निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
आहिताग्नेरर्धाधानिनोऽनाहिताग्नेश्चौपासनाग्निसिद्धिसत्वेतत्रैवहोमः औपासनाग्निविच्छेदेद्वादशदिनपर्यन्तमयाश्चेत्याज्याहुत्याततऊर्ध्वम्प्रायश्चित्तपूर्वकम्पुनःसन्धानविधिनाग्निमुत्पाद्यतत्रकार्यः तत्रप्रत्यव्दम्प्राजापत्यकृच्छ्रमायश्चित्तं तत्रेत्थंसङ्कल्पःममगृह्याग्निविच्छेददिनादारभ्यैतावन्तङ्कालङ्गृह्याग्निविच्छेदजनितदोपपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थगृह्याग्निविच्छेददिनादारभ्यैतावदब्दपर्यन्तम्प्रत्यब्दमेकैककृच्छ्रान्यथाशक्तितत्प्रयाम्नायगोनिष्क्रयीभूतरजतनिष्कनिष्कार्धनिष्कपादनिष्कपादार्थान्यतमद्रव्यदानेनाहमाचरिष्ये तथाएतावहिनेषुगृह्याग्निविच्छेदेनलुप्तसायन्त्रातरौपासनहोमद्रव्यंलुप्तदर्शपौर्णमासस्थालीपाकादिकर्मपर्याप्तत्रीह्याद्याज्यद्रव्यञ्चतन्निष्क्रयंवादातुमहमुत्सृजेकृच्छ्रप्रत्याम्नायान्तर चिकीर्षायान्तथोहः कार्यः अशीतिगुआ-त्मकोनिष्कपादः अयञ्चतुर्गुणितोनिष्कः एवंसङ्कल्प्यविच्छिन्नस्यगृह्याग्नेः पुनःसन्धानङ्करिष्यतिसङ्कल्पपूर्वकंस्वस्वसूत्रानुसारेणगृह्याग्निंसंसाधयेत् सर्वाधानिनापिएवमेव पुनःसन्धानेनगृह्याग्निमुत्पाद्यगर्भाधानपुंसवनादिहोमःकार्यः तत्रकृच्छ्रसङ्कल्पोहोमादिद्रव्यदानसङ्कल्पश्चनकार्यः गर्भाधानहोमङ्कर्तुङ्गृह्यपुनःसन्धानङ्करिष्येइत्येवसङ्कल्पः गर्भाधानान्तेऽग्नित्यागः अर्धाधानिनामपिपक्षद्वयं गृह्याग्नौसायम्प्रातर्होमस्थालीपाकाःकार्याइत्येकः गृह्याग्निःकेवलंसंरक्ष्योनतुतत्रहोमादिकार्यमित्यपरः आद्यपक्षेपूर्वोक्तहोमादिद्रव्यदानङ्कार्यं होमाद्यकरणपक्षेप्रायश्चित्तमात्रङ्कार्यनतुद्रव्यदानं द्विभा
र्यस्याग्निद्वयसंसर्गात्पूर्वमुभयाग्न्यनुगतौउभयविच्छेददिनादब्दगणनयापृथक्पृथक्कृच्छ्रप्रायश्चित्तम्पृथक्पृथक्होमद्रव्यदानंस्थालीपाकद्रव्यदानञ्चकृत्वापुनःसन्धानद्वयेनाग्निद्वयमुत्पाद्याग्निद्वयसंसर्गंविधायतत्रगर्भाधानहोमः अग्निद्वयसंसर्गात्पूर्वम्एकाग्न्यनुगतौ तन्मात्रप्रायश्चित्तन्तद्धोमद्रव्यमात्रदानञ्चकार्यं नतुस्थालीपाकद्रव्यदानम् भार्यान्तरस्यासन्निधानेयस्याङ्गर्भाधानन्तदग्निविच्छेदप्रायश्चित्तादिनामुत्पाद्यतत्रहोमः सर्वत्र पुनःसन्धानेस्थालीपाकानारम्भेस्थालीपाका दिद्रव्यदानङ्कृताकृतम् एवंयथायथ॑गृह्य-द्धिङ्कृत्वा ममास्याम्भार्यायांसंस्कारातिशयद्वाराऽस्याञ्जनिष्यमाण सर्वगर्भाणाम्बीजगर्भ-समुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरमीयर्थगर्भाधानाख्यङ्कर्मकरिष्ये तदङ्गत्वेन स्वस्तिवाचनेसादिसङ्कल्प्य पुण्याहवाचनमातृकापूजननान्दीश्राद्धादिकृत्वायथागृह्यङ्गर्भाधान संस्कारः कार्यः अत्रगर्भाधानकर्मणोब्रह्मदेवताकखात्पुण्याहवाचनान्तेकर्माङ्गदेवताब्रह्माप्रीयतामितिवदेत् औपासनाङ्गेस्वस्तिवाचने अग्निसूर्यप्रजापतयःप्रीयन्तां स्थालीपाकारम्भेअग्निःमीयतामिति एवमन्यत्रग्रन्थान्तराह्यम् अथनान्दीश्राद्धविचारः
गौर्यादिमातृकापूजनन्नान्दीश्राद्धाङ्गं यत्रनान्दीश्राद्धन्नक्रियतेतत्रमातृकापूजनमपिनकार्यं तत्रपूर्वमातृपार्वणं ततः पितृपार्वणन्ततःसपत्नीकमातामहपार्वणमितिपार्वणत्रयात्मकन्नान्दीश्राद्धं मातृजीवनेसपत्नमातृमरणेपिनमातृपार्वणम् एवम्मातामह्याजीवनेमातामहीसपत्न्यामरणेपिनमातामहादेः सपत्नीकत्वम् एवन्दर्शादावपिमातृजीवनेसपत्नमातृमरणेपिनसपत्नीकत्वम्पित्रादेः अत्रस्खधाशब्दस्थानेस्वाहाशब्दः सव्येनैवसर्वाः क्रियाःप्रतिपार्वर्णदैवेचयुग्माब्राह्मणाः कुशस्थानेदूर्वाः विवाहादिमङ्गलकर्माङ्गेवृद्धिश्राद्धे यज्ञादिकर्माङ्गेतुअमूलादर्भाग्राह्याः दूर्वादर्भावयुग्माएव उदङ्मुखः कर्तामाङ्मुखाविप्राःमाङ्खोवाकर्ताउदङ्मुखाविप्राः पूर्वाह्नकालः प्रदक्षिणकर्म आधानाङ्गखपराहेका-र्यम् पुत्रजन्मनिमित्तकंरात्रावपि एवञ्चविश्वेदेवार्थविप्रसहिता अष्टौविमा अत्यशक्तौचत्वारोवा वृद्धिश्राद्धेविश्वेदेवाः सत्यव सुसञ्ज्ञकाः सोमयागगर्भाधान पुंसवनसीमन्तोन्न-यनाधानादिकर्माङ्गभूतवृद्धिश्राद्धेक्रतुदक्षसञ्ज्ञकाः गर्भाधानादिसंस्कारेषुवापीदेवप्रष्ठादिपूर्त कर्मसु अपूर्वाधानादिषुसन्न्यासखीकारेकाम्यवृषोत्सर्गेगृहप्रवेशेतीर्थयात्रायां श्रवणाकर्मसर्पबल्याश्वयुज्याग्रयणादिपाकसंस्थानाम्प्रथमारम्भेनान्दीश्राद्धमावश्यकम् पुनराधानेसोमयागादिभिन्नेअसकृत्क्रियमाणेकर्मणिअष्टकादिश्राद्धकर्मसुचनान्दीश्राद्धन्नकार्यं गर्भाधानपुंसवनसीमन्तचौलमौ श्रीविवाहातिरिक्तसंस्कारेषुश्रवणाकर्मादिषुचनान्दीश्राद्धंवैकल्पिकं जातकर्माङ्गम्पुत्रजन्मनिमित्तकञ्चनान्दीश्राद्धम्पथगेव जन्मकालेएवजातकर्मणिक्रियमाणे पुत्रजन्म निमित्तकञ्जातकर्मा चवृद्धिश्राद्धं तत्रेणकरिष्येइतिसङ्कल्प्यसकृदेवकार्यं नामकर्मणासहजातकर्मचिकीर्षायां पुत्रजन्म-
निमित्तञ्जन्मकालेएबहेम्नाकृत्वाकर्माङ्गन्नामकर्मकालेकार्यं तदातदकरणेनामकर्मकाले एवपुत्रजन्मनिमित्तकञ्जातकर्मनामकर्माङ्गञ्चनान्दीश्राद्धन्तन्त्रेणकरिष्यइतिसङ्कल्प्यैकमेवकार्यम् एवञ्चौलादिकर्मणासहजातकर्मादिषुक्रियमाणेषुपुत्रजन्मनिमित्तकञ्चौलान्तसंस्काराङ्गञ्चनान्दीश्राद्धन्तन्त्रेणकरिष्यइतिसङ्कल्पःतथाचसहैवक्रियमाणेषुचौलादिष्वन्येषुचकर्मसुनान्दीश्राद्धस्यसकृदेवानुष्ठानन्नतुप्रतिकर्मपृथगनुष्ठानम् एवंयमलयोयुगपदेकसंस्कारकरणेपिज्ञेयम् ऋक्शाखिभिःकात्यायनैश्चपितृपितामहप्रपितामहाइतिपितृपूर्वकउच्चारःकार्यः अन्यशाखिभिस्तुप्रपितामहपितामहपितरोनान्दीमुखाइतिप्रपितामहपूर्वकउच्चारः मातृपार्वणेनान्दीमुखशब्देङीष्विकल्पान्नान्दीमुख्यइतिनान्दीमुखाइतिपक्षद्वयमुच्चारे अनादिसञ्ज्ञात्वेननखमुखात्सञ्ज्ञायामितिनिषेधानवतारादितिपुरुषार्थचिन्तामणिकारः अथवृद्धिश्राद्धकर्तुर्जीवत्पितृकत्वेनिर्णयः जीवेत्तुयदिवर्गाद्यस्तं वर्गतुपरित्यजेदितिन्यायेनजीवत्पितृकःस्वापत्यसंस्कारेषुमातृमातामहपार्वणयुतन्नान्दीश्राद्धङ्कुर्यात् मातरिजीवसाम्मातामहपार्वणकमेव मातामहेजीवतिमातृपार्वणकमेव केवलमातृपार्वणेविश्वेदेवानकार्याः वर्गत्रयाद्येषुमातृपितृमातामहेषुजीवत्सुनान्दीश्राद्धलोपएवसुतसंस्कारेषूचितः द्वितीयविवाहाधानपुत्रेष्टिसोमयागादिषुस्वसंस्कारकर्मसुयेभ्यएवपितादद्यात्तेभ्योदद्यात् तथामृतमातृमातामहकोपिजीवत्पितृकःस्वसंस्कारेपितुर्मातृपितामहीप्रपितामह्यः पितुःपितृपितामहप्रपितामहाः पितुर्मातामहमातृपितामहमातृप्रपितामहाः इत्येवपार्वणत्रयमुद्दिश्यश्राद्धङ्कुर्यात् नतुस्वमातृमातामहपार्वणोद्देशः पितरिपितामहेचजीवतिस्वसंस्कारेपितामहस्य मातृपितामहीप्रपितामह्यइत्याद्युद्देशः एवम्प्रपितामहेपियोज्यम् पितुर्मात्रादिजीवनेतत्पार्वणलोपएव तथाचयेभ्यएवपितादद्यादितिपक्षस्यवर्गाद्यजीवनेतत्पार्वणलोपइतिद्वारलोपपक्षस्यचस्वसंस्कारखापत्यसंस्कारभेदेनव्यवस्थासिद्धान्तितेतिज्ञेयं केचित्तु पक्षद्वयस्यैच्छिकोविकल्पोनतुव्यवस्थितइत्याहुः एवम्मृतपितृकस्यजीवन्मातृमातामहस्य पितृपार्वणेनैवनान्दीश्राद्धसिद्धिर्ज्ञेया समावर्तनस्यमाणवककर्तृत्वेपितदङ्गभूतनान्दीश्राद्धेपितुस्तदभावेज्येष्ठभ्रात्रादेरधिकारइतिकेचित् तत्रपितापुत्रसमावर्तनेस्वपितृभ्योनान्दीश्राद्धङ्कुर्यात् पिताजीवत्पितृकश्चेत्सुतसंस्कारत्वात्द्वारलोपपक्षोयुक्तइतिभाति माणवकपितुःप्रवासादिनाअसन्निधानेभ्रात्रादिर्माणवकस्यपतुर्मातृपितामहीप्रपितामाइत्याद्युच्चार्यश्राद्धङ्कुर्यात् मृतपितृकमाणवकसमावर्त्तनेपितृव्यभ्रात्रादिरस्यमाणवकस्यमातृपितामहीत्याद्युच्चारयेत् भ्रात्रादेरभावेस्वयमेवस्वपितृभ्योदद्यात् एवञ्जीवत्पितृकोपिपितुरसन्निधानेभ्रात्रादेरभावेपितुःपितृभ्यःस्वयमेवनान्दीमुखङ्कुर्यात् उपनयनेनकर्माधिकारस्यजातत्वात् एवंविवाहेपिद्रष्टव्यम् मृतपितृकस्पचौलोपनयनादिकम्पितृव्यमातुलादिःकुर्वन्अस्यसंस्कार्यस्यपितृपितामहेसायुच्चार्यश्राद्धङ्कुर्यात् जीवतः
पितुरसन्निधानेनकुर्वन्मातुलादिरस्यसंस्कार्यस्यपितुर्जनकादीनुद्दिश्यकुर्यान्नतुसंस्कार्यस्यमृतानपिमात्रादीनितिसङ्क्षेपः नान्दीश्राद्धेपिण्डदानङ्कुलधर्मानुसारेणवैकल्पिकम् पिण्डेषुदधिमधुबदरद्राक्षामलकमिश्रणं दक्षिणायान्द्राक्षामलकानि प्रथमान्तेनसङ्कल्पः सर्वत्रोच्चारेसम्बन्धनामगोत्रंवर्जयेत् मालतीमल्लिकाकेतकीकमलानाम्मालादेयानतुरक्तपुष्पाणां कुङ्कुमचन्दनाद्यलङ्कृताःसर्वेनान्दीश्राद्धारम्भेपाकान्तरेणवैश्वदेवःसाग्निकानग्निकैःसर्वशाखिभिःकार्यः द्वयोर्द्वयोर्विप्रयोर्युगपन्नियन्त्रणम् भवद्भ्याङ्क्षणःक्रियतामोतथाप्राप्रुताम्भवन्तौप्राप्नुवावेत्युक्तिः शन्नोदेवीत्यनुमन्त्र्ययवानेवक्षिपेत् यवासिसोमदेवत्योगोसवेदेवनिर्मितः। प्रत्नवद्भिःप्रत्तःपुष्ट्यानान्दीमुखान्पितृनिमांल्लोकान्प्रीणयाहिनःस्वाहानमइतिपित्र्येमन्त्रः द्विर्द्विर्गन्धादिदानम् पाणिहोमोग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेति अत्रश्राद्धेनापसव्यन्नतिलाःनचपितृतीर्थेनदानम् पावमानीःशंवतीःशकुनिसूक्तंस्वस्तिसूक्तञ्च श्रावयेत् मधुवाताइतितृचस्थानेउपास्मैगायेतिपञ्चर्चः अक्षन्नमीमदन्तेतिच तृप्तिप्रश्नस्थानेसम्पन्नमिति दैवेरुचितमितिप्रश्नः पूर्वाग्रेषुकुशेषुदूर्वासुवाएकस्याद्वौद्वौपिण्डौ अक्षय्यस्थानेनान्दीमुखाः पितरःप्रीयन्तां स्वधावाचनस्थानेनान्दीमुखान्पितॄत्वाचयिष्येइत्यादि नस्वधाम्प्रयुञ्जीत त्यमूषुवाजिनेतिविप्रविसर्जनं केचिन्नान्दीश्राद्धान्तेवैश्वदेवोबह्वृचानामित्याहुः नात्रश्राद्धाङ्गतर्पणम् अत्राहिताग्निनापिण्डदानङ्कार्यम् पितुर्मात्रादिवर्गत्रयोद्देशेनश्राद्धेपितुर्मातापितामहीचैवतथैवप्रपितामहीत्यादिश्लोकपाठः द्वारलोपपक्षेयत्पार्वणलोपस्तत्पार्वणविषयकश्लोकैकदेशलोपः केवलमातृपार्वणेदेवानकार्याः एताभवन्तुसुप्रीताइत्यूहःकार्यः साङ्कल्पविधिनासङ्क्षिप्तनान्दीश्राद्धप्रयोगःप्रयोगरत्नादौद्रष्टव्यः इतिनान्दीश्राद्धविचारः एवंस्वस्तिवाचनङ्क्रतुदक्षसञ्ज्ञकविश्वेदेवयुतञ्चनान्दीश्राद्धङ्गर्भाधानाङ्गङ्कृत्वायथाशाखङ्गर्भाधानसंस्कारःकार्यः आश्वलायनैःगृह्याग्नौप्राजापात्यञ्चरुंहुत्वाविष्णुंषड्वारंसकृत्प्रजापतिञ्चाज्येनहुत्वाजपोपस्थाननस्तःकरणादिकङ्कार्यं विष्णुर्योनिजपेत्सूक्तंयोनिस्पृष्ट्वात्रिभिर्वती।
गर्भाधानन्ततःकुर्यात्सुपुत्रोजायतेध्रुवम् १ एवन्नेजमेषेत्यादिजपोपि सर्वथाहोमासम्भवेअश्वगन्धारसम्उदीर्ष्वातइतिमन्त्रेणदक्षिणनासायामासिच्योपगमनङ्कार्यम् एवङ्गर्भाधानसंस्कारमकृत्वास्त्रीगमनेगर्भोत्पत्तौतत्प्रायश्चित्तङ्गोदानङ्कृत्वापुंसवनङ्कार्यम् अथमैथुनान्ते ऋतौतुगर्भशङ्कित्वात्स्नानम्मैथुनिनःस्मृतम्। अनृतौतुयदागच्छेच्छौचम्मूत्रपुरीषवत् १ इत्युक्तरीत्याशौचङ्कृत्वाचामेत् आचमनंविनामूत्रपुरीषोत्सर्गेतु तैलाभ्यक्तस्त्वनाचान्तःश्मश्रुकर्मणिमैथुने। मूत्रोच्चारंयदाकुर्यादहोरात्रेणशुध्यति १ इत्येकाहोपवासः स्त्रीणान्तुनस्नानं शयनादुत्थितानारीशुचिःस्यादशुचिःपुमाम्। इत्युक्तेः इतिगर्भाधानाद्युपयोगिनिर्णयः
अथनारायणबलिः एवङ्कृतेगर्भाधानेयदिगर्भोत्पत्त्यभावोमृतापत्यतावातदाप्रतिबन्धकप्रेतोपद्रवनिवृत्त्यर्थन्नारायणबलिर्नागबलिश्चकार्यः तत्रनारायणबलिः शुक्लैकादश्याम्पञ्चम्यांश्रवणेवा कालान्तरानुपलब्धेः तत्प्रयोगःपरिशिष्टस्मृत्यर्थसारानुसारीकौस्तुभे शुक्लैकादश्यान्नदीतीरेदेवालयादौतिथ्यादिकीर्तनान्तेमदीयकुलाभिवृद्धिप्रतिबन्धकप्रेतस्यप्रेतत्वनिवृत्त्यर्थन्नारायणबलिङ्करिष्ये विधिनास्थापितकुम्भद्वयेहेमादिप्रतिमयोर्विष्णुंवैवस्वतयमञ्चावाह्यपुरुषसूक्तेन यमायसोममितिचषोडशोपचारैःसम्पूजयेत् अत्रकेचित्कुम्भपञ्चकेब्रह्मविष्णुशिवयमप्रेतान्पूजयन्ति तत्पूर्वभागेरेखायान्दक्षिणाग्रकुशेषुशुन्धन्तांविष्णुरूपीप्रेतइतिदशस्थानेषुदक्षिणसंस्थमपोनिनीयमधुघृततिलयुतान्दशपिण्डान्काश्यपगोत्रदेवदत्तप्रेतविष्णुदैवतअयन्तेपिण्डइतिदक्षिणमुखः प्राचीनावीतीवामञ्जान्वाच्यपितृतीर्थेनदद्यात् गन्धादिभिरभ्यर्च्यप्रवाहणान्तङ्कृत्वा विसृजेत् तस्यामेवरात्रौश्वःकरिष्यमाणश्राद्धेक्षणःक्रियतामितिएकन्त्रीन्पञ्चवाविप्रान्निमन्त्र्योपोपितोजागरङ्कुर्यात् श्वोभूतमध्याह्नेविष्णुंसम्पूज्यविष्णुरूपम्प्रेतंविष्णुब्रह्मशि वयमप्रेतान्वोद्दिश्यैकोहिष्टविधिनापादक्षालनादितृप्तिप्रश्नान्तङ्कृत्वारेखाकरणाद्यवनेजनान्तन्तूष्णीङ्कृत्वाविष्णवेब्रह्मणेशिवायसपरिवारयमायेतिचतुरःपिण्डान्नाममन्त्रैर्दत्त्वाविष्णुरूपम्प्रेतन्ध्यायन्काश्यपगोत्रदेवदत्तविष्णुरूपप्रेतअयन्तेपिण्डइतिपञ्चमम्पिण्डन्दत्त्वाअर्चनादिप्रवाहणान्तेआचान्तान्दक्षिणादिभिःसन्तोप्यतेष्वेकस्मैगुणवतेप्रेतबुद्ध्यावस्त्राभरणादिदत्त्वाविप्रान्वदेत् भवन्तःप्रेतायतिलोदकाञ्जलिदानङ्कुर्वन्त्विति तेचपवित्रपाणयःकुर्शातलतुलसीयुततिलाञ्जलिम्प्रेतायकाश्यपगोत्रायविष्णुरूपिणेअयन्तिलाञ्जलिरितिदद्युः विप्रान्वाचयेत् अनेननारायणवलिकर्मणाभगवान् विष्णुरिमन्देवदत्तम्प्रेतंशुद्धमपापमर्हङ्करोत्वितिविसृज्यस्नात्वाभुञ्जीतेति सिन्धौतुकुम्भपञ्चकेविष्णुब्रह्मशिवयमप्रेतेतिपञ्चकम्पूजयेत् स्वर्णरूप्यताम्रलोहमयाश्चत्वारः प्रेतोदर्भमयः अग्निम्प्रतिष्ठाप्यश्रपितचरुन्नारायणायपुरुषसूक्तेनषोडशाहुतिभिर्हुत्वादशपिण्डान्तेपुरुषसूक्ताभिमन्त्रितशङ्खोदकेनप्रेतम्प्रत्यृचन्तर्पयेत् विष्ण्वादिचतुर्थ्योबलिन्दद्यात् श्वोभूतेएकोद्दिष्टविधिनाश्राद्धपञ्चकङ्करिष्यइतिसङ्कल्प्यविप्रपञ्चकेपाद्यादिपिण्डदानान्तेतर्पणादीतिविशेषउक्तः शेषम्पूर्ववत्
• ३ अथनागबलिः सचदर्शेपौर्णमास्याम्पञ्चम्यामाश्लेषायुतनवम्यांवाकार्यः तत्रपर्षदम्प्रदक्षिणीकृत्यनत्वातदग्रेगोवृषनिष्क्रयन्निधायसभार्यस्यममेहजन्मनजन्मान्तरेवाजातसर्पवघदोषपरिहारार्थम्प्रायश्चित्तमुपदिशन्तुभवन्तः। सर्वेधर्मविवेक्तारइत्यादि॰ विप्रैश्चतुर्दशकृच्छ्रप्रायश्चित्तेनअमुकप्रसाम्नायद्वारापूर्वोत्तराङ्गसहितेनाचरितेनतवशुद्धिर्भविष्यतीन्त्युपदिष्टोदेशकालौसङ्कीर्त्यपर्षदुपदिष्टञ्चतुर्दशकृच्छ्रप्रायश्चित्तममुकप्रत्यान्नायेनाहमाचरिष्येइतिसङ्कल्प्यवपनादिविधिनातदाचरेत् वपनासम्भवेद्विगुणःकृच्छ्रम-
त्याम्नायः सर्पवधदोषपरिहारार्थमिमंलोहदण्डंसदक्षिणन्तुभ्यमहंसम्प्रददइतिदत्तवागुर्वनुझांलब्ध्वागोधूमव्रीहितिलान्यतमपिष्टेनसर्पाकृतिङ्कृत्वाशूर्पेनिघायसर्पम्प्रार्थयेत् एहि पूर्वमृतःसर्पअस्मिन्पिष्टेसमाविश। संस्कारार्थमहम्भक्तयाप्रार्थयामिसमाहितः १ आवाहनादिषोडशोपचारैःसम्पूज्यनत्वाभोसर्पइमम्बलिङ्गृहाणममाभ्युदयङ्कुरुइतिबलिन्दत्त्वापादौप्रक्षाल्याचामेत् देशकालौसङ्कीर्ससभार्यस्यममेहजन्मनिजन्मान्तरेवाज्ञानादज्ञानाद्वा जातसर्पवधोत्थदोषपरिहारार्थसर्पसंस्कारकर्मकरिष्यइतिसङ्कल्प्यस्थण्डिलेऽग्निम्प्रतिष्ठाप्यध्यात्वाअस्मिन्सर्पसंस्कारहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानङ्करिष्ये चक्षुषीआज्येनेत्यन्तेअग्नौअग्निंवायुंसूर्यम्आज्येनसर्पमुखेप्रजापतिमाज्येनआज्यशेषेणसर्पसद्योयक्ष्येइतिसमिधावाधायअग्नेराग्नेयदिशिप्रोक्षितभूमौचितिङ्कृत्वा अग्निञ्चितिञ्चपरिसमुह्याग्नेयाग्रदर्भैःपरिस्तीर्यपरिषिच्यषट्पात्रासादनादिचक्षुषीहुत्वासर्पञ्चित्यामारोप्यजलं श्रोत्रञ्चस्पृष्ट्वा अग्नौभूःखाहाअग्नयइदमित्यादिव्याहृतित्रयेणाज्याहुतीर्हुत्वासमस्तव्याहृतिभिश्चतुर्थीसर्पमुखेजुहुयात् आज्यशेषंस्स्रुवेणैवसर्पदेहेनिषिञ्चेत् नात्रस्विष्टकृतादिशेषं चमसजलैःसमस्तव्याहत्यासर्पम्पाणिनाप्रोक्ष्य अनेरक्षाणोवसिष्ठोग्निर्गायत्री सर्पायाग्निदानेवि॰ अग्नेरक्षाणोअंहसऋक् अथोपस्थानं नमोअस्तुसर्पेभ्योयेकेच पृथिवीमनु। येअन्तरिक्षेयेदिवितेभ्यःसर्पेभ्योनमः। येदोरोचनेदिवोयेवासूर्यस्परश्मिभिः। येषामप्सुसदस्कृतन्तेभ्यः। याइषवोयातुधानानांयेवावनस्पतीꣳरनु। येवावटेषुशेरतेतेभ्यः॰। त्राहित्राहिमहाभोगिन्सर्पोपद्रवदुःखतः। सन्ततिन्देहिमेपुण्यान्निर्दुष्टान्दीर्घजीविनीम् १ प्रपन्नम्पाहिमाम्भक्तयाकृपालोदीनवत्सल। ज्ञानतोज्ञानतोवापिकृतःसर्पवधोमया २ जन्मान्तरेतथैतस्मिन्मत्पूर्वैरथवाविभो। तत्पापन्नाशयक्षिप्रमपराधङ्क्षमस्वमे ३ इतिसम्प्रार्थ्यनागेन्द्रंस्नात्वागत्यततःपुनः। व्याहृतिभिःक्षीराज्येनाग्निंसम्प्रोक्ष्यहुतेसर्पजलेनाग्निंसिञ्चेत् यज्ञोपवीतिनासर्वंसर्पसंस्कारकर्मतु। नास्थिसञ्चयनङ्कुर्यात्स्नात्वाचम्यगृहंव्रजेत् १ सभार्यस्यकर्तुस्त्रिरात्रमाशौचम्ब्रह्मचर्यञ्चकार्यं चतुर्थेऽहनिसचैलंस्नात्वाघृतपायसभक्ष्यैरष्टौविप्रान्भोजयेत् तद्यथा सर्पस्वरूपिणे ब्राह्मणायइदन्तेपाद्यम् अनन्तस्वरूपिणे॰ शेषस्वरूपि॰ कपिलस्व॰ नागस्व॰ कालिकस्व॰ शङ्खपालस्व॰ भूधरस्व॰ इत्यष्टसुदवास्वपादौप्रक्षाल्याचम्य सर्पस्वरूपिणेब्रा॰ इदमासनम्आस्यताम् एवमनन्तादिषु ततः सर्पस्थानेक्षणः क्रियतामित्यादि ओन्तथाप्राप्नोतुभवान्प्राप्नुवानि भोसर्परूपइदन्तेगन्धम् एवमनन्तादिषु एवं पुष्पधूपदीपवस्त्रादिदत्त्वाअन्नम्परिविष्यप्रोक्ष्य सर्पायइदमन्नम्परिविष्टम्परिवेक्ष्यमाणञ्चदत्त॑दास्यमानञ्चातृतेरमृतरूपेणस्वाहासम्पद्यन्तान्नमम एवमनन्तादिभ्योपि आचान्तेषुभोसर्पअयन्तेबलिरित्यादिनाममन्त्रैर्बलिदानं तेषुपिण्डेषुवस्त्रादिपूजाचकार्या इदर्मापसर्वंसव्येनैव विप्रेभ्यस्ताम्बूलदक्षिणादिदत्त्वाआचार्यंसम्पूज्य कलशेसुवर्णनागमावाहनादि-
षोडशोपचारैःसम्पूज्यप्रार्थयेत् ब्रह्मलोकेचयेसर्पाःशेषनागपुरोगमाः। नमोस्तुतेभ्यः सुमीताःप्रसन्नाःसन्तुमेसदा १ विष्णुलोकेचयेसर्पावासुकिप्रमुखाश्चये। नमोस्तु॰ २ रुद्रलोकेचयेसर्पास्तक्षकप्रमुखास्तथा। नमोस्तु॰ ३ खाण्डवस्यतथादाहेस्वर्गंयेचसमाश्रिताः। नमोस्तु॰४ सर्पसत्रेचयेसर्पाआस्तिकेनचरक्षिताः। नमोस्तु॰५ मलयेचैनयेसर्पाः कर्कोटप्रमुखाश्चये। नमोस्तु॰६ धर्मलोकेचयेसर्पावैतरण्यांसमाश्रिताः। नमो॰७ येसर्पाःपार्वतीयेषुदरीसन्धिषुसंस्थिताः। नमोस्तु॰८ ग्रामेवायदिवारण्येये सर्पाःमचरन्तिहि। नमो॰ ९ पृथिव्याञ्चैवयेसर्पायेसर्पाबिलसंस्थिताः। नमो॰ १० रसातलेचयेसर्पाअनन्ताद्यामहाबलाः। नमो॰ ११ एवंस्तुत्वादेशकालौसङ्कीर्त्यकृतसर्पसंस्कारकर्मणःसाङ्गतार्थमिमंहैमनागंसकलशंसवस्त्रंसदक्षिणन्तुभ्यमहंसम्प्रददेनमम अनेनस्वर्णनागदानेनानन्तादयोनागदेवताः प्रीयन्ताम् आचार्यायगोदानं यस्यस्मृत्याच॰ मयाकृतंसर्पसंस्काराख्यकर्मतद्भवतांविप्राणांवचनात्परमेश्वरप्रसादात्सर्वं परिपूर्णमस्तु तथास्त्वितितेब्रूयुः ब्राह्मणांस्तोषयेत् साङ्गतार्थम्ब्राह्मणान्भोजयेत् कृत्वा सर्पस्यसंस्कारमनेनविधिनानरः। विरोगोजायतेक्षिप्रंसन्ततिंलभतेशुभाम् १
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा