निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथहरिवंशश्रवणविधिः एवमपिपुत्रोत्पत्त्यसिद्धौकर्मविपाकग्रन्थोक्तहरिवंशश्रवणादिविधानङ्कुर्यात् तच्चषडब्दञ्चतुरब्दन्त्र्यब्दंसार्धाब्दमब्दंवाप्रायश्चित्तङ्कृत्वाकार्यं तत्रत्रिंशत्कृच्छ्रात्मकोऽब्दः कच्छ्रस्तुद्वादशदिनसाध्य तथाहि प्रथमदिनेमध्याह्नेहविष्यस्यैकभक्तस्यषड्विंशतिर्ग्रासाभोक्तव्याः द्वितीयेऽहनिनक्तन्द्वाविंशतिर्ग्रासाः तृतीयेअयाचितस्यचतुर्विंशतिर्ग्रासाः चतुर्थेनिरशनम् अयम्पादकृछ्रः कथञ्चित्त्रिगुणीकृतोयम्प्राजापत्सःकृछ्रः एकभक्तनक्तायाचितद्वयोपवासद्वयैरर्धकृछ्रः यद्वा त्र्यहमयाचितन्त्र्यहमुपवासइत्यर्धकृछ्रः एकभक्तायाचितोपवासैःकथञ्चित्त्रिगुणैःपादोनकृछ्रः येषुनवदिनेषुभोजनप्राप्तिस्तत्रग्रासनियमन्त्यक्त्वा पाणिपूरान्नभोजनेअतिकृछ्रः एकग्रासपर्याप्तस्यप्राणधारणपर्याप्तस्यवादुग्धस्यएकविंशतिदिनेषुभक्षणेकृछ्रातिकृछ्रः एकदिनेसकुशोदकमिश्रपञ्चगव्याशनम्एकउपवासइति द्वैरात्रिकःसान्तपनकृछ्रः पञ्चगव्यकुशोदकानाममिश्राणामेकैकस्यैकैकदिनेऽशनमेकउपवासइतिसप्ताहसाध्योमहासान्तपनः त्र्यहम्मिश्रितपञ्चगव्याशनेयतिसान्तपनं तप्नान्दुग्धघृतजलानामेकैकस्यत्रिदिनेपानमुपवासत्रयञ्चेतिततकृछ्रः शीतानाम्पानेशीतकृछ्रः यद्वा तप्तानाङ्घृतादीनामेकैकदिनेऽशनञ्चतुर्थदिनेउपवासइतिदिनचतुष्टयसा-
ध्यस्तप्तकृछ्रः द्वादशाहोपवासेनपराककृछ्रः शुक्लपक्षेत्रतिपदादितिथिषुमयूराण्डसमानैकैकग्रासान्वर्धयन्पूर्णिमायाम्पञ्चदशग्रासाःक्षयेचतुर्दश वृद्धौषोडशसम्पद्यन्ते कृष्णपक्षेप्रतएकैकग्रासन्हासेनामायामुपवासइतिमाससाध्यंयवमध्यसञ्ज्ञञ्चान्द्रायणं कृष्णपक्षेप्रतिपदिचतुर्दशग्रासान्भुक्त्वाएकैकग्रासन्हासेनदर्शेअनशनंशुक्लेएकैकग्रासवृद्धिरितिकृष्णादिशुक्लान्तम्पिपीलिकामध्यचान्द्रायणं कछ्रचान्द्रायणादेःत्रिकालस्नानग्रासाभिमन्त्रणादिविधियुतःप्रयोगःप्रायश्चित्तप्रकरणेज्ञेयः अतिकृच्छ्रादिलक्षणम्प्रसगादत्रोक्तम् अब्दगणनातुप्राजापत्यकृच्छ्ररेव अथप्रत्यम्नायाः तत्रप्राजापत्यप्रत्याम्नायाः दशसहस्रगायत्रीजपः गायत्र्यासहस्रन्तिलहोमः क्वचित्सहस्रंव्याहृत्यातिलहोमउक्तः शतद्वयम्प्राणायामाः द्वादशब्राह्मणभोजनं यावत्केशशोषणंविरम्यतीर्थेद्वादशस्नानानि वेदसंहितापारायणं योजनयात्रा द्वादशसहस्रन्नमस्काराः द्वात्रिंशदुत्तरशतम्प्राणायामान्कृत्वाअहोरात्रमुपोषितःप्राङ्मुखस्तिष्ठेत् गोमूत्रेणयावकभक्षणेऐकाहिककृछ्रं कश्चित्रुद्रैकादशिनीजपात्कृछ्रमाह पावकेष्टिः पावमानेष्टिः षडुपवासाःप्राजापत्यप्रत्याम्नायाः एकविप्रभोजनमुपवासस्य असशक्तौसहस्रगायत्रीजपोद्वादशप्राणायामावेतिस्मृत्यर्थसारे प्राजापत्येष्वशक्तस्तुधेनुन्दद्यात्पयस्विनीम्। धेनोरभावेनिष्कंस्यात्तदर्धपादमेववा १ अशीतिगुञ्जात्मकःकर्षः चत्वारः कर्षानिष्कं निष्कनिष्कार्धनिष्कपादान्यतमप्रमाणंहेमरूप्यंवाधेनुमूल्यन्देयम् अत्यशक्तेननिष्कपादार्धरजतन्तत्समन्धान्यादिवादेयम् अतिकृच्छ्रेगोद्वयं सान्तपनेगोद्वयम् पराकेतप्तकृच्छ्रेचगोत्रयं कच्च्छ्रातिकृच्छ्रेगोचतुष्टयङ्गोत्रयंवा चान्द्रायणेअष्टौपञ्चचतत्रस्तिस्रोवागावः
मासम्पयोव्रतेयावकव्रतेमासोपवासेचपञ्चगावः मासङ्गोमूत्रयावकव्रतेषट्गावः अथप्रायश्चित्तप्रयोगः सचैलंस्नात्वाशक्तौक्लिन्नवासाःपर्षदग्रेगोवृषप्रसाम्नायं निष्कादिप्रमाणम्ब्रह्मदण्डन्निधायसाष्टाङ्गम्प्रणम्यपर्षदम्प्रदक्षिणीकुर्यात् सर्वेधर्मविवेक्तारोगोप्तारःसकलाद्विजाः। ममदेहस्यसंशुद्धिङ्कुर्वन्तुद्विजसत्तमाः १ मया कृतम्महाघोरञ्ज्ञातमज्ञातकिल्बिषम्। प्रसादः क्रियताम्मांशुभानुज्ञाम्प्रयच्छथ २ पूज्यैः कृतपवित्रोहम्भवेयन्द्विजसत्तमाः। मामनुगृह्णन्तुभवन्तइतिवदेत विप्रैःकिन्तेकार्यम्मिथ्यामावादीःसत्यमेववदेतिपृष्टःस्वपापङ्ख्यापयेत् मयाममपत्न्यावाइहजन्मनिजन्मान्तरेवाअनपत्यत्वमृतापयत्वादिनिदानभूतबालघातविप्ररत्नापहारादिदुरितङ्कृतन्तस्य नाशायकरिष्यमाणेहरिवंशश्रवणादौकर्मविपाकोक्तेविधानेऽधिकारार्थन्दीर्घायुष्मत्पुत्रादिसन्ततिप्राप्तयेप्रायश्चित्तमुपदिशन्तुभवन्तइतिप्रार्थयेत् तेचपापिनापूजितानुवादकाग्रेषडब्दत्र्यब्दसार्धाब्दान्यतमप्रायश्चित्तेनपूर्वोत्तराङ्गसहितेनाचरितेनतवशुद्धिर्भविष्यतितेनत्वङ्कृतार्थोभविष्यसीतिवदेयुः अनुवादकःपापिनंवदेत् ततःकर्ताओमित्यङ्गीकृत्यपर्षदंविसृज्यदेशकालौसङ्कीर्त्य सभार्यस्यममैतज्जन्मजन्मान्तरार्जितानपत्यत्वमृ-
तापत्यत्वादिनिदानभूतबालघातविप्ररत्नापहारादिजन्यदुरितसमूलनाशकर्मविपाकोक्तविधानाधिकारसिद्धिद्वारादीर्घायुष्मद्वहुपुत्रादिसन्ततिप्राप्तयेषडब्दन्त्र्यब्दंसार्धाब्दंवाप्रायश्चित्तम्पूर्वोत्तराङ्गसहितममुकमयाम्नायेनाहमाचरिष्यइतिसङ्कल्प्य दिनान्तेकेशरोमनखादिवापयित्वास्नात्वा आयुर्बलंयशोवर्चःप्रजाःपशुवसूनिच। ब्रह्मप्रज्ञाञ्चमेधाञ्चत्वन्नोदेहिवनस्पते १ इतिविहितकाष्ठेनदन्तधावनङ्कुर्यात् ततोदशस्नानानि तत्रभस्मस्नानम् ईशानायनमःशिरसि तत्पुरुषायनमो मुखे अघोरायनमो हृदये वामदेवायनमोगुह्ये सद्योजातायनमःपादयोः प्रणवेनसर्वाङ्गेषुभस्मविलिम्पेत् ईशानादिपदोपतैर्मन्त्रैर्वाभस्मलेपः अथगोमयस्नानं गोमयमादाय प्रणवेनदिक्षुदक्षिणभागं तीर्थेचोत्तरभागम्प्रक्षिप्य शेषम्मानस्तोकेसभिमन्त्र्यगन्धद्वारामितिसर्वाङ्गमालिप्य हिरण्यशृङ्गमितिद्वाभ्याम्प्रार्थ्य याःप्रवतइतितीर्थमभिमृश्यस्नात्वाद्विराचामेत् अथमृत्तिकास्नानम् अश्वक्रान्तेरथक्रान्तेविष्णुक्रान्तेवसुन्धरे। शिरसाधारयिष्यामिरक्षस्वमाम्पदेपदे १ इतिमृत्तिकामभिमन्त्र्य उद्धृतासिवराहेणकृष्णेनशतबाहुना। मृत्तिकेहरमेपापंयन्मयादुष्कृतङ्कृतम् १ इतितामादाय नमोमित्रस्येतिसूर्याय प्रदर्श्यगन्धद्वारामितिमन्त्रेणस्योनापृथिवीतिमन्त्रेणवाइदंविष्णुरितिवाशिरःप्रभृत्याङ्गानिविलिम्पेत् द्विराचामेत् अथवारिस्नानम् आपोअस्मानित्युक्त्वाभास्कराभिमुखःस्थितः। इदंविष्णुर्जपित्वाचप्रतिस्रोतोनिमज्जति १ ततःपञ्चगव्यकुशोदकैःसमन्त्रकैःपृथक्पृथक्स्नात्वास्नानाङ्गतर्पणादिकुर्यात् विष्णुश्राद्धम्पूर्वाङ्गगोप्रदानञ्चकृत्वाअग्निम्प्रतिष्ठाप्यपञ्चगव्यहोमंव्याहृतिभिरष्टोत्तरशतमष्टाविंशर्तिवाऽऽज्यहोमञ्चकृत्वाव्रतं ग्रहीष्यईतिविप्रान्प्रार्थ्यहुतशेषम्पञ्चगव्यम्प्रणवेनपिवेत् मुख्यप्रायश्चित्तकृछ्रान्सङ्कल्पानुसारेणानुष्ठायव्याहत्याज्यहोमविष्णुश्राद्धगोदानानिपूर्ववत्कुर्यात् आज्यहोमे पञ्चगव्यहोमेचइध्माधानादिस्थालीपाकेतिकर्तव्यताङ्केचिभेच्छन्ति व्याहृत्याज्यहोमे पापापहमहाविष्णुर्देवतेतिकेचित् पञ्चगव्यविधिस्तुताम्रेपालाशेवापात्रेताम्रायागोर्मूत्रमष्टमाषप्रमाणङ्गायत्र्यादाय गन्धद्वारामितिश्वेतगोशकृत्पोडशमाषमादाय आप्यायस्वेपितिपीतगोक्षीरन्द्वादशमाषन्दधिक्राव्णइतिनीलगोदधिदशमाषन्तेजोसिशुक्रमसीतिकृष्णगोघृतमष्टमाषमादायतत्रदेवस्यत्वेतिकुशोदकञ्चतुर्माषम्प्रक्षिप्यप्रणवेनालोडयेत् अत्रमाषःपञ्चगुञ्जात्मकः तत्सप्तपत्रैःसाग्रैःकुशौर्जुहुयात् इरावतीतिपृथ्वीम् इदंविष्णुरितिविष्णुं मानस्तोकेतिरुद्रं शन्नोदेवीत्यपःब्रह्मजज्ञानमितिब्रह्माणंवा अग्निंसोमञ्चनाम्ना गायत्र्यासूर्य प्रजापतेनत्वेतिसमस्तव्याहृतिभिर्वाप्रजापति प्रणवेनप्रजापतिम् अग्निं स्विष्टकृतञ्चनाम्नेत्येताःपञ्चगव्येनाग्निवायुंसूर्यप्रजापतिञ्चेतिवामहाविष्णुंवाज्येनाष्ठविंशतिसङ्ख्याहुतिभिरित्यन्वाधानं स्त्रीशूद्राणांहोमोनकार्यः केचिद्द्ब्राह्मणद्वारा होमःकार्यइत्याहुः स्त्रीशूद्राणाम्पञ्चगव्यपानेविकल्पइतिमहार्णवः स्त्रीशूद्रौविप्रैःपञ्चग-
व्यङ्कारयित्वातूष्णीम्पिबतइतिस्मृत्यर्थसारः अयम्प्रायश्चित्तविधिःकृछ्रन्यूनप्रायश्चित्तेषुनकार्यः कृछ्रप्रभृतिषुसर्वत्रप्रायश्चित्तेष्वनुष्ठेयः एवङ्कृछ्राद्यनुष्ठायसूर्यारुणसंवादमहार्णवादिकर्मविपाकग्रन्थोक्तंहरिवंशादिश्रवणादिकर्मकुर्यात् तत्रशुभेदिनेदेशकालौसङ्कीर्त्यअनेकजन्मार्जितानपत्यत्वमृतापसत्वादिनिदानभूतबालघातनिक्षेपाहरणविप्ररत्ना पहरणादिजन्यदुरितसमूलनाशद्वारादीर्घायुष्मद्वहुपुत्रादिसन्ततिप्राप्तिकामोहरिवंशं श्रोष्यामीत्येकस्यकर्तृत्वे दम्पत्योः कर्तृत्वेश्रोष्यावइतिसङ्कल्प्यगणेशपूजनस्वस्तिवाचननान्दीश्राद्धानिविनायकशान्तिञ्चकृत्वाहरिवंशश्रवणार्थंश्रावयितारन्त्वांवृणेइति विप्रन्त्वावस्त्रालङ्कारैःपूजयेत् वाचकम्प्रत्यहम्पायसादिनाभोजयेत् दम्पतीप्रतिदिनन्त्रायन्तामित्यादिवैदिकैःसुरास्त्वामितिपौराणैश्चमन्त्रैःसुस्नातावलङ्कृतौतदेकचित्तौशृण्वन्तौतैलताम्बूलक्षौरमैथुनखट्वाशयनानियावत्समाप्तिवर्जयन्तौहविष्यम्भुञ्जीयाताम् अन्तेवाचकायगांसुवर्णत्रयमेकंवासुवर्णदक्षिणान्दत्त्वाप्रत्यवरोहमन्त्रेणसहस्रन्तिलाज्यंहुत्वाशतंविप्राञ्चतुर्विंशतिमिथुनानिवापायसेनभोजयेदितिहरिवंशश्रवणप्रयोगः
अथविधानान्तराणि सौवर्णंवालकङ्कृत्वादद्याद्दोलासमन्वितम् । अथवावृषभं दद्याद्विमोद्वाहनमेवा १ महारुद्रजपोवापिलक्षपद्मैःशिवार्चनम्। स्वर्णधेनुःप्रदातव्यासवत्सावायथाविधि २ घृतकुम्भप्रदानंवासङ्क्षेपादिदमीरितम्। अथवाप्रत्यहं पार्थिवलिङ्गपूजाङ्कृत्वाअभिलाषाष्टकजपंसंवत्सरङ्कुर्यात् अभिलाषाष्टकस्तोत्रङ्कौस्तुभेज्ञेयम् एवमपिफलाप्राप्तौदत्तपुत्रोग्राह्यः
अथदत्तकेग्राह्यग्राह्यविचारः ब्राह्मणानांसोदरभ्रातृपुत्रोमुख्यत्वात्प्रथमङ्ग्राह्यः तदभावेसगोत्रसपिण्डोयःकश्चित्सापत्नभ्रातृपुत्रोवा तदभावेलसगोत्रसपिण्डोमातुलकुलजपितृष्वस्नादिकुलजः तदभावेत्वसपिण्डःसमानगोत्रः तदभावेत्वसपिण्डःपृथक्गोत्रोपि असगोत्रसपिण्डेषुभागिनेयदौहित्रौवर्ज्यौ एवंविरुद्धसम्बन्धापत्त्यापुत्रबुद्ध्यनर्होमातुलोपिनग्राह्यः अतएवसगोत्रसपिण्डेषुभ्रातापितृव्योवानग्राह्यः विप्रादीनांवर्णानांसमानवर्णएव तत्रापिदेशभेदप्रयुक्तगुर्जरत्वान्ध्रत्वादिनासमानजातीयएव सर्वोपिसभ्रातृकएवग्राह्यः तत्रापिज्येष्ठपुत्रोनग्राह्योनदेयः शूद्रस्यदौहित्रभागिनेयावपिग्राह्यौ अत्रमूलं भ्रातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत्। सर्वेतेतेनपुत्रेणपुत्रिणोमनुरब्रवीत् १ अनेनवचनेन नापुत्रस्यलोकोस्ति जायमानोवैब्राह्मणस्त्रिभिर्ऋणवाञ्जायतइयादिशास्त्रबोधितस्याप्रजत्वप्रयुक्तदोषस्यनिवृत्तिर्विधिनाअस्वीकृतेनापिभ्रातृपुत्रेणपितृव्यस्यभवतीतिवोध्यते अतःपुत्रसदृशत्वात्ग्राह्येषुमुख्यइतिज्ञाप्यते मुख्याभावेतत्सदृशःप्रतिनिधिरितिन्यायात् नचास्मादेववाक्याद्विधिवत्प्रतिग्रहंविनैवतस्यपुत्रत्वमितिशङ्क्यं तथासतिऔरसदत्तकादिद्वादशविधपुत्रवदेतस्यपत्नीतःपूर्वमेवधनहारित्वपिण्डदत्वौचित्येन पत्नीदुहितरश्चैवपितरौभ्रातरस्तथा। तत्सुतागोत्रजाबन्धुरितितत्क्रमवाक्येभ्रात्रनन्तरम्भ्रातृसुतनिवेशानुपपत्तेः तस्मात्पत्नीतःपूर्वम्मदीयपिण्डदानधनग्रहणेधिकारीकश्चिद्भववितिकामनायांविधिवत्स्वीकृतएवतथाधिकारीभवति नान्यथा तादृशकामनायाअभावेतुपितृऋणापाकरणादिपारलौकिकमात्रार्थन्दत्तपुत्रोनग्राह्यः भ्रातृपुत्रेणैवतत्सिद्धेरित्येवंवचनतात्पर्यं क्वचिद्देशेवैदिकविधिंविनापिदातृग्रहीष्टसम्मतिराजपुरुषाद्यनुमत्यादिलौकिकव्यापारमात्रेणोपनयनादिसंस्कारकरणमात्रेणचसगोत्रसपिण्डेपुत्रत्खसिद्धिव्यवहारोदृश्यते तत्रमूलन्नोपलभ्यते सर्वासामेकपत्नीनामेकाचेत्पुत्रिणीभवेत्। सर्वास्तास्तेनपुत्रेणपुत्रिण्योमनुरब्रवीत् १ इतिवचनन्तुसापत्नपुत्रस्यागृहीतस्यापिपुत्रवपिण्डदानाद्यधिकारित्वविधायकं तेनैकसपत्न्याःसपुत्रत्वेन्यसपत्न्यापुत्रोनग्राह्यः दौहित्रोभागिनेयश्चशूद्राणांविहितःसुतः। ब्राह्मणादित्रयेनास्तिभागिनेयःसुतःक्वचित् १ नत्वेवैकम्पुत्रन्दद्यात्प्रतिगृह्णीयाद्वेतिनज्येष्ठम्पुत्रन्दद्यादितिच अनौरसानेकपुत्रेणपुत्रदानङ्कार्यमितिविधीयते तेनपूर्वदत्तकोगृहीतस्तत औरसोजातस्तादृशानेकपुत्रेणदत्तकएकलऔरसोवानदेयः सधवयास्त्रियापसनुज्ञयापुत्रो ग्रहीतव्योदातव्यश्च भर्त्रनुज्ञाभावेतुनग्राह्योनदेयः एवं विधवयापिस्त्रियात्वयापुत्रः स्वीकार्यइतिउक्त्वाभर्तरिमृतेग्राह्यः स्पष्टमीदृशानुज्ञाभावेभर्तृजीवनदशायान्तन्मरणो-
त्तरमाप्तमुखाद्वापुत्रस्वीकारविषयकभर्त्रभिप्रायञ्ज्ञातवत्यापिग्राह्यइतिसर्वसम्मतम् एतदु-भयविधभर्त्रनुज्ञाभावेपितत्तच्छास्त्रान्नित्यकाम्यव्रतादिधर्माचरणइवपुत्रप्रतिग्रहेपिनाषुत्रस्यलोकोस्तीया दिसामान्यशास्त्रादेवविधवायाअधिकारः नस्त्रीपुत्रन्दद्यात्प्रतिगृह्णी-याद्वान्यत्रभर्त्रनुज्ञानादितिवसिष्ठवाक्यन्तुभर्त्रनुज्ञारहिताम्प्रतिपुत्राप्रतिग्रहाभ्यनुज्ञापरन्नतुपुत्रप्रतिग्रहनिषेधपरं शास्त्रप्राप्तनिषेधायोगात् अतस्तादृशस्त्रियाः पुत्रप्रतिग्रहम-तिवन्धेनवृत्तिलोपपिण्डविच्छेदादिकुर्वन्नरकभाग्भवति योब्राह्मणस्पष्टत्तौतुप्रतिकूलं समाचरेत्। विड्भुजान्तुकृमीणांस्यादितिशास्त्रादितिकौस्तुभेविस्तरःस्त्रीभिः पुत्रस्वीकारेवतादिवद्विमद्वाराहोमादिकङ्कार्यम् एवंशूद्रेणापि विप्रःशूद्रदक्षिणामादाय वैदिकमत्रैस्तदीयहोमादिकरोतितत्रशूद्रःपुण्यफलभाग्भवति किन्तुविमस्यैव प्रखवायः पुत्रम्मतिगृह्यग्रहीत्रा जातकर्माद्याचूडाद्यावासंस्काराःकार्याइतिमुख्यःपक्षः असम्भवेसगोत्रसपिण्डेषुकृतोपनयनोपिविवाहितोपिवादत्तकोभवति असञ्जातपुत्रएव विवाहितो ग्राह्यइतिमेभाति असपिण्डसगोत्रेषुकृतोपनयनएवेसपिभाति भिन्नगोत्रस्तुअकृतोपनयनएवग्राह्यः केचित्तुकृतोपनयनोपिभिन्नगोत्रोग्राह्यइत्याहुः इतिग्राह्याग्राह्यविवेकः
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा