निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथऋग्वेदिनाम्पुत्रप्रतिग्रहप्रयोगः पूर्वेद्युःकृतोपवासःपवित्रपाणिःप्राणानायम्यदेशकालौसङ्कीर्त्यममाप्रजत्वप्रयुक्तपैतृकऋणापाकरणपुन्नामनरकत्राणद्वाराश्रीपरमेश्वरप्रीत्यर्थंशौनकोक्तविधिनापुत्रप्रतिग्रहङ्करिष्ये तदङ्गत्वेनस्वस्तिवाचनमाचार्यवरणंविष्णुपूजनमन्नदानञ्चकरिष्ये आचार्यमधुपर्कान्तेविष्णुंसम्पूज्यब्राह्मणादिभोजनंसङ्कल्पयेत् आचार्यःयजमानानुज्ञयापुत्रप्रतिग्रहाङ्गत्वेनविहितंहोमङ्करिष्ये इतिसङ्कल्प्यअनिम्प्रतिष्ठाप्य चक्षुषीआज्येनेत्यन्तेसकृदग्निंसूर्यासावित्रीम्पड्वारञ्चरुणाअग्निंवायुंसूर्यम्प्रजापतिञ्चाज्येनशेषेणस्विष्टकृतमित्यादिअन्वाधायअष्टाविंशतिमुष्टीस्तूष्णीन्निरूप्यतथैवप्रोक्ष्याज्योत्पवनान्तङ्कुर्यात् दातारङ्गत्वाएतस्मैपुत्रन्देहीतियाचयेत् दातादेशकालौसङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थपुत्रदानङ्करिष्येइतिसङ्कल्प्यगणपतिपूजनान्तेप्रतिग्रहीतारंयथाशक्तिसम्पूज्य येयज्ञेनेतिपञ्चानान्नाभानेदिष्ठोमानवोनिश्वेदेवास्त्रिष्टुप् पञ्चम्यनुष्टुप् पुत्रदानेविनियोगः येयज्ञेनेतिऋक्पञ्चकान्तेइमम्पुत्रन्तवपैतृकऋणापाकरणपुन्नामनरकत्राणसिद्ध्यर्थम्आत्मनःश्रीपरमेश्वरमीत्यर्थन्तुभ्यमहंसम्प्रददेनमम प्रतिगृह्णान्तु पुत्रम्भवान् इतिप्रतिग्रहीतृहस्तेजलङ्क्षिपेत् ग्रहीतादेवस्यत्वेतिहस्तद्वयेनप्रतिगृह्यस्वाङ्केउपवेश्यअङ्गादङ्गात्सम्भवसीतिमन्त्रेणमूर्धनिजिघ्रेत् वस्त्रकुण्डलाद्यलङ्कृतङ्गीतवाद्यैःस्वस्तिमन्त्रैश्चस्वगृहमानीयपादौप्रक्षाल्याचम्याचार्यदक्षिणतःस्वयंस्वदक्षिणेभार्योत्सङ्गेपुत्रइत्यु-
पविशेत् आचार्योबर्हिरासादनाद्याज्यभागान्तेचरुमवदाय यस्त्वाहृदेतिद्वयोरात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् पुत्रप्रतिग्रहाङ्गहोमेविनियोगः यस्त्वाहृदेतिऋक्द्वयेनैकमेवावदानं जुहुयात् यजमानोग्नयइदन्नमम तुभ्यमग्रेपर्यवहन्सूर्यासावित्रीसूर्यासावित्र्यनुष्टुप्। सूर्यासावित्र्याइदं॰ सोमोदददितिपञ्चानांसूर्यासावित्रीसूर्यासावित्रीअनुष्टुभौं जगतीत्रिष्टुबनुष्टुप्। पञ्चस्वपिसूर्यासावित्र्याइदं ० एवंसप्तचर्वाहुतीर्हुत्वाज्यंव्यस्तसमस्तव्याहृतिभिर्हुत्वास्विष्टकृदादिसमाप्याचार्यायधेनुन्दत्त्वाविप्रान्भोजयेत् ८ अथयजुर्वेदिनाम्बौधायनोक्तरीत्याप्रयोगःतत्रराज्ञःशिष्टानाम्बन्धूनाञ्चानुमतिंलब्ध्वासङ्कल्पादिआचार्यपूजान्तम्प्राग्वत्कुर्यात् ब्राह्मणभोजनसङ्कल्पान्तेआचार्योदेवयजनोल्लेखनादिआप्रणीताभ्यःकुर्यात् ग्रहीतादातुःसमक्षङ्गत्वापुत्रम्मेदेहीतिस्वयमेवभिक्षेत् दाताददामीत्याह ततोदातुःसङ्कल्पादिपुत्रदानान्तम्पूर्ववत् ग्रहीताधर्मायत्वाह्णामिसन्तत्यैत्वागृह्णामीतिपरिगृह्यैनम्पुत्रंवस्त्रकुण्डलाङ्गुलीयकैरलङ्कुर्यात् आचार्यःकुशमयम्बर्हिःपालाशमयमिध्मञ्चसम्पाद्यपरिधानप्रभृतिअग्निमुखङ्कृत्वाचरुश्रपणासादनान्ते पूर्वाङ्गहोमङ्कृत्वा यस्त्वाहदाकीरिणेतिपुरोनुवाक्यामुक्त्वा यस्मैत्वंसुकृतेइतियाज्यया हुत्वाव्यस्तसमस्तव्याहृतीहुत्वास्विष्टकृदादिकुर्यात् आचार्यायदक्षिणावस्त्रकुण्डलाङ्गुलीयकं दद्यादिति
दत्तकस्यगोत्रसापिण्ड्यादिनिर्णयः परगोत्रोत्पन्नदत्तकस्योपनयनमात्रेपालकगोत्रेणकृतेउपनयनोत्तरम्प्रतिग्रहेवादत्तकेनाभिवादनश्राद्धादिकर्मसुगोत्रद्वयोच्चारःकार्यःचूडादिसंस्कारेपालकेनकृतेपालकैकगोत्रएव विवाहेतुसर्वदत्तकेनजनकपालकयोरुभयोरपिपित्रोर्गोत्रप्रवरसम्बन्धिनीकन्यावर्जनीयानात्रसाप्तपुरुपम्पाञ्चपुरुषमित्येवम्पुरुषनियमउपलभ्यते सापिण्ड्यन्तुजनकगोत्रेणोपनयनेजनकपतृमात्रोःकुलेसातपुरुषम्पाञ्चपुरुषं ग्रहीतृमातृपितृकुलेत्रिपुरुषं ग्रहीतृगोत्रेणोपनयनमात्रेकृते उभयत्रपाञ्चपुरुषम्पितृकुले मातृकुलेतु त्रिपुरुषं जातकर्माद्मुपनयनान्तसंस्कारेग्रहीत्राकृतेग्रहीतृकुलेसाप्तपुरुषं मातृतःपाञ्चपुरुषम् अतोन्यूनञ्जनककुलेकल्प्यं केचित्तुदत्तकप्रवेशेकुलद्वयेपिसर्वथान्यूनमेवसापिण्ड्यमित्याहुः एवन्दत्तकसन्ततेरपिसापिण्ड्यञ्ज्ञेयं दत्तकस्यमरणेपूर्वापरपित्रोस्त्रिरात्रं सपिण्डानामेकाहमाशौचम् उपनीतदत्तकमरणादौपालकसपिण्डानां दशाहादीतिनीलकण्ठीयेदत्तकनिर्णये एवन्दत्तकेनापिपूर्वापरपत्रोर्मृतौत्रिरात्रं पूर्वापरंसपिण्डानाम्मरणेएकाहम् पित्रोरौर्ध्वदैहिककरणेतुकर्माङ्गन्दशाहमेव दत्तकस्यपुत्रपौत्रादेर्जन्ममरणयोः सपिण्डानामेकाहः सगोत्रसपिण्डेदत्तीकृतेतुसर्वेषान्दशरात्रमेव पत्नीदुहित्रादिसत्त्वेपिदत्तकएवपितृधनभागीभवति दत्तकग्रहणोत्तरमौरसेजातेदत्तकश्चतुर्यांशभागी नसमभागी केचित्तुप्रतिग्रहीत्राजाताद्युपनयनान्तसंस्कारेविधानेचकृते औरससमानांशभागित्वं संस्कारमात्रकरणेविधानाभावेविवाहमात्रलाभोनान्यधनलाभः
कतिपयसंस्कारकरणेचतुर्थांशलाभइत्याहुः दत्तकसत्त्वेप्यौरसस्यैवपित्रोःपिण्डदानेधिकार जनकस्यपिण्डदाभावेदत्तकएवजनकपालकयोरुभयोरपिश्राद्धङ्कुर्यात्धनञ्चोभयोर्गृह्णीयादितिनीलकण्ठीये एवन्दत्तकन्यायाअपिस्वीकारउक्तविधिनाकार्यः तत्र परगोत्रोत्पन्नायाग्रहणेविवाहेगोत्रद्वयवर्जनम्प्राग्वत् पुत्रपत्न्योरभावेदत्तकन्यैवपितृधभागिनी इतिदत्तोपयोगिसर्वनिर्णयः
अथकन्यानामेवोत्पत्तौपुत्रार्थपुत्रकामेष्टिः ऋतुकालात्षष्ठेदिनेसभार्यः कृताभ्यङ्गः प्राणानायम्यदेशकालौसङ्कीर्त्यपुत्रकामःपुत्रकामेष्टिकरिष्यइतिसङ्कल्प्यस्वस्तिवाचनादिनान्दीश्राद्धान्तेऽग्निम्प्रतिष्ठाप्य चक्षुषीआज्येनात्रप्रधानम् अग्निम्पञ्चवारंवरुणम्पञ्चवारंविष्णुम्पृथ्वींविष्णुंसोमंसूर्यासावित्रीम्पायसेनशेषेणस्विष्टकृतमित्यादि निर्वापकालेतूष्णीम्पष्टिमुष्टीन्निरूप्यतथैवप्रोक्ष्य श्वेतवत्सश्वेतगोःक्षीरेणचरुम्पक्त्वाज्यभागान्ते आतेगर्भइतिअग्निरैतुइतिसूक्तद्वयस्यहिरण्यगर्भऋषिः क्रमेणाग्नीवरुणौदेवते अनुष्टुपजगत्यौछन्दसी पायसचरुहोमेविनि॰॥ ॐ आतेगर्भोयोनिमैतुपुमान्बाणइवेषुधिम्। आवीरोजायताम्पुत्रस्तेदशमास्यःस्वाहा। अग्नयइदं॰ १ करोमितेप्राजापत्यमागर्भोयोनिमैतुते। अनूनःपुत्रोजायतामश्लोणोपिशाचधीतःस्वाहा। अग्नय॰ २ पुमांस्ते पुत्रोनारीतम्पुमाननुजायताम्। तानिभद्राणिबीजान्यृषभाजनयन्तुनौस्वाहा। अग्न॰ ३ यानिभद्राणिबीजान्यृषभाजनयन्तिनः। तैस्त्वम्पुत्रान्विन्दस्वसाप्रसूर्धेनुकाभव स्वाहा। अग्न॰ ४ कामःसमृद्ध्यतांसह्यमपराजितमेवमे। यङ्कामङ्कामयेदेवतम्मेवायो समर्धयस्वाहा। अग्न॰ ५ अग्निरैतुप्रथमोदेवतानांसोस्यैप्रजाम्मुञ्चतुमृत्युपाशात्। तदयंराजावरुणोनुमन्यतांयथेयंस्त्रीपौत्रमघन्नरोदात्स्वाहा। वरुणायेदं॰ १ इमामग्निंस्त्रायताङ्गार्हपत्यःप्रजामस्यैनयतुदीर्घमायुः। अशून्योपस्थाजीवतामस्तुमातापौत्रमानन्दमभिप्रबुध्यतामियंस्वाहा। वरु॰ २ मातेगृहेनिशिघोषउत्थादन्यत्रत्वद्रुदन्त्यःसंविशन्तु। मात्वम्बिकेश्युरआवधिष्ठाजीवपत्नीपतिलोकेविराजयश्यन्तीप्रजांसुमनस्यमानास्वाहा। वरु॰ ३ अप्रजस्ताम्पौत्रमृत्युम्पाप्मानमुतवाघम्। शीर्ष्णःस्रजमिवोन्मुच्यद्विषद्भ्यःप्रतिमुञ्चामिपाशंस्वाहा। वरुणा॰ ४ देवकृतम्ब्राह्मणङ्कल्पमानन्तेनहन्मियोनिषदःपिशाचान्। क्रव्यादोमृत्यूनधरान्पातयामिदीर्घमायुस्तवजीवन्तुपुत्राःस्वाहा। वरु॰ ५ नेजमेषेतितिसृणांविष्णुस्त्वष्टागर्भकर्ताविष्णुपृथ्वीविष्णवोनुष्टुप्। नेजमेष॰ विष्णव॰ १ यथेयम्पृथिवी॰ पृथिव्याइ॰ २ विष्णोःश्रेष्ठेन॰ विष्णव॰ ३ सोमोधेनुं राहूगणोगौतमःसोमस्त्रिष्टुप् \। सोमोधेनुं॰ सोमायेदं ० १ ताम्पूषन्सूर्यासावित्री सूर्यासावित्रीत्रिष्टुप् पायसचरुहोमेवि॰ ताम्पूषञ्छिव॰ सूर्यासावित्र्याइदं॰ १ इतिपञ्चदशाहुतीर्हुलाविष्टकृद्धोमङ्कृत्वा दम्पती अपश्यन्त्वेतिद्वयोःप्रजावान्प्राजापत्यःप्रजापतिस्त्रिष्टुप् हुतशेषचरुमाशनेविनियोगः अपश्यन्त्वेतिद्वाभ्याम्प्राश्य पिशङ्गभृष्टिमित्यस्यदै-
वोदासिःपारुच्छेपइन्द्रोगायत्री नाभ्यालम्भनेवि॰ पिशङ्गभृष्टि॰ इतिदम्पतीनाभ्यालम्भनङ्कुर्यातां यजमानःप्रायश्चित्तादिहोमशेषंसमाप्यविप्रेभ्योगांसुवर्णादिदक्षिणाञ्चदत्त्वारात्रौदम्पतीदर्भास्तरणेशयीयाताम् इतिपुत्रकामेष्टिप्रयोगः
अथपुंसवनादिसंस्काराः तत्रपुंसवनंव्यक्तेगर्भेद्वितीयेचतुर्थेषष्ठेऽष्टमेवामासे सीमन्तेनसहवाकार्यं शुक्लपञ्चमीमारभ्यकृष्णपञ्चमीपर्यन्तेचतुर्थीनवमीचतुर्दशीपञ्चदशीवर्जितेतिथौसूर्यभौमगुरुवारेषुप्रशस्ं क्वचिच्चन्द्रबुधशुक्रवाराउक्ताः नक्षत्राणितु पुन्नामकानिप्रशस्तानि तानिचपुष्यश्रवणहस्तपुनर्वसुमृगाभिजित्मूलानुराधाऽश्विनीत्येतानि अत्रपुष्योमुख्यः तदभावेश्रवणस्तदभावेहस्तादीनि अयमेवानवलोभनस्यापिकालः पुंसवनेनसहकरणीयखविधानात् पुंसवनानवलोभनेप्रतिगर्भङ्कार्ये गर्भसंस्कारत्वात् गर्भाधानसीमन्तोन्नयनेतुस्त्रीसंस्कारत्वात्प्रतिगर्भन्नावर्तेते किन्तुप्रथमगर्भे एवकार्ये प्रथमगर्भेलोपेतुप्रतिगर्भन्तयोर्लोपप्रायश्चित्तमावश्यकं नचप्रथमापत्येतयोः प्रायश्चित्तेनद्वितीयादिगर्भाणांसंस्कारसिद्धिर्भवति प्रायश्चित्तेनहिप्रत्यवायपरिहारमात्रं नत्वपूर्वाख्यातिशयोत्पादनं तत्तुसंस्कारविधिनैवेतियुक्तम्प्रतिगर्भम्प्रायश्चित्तम् पुंसवनानवलोभनयोस्तुप्रथमगर्भेऽनुष्ठानेपिप्रतिगर्भन्तयोर्लोपेप्रायश्चित्तं तच्चपादकृच्छ्रं प्रतिसंस्कारङ्कार्यम् बुद्धिकृतलोपेद्विगुणम् पुंसवनेपतिःकर्तातदभावेदेवरादिः अथ सीमन्तकालः तच्चतुर्थेऽष्टमेषष्ठेपञ्चमेमासिवाहितम्। नवमेमासिवाकुर्याद्यावद्गर्भविमोचनम् १ स्त्रीयद्यकृतसीमन्ताप्रसूयेतकदाचन। गृहीतपुत्राविधिवत्सातंसंस्कारमर्हति २ पक्षतिथिवारनक्षत्राणिपुंसवनोक्तान्येवप्रशस्तानि कचिद्दशमीपर्यन्तङ्कृष्णोपिग्राह्यः षष्ठ्यष्टमीद्वादश्योरिक्ताःपञ्चदशीचवर्ज्याः तासुसङ्कटेचतुर्थीचतुर्दशीपौर्णमास्योग्राह्याः क्रमेणाष्टचतुर्दशदशनाडिकाआद्यास्त्यक्त्वाषष्ठ्यष्टमीद्वादश्योपिग्राह्याः पुन्नक्षत्राणामलाभेरोहिणीरेवत्युत्तरात्रयाणिग्राह्याणि उक्तनक्षत्राणाम्प्रथमान्त्यपादौत्यक्त्वामध्यमपादद्वयङ्ग्राह्यमित्युक्तम् इदङ्कर्मसकृदेवकार्यमित्युक्तं कात्यायनानान्तुगर्भसंस्कारत्वात्प्रतिगर्भमावर्तनीयं सीमन्तोन्नयनेपतिरेवकर्ता गर्भाधानलोपेतत्प्रायश्चित्तार्थंविप्रायगान्दत्त्वापुंसवनादिकार्यं तत्राश्वलायनानान्देशकालसङ्कीर्तनान्ते
ममास्याम्भार्यायामुत्पत्स्यमानगर्भस्यगार्भिकबैजिकदोषपरिहारपुंरूपतासिद्धिज्ञानोदयप्रतिरोधपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थपुंसवनमनवलोभनं ममास्याम्भार्यायाङ्गर्भाभिवृद्धिपरिपन्थिपिशितरुधिरप्रियालक्ष्मीभूतराक्षसीगणदूरनिरसनक्षेमसकलसौभाग्यनिदानमहालक्ष्मीसमावेशनद्वाराप्रतिगर्भम्बी जगर्भसमुद्भवैनोनिबर्हणद्वाराचश्रीपरमेश्वरप्रीत्यर्थस्त्रासंस्काररूपंसीमन्तोनयनाख्यङ्कर्मचतन्त्रेणकरिष्यइतिसङ्कल्पःसीमन्तेनसहत्रयाणाङ्करणेज्ञेयः १ अनवलोभनेचेतिशेषः। २ पुंसवनमनवलोभनं च तन्त्रेणकरिष्ये इतिपृथक्करणेपि उभयौः सहविधानात्।
नान्दीश्राद्धेक्रतुदक्षसञ्ज्ञकाविश्वेदेवाः पुंसवनस्यपृथक्त्वेपवमानसञ्ज्ञकमौपासनाग्निम्प्रतिष्ठापयेत् त्रयाणांसहत्वेमङ्गलनामानम्प्रतिष्ठापयेत् गृह्याग्निविच्छेदेसर्वाधानिनश्चाग्न्युत्पत्तिः पूर्ववत् पुंसवनेप्रजापतिञ्चरुणा सीमन्तेधातारन्द्विःराककान्द्विःविष्णुन्त्रिःप्रजापतिं सकृदाज्येनजुहुयात् अवशिष्टःप्रयोगोन्यत्रज्ञेयः शाखान्तरेषुचतत्तद्ग्रन्थेभ्योज्ञेयः अत्रप्रतिसंस्कारन्दशदशत्रींस्त्रीन्वाब्राह्मणान्भोजयेत् शक्तेनशतंशतं सीमन्ताङ्गभोजनेप्रायश्चित्तम्पारिजाते ब्रह्मौदनेचसोमेचसीमन्तोन्नयनेतथा। जातश्राद्धेतथाभुक्त्वा भोक्ताचान्द्रायणञ्चरेत् १ यद्वाअराइवेतिमन्त्रस्यशतवारञ्जपः एतच्चआधानाङ्गब्रह्मौदनाङ्गभोजनइवसीमन्ताङ्गभोजनेज्ञेयं नतुतद्दिनेतद्गृहेभोक्तृमात्रस्येतिपारिजातोक्तमयुक्तम्
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा