निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथाश्लेषाशान्तिः तत्राश्लेषाफलम् आश्लेषायाःक्रमेणपञ्चसप्तद्वित्रिचतुरष्टैकादशषट्नवपञ्चेतिदशधाविभक्तनाडीषु क्रमेण राज्यम्पितृनाशोमातृनाशःकामभोगःपितृभक्तिर्बलंहिंसकत्वन्त्यागोभोगोधनमितिफलानि अथपादविभागेनफलं तत्राद्यपादःशुभः द्वितीयेपादेधनस्यनाशः तृतीयेमातुः चतुर्थेपितुः आश्लेषान्त्यपादत्रयजाताकन्याश्वश्रृंहन्ति एवंवरोपिअन्त्यपादत्रयजःस्वश्व श्रृंहन्ति आश्लेषासर्वपादेषुशान्तिःकार्याप्रयत्नतः। जातस्यद्वादशाहेतुशान्तिकर्मसमाचरेत् १ असम्भवेतु जन्मर्क्षेअन्यस्मिन्वाशुभेदिने। अथोक्तकालेगोमुखप्रसवङ्कृत्वाअस्यशिशोराश्लेषाजननसूचितसर्वारिष्टपरिहारेत्यादिसङ्कल्पङ्कृत्वामूलशान्तिवत्कुम्भद्वयेरुद्रवरुणौद्वौसम्पूज्य चतुर्विंशतिदलपद्मस्थकुम्भेप्रतिमायामाश्लेषाधिपतीनसर्पानावाह्यतद्दक्षिणेपुष्यदेवतां बृहस्पतिमुत्तरतोमघादेवताम्पितृंश्चावाह्यदलेषुपूर्वदलमारभ्यप्रादक्षिण्येनपूर्वाधिपतिभगादिपुनर्वसुदेवतादितिपर्यन्तचतुर्विंशतिदेवतावाहनादिकुर्यात् कौस्तुभेतुतैत्तिरीयकमन्त्रैः पुष्यमघापूर्वादिनक्षत्राणामेवावाहनमुक्तन्नतुनक्षत्रदेवतानां ततोलोकपालानावाह्यावाहितसर्वदेवताःसम्पूज्याग्निङ्ग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् आदित्यादिग्रहायुद्देशान्ते प्रधानदेवताःसर्पान्प्रतिद्रव्यमष्टोत्तरशतसङ्ख्यमष्टाविंशतिसङ्ख्यंवाघृतमिश्रपायससमिदाज्यचर्वाहुतिभिः बृहस्पतिम्पितृञ्चाष्टाविंशतिसङ्ख्यमष्टसङ्ख्यंवातैरेव द्रव्यैर्भगादिचतुर्विंशतिदेवताः अष्टाष्टपायसाहुतिभिः रक्षोहणमित्यादिशेषदेवतानिर्देशोमूंलशान्तिवत् तद्वदेवपायसकृसरचरूणांश्रपणंहविस्त्यागश्चकार्यः कौस्तुभोक्तप्रधानदेवतामत्रैस्तत्तद्धोमः शेपमूलशान्तिवत्॥
अथज्येष्ठानक्षत्रफलम् ज्येष्ठायादशभागेषुआद्येमातामहीमृतिः। मातामहं द्वितीयेचतृतीयेहन्तिमातुलम् १ तुर्येजातोमातरञ्चहन्त्यात्मानन्तुपञ्चमे। गोत्रजान्षष्ठभागेचसप्तमेतूभयङ्कुलम् २ अष्टमेस्वाग्रज॑हन्तिनवमेश्वशुरन्तथा। दशमांशकजातस्तु सर्वंहन्तिशिशुर्धुवम् ३ ज्येष्ठतुपुमाञ्जातोज्येष्ठभ्रातुर्विनाशकः। ज्येष्ठकन्यका जाताहन्तिशीघ्रन्धवाग्रजम् ४ पादत्रयेजातनरोज्येष्ठोप्यत्रप्रजायते। ज्येष्ठान्त्यपादजातस्तुपितुःस्वस्यचनाशकः ५ द्वादशाहेशान्त्युक्तशुभदिनेवागोप्रसवशान्तिकृत्वाऽस्यशिशोर्ज्येष्ठजननसूचितसर्वारिष्टपरिहारद्वारेत्यादिसङ्कल्प्यमध्यकलशेसुवर्णप्रतिमायांशचीसहितमैरावतारूढमिन्द्रंलोकपालांश्चावाह्यरक्तवस्त्रद्वयशष्कुलीनैवेद्यसहितषोडशोपचारैःपूजयेत् तस्यचतुर्दिक्षुकुम्भचतुष्टयन्तत्पूर्वमध्यभागेशतच्छिद्रन्निधायपूर्णपात्रयुतेषुफलादौवरुणावाहनपूजनादि अन्वाधानेग्रहान्वाधानान्ते
इन्द्रम्पलाशसमिदाज्यचरुद्रव्यैःप्रतिद्रव्यमष्टोत्तरशतसङ्ख्यया इन्द्रायेन्दोमरुत्वतइतिमन्त्रेणप्रजापतिमष्टोत्तरशततिलाहुतिभिःसमस्तव्याहृतिमन्त्रेणशेषेण स्विष्टकृतमित्यादि अष्टोत्तरशतम्ब्राह्मणान्भोजयेत् इतिज्येष्ठाशान्तिसङ्क्षेपः चित्राद्येर्धेपुष्यमध्येद्विपादेपूर्वाषाढाधिष्ण्यपादेतृतीये। जातःपुत्रश्चोत्तराद्येविधत्तेपित्रोर्भ्रातुःस्वस्यचापिप्रणाशम् १ उत्तराफल्गुन्याद्यपादेइत्यर्थः अत्रेत्थम्भाति चित्रापूर्वार्धेजातस्यगोप्रसवङ्कृत्वानक्षत्राधिपतिप्रतिमांसम्पूज्यअजादानङ्कार्यम् एवम्पुष्यद्वितीयतृतीयपादयोर्जननेगोप्रसवनक्षत्राधिपपूजागोदानानिकार्याणि उत्तराफल्गुनीप्रथमपादेजनने नक्षत्राधिपपूजान्तिलपात्रदानञ्चकुर्यात् एवं पूर्वाषाढातृतीयपादेजननेनक्षत्रेशपूजाकाञ्चनदानम् मघाप्रथमपादजननेमूलवत्फलं तत्रगोप्रसवनक्षत्रेशपूजनग्रहमखाःकार्याः मघायाआद्यघटीद्वयजननेनक्षत्रगण्डान्तशान्तिरपि रेवत्यन्त्यघटिद्वयेश्विन्याद्यद्वयेजननेनक्षत्रगण्डान्तशान्तिगोप्रसवग्रहमखाःकार्याः रेवत्यश्विन्योरितरभागेषुमघान्तिमपादत्रयेचदोषविशेषानुक्तेर्नशान्त्यादिकम् एवंविशाखाचतुर्थपादजननेशालकदेवरनाशादिदुष्टफलोक्तेर्ग्रहमखःकार्यः यत्रकालेदुष्टफलमात्रमुक्तंशान्तिर्वोक्तातत्रग्रहमखइतिकमलाकरोक्तेः एवमितरत्राप्यूह्यम् इतिनक्षत्रशान्तयः ॥
अथव्यतीपातवैधृतिसङ्क्रान्तिशान्तिः कुमारजन्मकालेतुव्यतीपातश्चवैधृतिः। सङ्क्रमश्चरवेस्तत्रजातोदारिद्र्यकारकः १ अश्रियम्मृत्युमाप्नोतिनात्रकार्याविचारणा।स्त्रीणाञ्चशोकदुःखञ्चसर्वनाशकरोभवेत् २ गोमुखप्रसवङ्कुर्याच्छान्तिञ्चसनवग्रहाम्। उक्तकालेसङ्कल्पादिकङ्कृत्वापञ्चद्रोणपरिमितव्रीहिराशिङ्कृत्वातदुपरिसार्धद्रोणद्वयमिततण्डुलराशिन्तदुपरिसपादद्रोणपरिमिततिलराशिञ्चकृत्वातिलराशौविधिनास्थापितकुम्भेसौवर्णप्रतिमायांसूर्यमावाह्यतद्दक्षिणोत्तरयोरग्निरुद्रावावाह्यतस्रोदेवताःव्यतीपातशान्तौसङ्क्रान्तिशान्तौचपूजयेत् व्यतीपातसङ्क्रान्त्योर्जननेव्यतीपातसङ्क्रान्तिशान्तिं तन्त्रेणसङ्कल्प्यैकैवशान्तिःकार्या अत्रपूजाहोमादेःप्रसङ्गसिद्धिःद्विगुणोवाप्रधानहोमइतिभाति ग्रहपीठदेवतान्वाधानान्तेसूर्यउत्सूर्योबृहदितिमन्त्रेणसमिदाज्यचर्वाहुतिभिःप्रतिद्रव्यमष्टोत्त शतसङ्ख्याभिःअग्निरुद्रञ्चतैरेवद्रव्यैःप्रत्येकमष्टाविंशतिसङ्ख्याहुतिभिरग्निन्दूतमितित्र्यम्बकमितिमन्त्राभ्याम्मृत्युञ्जयमष्टोत्तरशततिलहुतिभिः शेषेणेत्यादि अभिषेकान्तेगोवस्त्रस्वर्णादिदत्त्वाशतम्ब्राह्मणान्भोजयेत् इतिव्यतीपातसङ्क्रान्तिशान्तिः
अथवैधृतिशान्तौविशेषः पूर्ववत्व्रीहितण्डुलतिलराशौस्थापितकुम्भेमध्येत्र्यम्बकमितिमन्त्रेणरुद्रन्दक्षिणतःउत्सूर्यइतिसूर्यम्उत्तरतश्चाप्यायस्वेतिसोममावाह्यपूजयेत् अन्वाधानेरुद्वंसमिच्चर्वाज्यैःप्रतिद्रव्यमष्टोत्तरशतसङ्ख्याहुतिभिःसूर्यसोमौप्रत्येकमष्टाविंशतिसङ्ख्यैस्तैरेवद्रव्यैर्मृत्युञ्जयमष्टोत्तरसहस्रशतान्यतरसङ्ख्यतिलाहुतिभिःशेषेणेत्वा-
दि अन्यत्पूर्ववत् सङ्क्रान्तिदिनेवैधृतिसत्त्वेदेवताभेदाच्छान्तिद्वयम्पृथक्वार्यम् इतिवैधृतिशान्तिः॥
अथैकनक्षत्रजननशान्तिः एकस्मिन्नेवनक्षत्रेभ्रात्रोर्वापितृपुत्रयोः। प्रसूतिवेत्तयोर्मृत्युर्भवेदेकस्यनिश्चितः १ पितृनक्षत्रेमातृनक्षत्रेवा कन्यायाःपुत्रस्यवोत्पत्तौ गोमुखप्रसवङ्कृत्वाशान्तिःकार्या सोदरभ्रातृर्भागन्योर्नक्षत्रेभ्रातुर्भगिन्यावोत्पत्तौगोप्रसवमकृत्वैवशान्तिमात्रङ्कार्यं सङ्कल्पे पित्रेकनक्षत्रोत्पत्तिसूचितसर्वारिष्टेत्याद्यूहः कलशेरक्तवस्त्रेयस्मिन्नक्षत्रेजन्मतन्नक्षत्रप्रतिमान्तन्नक्षत्रदेवताप्रतिमांवा अग्निर्नःपातुकृत्तिकाइत्यादितैत्तिरीयमन्त्रैःपूजयेत् अन्वाधानेइदन्नक्षत्रम्अमुकान्नक्षत्रदेवतांवासमिच्चर्वाज्यैःप्रतिद्रव्यमष्टोत्तरशतसङ्ख्यंशेषेणेत्यादि अन्तेययोरेकनक्षत्रेजन्मतयोरभिषेकः अत्रग्रहमखोनावश्यकः क्वचित्सम्पूजितहरिहरप्रतिमादानमप्युक्तम्॥
अथग्रहणशान्तिः ग्रहणेचन्द्रसूर्यस्यप्रसूतिर्यदिजायते। इत्थंसञ्जायतेयस्तु तस्यमृत्युर्नसंशयः १ व्याधिः पीडाचदारिद्र्यंशोकश्चकलहोभवेत्। अत्रगोमुखप्रसवः कार्यइतिभाति ग्रहमखःकृताकृतःसङ्कल्पेसूर्यग्रहणकालिकप्रसूतिसूचितेत्याद्युहः ग्रहणकालिकनक्षत्रस्यनक्षत्रदेवतायावा हेमप्रतिमां सूर्यग्रहेसूर्यस्यहेमप्रतिमां चन्द्रग्रहेराजतञ्चन्द्रविम्बङ्कृलोभयत्रसीसेनराहोर्नागाकृतिङ्कृत्वागोमयोपलिप्तेशुचिदेशेश्वेतवस्त्रोपरि देवतात्रयपूजनं नात्रकलशस्थापनादि तत्रमध्येआकृष्णेनेतिसूर्यं दक्षिणतःस्वर्भानोरघइतिराहुम् उत्तरतोनक्षत्रदेवताम्पूजयेत् चन्द्रग्रहेतुआप्यायस्वेतिमध्येचन्द्रःपूज्यः पार्श्वयोराहुनक्षत्रदेवतेपूर्ववत् अन्वाधानेसूर्यग्रहेसूर्यअर्कसमिदाज्यचरुतिलैःप्रत्येकमष्टोत्तरशतसङ्ख्यया राहुन्दूर्वाज्यचरुतिलैस्तावत्सङ्ख्यैर्नक्षत्रदेवताञ्जलवृक्षसमिदाज्यचरुतिलैस्तावत्सङ्ख्ययाशेषेणेयादि चन्द्रग्रहेच चन्द्रम्पालाशसमिदाज्यचरुतिलैः शेषम्पूर्ववत् अन्तेग्रहकलशोदकेनपञ्चगव्यपञ्चत्वक्पञ्चपल्लवादियुतलौकिकोदकेनचलौकिकेनैववाभिषेकः वेधकालेजन्मनिनैवृशान्तिः किन्तुदुष्टकालत्वाद्रुद्राभिषेकःकार्यइतिभाति॥
अथनक्षत्रगण्डान्तशातिः रेवत्याश्लेषाज्येष्ठानक्षत्राणामन्त्यघटीद्वयमश्विनीमघामूलानामाद्यघटीद्वयमितिघटिकाचतुष्टयमितन्त्रिविधन्नक्षत्रगण्डान्तम् अश्विनीमघामूलानाम्पूर्वार्धेबाध्यतेपिता। पूषाहिशक्रपश्चार्धेजननीबाध्यतेशिशोः १ सर्वेषाङ्गण्डजात्सनाम्परित्यागोविधीयते। वर्जयेद्दर्शनंयावत्तस्यषण्मासिकम्भवेत् २ शान्तिर्वापुष्कलाकार्यासोममन्त्रेणभक्तिमान्। अस्यशिशोरेवत्यश्विनीसन्ध्यात्मकगण्डान्तजननसूचितारिष्टनिरासार्थन्नक्षत्रगण्डान्तशातिङ्करिष्यइत्यादिसङ्कल्पः गोमुखप्रसवङ्कृलाषोडशपलमष्टपलंवाचतुःपलंवाकांस्यपात्रंविधायतस्मिन्पायसम्पयोवानिक्षिप्यतत्रनवनीतपूर्णंशङ्कन्निधायतस्मिन्रराजतञ्चन्द्रबिम्बंसंस्थाप्यसोमोहमितिध्यानपूर्वकञ्चन्द्रमाप्यायस्वेति पूजयेत् पूजान्तेआप्यायस्वेतिमन्त्रस्यसहस्रञ्जपः ग्रहमखहोमःकार्यः नात्रप्रधानदेवता-
होमः ग्रन्थान्तरेतुताम्रकलशेराजतप्रतिमायाम्बृहस्पतिमन्त्रेणवागीश्वरंसम्पूज्यतदुत्तरे कुम्भचतुष्टयेपञ्चपल्लवादिकङ्कुङ्कुमचन्दनकुष्ठगोरोचनानिक्षिप्त्वावरुणम्पूजयेदित्युक्तम् आचार्यायसशङ्खसमौक्तिकचन्द्रदानं ग्रन्थान्तरपक्षेताम्रपात्रसहितवागीश्वरदानम् आयुर्वृद्ध्यर्थंसहस्राक्षेणेतिमन्त्रजपः दशावरब्राह्मणभोजनञ्चेति॥
अथतिथिगण्डान्तलग्नगण्डान्तशान्तिः पञ्चमीषष्ठ्योर्दशम्येकादश्योःपञ्चदशीप्रतिपदोःसन्धिभूतङ्घटीद्वयन्तिथिगण्डान्तं कर्कसिंहयोर्वृश्चिकधनुषोर्मीनमेषयोचलग्नयोःसन्धिभूतैकाघटिकालग्नगण्डान्तं तत्रतिथिगण्डान्तेपूर्वार्धेजन्मनितत्कालं स्नात्वावृषभदानन्तन्मूल्यदानंवाकृत्वासूतकान्तेशान्तिःकार्या उत्तरार्धेजन्मनिशान्तिमात्रं लग्नगण्डान्तपूर्वार्धजन्मनिकाञ्चनदानम् उत्तरार्धेशान्तिमात्रं कुम्भेहेमप्रतिमायांवरुणंसम्पूज्यवरुणोद्देशेनप्रतिद्रव्यमष्टोत्तरशतसङ्ख्ययासमिच्चर्वाज्यतिलयवानांहोम कार्यः यवव्रीहिमाषतिलमुद्गानान्दक्षिणात्वेनदानमिति॥
अथदिनक्षयादिशान्तिः दिनक्षयेचभद्रायाम्प्रसूतिर्यदिजायते। यमघण्टेदग्धयोगेमृत्युयोगेचदारुणे १ दुष्टयोगतिथीनाञ्चनिषिद्धांशेषुचेत्तदा। अतिदोषकरीप्रोक्तातस्मिन्पापयुतेसति २ यमघण्टदयोज्योतिर्ग्रन्थेप्रसिद्धाः दुर्योगतिथीनान्निषिद्धभागास्तु विष्कम्भवज्रयोस्तिस्रःषट्चगण्डातिगण्डयोः। परिघार्धपञ्चशूलेव्याघातेऽङ्कघटीस्यजेत् १ चतुःषडष्टनिध्यर्कभूततिथ्याद्यनाडिकाः। अष्ट८ ङ्क९ मनु-१४ तत्त्वा २५ शा १० बाण५ सङ्ख्याविवर्जयेत् १ इत्युक्ताज्ञेयाः दिनक्षयादिदोषेष्वेकैकदोषदूषितकालेजननेशिवेरुद्रैकादशिन्यभिषेकःकार्यः द्वित्रादिदोषसमुच्चयेग्रहयज्ञाश्वत्थप्रदक्षिणादिसमुच्चयः दीपंशिवालयेभत्तयाघृतेनपरिदापयेत्। गाणपत्यम्पुरुषसूक्तंसौरम्मृत्युञ्जयंशुभम् १ शान्तिजाप्यंरुद्रजाप्यङ्कृत्वामृत्युञ्जयीभवेत्। इतिवाक्यान्द्वहुदोषेउक्तजपादिसमुच्चयोपि॥
अथविषघटीशान्तिः तत्रकौस्तुभेतिथिवारनक्षत्राणांविषनाड्यउक्तास्तथापिज्योतिर्ग्रन्थेषुनक्षत्रविषघटीनामेवमहादोषत्वेनोक्तेर्नक्षत्रविषघटीष्वेवजननेउक्तशान्तिःकार्या तिथ्यादिविषघटीनामुपदोषत्वाद्रुद्राभिषेकादिलङ्कार्यं विषघटीलक्षणं कौस्तुभादौज्ञेयं विषनाडीषुसञ्जातःपितृमातृधनात्मनाम्। नाशकृद्विषशस्त्रास्त्रैःक्रूरेः लग्नेऽंशकेपिच १ एतद्विषनाडीषुशिशुजननसूचितारिष्टेत्यादिसङ्कल्पः एककुम्भेप्रतिमाचतुष्टयेरुद्रयमाग्निमृत्युदेवताः कद्रुद्राययमायसोममग्निर्मूर्धापरम्मृत्योरितिमन्त्रैःसम्पू-
जयेत् ग्रहान्वाधानान्तेरुद्रयमाग्निमृत्यून्समिञ्चरुघृतातलाहुतिभिःप्रतिदैवतन्त्रतिद्रव्यमष्टोत्तरशतसङ्ख्याभिःशेषेणेत्यादि गृहसिद्धान्नस्यहोमः ॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा