🕉️ 24 November 2026, Tuesday · 08:08:48 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 26/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

12. गर्भिणीधर्माः

अथगर्भिणीधर्माः गर्भिणीकुञ्जराश्वादिशैलहर्म्यादिरोहणम्। व्यायामंशीघ्रगमनंशकटारोहणन्त्यजेत् १ नभस्मादावुपविशेन्मुसलोलूखलादिषु। सजेज्जलावगाहञ्चशून्यंसद्मतरोस्तलम् २ कलहङ्गात्रभङ्गञ्चतीक्ष्णात्युष्णादिभक्षणम्। सन्ध्यायामतिशीताम्लङ्गुर्वाहारम्परित्यजेत् ३ व्यवायशोकासृङ्मोक्षन्दिवास्वापन्निशिस्थितिम्। भस्माङ्गारनखैर्भूमिलेखनंशयनंसदा ४ त्यजेदमङ्गलंवाक्यन्नचहास्याधिकाभवेत्। नमुक्तकेशानोद्विग्राकुक्कुटासनगानच ५ गर्भरक्षासदाकार्यानिसंशौचनिषेवणात्। प्रशस्तमन्त्रलिखनाच्छस्तमाल्यानुलेपनात् ६ विशुद्धगेहवसनाद्दानैःश्वश्वादिपूजनैः। हरिद्राकुङ्कुमञ्चैवसिन्दूरङ्कज्जलन्तथा ७ केशसंस्कारताम्बूलम्माङ्गल्याभरणंशुभम्। चतुर्थेमासिषष्ठेवाप्यष्टमेगर्भिणीवधूः ८ यात्रांविवर्जयेन्नित्यसमाषाढेतुविशेषतः।

13. पतिधर्माः

अथपतिधर्माः गर्भिणीवाञ्छितन्द्रव्यन्तस्यैदद्याद्यथोचितम्। सूतेचिरायुषम्पुत्रमन्यथादोषमर्हति १ सिन्धुस्नानन्दुमच्छेदंवपनम्प्रेतवाहनम्। विदेशगमनञ्चैवनकुर्याद्गर्भिणीपतिः २ वपनम्मैथुनन्तीर्थंश्राद्धभोजनमेवच। वर्जयेत्सप्तमान्मासान्नावआरोहणन्तथा ३ युद्धादिवास्तुकरणन्नखकेशविकर्तनम्। चौलंशवानुगमनंविवाहञ्चविवर्जयेत् ४ मुण्डनम्पिण्डदानञ्चप्रेतकर्मचसर्वशः। नजीवत्पितृकःकुर्याद्रुर्विणीपतिरेवच ५ अत्रकर्तनमपिनिषिध्यते वपनस्यनिषेधेपिकर्तनन्तुविधीयतइतिवाक्यन्तुजीवत्पितृकादीनांयोवपननिषेधस्तत्रकर्तनविधिपरम् एतदपवादः क्षौरन्नैमित्तिकङ्कुर्यान्निषेधेसत्यपिध्रुवम्। पित्रोःप्रेतविधानञ्चगर्भिणीपतिराचरेत् १ अन्वष्टक्याष्टकयोर्गर्भिणीपतिः पिण्डदानङ्कुर्यात् केचित्पित्रोःप्रतिसांवत्सरिकेपिण्डदानङ्कुर्वन्ति दर्शमहालयादिषुनैवकार्यम्

14. गर्भस्रावहरं

अथगर्भस्रावहरं काञ्चनयज्ञोपवीतदानम्महार्णवे इदंस्त्रीकर्तृकं शुभदिनेस्त्री आचम्यदेशकालौसङ्कीर्त्यममगर्भस्रावनिदानसकलदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्य-

र्थवायुपुराणोक्तंसुवर्णयज्ञोपवीतदानविधिङ्करिष्येइतिसङ्कल्प्य पलेनतदर्धेनतदर्धेनयथाशक्तिवाहैमंयज्ञोपवीतङ्ग्रन्थिप्रदेशेमौक्तिकयुतङ्कृत्वा तथैववज्रमणियुतंराजतमुत्तरीयं चकृत्वोभयम्पञ्चगव्येनगायत्र्याप्रक्षाल्य ताम्रपात्रेद्रोणमितन्दधिनिक्षिप्य तन्मध्येद्रोणमितमाज्यन्निक्षिप्याज्योपरितदुभयंसंस्थाप्यभर्ताब्राह्मणोवागायत्रीमन्त्रेणगन्धादिभिः पूजयेत् अष्टगुञ्जात्मकोमाषःदशमाषाःसुवर्णम् पलकुडवप्रस्थाढकद्रोणाःसुवर्णादिपूर्वपूर्वचतुर्गुणाःदध्याज्ययोर्द्रोणपरिमाणाभावेशक्त्यनुसारिप्रमाणं ब्राह्मणद्वारा आज्यमधुमिश्रैस्तिलैरष्टोत्तरशतङ्गायत्र्याव्याहृतिभिर्वाहोमङ्कारयेत् त्यागम्भर्तावास्त्रीवाकुर्यात् होमकर्तारंविप्रंवस्त्राद्यैःसम्पूज्यप्राङ्मुखायतस्मैउदङ्खास्त्रीदानङ्कुर्यात् तद्यथा उपवीतम्परिमितम्ब्रह्मणाविधृतम्पुरा। भवनौकास्पदानेनगर्भंसन्धारयेह्यहम् १ इतिमन्त्रेणविप्रस्यनामगोत्रेउच्चार्यताम्रपात्रस्थदध्याज्यसंस्थंसुपूजितंसोत्तरीयकमिदंयज्ञोपवीतं गर्भस्रावनिदानदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थन्तुभ्यमहंसम्प्रददेनमम प्रतिगृह्यतां विप्रःप्रतिगृह्णामीत्यादि यथाशक्तिदक्षिणान्दत्त्वान्येभ्योपियथाशक्तिदक्षिणान्दत्त्वाप्रतिग्रहीतुरनुव्रज्यनमस्कारक्षमापनादिकृत्वाविप्रभोजनंसङ्कल्प्यकर्मेश्वरायार्पयेत् एतच्च स्रवद्गर्भाभवेत्सातुबालकंहन्तियाविषैरित्युक्तेर्बालहत्याप्रायश्चित्तङ्कृत्वाकार्यम् अन्यत्र तुस्वर्णधेनुदानहरिवंशश्रवणादीन्युक्त्वाघृतपूर्णताम्रकलशदानादिविधानान्युक्तानि

15. सूतिकागृहप्रवेशः

अथसूतिकागृहप्रवेशः गृहनैऋत्यांसूतिकागृहङ्कृत्वा तत्राश्विनीरोहिणीमृगपुनर्वसुपुष्यत्र्युत्तराहस्तचित्रास्वात्यनुराधाधनिष्ठाशततारकानक्षत्रेषुरिक्तादिवर्ज्यतिथौ चन्द्रानुकूल्येशुभलग्नेसूतिकाप्रवेशो गोविप्रदेवपूजनङ्कृत्वामन्त्रवाद्यघोषेणसापत्यस्त्रीभिःसंहङ्कार्यः असम्भवेसद्योवा

16. सुखप्रसवकरम्

अथसुखप्रसवकरम् प्रसवप्रतिबन्धेऋग्विधाने प्रमन्दिनेइत्यृचंविजिहीर्ष्वेतिसूक्तंवाजपेत् एताभ्यामभिमन्त्रितजलंवापाययेत् तेनसुखप्रसवः शीघ्रप्रसवमन्त्रस्तु हिमवत्युत्तरेपार्श्वेसुरथानामयक्षिणी। तस्याःस्मरणमात्रेणविशल्यागर्भिणीभवेत् १ ॐ क्षींॐ स्वाहेतिमन्त्रेणदूर्वाङ्कुरेणतिलतैलंशतंसहस्रंवाऽभिमन्त्र्यकिञ्चित्पाययेत् किञ्चिन्मात्रस्यगर्भेलेपश्च सम्यग्लेपेशीघ्रंसुखप्रसवः अस्थिमात्रावशिष्टगोमस्तकस्यसूतिकागृहोपरिनिधानेसुखप्रसवः वंशनिम्बयोस्त्वक्तुलसीमूलङ्कपित्थपत्रङ्करवीरवीजञ्च समभागम्महिषीदुग्धेनपेषयित्वातेनसतैलेनयोनिलेपेसद्यःप्रसवः

17. जातकर्म

अथजातकर्म मूलज्येष्ठाव्यतीपातादावनुत्पन्नस्यजातमात्रस्यपुत्रस्यपितामुखङ्कुलदेवतावृद्धप्रणामपूर्वकमवलोक्यनद्यादावुदङ्मुखःस्नायात् तदसम्भवेगृहेआनीताभिःशीताभिःस्वर्णयुताभिरद्भिःस्नायात् एतच्चरात्रावपिनद्यादौकार्यम् अशक्तोरात्रावग्नि-

सन्निधौस्वर्णयुतशीतोदकैः मूलादिषुजननेतुमुखमदृष्ट्वैवस्नानं देशान्तरगतेजनकेषुत्रजन्मश्रवणोत्तरस्नानं सर्वत्रस्नानात्मागस्पृश्यत्वम् एवङ्कन्योत्पत्तावपिस्त्रानन्तत्प्राक्अस्पृश्यत्वञ्चज्ञेयम् अन्यसपिण्डाशौचमध्येजननेपिपितुस्तात्कालिकीस्नानदानादौ जातकर्मणिचशुद्धिः केचिन्मृताशौचेपुत्रजननेजातकर्माशौचान्तेकार्यमित्याहुः नालच्छेदनात्पूर्वंसम्पूर्णसन्ध्यावन्दनादिकर्मणिनाशौचम् प्रथमदिनेपञ्चमषष्ठदशमदिनेच दानप्रतिग्रहयोर्नदोषः शृतमन्नन्नग्राह्यं ज्योतिष्टोमादिदीक्षावतास्वयमन्येनवाजातकर्मनकार्यं किन्तुअवभृथस्नानान्तेदीक्षांविसृज्यस्वयङ्कार्यं श्रेष्ठःकनिष्ठेनपुंसवनादिकन्नकारयेत् जातकर्मतुकारयेत् अतिक्रान्तन्तुस्वयमेवकुर्यात् महारोगातजातकर्मस्वयन्न कुर्यात् अच्छिन्ननाभिकर्तव्यंश्राद्धंवैपुत्रजन्मनि। पुत्रपदेनकन्यापिगृह्यते तथाचसंस्काराङ्गभिन्नङ्कन्यापुत्रयोर्जन्मनिमित्तकन्नान्दीश्राद्धंविधीयते एतच्चरात्रावपिकार्यं तच्च हेम्नैकार्यन्नत्वन्नादिना तथाचस्नातोलङ्कृतःपिताअकृतनालच्छेदमपीतस्तन्यमन्यैरस्पृष्टम्प्रक्षालितङ्कुमारम्मातुरुत्सङ्गेकारयित्वाचमनादिदेशकालादिकीर्तनान्ते अस्यकुमारस्यगर्भाम्बुपानजनितदोषनिवर्हणायुर्मेधाभिवृद्धिवीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थञ्जातकर्मकरिष्ये तदादौस्वस्तिपुण्याहवाचनम्मातृकापूजनञ्चकरिष्ये हिरण्येनपुत्रजन्मनिमित्तकञ्जातकर्माङ्गञ्चनान्दीश्राद्धन्तन्त्रेणकरिष्ये इतिसङ्कल्प्ययथागृह्यं कुर्यात् ततोदद्यात्सुवर्णचभूमिङ्गान्तुरगंरथम्। छत्रञ्छागञ्चमाल्यञ्चशयनञ्चासनङ्गृहम् १ तिलपूर्णानिपात्राणिर्साहरण्यानिचैवहि। भक्षयित्वातुपक्वान्नन्द्विजश्चान्द्रायणञ्चरेत् १ सूतके तुसकुल्यानान्नदोषोमनुरब्रवीत्। अथारिक्तपाणिर्ज्योेतिर्विदंसम्पूज्यतस्माज्जन्मलग्नगतशुभाशुभग्रहनिर्णयञ्ज्ञात्वाप्रतिकूलग्रहानुकूल्यार्थतत्तद्ग्रहप्रीत्यर्थन्दानानिकुर्यात् ग्रहमन्त्रजपादिशान्तिसूक्तजपादिकर्मणि विप्रान्वानियोजयेत् ततोनालच्छेदङ्कारयित्वाहिरण्योदकेनमातुर्दक्षिणस्तनम्प्रक्षाल्यमात्राकुमारम्पाययेत् तत्रइमाङ्कुमारइसादिमन्त्रंविभादिः पठेत् जातकर्माद्यन्नप्राशनान्तसंस्कारेषु आश्वलायनानांहोमः कृताकृतः होमपक्षेनान्दीश्राद्धान्तेजातकर्माङ्गहोमङ्करिष्येइतिसङ्कल्प्यलौकिकाग्निम्प्रतिष्ठाप्यान्वाधानाद्याज्यभागान्ते अग्निमिद्रम्प्रजापतिविश्वान्देवान्ब्रह्माणमाज्येनजुहुयात् मधुसर्पिः प्राशनादिमूर्धावघ्राणान्तेस्विष्टकृदादिकुर्यादितिक्रमः अन्येषाङ्गथागृह्यंहोमादिज्ञेयं कुमार्याअपिजातकर्मादिसंस्काराचौलान्ताःसर्वेअमन्त्रकङ्कार्याः विवाहस्तुमन्त्रकः अतःकन्यायाजातकर्मादिसंस्कारलोपेतत्तत्कालेविवाहकालेवाप्रायश्चित्तङ्कृत्वाविवाहः कार्यः अत्रसर्वत्रजातकर्मनामकर्मादौमुख्यकालातिक्रमेगुर्वाद्यस्तरहितेशुभनक्षत्रादौ जातकर्मादिकङ्कार्यं तत्रजातकर्मणिनक्षत्राणि रोहिणीत्र्युत्तराश्विनीहस्तपुष्यानुराधारेवतीमृगचित्राश्रवणादित्रयस्वातीपुनर्वसवः रिक्तापर्वरहितास्तिथयः भौमशनिभिन्नवाराः भद्रावैधृत्यादिशून्येसुकेन्द्रलग्नेशुभम्

18. पञ्चमषष्ठादनयोर्जन्मदानाम्पूजनं

अथपञ्चमषष्ठादनयोर्जन्मदानाम्पूजनं रात्रेःप्रथमयामेपित्रादिःस्नात्वाचम्य देशकालौसङ्कीर्त्य अस्यशिशोःसमातृकस्यायुरारोग्यप्राप्तिसकलानिष्टशान्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थं विघ्नेशस्य जन्मदानां जीवन्सपरनाम्न्याःषष्ठीदेव्याः शस्त्रगर्भाभगवत्याश्च पूजनङ्करिष्येइतिसङ्कल्प्यतण्डुलपुञ्जेषुविघ्नेशञ्जन्मदाश्चनाममन्त्रेणावाह्य आयाहिवरदेदेविमहाषष्ठीतिविश्रुते। शक्तिभिःसहबालमेरक्षजागरवासरे १ इतिषष्ठीदेवीमावाह्य नाम्नाभगवतीमावाह्य नामभिः शक्तिस्त्वंसर्वदेवानांलोकानांहितकारिणी। मातर्बालमिमंरक्षमहाषष्ठिनमोस्तुते १ इतिमन्त्रेणच षोडशोपचारैःसम्पूज्यप्रार्थयेत् लम्बोदरमहाभागसर्वोपद्रवनाशन। त्वत्प्रसादादविघ्नेशचिरञ्जीवतुबालकः १ जननीसर्वभूतानाम्बालानाञ्चविशेषतः। नारायणीस्वरूपेणबालम्मेरक्षसर्वदा २ प्रेतभूतपिशाचेभ्योशाकिनीडाकिनीषुच। मातेवरक्षबालम्मेश्वापदेपन्नगेषुच ३ गौरीपुत्रोयथास्कन्दःशिशुत्वेरक्षितःपुरा। तथाममाप्ययम्बालःषष्ठिकेरक्ष्यतान्नमः ४ इति विप्रेभ्यस्ताम्बूलदक्षिणादिदद्यात् रात्रौजागरणङ्कुर्यात् पञ्चमषष्ठदिनयोर्दानप्रतिग्रहयोर्नदोषः दशमदिनेबलिदानंस्वीयेभ्योन्नदानञ्चकार्यम् ॥

19. आशौचेकर्तव्यनिर्णयः

अथाशौचेकर्तव्यनिर्णयः सूतकेमृतकेकुर्यात्प्राणायामममन्त्रकम्। तथामार्जनमन्त्रांश्चमनसोच्चार्यमार्जयेत् १ गायत्रींसम्यगुच्चार्यसूर्यायार्घ्यन्निवेदयेत्। उपस्थानन्नैवकार्यमार्जनन्तुकृताकृतम् २ सूर्यन्ध्यायन्नमस्कुर्यात् गायत्रीजपोनकार्यः अर्ध्यान्तामानसीसन्ध्येत्युक्तेः केचिन्मनसादशगायत्रीजपःकार्यइत्याहुः वैश्वदेवब्रह्मयज्ञादयःपञ्चमहायज्ञानकार्याः वेदाभ्यासोनकार्यः औपासनहोमपिण्डपितृयज्ञावसगोत्रेणकारयेत् केचिच्छ्रौतकर्मणिसद्यःशुद्ध्युक्तेरग्निहोत्रहोमःस्नात्वाचम्यस्वयङ्कार्यइत्याहुः अपरेतुसर्वस्याप्याशौचापवादस्यानन्यगतिकत्वात्सतिब्राह्मणेब्राह्मणद्वारैवकार्यः ब्राह्मणाभावेस्वयङ्कार्यइत्याहुः स्थालीपाकोनकार्यः आशौचान्तेकार्यः सर्वथालोपप्रसक्तौस्थालीपाकोपिब्राह्मणद्वाराकार्यः अन्वाधानोत्तरंसूतकप्राप्तौब्राह्मणद्वाराश्रौतेष्टिस्थालीपाकौ होमादौत्यागःस्नात्वास्वयङ्कार्यः दर्शादिश्राद्धस्यलोपएव प्रतिसांवत्सरिकंश्राद्धमाशौचान्तेएकादशाहेकार्यं तत्रासम्भवेदर्शव्यतीपातादिपर्वणि एवम्पत्न्यामृतुमत्यामपिपिण्डयज्ञदर्शश्राद्धेकार्ये अन्वाधानोत्तरंरजोदोषेइष्टिस्थालीपाकौकार्यै अन्यथा कालान्तरे दानप्रतिग्रहाध्ययनानिवर्ज्यानि आशौचेन्यस्यानन्नाश्नीयात् पितृयज्ञस्थालीपाक श्रवणाकर्मादिसंस्थानाम्प्रथमारम्भोब्राह्मणद्वाराप्याशौचयोर्नभवति प्रथमारम्भोत्तरंश्रवणाकर्मादिकंविप्रद्वाराऽऽशौचेपिपत्न्यार्तवेपिकार्यम् आग्रयणन्तुनभवति अग्निसमारोपप्रत्यवरोहौआशौचेनभवतः तेनसमारोपोत्तरमाशौचेतैत्तिरीयाणान्त्रिदि-

३ माशौचेदर्शादिपर्वप्राप्तावग्निनाशादिति पाठान्तरम् ॥

नंहोमलोपेबह्वृचादीनान्द्वादशदिनंहोमलोपेग्निनाशादाशौचान्तेश्रौतस्मार्तयोःपुनराधानमेव समारोपप्रत्यवरोहयोरन्यकर्तृकत्वाभावात् अग्न्यनुगमोप्रायश्चित्तपूर्वकपुनरुत्पत्तिरन्यद्वाराभवति भोजनकालेआशौचप्राप्तौमुखस्थङ्ग्रासन्त्यक्त्वास्नायात् तद्ग्रासभक्षणेएकोपवासः सर्वान्नभक्षणेत्रिरात्रोपवासः सूतकेमृतकेचैवनदोषोराहुदर्शनइत्युक्तेर्ग्रहणेस्नात्वाश्राद्धदानजपादिकमाशौचेपिकार्यम् एवंसङ्क्रान्तिस्नानदानादिकमपि सङ्कटेनान्दीश्राद्धोत्तरम्मौञ्जीविवाहयोर्नाशौचं सङ्कटेमधुपर्कोत्तरमृत्विजान्नाशौचं यजमानस्पदीक्षणीयोत्तरम्प्रागवभृथान्नाशौचम् अवभृथमाशौचोत्तरङ्कार्यं व्रतेषुनाशौचमित्युक्तेरनन्तव्रतादिकमन्यैःकारयेत् प्रारब्धान्नसत्रस्यान्नदानादिषुनाशौचम् पूर्वसङ्कल्पितान्नेषुनदोषःपरिकीर्तितः। उदकदुग्धदधिघृतलवणफलमूलभर्जिताद्यन्नानान्तकिगृहस्थितानांस्वयङ्ग्रहणेदोषाभावः सूतकिहस्तात्तुनग्राह्यं केचित्तण्डुलादिकमपक्वमन्नङ्ग्राह्यमाहुः इतिसङ्क्षेपेणनिर्णयोविशेषस्तुवक्ष्यते ॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬