्रिरात्रं यस्याःप्रायःपक्षेपक्षेरजोदर्शनन्तस्याः दशदिनपर्यन्तंस्नानाच्छुद्धिः एकादशाहेरजोदृष्टौएकाहःद्वादशेद्विरात्रम्ऊर्ध्वन्त्रिरात्रं रोगेणयद्रजःस्त्रीणामन्वहम्प्रतिवर्ततेतत्रनास्पृश्यत्वं किन्तुरजोनिवृत्तिपर्यन्तम्पाकदैवपित्र्यकर्मानधिकारमात्रं रोगजेवर्तमानेपिमासजंरजोनिर्यात्येवतत्रसावधानासतीत्रिरात्रमशुचिर्भवेत् यत्तुगर्भिण्याःप्राक्प्रसवात्रोगजंरजोदर्शनन्तत्रत्रिदिनमेवाऽऽशौचम् प्रसूतिकायाः किञ्चिदूनमासात्पूर्वंरजोनिवृत्तौस्नानमात्रम् पूर्णेमासेत्रिरात्रम् उच्छिष्टास्त्रीयदिरजस्वलाभवतितदाशुद्ध्यन्तेत्र्यहमधरोच्छिष्टेत्वेकाहमुपवासः अविज्ञातरजोदोषायदिगृहेव्यवहरतितदातयास्पृष्टङ्गोरसमृद्भाण्डादिकञ्जलादिकञ्चनत्याज्यं सूतकवज्ज्ञानकालमारभ्यैवदोषात् अशुचित्वन्तुज्ञानदिनमारभ्यत्रिदिनमितिकेचित् अन्येतुद्वितीयादिदिनेरजसिज्ञातेसूतकवच्छेषदिनैरेवशुद्धिरित्याहुः एवन्त्रिदिनंस्थित्वाचतुर्थेहनिषष्टिवारम्मृत्तिकाशौचेनमलम्प्रक्षाल्यदन्तधावनपूर्वकंसङ्गवकालेस्नायात् सूर्योदयात्प्राक्स्नानन्त्वनाचारः चतुर्थेऽहनि रजोनिवृत्तौभर्तृशुश्रूषणादौशुद्धिः पञ्चमेहनिदैवपित्र्यकर्मणिशुद्धिः कानिचिद्दिनानिरजोयद्यनुवर्त्तेततदातन्निवृत्तिपर्यन्तन्दैवपित्र्ययोर्नशुद्धिः रोगेणत्वनुवृत्तौप्रागुक्तं केचित्तुचतुर्थदिवसेदर्शेष्ट्यादिश्रौतकर्माणिकर्त्तव्यानीत्याहुः अपरेतुइतरदिनापेक्षयाचतुर्थदिनस्यैवानुकूलत्वेतत्रैवगर्भाधानन्दुष्टरजोदर्शनशान्तिश्चकर्त्तव्या महासङ्कटे श्रीसूक्तहोमपूर्वकाभिषेकेणोपनयनादिकमपिचतुर्थेहनिकर्त्तव्यमित्याहुः अयञ्चतुर्थेहन्यधिकारनिर्णयःसर्वथारजोनिवृत्तावेवज्ञातव्यः यदिज्वरादिभिरातुराचतुर्थेहनिस्नातुन्नशक्तातदातामन्यानारीनरोवादशवारंस्पृष्ट्वास्पृष्ट्वास्नायादाचामेच्चप्रतिस्नानमातुरस्यवस्त्रमन्यदन्यत्परिधापनीयम् अन्तेस्पृष्टानांसर्ववस्त्राणान्त्यागः आर्द्रवस्त्रादिव्यवधानेनशुद्धवस्त्रग्रहणान्तेब्राह्मणभोजनात्पुण्याहवाचनाच्चशुद्धिः सर्वेषामप्यातुराणामे वंशुद्धिर्विधीयते।
एवंशुद्ध्यन्तेशुभेदिनेदुष्टरजोदर्शनप्रयुक्तांशौनकोक्ताम्भुवनेश्वरीशान्तिङ्ग्रन्थान्तरोक्तांवाशान्तिंविधायगर्भाधानङ्कार्यं सूर्यग्रहेरजोदर्शनेहैमंसूर्यबिम्बन्तन्नक्षत्ररूपञ्चसीसेनराहुञ्चकृत्वासम्पूज्यार्कसमिद्भिःसूर्यं नक्षत्रेशम्प्लक्षैराहुन्दूर्वाभिर्हुत्वाज्यचरुतिलैश्चजुहुयात् चन्द्रग्रहेराजतञ्चन्द्रबिम्बम्पालाश्यश्चसमिधइतिविंशेषः ग्रहणव्यतीपातादिबहुतरदोषेरजोदर्शनतुद्वितीयादिरजोदर्शनेशान्तिपूर्वकङ्गर्भाधानङ्कार्यं गर्भाधानेगुरुशुक्रास्ताधिकमासादिदोषोनास्ति यदितुप्रथमरजोदर्शने शान्तिर्नकृताद्वितीयादिरजोदर्शनेशुक्रास्तादिदोषप्रसक्तिस्तदा निमित्तानन्तरमेवयत्र नैमित्तिकानुष्टानन्तत्रास्तादिदोषाभावोमुख्यकालातिक्रमेतुअस्तादिदोषोस्त्येवेति सामान्यनिर्णयानुसारेणऋतुशान्तिरस्तादौनकार्या तदनुरोधेनगर्भाधानञ्चनकार्य-
मितिभाति शान्तिश्चसग्रहमखैवकार्या शान्तौभुवनेश्वरीप्रधानदेवता इन्द्रेन्द्राण्यौपार्श्वदेवते एवङ्कलशत्रयेपिप्रतिमात्रयस्थापनं ग्रहाणामर्कादिसमिधश्चरुराज्यञ्चद्रव्यम् प्रधानदेवतायादूर्वास्तिलमिश्रगोधूमाःपायसमाज्यञ्चेतिहविश्चतुष्टयम् एवम्पार्श्वदेवतयोरपि पायसस्यस्थण्डिलाग्नौश्रपणमेवकार्यं नतुगृहसिद्धस्य ग्रहणं ग्रहहोमार्थङ्गृहसिद्धचरुः पात्रासादनकालेपायसश्रपणार्थमेकास्थालीगृहसिद्धान्नसंस्कारार्थमपरेतिस्थालीद्वयम् अनेककर्तृकाज्यहोमप्रसक्तावनेकस्रुवासादनम् आज्येनसहहविस्त्रयस्यगृहसिद्धान्नस्यचपर्यग्निकरणं स्रुवादिसम्मार्गान्तेगृहसिद्धान्नमासादितचरुस्थाल्यामादायाग्नाविधिश्रित्याभिघारणादिवहिंरासादनान्तङ्कुर्यात् ततः पायसाभिघारणाद्यासादनान्तम् अन्वाधानेहविस्यागेचप्रधानदेवतायाभुवनेश्वरीपदेनसवितृपदेनवोच्चारः गायत्र्याहोमोक्तेः आज्यभागान्तेयजमानोन्वाधानानुसारेण प्रतिदैवतमष्टाविंशत्याहुतिपर्याप्तमर्कादिजातीयसमिच्चर्वाज्यात्मकंहविस्त्रयंसूर्यायसोमायभौमायबुधायबृहस्पतयेशुक्रायशनयेराहवेकेतवेनमम अष्टाष्टसङ्ख्यापर्याप्तंहविस्त्रयन्तत्तदधिदेवताप्रत्यधिदेवताभ्योनमम चतुश्चतुःसङ्ख्यापर्याप्तन्तद्धविस्त्रयंविनायकादिभ्यःक्रतुसंरक्षणक्रतुसाद्गुण्यदेवताभ्योनमम अष्टोत्तरशतसङ्ख्याकाहुतिपर्याप्तन्दूर्वातिलगोधूमपायसाज्येतिहविश्चतुष्टयम्भुवनेश्वर्यैनमम यद्वा सवित्रेनमम एवमष्टाविंशतिसङ्ख्यापर्याप्तन्तच्चतुष्टयमिन्द्रेन्द्राणीभ्यान्नममेतित्यागङ्कुर्यात् बहुतरदोषेऽष्टोत्तरमहस्रसङ्ख्याकोहोमोभुवनेश्वर्याइन्द्रेन्द्राण्योरष्टोत्तरशतसङ्ख्याकः इन्द्रेन्द्राण्योर्होमःकृताकृतः होमान्तेग्रहादिबलयःभुवनेश्वर्यादिवलयोऽभिषेकश्चेतिसङ्क्षेपः समन्त्रकःसविस्तरःप्रयोगःस्वस्वशाखीयानुसारेणज्ञेयः सङ्कल्पःस्वस्तिवाग्विप्रवरणम्भूतनिःसृतिः। पञ्चगव्यैर्भूमिशुद्धिर्मुख्यदैवतपूजनम् १ अप्रितिष्ठासूर्यादिग्रहस्थापनपूजनम्। देवतान्वाहितिःपात्रासादनंहविषाङ्कृतिः २ यथाक्रमन्त्यागहोमावितिपौर्वाङ्गकःक्रमः। पूजास्विष्टं नवाहुत्याबलिःपूर्णाहुतिस्तथा ३ पूर्णपात्रविमोकाद्यग्न्यर्चनान्तेभिषेचनम्। मानस्तोकेतिभूतिश्चदेवपूजाविसर्जने ४ श्रेयोग्रहोदक्षिणादिदानकर्मेश्वरार्पणम्। क्रमोयमुत्तराङ्गानाम्प्रायःस्मार्तेष्वितिस्थितिः ५ एवम्मदनरत्नोक्ताबौधायनोक्ताचशान्तिःकौस्तुभेद्रष्टव्या प्राग्रजोदर्शनात्पत्नीगमनेब्रह्महत्यादोषोक्तेःकिञ्चित्प्रायश्चित्तंविधेयमितिभाति ऋतौतुगमनमावश्यकम्अन्यथाभ्रूणहसादोषः
अयञ्चमनसिकामेसतिद्वेषादिनास्त्रियमनुपगच्छतोज्ञेयः विरक्तस्यनकोपिदोषइतिश्रीभागवतेलोकेव्यवायेतिपद्येटीकायाञ्चस्पष्टम् ऋतुकालस्तुरजोदर्शनमारभ्यषोडशदिनपर्यन्तञ्ज्ञेयः तत्रप्रथमदिनचतुष्टयैकादशत्रयोदशदिनेषुगमनंवर्ज्यम् अवशिष्टदशदिनेषुपुत्रार्थिनासमदिनेकन्यार्थिनाविषमदिनेगमनङ्कार्यं तत्राप्युत्तरोत्तररात्रीणाम्प्राशस्त्यम् एकस्यांरात्रौ सकृदेवगमनकार्यं सकृद्गमनञ्चयुग्मासुसर्वासुआवश्यकमितिकेचित् अन्यकालेप्रति-
वन्धादिनागमनासम्भवेश्राद्धैकादश्यादिदिनेपिऋतुगमनङ्कार्यमितिकेचित् स्त्रीणांवरमनुस्मरन्पत्नीच्छयानृतावपिगच्छन्नदोषभाक्किन्तुब्रह्मचर्यहानिमात्रम् ऋतौगच्छतियोभार्यामनृतौनैवगच्छति। यावज्जीवम्ब्रह्मचारीमुनिभिःपरिकीर्तितः १ अष्टमीचतुर्दशीपौर्णिमाऽमावास्यासूर्यसङ्क्रान्तिवैधृतिव्यतीपातपरिघपूर्वदलविष्टिसन्ध्यासुमातापित्रोर्मृतदिनेश्राद्धतत्प्राग्दिनेजन्मनक्षत्रेदिवाचस्त्रीगमनंवर्ज्म् अथगर्भाधानकालः चतुर्थीपष्ठीचतुर्दश्यष्टमीपञ्चदशीरहिताःतिथयःप्रशस्ताः चन्द्रबुधगुरुशुक्रवाराः शुभाः मूलमघारेवतीज्येष्ठानक्षत्राणिवर्ज्यानि भरणीकृत्तिकार्द्राश्लेषापूर्वात्रयविशाखामध्यमानि शेषाणिशुभानि सर्वकार्येषुगोचरेचन्द्रबलमावश्यकं तद्यथा चन्द्रोन्नमधनंसौख्यंरोगङ्कार्यक्षतिश्रियम्।स्त्रियम्मृत्युन्नृपभयम्मुखमायंव्ययं क्रमात् १ स्थानेषुद्वादशस्वेतज्जन्मराशेःप्रयच्छति। शुक्लपक्षेशशीश्रेष्ठोद्विपञ्चनवमेप्वपि २ अनेकभार्यस्यऋतुयौगपद्येविवाहक्रमेणऋतुप्राप्तिक्रमेणवागर्भाधानम् ऋतावप्यगमनदोषापवादः व्याधितोबन्धनस्थोवाप्रवासेप्वथपर्वसु। वृद्धांवन्ध्यामसदृत्तां मृतापत्यामपुष्पिणीम् १ कन्यासूम्बहुपुत्राञ्चअगच्छन्नैवदोषभाक्। तत्रप्रथमर्तुगमनं गर्भाधानहोमङ्गृह्याग्नौकृत्वाकार्यं द्वितीयादिकऋतुगमनेचनहोमादिकं येषांसूत्रेहोमोनोक्तस्तैर्होमवर्ज्यमन्त्रपाठादिरूपोगर्भाधानसंस्कारःप्रथमगमनेकार्यः
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा