🕉️ 24 November 2026, Tuesday · 08:10:38 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 29/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

उत्पातादिशान्तिः

36. यमलजननशान्तिः

अथयमलजननशान्तिः तत्रश्रौताग्निमतःसोग्नयेमरुत्वतेत्रयोदशकपालम्पुरोडाशन्निर्वपेदितिऋग्वेदब्राह्मणोक्तेष्टिःयद्वा आश्वलायनसूत्रोक्तःकेवलमारुतयागः गृह्याग्निमतआश्वलायनस्यगृह्याग्नौमारुतश्चरुः अथयस्यवधूर्गैर्वाजनयच्चेद्यमौततः । समरुद्भ्यश्चरुङ्कुर्यात्पूर्णाहुतिमथापिवा १ इतिकारिकोक्तेः गृह्याग्निशून्यबह्वृचःकात्यायनोक्तशान्तिलौकिकाग्नौकुर्यात् ममभार्यायमलजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थम्मारुतेष्ट्यायक्ष्यइतिसङ्कल्पःश्रौताग्निमतः स्मार्ताग्निमतस्तुमारुतस्थालीपाकेनयक्ष्ये इतिसङ्कल्पः निरग्निस्तुसग्रहमखाङ्कात्यायनोक्तांशान्तिङ्करिष्येइतिसङ्कल्प्य स्वस्तिवाचनादिआचार्यवरणान्तङ्कुर्यात् अष्टदिक्षुअष्टकलशान्विधिनासंस्थाप्यउदकपूरणादिसर्वौषधीप्रक्षेपान्तेवरुणम्पूजयेत् अष्टकलशोदकैर्दम्पत्योरभिषेकःआपोतितिसृभिः कयानइतिद्वेआनःस्तुतइतिपञ्चेतिसप्तभिरैन्द्रीभिमापुवरुणइतिपञ्चभिरिदमापइत्येकयाअपनइत्याष्टाभिराग्नेयीभिऋग्भिःकार्यः अभिषिक्तौदम्पतीधृतश्वेतवस्त्रचन्दनौउदङ्मुखौतिष्ठेताम् प्राङ्मुखआचार्योग्निग्रहस्थापनान्तेअपस्तिसृभिराज्याहुतिभिरिन्द्रंसप्तभिर्वरुणम्पञ्चभिरपएकयाग्निमष्टाभिराज्याहुतिभिःपूर्वत्राभिषेकार्थमुक्तैश्चतुर्विंशतिमन्त्रैरग्निंसोमम्पवमानम्पावकम्मारुतम्मरुतःयमम् अन्तकं मृत्युञ्चैकैकयाच र्वाहुत्यानाममन्त्रैः शेषेणेत्यादिअन्वादध्यात् षट्त्रिंशद्वारन्तूष्णीन्निर्वापमोक्षणे अन्तेग्रहकलशोदका-दिनाभिषेकः दासीमहिषीवडवागोहस्तिनीनांयमलजननेपीयंशान्तिःकार्या इयं शान्तिर्ग्रहोत्पातेषुउलूककपोतगृध्रश्येनानगृहप्रवेशेस्तम्भमरोहेवल्मीक-प्ररोहेमधुजनने आसनशयनयानभङ्गेपल्लीपतनेसरठारोहणे छत्रध्वजविनाशेषुअन्येषू-त्पानेषुचकार्येतिचकात्यायनमतं साचसाग्निकैः कात्यायनैःखगृह्याग्नौकार्या निरग्नि-कैस्तैरन्यै अलौकिकामौ इतियमलजननादिशान्तिः ॥

37. त्रिकप्रसवशान्तिः

अथत्रिकप्रसवशान्तिः सुतत्रयेसुताचेत्स्यात्तन्त्रयेवासुतोयदि । मातापित्रोः कुलस्यापितदानिष्टम्महद्भवेत् १ ज्येष्ठनाशोवित्तहानिर्दुःखंवासुमहद्भवेत् । गोप्रसवङ्कृत्वा ममसुतत्रयजन्मानन्तरङ्कन्याजननसूचितसर्वारिष्टेतिवा कन्यात्रयजन्मानन्तरम्पुत्रजनमसूचितेतिवानिमित्तानुसारेणसङ्कल्पः स्थण्डिलपूर्वभागेग्रहस्थापनान्तेतदुत्तरतः कलशपञ्चकेस्वर्णप्रतिमासुब्रह्मविष्णुमहेशेन्द्ररुद्रानावाह्यपूजयेत् तत्रमन्त्राः ब्रह्मजज्ञानं॰ इदंविष्णु ० त्र्यम्बकं॰ यतइन्द्र॰ कद्रुद्रायेति ग्रहपीठदेवतान्वाधानान्ते ब्रह्माणंविष्णुम्महेशम्इन्द्रंरुद्रञ्चप्रत्येकंसमिदाज्यचरुतिलैःप्रतिद्रव्यमष्टोत्तरसहस्राष्टोत्तरत्रिशताष्टोत्तरशतान्यतमसङ्ख्याहुतिभिः शेषेणेत्यादि ॥

38. दन्तजननशान्तिः

अथदन्तजननशान्तिः उपरिप्रथमंयस्यजायन्तेयशिशोर्द्विजाः । दन्तैर्वासह

यस्याज्जन्मभार्गवसतम १ द्वितीयेचतृतीयेचचतुर्भेपञ्चमेतथा। यदादन्ताश्चजायन्तेमासेचैवमहद्भयम् २ मातरम्पितरंवाथस्वादेदात्मानमेवच। बालानामष्टमेमासिषष्ठेमासिततः पुनः ३ दन्तायस्यचजायन्तेमातावाम्रियतेपिता। बालकःपीड्यतेवात्रस्वयमेवनसंशयः ४ केचित्तुअष्टमेमासिदन्तजन्मशुभमाहुः तत्रास्यशिशोःप्रथममूर्ध्वदन्तजननसूचितसर्वारिष्टेत्यादिसदन्तजननसूचितेत्यादिवा द्वितीयमासेदन्तजननसूचितेत्यादिवासङ्कल्पंयथानिमित्तंयोजयेत् स्थण्डिलोत्तरभागेनौकायांस्वर्णपीठेवास्वस्तिकयुतेबालमुपवेश्यसर्वौषध्यादियुक्तजलैःस्नापयित्वास्थण्डिलपूर्वतःकलशेप्रतिमासुधातारंवह्निंसोमंवायुम्पर्वतान्केशवञ्चेतिषदेवताःसम्पूज्य ग्रहान्वाधानान्ते धातारंसकृञ्चरुणावन्ह्यादिपञ्चदेवताएकैकयाज्याहुत्याशेषेणेत्यादिअन्वादध्यात् धात्रेत्वाजुष्टन्निर्वपामीत्यादिनिर्वापप्रोक्षणे नाम्नाचरुहोमः स्रुवेणवन्ह्यादिभ्यःपञ्चाज्याहुतयोपिनाम्नैव होमान्तेदक्षिणान्दत्त्वासप्ताहंयथाशक्तिब्राह्मणान्भोजयेत् अष्टमदनेकाञ्चनादिदत्त्वा कर्मेश्वरार्पणङ्कुर्यात् षष्ठाष्टममासयोर्दन्तजननेतुएकस्याबृहस्पतिदेवतायाःपूजनं दधिमधुघृताक्तानामश्वत्थसमिधामष्टोत्तरशतम्बृहस्पतिमन्त्रेणहोमः आज्येनस्विष्टकृदादि इतिदन्तजननशान्तिः ॥

39. प्रसववैकृतशान्तिः

अथप्रसववैकृतशान्तिः यत्रगर्भविपर्यासोमानुपाणाङ्गवामपि। अद्भुतानिप्रसूयन्तेतत्रदेशस्यविद्रवः १ मानुषामानुषाणाञ्चगोजाश्वमृगपक्षिणाम्। जायन्तेजातिभेदाश्चसदन्ताविकृतास्तथा २ बहुशीर्षाअशीर्षावाबहुकर्णाअकर्णकाः। एकशृङ्गाद्वित्रिशृङ्गास्तथैवत्रिचतुर्भुजाः ३ दीर्घकर्णामहाकर्णागजकर्णाश्चमानवाः। राजश्रेष्ठकुले नाशोधनस्यचकुलस्यच ४ अष्टोत्तरसहस्राणिचरुंवैजुहुयाद्धृतम्। समिधान्तुपलाशानान्तर्पयेत्पूर्ववद्द्विजान् ५ अशिराजायतेजन्तुस्तथाद्वित्रिशिरास्तथा। अत्रसूर्याद्रुतेसूर्यम्पूजयेज्जुहुयादपि ६ दध्याज्यमधुसंयुक्ताःसमिधस्त्वर्कसम्भवाः। मृगीजनयतेसर्पान्मण्डूकांश्चैवमानुषान् ७ अत्राद्भुतेगीष्यपतयेपूजांहोमञ्चकारयेत्। औदुम्बरस्यसमिधोदधिसर्पिःसमन्विताः ८ स्त्रीगर्भपातोयमलम्प्रसूयन्तेऽथवास्त्रियः। सदन्ताश्चैवजायन्तेजातमात्राहसन्तिच ९ बुधाद्भुतेबुधायात्रपूजाहोमौसमाचरेत्। सङ्क्षेपेणयथाप्रज्ञमित्थञ्जननशान्तयः १० उक्ताजपाभिषेकार्थसूक्तादिबहुविस्तृताः। प्रयोगाःकौस्तुभादौ चप्रसिद्धाबहुशःपराः ११ अनेनप्रीयतान्देवोभगवान्विठ्ठलः प्रभुः ॥

नामकरणकालः

40. नामकरणं

अथनामकरणं तत्रजन्मदिनेजातकर्मानन्तरन्तत्कालः क्वचित्एकादशाहे द्वादशाहेवाविप्रस्यनामकर्म दशमदिनेआशौचसत्त्वेपिवचनान्नामकर्मकार्यमितिकेचित् क्षत्रियाणान्त्रयोदशेषोडशेवादिने वैश्यानांषोडशेविंशतितमेवादिने द्वाविंशेमासान्तेवाशूद्राणाम् मासान्तेशततमेदिनेवत्सरान्तेवेतिविमादीनाङ्गौणकालः मुख्यकालेकुर्वन्विप्रादिःपुण्यतिथिनक्षत्रचन्द्रानुकूल्यादिगुणादरन्नकुर्यात् उक्तमु -

नामचतुष्टयनिर्णयः

ख्यकालातिक्रमेशुभनक्षत्रादिकमावश्यकं वैधृतिव्यतीपातसङ्क्रान्तिग्रहणदिनामावास्याभद्रासुप्राप्तकालेपिनामकर्मादिशुभकर्मनकार्यम् अत्रमलमासगुरुशुक्रास्तादिदोषोनास्तीत्युक्तम् अपराह्णेरात्रौचनामकर्मवर्ज्यम् अथोक्तकालातिक्रमेऽपेक्षितशुभतिथ्यादि चतुर्थीषष्ठ्यष्टमीनवमीद्वादशीचतुर्दशीपञ्चदशीरहितास्तिथयःप्रशस्ताः चन्द्रबुधगुरुशुक्रावासराः अश्विनीत्र्युत्तरारोहिणीमृगपुनर्वसुपुष्यहस्तस्वात्यनुराधाश्रवणधनिष्ठाशततारकारेवतीनक्षत्राणि वृषभसिंहवृश्चिकलग्नानिप्रशस्तानि तानिनामानि चतुर्विधानि देवतानाममासनामनक्षत्रनामव्यावहारिकनामेति तत्रामुकदेवताभक्तइत्याकारकन्देवतानामप्रथमं चैत्रादिमासनामानिवैकुण्ठोथजनार्दनः। उपेन्द्रोयज्ञपुरुषोवासुदेवस्तथाहरिः १ योगीशःपुण्डरीकाक्षःकृष्णोनन्तोऽच्युतस्तथा। चक्रीतिद्वादशैतानिक्रमादाहुर्मनीषिणः २ इत्यनुसारेणमासनामद्वितीयकम् मासाश्चात्रचान्द्राः तेचशुक्लादिकृष्णान्ताएव यस्मिन्नक्षत्रेजन्मतन्नक्षत्रवाचकशब्दात्तत्रजातइत्यधिकारविहिततद्धितप्रत्ययेकृतेनिष्पन्नन्नाक्षत्रनामतृतीयं तद्यथा अश्वयुक् आपभरणः कार्तिकः रौहिणः मार्गशीर्षः आर्द्रकः पुनर्वसुः पुष्यः आश्लेषः माघः पूर्वाफल्गुनः उत्तराफल्गुनः हस्तः चैत्रः स्वातिः विशाखः अनुराधः ज्यैष्ठः मूलकः पूर्वाषाढः उत्तराषाढः 'आभिजितः श्रावणः श्रविष्ठः शतभिषक् पूर्वाप्रोष्ठपादः उत्तराप्रोष्ठपादः रैवतः इति केचित्तु चूचेचोलाश्विनीप्रोक्तेत्यादिज्योतिर्ग्रन्थोक्तावकहडाचक्रानुसारेणाश्विन्यादेश्चतुर्षुचरणेषु चूडामणिश्चेदीशचोलेशोलक्ष्मणइत्यादिकानि नाक्षत्रनामानिकुर्वन्ति तन्नश्रौतग्रन्थादिबहुसम्मतं शाङ्खायनास्तुकृत्तिकोत्पन्नस्याग्निशर्मेतिनक्षत्रदेवतासम्बद्धन्नाक्षत्रन्नामकुर्वन्ति एवङ्कातीयाअपि नाक्षत्रनामैवाभिवादनीयङ्गुप्तञ्चामौञ्जीबन्धनात् मातापितरावेवजानीयातां व्यावहारिकन्नामचतुर्थं तच्चकवर्गादिषुतृतीयचतुर्थपञ्चमवर्णहकारान्यतमवर्णाद्यावयवकंयरलवान्यतममध्यवर्णयुतम्ऋऌवर्णरहितंविसर्गान्तुम्पित्रादिपुरुषत्रयान्यतमवाचकंशत्रुवाचकभिन्नन्तद्धितप्रत्ययरहितङ्कृत्प्रययान्तंयुग्माक्षरम्पुंसामयुग्माक्षरंस्त्रीणाङ्कार्यं यथादेवइतिहरिरिति उक्तसर्वलक्षणाभावेसमाक्षरम्पुंसामयुग्माक्षरंस्त्रीणामित्वेकलक्षणयुतमेव यथारुद्रइतिराजेत्यादि अक्षरमत्रस्वरःव्यञ्जनेषुनसङ्ख्यानियमः अत्रविशेषः द्व्यक्षरम्प्रतिष्ठाकामचतुरक्षरम्ब्रह्मवर्व्वसकामः अन्त्यलकाररेफंवर्जयेदिति आपस्तम्बहिरण्यकेशिसूत्रेतु प्रातिपदिकादि धात्वन्तंयथाहिरण्यदाइति उपसर्गयुतंवा सुश्रीरित्यादीतिविशेषउक्तः तच्चव्यावहारिकं नामशर्मपदान्तन्देवपदान्तवाब्राह्मणस्य वर्मेतिराजेतिवापदयुतङ्क्षत्रियस्य गुप्तदत्तान्यतरान्तवैश्यस्य दासान्तंशूद्रस्यकार्यं व्यावहारिकन्नाममासादादीनामपिकार्यं देवालयगजांश्वानांवृक्षाणांवापिकृपयोः। सर्वापणानाम्पण्यानाञ्चिह्नानांयोषितान्नृणाम् १ काव्यादीनाङ्कवीनाञ्चपश्चादीनांविशेषतः। राजप्रासादयज्ञानान्नामकर्मयथो-

प्रयोगः

अथप्रयोगः—

दितम् २ इत्युक्तेः अथप्रयोगेविशेषः गर्भाधानादिसंस्कारलोपेप्रत्येकम्पादकृच्छ्रम्बुद्धिपूर्वमकरणेप्रत्येकमकृच्छ्रम्प्रायश्चित्तञ्जातकर्मणःकालातिपत्तिनिमित्तकाज्यहोमपूर्वकङ्कार्यं तद्यथा जातकर्मणः कालातिपत्तिनिमित्तकदोषपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थम्प्रायश्चित्तहोमङ्करिष्यइतिसङ्कल्प्याग्निस्थापनेध्माधानादिपाकयज्ञतन्त्रसहितंवह्निस्थापनाज्यसंस्कारपात्रसंस्कारमात्रसहितंवाभूर्भुवःस्वःस्वाहेतिसमस्तव्याहृत्याज्यहोमङ्कुर्यात् होमंसमाप्यगर्भाधानपुंसवनानवलोभनसीमन्तोन्नयनलोपजनितदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थम्एतावतःपादकृच्छ्रान्बुद्धिपूर्वकलोपेर्धकृच्छ्रान्तत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतद्रव्यदानेनाहमाचरिष्यइतिसङ्कल्प्य द्रव्यन्दद्यात् जातकर्मनाम्नोःसहचिकीर्षायाम्पूर्वोक्तजातकर्मसङ्कल्पवाक्यमुच्चार्य अस्य कुमारस्यायुरभिवृद्धिव्यवहारसिद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकर्मचतन्त्रेणकरिष्यइतिसङ्कल्प्यस्वस्तिवाचनादिकुर्यात् तत्रजातकर्मनामकर्मणोःपुण्याहम्भवन्तोब्रुवन्त्वित्युक्त्वा अस्यकुमारस्यजातकर्मणेएतन्नाम्नेअस्मैचस्वस्तिभवन्तोब्रुवन्त्वितिस्वस्तिपर्यायेवदेत् तदनुसारेणैवविप्रप्रतिवचनं केवलनामचिकीर्षायां नामकर्मणःपुण्याहमित्युक्त्वास्वस्तिपर्याये अमुकनाम्नेअस्मैस्वस्तिभवन्तोब्रुवन्त्वितिवदेत् विप्राश्चामुकनाम्नेअस्मैस्वस्तीतिप्रतिब्रूयुः लेखनादौनामत्रयंशर्मादिपदरहितङ्कृत्वाव्यावहारिकन्नामशर्माद्यन्तङ्कुर्यात् अभिवादनेनाक्षत्रनामापिशर्माद्यन्तंसर्वत्रोच्चारणीयम् अवशिष्टःप्रयोगःप्रयोगग्रन्थेषु अथस्त्रीणान्नामकर्म सङ्कल्पेअस्याःकुमार्याइतिविशेषः स्वस्तिवाचनेएतन्नाम्न्यैअस्यैस्वस्तीत्यादि भक्तेत्याबन्तन्देवतानाम मासनामसुचक्रिणीवैकुण्ठीवासुदेवीतित्रीणिङीवन्तानि हरिरित्यंविकृतम् अवशिष्टानिअष्टावावन्तानि रौहिणीकृत्तिकेत्येवंयथायथनाक्षत्रनामेतिमातृदत्तमते आश्वलायनैर्नाक्षत्रनामस्त्रीणान्नकार्यं व्यावहारिकंयज्ञदाशर्मेतिपुंवत् पूजादिकंवैदिकमब्ररहितम्पुंवत्कार्यम् पितुरसन्निधौस्त्रीपुंसयोर्नामपितामहादिःकुर्यात् इति नामकरणम् ॥

41. आन्दोलारोहणदुग्धपानजलपूजनानि

अथान्दोलारोहणदुग्धपानजलपूजनानि आन्दोलाशयनेपुंसोद्वादशोदिवसःशुभः। त्रयोदशस्तुकन्यायाननक्षत्रविचारणा १ अन्यस्मिन्दिवसेचेत्स्याच्छुभकालंविचारयेत्। उत्तरात्रयरोहिणीहस्ताश्विनीपुष्यरेवत्यनुराधामृगचित्रापुनर्वसुश्रवणस्वातिनक्षत्रेषुशुभवारेरिक्तातिरिक्तति-थौचन्द्रतारावलेकुलयोषिद्भिरान्दोलाशयनङ्कार्यम् एकत्रिंशेदिनेद्वितीयजन्मर्क्षेवादोलारोहोक्तनक्षत्रैर्वापूर्वाह्णमध्याह्नयोःकुलदेवताविप्रयोःपूजांविधायशङ्खेनगोदुग्धम्पाययेत् इतिदुग्धपानं सूत्यामासोत्तरम्बुधसोमगुरुवा-

रेषुरिक्तान्यतिथौश्रवणपुष्यपुनर्वसुमृगहस्तमूलानुराधानक्षत्रेषुजलस्थानङ्गत्वाजलपूजाकार्या अत्रगुरुशुक्रास्तचैत्रपौषमासाधिमासावर्ज्याः इतिजलपूजनम्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬