निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथसूतिकाशुद्धिः दशाहान्तेसूतिकायाअस्पृश्यत्वनिवृत्तिर्नामकर्मजातकर्मादिप्राप्तकर्माधिकारश्च जातेष्टिविवाहोपनयनादिकर्मसुतुपुत्रप्रसूनांविंशतिरात्रान्तेऽधिकारः कन्याप्रसूनाम्मासान्तेऽधिकारः ॥
अथजन्मनिदुष्टकालास्तच्छान्तयश्चनिर्णीयन्ते तत्रादौगोप्रसवः यत्रजन्मकालेपितुर्मातुःसुतस्यचारिष्टमुक्तं तत्रगोप्रसवशान्तिस्तत्तन्नक्षत्रादिशान्तिश्चकार्या धनाद्यरिष्टेषुनकार्या मूलाश्लेषाज्येष्ठामघानक्षत्रेषुजननेचतुर्थपादादिषु पित्राद्यरष्टाभावेपिगोप्रसवः अश्विनीरेवतीपुष्यचित्रासुनक्षत्रशान्त्यभावेपिगोप्रसवशान्तिरेवकार्या तत्रअस्यशिशोरमुकदुष्टकालोत्पत्तिसूचितारिष्टनिवृत्त्यर्थङ्गोमुखमंसवशान्तिङ्करिष्येइतिसङ्कल्प्यगणेशपूजनमात्रङ्कृत्वाअङ्गादङ्गादितिमन्त्रेणशिशुमूर्धावघ्राणान्तेप्रयोगमध्यएवपुण्याहवाचनमितिकौस्तुभमयूखौ पुण्याहवाचनंशाखोक्तङ्कृत्वा मूर्धावघ्राणान्तेअस्यगोमुखमसवस्यपुण्याहम्भवन्तोब्रुवन्त्वित्येकवाक्यमेवत्रिर्वदेत् ऋत्विजश्चमतिब्रूयुर्नतुशाखोक्तमितिकमलाकरः नान्दीश्राद्धन्नकार्यम् अग्निप्रतिष्ठान्तेकस्मिंश्चित्पीठेनवग्रहान्अधिदेवतादिरहितान्प्रतिष्ठाप्यान्वाधानङ्कुर्यात् आज्यभागान्ते अपःआपोहिष्ठेतितृचेनअप्सुमेसोमइतिगायत्र्याऋचाचमिलितदधिमध्वाज्येनप्रत्यृचमष्टाष्टसङ्ख्याहुतिभिर्विष्णुन्तद्विष्णोरित्यृचामिलितदधिमध्वाज्येनाष्टाहुतिभिः यक्ष्महणम्अक्षीभ्यामितिसूक्तेनप्रत्यृचमष्टाष्टमिलितद धिमध्वाज्याहुतिभिर्नवग्रहान्दधिमध्वा-ज्येनाष्टाष्टसङ्ख्याहुतिभिः शेषेणेत्यादिमयूखादयः कमलाकरस्तुदधिमध्वाज्येनापश्चतुर्वारंविष्णुंसकृत्यक्ष्महणमक्षीभ्यामितिसूक्तेनप्रत्यृचमष्टाष्टसङ्ख्याहुतिभिर्नवग्रहानेकैकयाहुत्याशेषेणविष्टकृतमित्याह आज्यभागहोमान्तेएकस्मिन्कुम्भेविष्णुवरुणौमतिम-
योःसम्पूज्यौ प्रतिमासुविष्णुवरुणयक्ष्महणःपूज्याइतिमयूखे ततोयथान्वाधानहोमइतिसङ्क्षेपः अवशिष्टःप्रयोगःशान्तिग्रन्थेषु एवमग्रेपिदेवताद्रव्याहुतिसङ्ख्यानिमित्तफलमात्रंलिख्यते विस्तरोन्यत्रज्ञेयः॥
अथकृष्णचतुर्दशीजननशान्तिः कृष्णपक्षेचतुर्दश्याम्प्रसूतेःषड्विधम्फलम्। चतुर्दशीञ्चषड्भागाङ्कुर्यादादौशुभंस्मृतम् १ द्वितीयेपितरंहन्तितृतीयेमातरन्तथा। चतुर्थे मातुलंहन्तिपञ्चमेवंशनाशनम् २ षष्ठेतुधनहानिः स्यादात्मनोवंशनाशनम्। तत्रचतुर्दश्याःषडंशानाम्मध्येद्वितीयतृतीयषष्ठांशेषुजननेगोमुखप्रसवपूर्वकञ्चतुर्दशीशान्तिः अन्यभागेकेवलचतुर्दशीशान्तिः अस्यशिशोःकृष्णचतुर्दश्याअमुकांशजननसूचितसर्वारिष्टनिरासद्वाराश्रीपरमेश्वरप्रीत्यर्थमित्यादिसङ्कल्पः आग्नेयादिचतुर्दिक्षुचत्वारःकुम्भामध्येशतच्छिद्रकुम्भेप्रतिमायांरुद्रावाहनम् मयूखेतुपीठादौरुद्रप्रतिमांसम्पूज्यतत्प्राच्यामुदीच्यांवाशतच्छिद्रादिपञ्चकलशस्थापनपूजनम् अन्वाधानेग्रहानष्टाष्टसङ्ख्यसमिदाज्यचरुभिरधिदेवतादीन्एकैकसङ्ख्यसमिच्चर्वाज्याहुतिभिःरुद्रम्अश्वत्थप्लक्षपलाशखदिरसमिद्भिश्चर्वाहुतिभिराज्याहुतिभिर्माषैस्तिलैःसर्षपैश्चप्रतिद्रव्यमष्टोत्तरशताष्टाविंशत्यन्यतरसङ्ख्यया त्र्यम्बकमितिमन्त्रेण अग्निवायुंसूर्यप्रजापतिञ्चतिलाहुतिभिरमुकसङ्ख्याभिःसकृद्वाव्यस्तसमंस्तव्याहृतिभिः यद्वाप्रजापतिमेवसमस्तव्याहृतिभिस्तिलैःशेषेणात्यादि।
अथसिनीवालीकुहूजननशान्तिःतत्रामावास्यायाःप्रथमोयामःसिनीवालीअन्त्योपान्त्ययामौकुहूः मध्यवर्तिपञ्चयामादर्शइतिकेचित् अपरेतुचतुर्दशीमात्रयुतेऽहोरात्रेवर्तमानाअमावास्यासिनीवाली प्रतिपन्मात्रयुतेऽहोरात्रेवर्तमानाकुहूः तेनामाया वासरत्रयस्पर्शित्वलक्षणदिनवृद्ध्यभावेसूर्योदयस्पर्शत्वाभावलक्षणक्षयाभावेचदर्शोनास्त्येव उदयात्पूर्वाहोरात्रेवर्तमानायाःसिनीवालीत्वात् उदयोत्तरवर्तमानायाःकुहूत्वात् दिनक्षयेसर्वाप्यमादर्शसञ्ज्ञा नतत्रसिनीवालीकुहूभागौ केवलचतुर्दशीकेवलप्रतिपद्युक्तत्वाभावात् एवन्दिनवृद्धौत्रिदिनस्पर्शेमध्यदिनस्थाषष्टिनाडीमितामावास्यादर्शसञ्ज्ञा चतुर्दश्यादियोगाभावात् पूर्वोत्तरदिनस्थौभागौसिनीवालीकुहूसञ्ज्ञावित्याहुः इदम्मयूखेस्पष्टं सिनीवाल्याम्प्रसूतास्याद्यस्यभार्यापशुस्तथा। गजाश्वामहिषीचैवशक्रस्यापिश्रियंहरेत् १ गोपक्षिमृगदासीनाम्प्रसूतिरपिवित्तहृत्। कुहूप्रसूतिरत्यर्थंसर्वदोषकरीस्मृता २ यस्यप्रसूतिरेतेषान्तस्यायुर्धननाशनम्। शान्त्यभावेर्हतित्यागमत्रजातोनसंशयः ३ अत्यागेनाशयत्कचित्स्वयंवानाशमाप्नुयात्। सिनीवालीजननसूचितेत्यादिःकुहूजननसूचितारिष्टनाशेत्यादिश्चसङ्कल्पः कुहूजननेगोप्रसवोपीतिकेचित् अत्रो-
भयत्रापिचतुर्दशीशान्तिवच्छतच्छिद्रकलशसहिताःपञ्चकलशाः मध्येरुद्रःप्रधानदेवताइन्द्रःपितरश्चपार्श्वदेवते इतिप्रतिमात्रयम् इन्द्रस्यपितॄणाञ्चप्रधानरुद्रन्यूनसङ्ख्ययाप्रधानोक्तसर्वद्रैव्यैर्होमः अवशिष्टान्वाधानदेवतोहश्चतुर्दशीशान्तिवत् प्रधानदेवतापूजोत्तरङ्गोवस्त्रस्वर्णदानानिकृत्वा गोभूतिलहिरण्याज्यवासोधान्यङ्गुडानिच। रौप्यंलवणमित्येतद्दशदानानिदापयेत् १ क्षीराज्यगुडदानञ्चकृत्वाहोमंसमारभेत्। एतानिदानानिऋत्विग्भ्योदेयानि तेनान्तेपृथक्दक्षिणादानन्नकार्यम् अतएवात्रगवादेर्दक्षिणारूपत्वात्सदक्षिणन्दानन्नभवति अन्यत्रदशदानादीनांसदक्षिणन्दानङ्कार्यम् अथैतेषां मानम् भ्रुवोमानङ्गोचर्म सप्तहस्तोदण्डः त्रिंशद्दण्डावर्त्तनं दशवर्त्तनानिगोचर्म तिलानान्द्रोणः सुवर्णरजतयोर्दशमाषतदर्धतदर्धान्यतमम् आज्यस्यचत्वारिंशत्पलानि वाससस्त्रिहस्तत्वं धान्यस्यपञ्चद्रोणाः एवङ्गुडलवणयोः एतावत्प्रमाणाशक्तौनियनैमित्तिकेयथाशक्तिदेयानि यथाशक्तिहिरण्यंवातत्तत्प्रतिनिधित्वेनहिरण्यगर्भेतिमन्त्रेणदेयं नैमित्तिकादेरकरणेप्रत्यवायात् अभ्युदयादिफलार्थतुदशदानानिशक्तिंविनानकार्याणीतिभाति होमान्तेबलिदानाभिषेकादि इतिसिनीवालीकुहूशान्तिः॥
अथदर्शशान्तिः अथातोदर्शजातानाम्मातापित्रोर्दरिद्रता। तद्दोषपरिहारार्थंशान्तिंवक्ष्यामितेसदा १ अस्य॰ दर्शजननसूचितारिष्टनिरासार्थशान्न्तिङ्करिष्येइतिसङ्कल्पः स्थण्डिलात्पूर्वदेशेकलशम्प्रतिष्ठाप्यकलशाग्न्योर्मध्येसर्वतोभद्रपीठेब्रह्मादिमण्डलदेवताआवाह्यतन्मध्येस्वर्णप्रतिमायांयेचेहेतिमन्त्रेणपितॄनावाहयेत् तदक्षिणेरजतप्रतिमायामाप्यायस्वेतिसोममुत्तरतस्ताम्रप्रतिमायांसवितापश्चातादितिसूर्यं चावाह्यसम्पूज्याग्निम्प्रतिष्ठाप्यसर्वतोभद्रैशान्याङ्ग्रहस्थापनादि अन्वाधानेआदित्यादिग्रहान् अमुकंसङ्ख्याभिःसमिच्चर्वाज्याहुतिभिः पितृृन्अष्टाविंशतिसङ्ख्याकाभिःसमिच्चरुभ्यां सोमंसूर्यञ्च प्रत्येकमष्टोत्तरशतसङ्ख्यसमिच्चर्वाहुतिभिः शेषेणस्विष्टकृतमित्यादि अत्रस्विष्टकृतःपूर्वं मातापितृशिशूनाङ्कलशोदकेनाभिषेकस्ततःस्विष्टकृद्धलिदानादीतिविशेषः इतिदर्शशान्तिः॥
अथनक्षत्रशान्तिः तत्रमूलनक्षत्रफलम् पिताम्रियेतमूलाद्येपादेपुत्रजनिर्यदि।द्वितीयेजननीनाशोधननाशस्तृतीयके २ चतुर्थेकुलनाशोतः शान्तिः कार्याप्रयत्नतः। क्वचिच्चतुर्थचरणःशुभउक्तोमनीषिभिः ३ एवञ्चदुहितुर्ज्ञेयम्मूलजीतफलम्बुधैः। केचित्तु नकन्याहन्तिमूलर्क्षेपितरम्मातरन्तथा। मूलजाश्वशुरंहन्तिश्वश्रूमाश्लेषजासुता १ ज्येष्ठायान्तुपतिज्येष्ठंविशाखोत्थातुदेवरम्। शान्तिर्वापुष्कलास्याश्चेत्तहिन्दोषोनविद्यते २ इत्याहुः अभुक्तमूलसम्भवम्परित्यजेत्तुबालकम्। समाष्टकम्पिताथवानत-
न्मुखंविलोकयेत्। ज्येष्ठान्तेघटिकाचैकामूलादौघटिकाद्वयम्। अभुक्तमूलमथवासन्धिनाडीचतुष्टयम् १ वृषालिसिंहेषुघटेचमूलन्दिविस्थितंयुग्मतुलाङ्गनान्त्ये। पातालगम्मेषधनुःकुलीरनक्रेषुमर्त्येष्वितिसंस्मरन्ति २ एतल्लग्नफलम्। स्वर्गेमूलेभवेद्राज्यम्पाताले चधनागमः। मृत्युलोकेयदामूलन्तदाशून्यंसमादिशेत् १ नवमासंसार्पदोषोमूलदोषोऽष्टवर्षकम्। ज्यैष्ठोमासान्पञ्चदशतावद्दर्शनवर्जनम् २ व्यतीपातेङ्गहानि स्यात्परिघेमृत्युमादिशेत्। वैधृतौपितृहानिःस्यान्नष्टेन्दावन्धतांव्रजेत् ३ मूलेसमूलनाशःस्यात्कुलनाशोधृतौभवेत्। विकृताङ्गश्चहीनश्चसन्ध्ययोरुभयोरपि ४ तद्वत्सदन्तजातस्तुपादजातस्तथैवच। तस्माच्छान्तिं प्रकुर्वीतग्रहाणाङ्क्रूरचेतसाम् ५ व्यतीपातादौग्रहमस्वसहितातत्तच्छान्तिरवश्यङ्कार्या इतरशान्तिषुग्रहमखोनावश्यकइत्यर्थः मुख्यकालम्प्रवक्ष्यामिशान्तिहोमस्ययत्नतः। जातस्यद्वादशाहे तुजन्मक्षैवाशुभेदिने १ जननाद्द्वादशाहेशान्तिकरणेशान्त्युक्तनक्षत्राहुतिवह्निचक्रावलोकनादिकन्नावश्यकं कालान्तरेआवश्यकम् एवमन्यशान्तिष्वपिज्ञेयं तद्यथा शुक्लादितस्तिथिःसैकावारयुक्ताब्धिशेषिता। खेगुणेभुविवासोग्नेर्द्व्यकयोःस्यादधोदिवि १ भूमावग्निःशुभः होमाहुतिःसूर्यभतस्त्रिभन्त्रिभङ्गण्यम्मुहुस्तत्रचचन्द्रभावधि। सूर्यज्ञशुक्रार्कजचन्द्रभूमिजाजीवस्तमःकेतुरसत्यमन्मुखे १ संस्कारनित्यकर्मसुनिमित्ताव्यवहितनैमित्तिकेपुरोगातुरेचवद्विचक्रादिकन्नापेक्षितम् अग्नेःस्थापनवेलायां पूर्णाहुत्यामथापिवा। आहुतिर्वहिवासअविलोक्यौशान्तिकर्मणि १ त्र्युत्तरारोहिणीश्रवणर्धनष्ठाशततारकापुनर्वसुखातीमघाश्विनी हस्तपुष्यानुराधारेवतीनक्षत्रेपुगुरुशुक्रास्तमलमासरहितेशुभवारन्तिथ्यादौशान्तिः कार्या निमित्ताव्यवहितनैमित्तिके रोगशान्तौचअस्तादिविचारणानास्ति इतिप्रसङ्गात्सर्वशान्त्युपयोगिशुभदननिर्णयः अभुक्तमूलोत्पत्तौवर्षाष्टकं शिशुत्यागः ततः शान्तिः
तदन्यमूलोत्पत्तौद्वादशाहेअव्यवहितागामिमूलयुतेशुभदिने वान्यत्रशुभदिनेवागोप्रसवशान्तिकृत्वास्यशिशोर्मूलप्रथमचरणोत्पत्तिसूचितारिष्टनिरासार्थंसग्रहमखांशान्तिङ्करिष्यइतिसङ्कल्पयेत् द्वितीयादिपादोत्पत्तौसङ्कल्पेतथोहः ब्रह्मसदस्यौकृताकृतौ ऋत्विजोष्टौचत्वारोवा मध्यकलशेस्वर्णप्रतिमायांरुद्रावाहनादि तस्यचतुर्दिक्षुकुम्भचतुष्टयेऽक्षतपुञ्जेषुवरुणपूजा यद्वामध्येकुम्भे प्रतिमायांरुद्रस्तदुत्तरकुम्भेवरुणःपूज्यइतिकुम्भद्वयं रुद्रकुम्भोत्तरतः कुम्भेप्रतिमासु निर्ऋतिमिन्द्रमपश्चावाह्यपद्मस्पचतुर्विंशन्तिदलेषुउत्तराषाढाद्यनुराधान्तचतुर्विंशन्तिनक्षत्राणांविश्वेदेवादिचतुर्विंशतिदेवतास्तण्डुलपुञ्जादिष्वावाह्यदिक्षुलोकपालांवावाह्य पूजयेत् अग्निग्रहस्थापनाद्यन्तेऽन्वाधानेऽर्कादिग्रहान्समिच्चर्वाज्याहुतिभिः निरृतिम्प्रति-
१ सूर्यर्क्षान्तं नक्षत्रपर्येतं त्रिमन्त्रिभगण्य तत्र सूर्यनक्षत्राद्यनक्षत्रत्रयं तत्सूर्यस्य ततः नक्षत्रत्रयं बुधस्य एवं गणिते सति शुभग्रहस्य नक्षत्रं चेत् होमाहुतिचक्र विद्यत। अशुभग्रहस्यचन्नास्तीत्यर्थः॥
द्रव्यमष्टोत्तरशतसङ्ख्याभिर्घृतमिश्रपायससमिदाज्यचर्वाहुतिभिः यद्वापायसेनाष्टोत्तरशतसङ्ख्ययासमिदाज्यचरुभिरष्टाविंशतिसङ्ख्ययाइन्द्रमपश्चप्रतिद्रव्यमष्टाविंशतिसङ्ख्यपायससमिदाज्यचर्वाहुतिभिर्विश्वेदेवादिचतुर्विंशतिदेवताअष्टाष्टपायसाहुतिभिःरक्षोहणमग्निङ्कृणुष्वपाजेतिपञ्चदशऋग्भिःप्रत्यृचमष्टाष्टसङ्ख्यकृसराहुतिभिः १२० सवितारन्दुर्गात्र्यबकङ्कवीन्दुर्गावास्तोप्पतिम्अग्निङ्क्षेत्रपालम्मित्रावरुणावग्निञ्चाष्टाष्टकृसराहुतिभिः श्रियं हिरण्यवर्णामितिपञ्चदशऋग्भिःप्रत्यृचमष्टाष्टसमिदाज्यचर्वाहुतिभिः सोमन्त्रयोदशपायसाहुतिभिःरुद्रंस्वराजञ्चतुर्गृहीताज्येनाग्निंवायुंसूर्यम्प्रजापतिञ्चाज्येनशेषेण स्विष्टकृतमित्यादि कवीनित्यत्रऋत्विक्स्तुतिमित्युद्देशोमयूखादौ शूर्पत्रयेनिर्वापः तत्रप्रथमेशूर्पेपायसार्थन्तूष्णीन्द्वादशमुष्टीन्निर्ऋतिमिन्द्रमपश्श्चोद्दिश्यनिरूप्य द्वितीयेचर्वर्थं तदेवत्रयमुद्दिश्यद्वादशमुष्टीन् पुनःप्रथमेषण्णवतिमुष्टीन्पायसार्थन्तृतीयेशूर्पेकृसरार्थञ्चतुश्चत्वारिंशन्मुष्टीन् द्वितीयेपुनश्चतुरो मुष्टीन्प्रथमे पुनः सोमार्थञ्चतुर्मुष्टीन्निरूप्यततःशूर्पत्रयेआहुतिपर्याप्ततण्डुलान्गृहीत्वानिर्वापसङ्ख्ययाप्रोक्ष्यपात्रत्रयेहविस्त्रयन्त्रपयेत् तिलमिश्रतण्डुलपाकेनकृसरोभवति ग्रहार्थङ्गृहसिद्धानङ्ग्राह्यं सर्वग्रन्थेषुनिर्ऋत्याद्यर्थन्निर्वापादिक्रमेणश्रपणमेवोक्तम् अतोगृहसिद्धान्नएवतिलदुग्धमिश्रणेनकृसरादिसम्पादनं प्रमादालस्यादिकृतकर्मभ्रंशएव ततोहोमकालेयजमानस्त्यागङ्कुर्यात् तत्रएतावत्सङ्ख्याहुतिपर्याप्तंसमिदाज्यचरुद्रव्यमादित्यादिनवग्रहेभ्योनमम एवमधिदेवतादिभ्यः ततोष्टोत्तरशतसङ्ख्याहुतिपर्याप्तङ्घृतमिश्रपायसम्अष्टोत्तरशताहुतीनामष्टाविंशत्याहुतीनां वापर्याप्तंसमिदाज्यचर्चात्मकद्रव्यत्रयमदनिर्ऋतये नमम अष्टाविंशत्याहुतिपर्याप्तम्पायससमिच्चर्वाज्यमिन्द्रायनमम एवमद्भ्यः अष्टाष्टाहुतिपर्याप्तम्पायसंविश्वेभ्योदेवेभ्यो॰ १ विष्णवे २ वसुभ्यो ३ वरुणाय ४ अजैकपदे ५ अहयेबुध्न्याय ६ पूष्णे ७ अश्विभ्यां ८ यमाय ९ अग्नये १० प्रजापतये ११ सोमाय १२ रुद्राय १३ अदित्यै १४ बृहस्पतये १५ सर्पेभ्यः १६ पितृभ्यः १७ भगाय १८ अर्यम्णे १९ सवित्रे २० त्वष्ट्रे २१ वायवे २२ इन्द्राग्निभ्यां २३ मित्राय २४ नमम विंशसधिकशताहुतिपर्याप्तङ्कृसरंरक्षोघ्नेऽग्नयेनमम अष्टाष्टाहुतिपर्याप्तङ्कृसरंसवित्रेदुर्गायैत्र्यम्बकायकविभ्योदुर्गायैवास्तोष्पतयेऽग्नयेक्षेत्रपालायमित्रावरुणाभ्यामग्नयेचनमम प्रतिद्रव्यंविंशत्यधिकशताहुतिपर्याप्तानिसमिच्चर्वाज्यानिश्रियैनमम त्रयोदशाहुतिपर्याप्तम्पायसंसोमायचतुर्गृहीताज्यंरुद्रायस्वराजे एकैकाहुतिपर्याप्तमाज्यम्अग्नयेवायवेसूर्यायप्रजापतयेचनमम एवंसविस्तरन्तत्तद्रव्यसङ्ख्यादेवतोच्चारेणत्यागःसर्वत्रज्ञेयः केचित्तुइदमुपकल्पितमन्वाधानोक्तद्रव्यजातमन्वाधानोक्ताहुतिसङ्ख्यापर्याप्तमन्वाधानोक्ताभ्योयक्ष्यमाणाभ्योदेवताभ्योनममेतिसङ्क्षेपेणत्यागङ्कुर्वन्ति ततोग्रहमन्त्रैर्निर्ऋत्यादिमन्त्रैश्चयथायथंहोमान्ते ग्रहपूजास्विष्टकृन्नवाहुतिबलिदानपूर्णाहुतिपूर्णपात्रविमोकादिवह्निपूजान्तेयजमानाद्य-
भिषेकेकृतेधृतशुक्लवस्त्रगन्धोयजमानोमानस्तोकेतिविभूतिङ्घृत्वामुख्यदेवतापूजनविसर्जनश्रेयोग्रहणदक्षिणादानानिकुर्यात् शतन्तदर्धदशवाब्राह्मणान् भोजयेदितिसङ्क्षेपः
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा