🕉️ 24 November 2026, Tuesday · 08:04:05 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · प्रथम परिच्छेद — काल, मलमास, तिथि-निर्णय, व्रत-परिभाषा · पृष्ठ 3/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

9. प्रतिपदादिनिर्णयः

अथप्रतिपदादिनिर्णयः तत्रप्रतिपन्निर्णयः शुक्लप्रतिपत् पूजात्रतादावपराह्णव्यासिसत्वे पूर्वविद्धाग्राह्या सायान्हव्यापित्वेपि पूर्वैवेतिमाधवाचार्याः अन्यथाद्विती-

यायुताग्राह्या कृष्णप्रतिपत्सर्वापिद्वितीयायुतैवग्राह्या उपवासेतुपक्षद्वयेपिप्रतिपत्पूर्वविद्धैवग्राह्या अपराह्नव्यापिन्याम्प्रतिपदिकरणीयस्योपवासादेःसङ्कल्पन्त्रातरेवकुर्यात् सङ्कल्पकालेप्रतिपदादितिथ्यभावेपिसङ्कल्पेप्रतिपदादिरेववक्तव्यानत्वमावास्यादिः एवमुपोष्याद्वादशीशुद्धेयादिस्थलेएकादशीव्रतप्रयुक्तसङ्कल्पपूजादावेकादश्येवकीर्तनीयानतुद्वादशी सन्ध्याग्निहोत्रादिकर्मान्तरेषुतत्तत्कालव्यापिनीद्वादश्यादिरेवेतिममप्रतिभाति सङ्कल्पश्चसूर्योदयात्प्रागुषःकालेसूर्योदयोत्तरम्प्रातःकालाख्यत्रिमुहूर्तस्याद्यमुहूर्तद्वयेप्रशस्तः तृतीयोमुहूर्तस्तुनिषिद्धः इतिप्रतिपनिर्णयः सप्तमः ७

10. द्वितीयानिर्णयः

अथद्वितीयानिर्णयः द्वितीयाशुक्लपक्षेपरविद्धाग्राह्या कृष्णपक्षेतुद्वेधाविभक्तदिनपूर्वभागात्मक पूर्वाह्णप्रविष्टाचे पूर्वाग्राह्या अन्यथातुकृष्णपक्षेपिद्वितीयापरविद्धैव इतिद्वतीयानिर्णयोष्टमउद्देशः ८

11. तृतीयानिर्णयः

अथतृतीयानिर्णयः तृतीयारम्भाव्रतेपूर्वविद्धाग्राह्या रम्भाव्यतिरिक्तव्रतेषु त्रिमुहूर्तद्वितीयाविद्धाम्पूर्वीयक्त्वापरदिनेत्रिमुहूर्तव्यापिनी ग्राह्या पूर्वदिनेत्रिमुहूर्त न्यूनद्वितीयावेधेपरदिनेत्रिमुहूर्तव्याप्यभावेपूर्वाग्राह्या पूर्वदिनेत्रिमुहूर्तद्वितीयावेधेपरदिने त्रिमुहूर्त न्यूनापिग्राह्या गौरीव्रतेतुकलाकाष्ठादिपरिमितस्वल्पद्वितीयायुक्तापिनिषिद्धा परदिनेकलाकाष्ठादिपरिमितास्वल्पापितृतीयापरिग्राह्या यदातुदिनक्षयवशात्परदिनेखल्पापिचतुर्थीयुतातृतीयानलभ्यते पूर्वदिने द्वितीयाविद्धातदाद्वितीयाविवग्राह्या यदाचदिनवृद्धिवशात्पूर्वदिनेष ष्टिघटिकातृतीयापरदिनेचघटिकादिशेषवती तदापूर्वीशुद्धांषष्टिघटिकामपित्यक्त्वाचतुर्थीयुतैवगौरीव्रतेग्राह्या इतितृतीयानिर्णयोनवमः ९

12. चतुर्थीनिर्णयः

अथचतुर्थीनिर्णयः चतुर्थीगणेशव्रतातिरिक्तोपवासकार्येपञ्चमीयुताग्राह्या गौरीविनायकत्र्तयोस्तुमध्याहव्यापिनीग्राह्या परदिनएवमध्याह्नव्यापिनी चेत्परैव दिनद्वयेमध्याह्नव्यापित्वेदिनद्वयेमध्याह्नव्याप्सभावेसाम्येनवैषम्येणवैकदेशव्याप्त च पूर्वैव तृतीयायोगमाशस्त्यात नागवतेतुपूर्वदिनएवमध्याहव्यापिनीचेत्पूर्वैव उभयदिनमध्याह्नव्याभ्यादिपक्षचतुष्टयेपञ्चमीयुतैवग्राह्या सङ्कष्टचतुर्थीतुचन्द्रोदयव्यापि नीग्राह्या परदिनेचन्द्रोदयव्याप्तोपरैव उभयदिनेचन्द्रोदयव्यापिखेतृतीयायुतैवग्राह्या दिनद्वयेचन्द्रोदयव्याप्यभावेपरैव इतिचतुर्थीनिर्णयोदशमउद्देशः १०

13. पञ्चमीनिर्णयः

अथपञ्चमीनिर्णयः पञ्चमीशुक्लपक्षेकृष्णपक्षेचकर्ममात्रेपिचतुर्थीविद्धाग्राह्या स्कन्दोपवासेतुषष्ठीयुताग्राह्या नागव्रतेपञ्चमीपरविद्धाग्राह्या परेयुत्रिमुहूर्त न्यूनापञ्चमीपूयुखिमुहूर्त न्यूनचतुर्थ्याविद्धातदापूर्वैव त्रिमुहूर्ताधिकचतुर्थीवेधेद्विमुहूर्तापिपरैव इ-तिपञ्चमीनिर्णयएकादशउद्देशः ११

14. षष्ठीनिर्णयः

अथषष्ठीनिर्णयः षष्ठीस्कन्दव्रतेपूर्वविद्धा अन्यत्रतेषुपरविद्धैव पूर्वेयुः षण्मु-

हूर्तन्यूनपञ्चम्यावेधेपूर्वापि षष्ठीसप्तम्योरविवासरयोगेपद्मकयोगः इतिषष्ठीनिर्णयो द्वादशः १२

15. सप्तमीनिर्णयः

अथसप्तमीनिर्णयः सप्तमीकर्ममात्रेषष्ठीयुतैवग्राह्या यदापूर्वेद्युरस्तमपर्यन्ताषष्ठीतिदिवाषष्ठीविद्धानलभ्यतेपरेद्युश्चाष्टमीविद्धातदाचागत्यापरैव एवन्तिथ्यन्तरनिर्णयेष्वप्यूह्यम् इतिसप्तमीनिर्णयस्त्रयोदशः १३

16. आष्टमीनिर्णयः

अथाष्टमीनिर्णयः व्रतमात्रेऽष्टमीशुक्लपक्षेपरा कृष्णपक्षेपूर्वा मिलितशिवश-त्तयोरुत्सवेकृष्णापिपरा बुधाष्टमीशुक्लपक्षेत्रातःकालमारभ्यापराह्णपर्यन्तंयद्दिनेमुहूर्तमात्रोपिबुधवासरयोगःसाग्राह्या सायाह्नकालेचैत्रमासेश्रावणादिमासचतुष्टयेकृष्णक्षेचनग्राह्या भैरवजयन्तीत्वात्तद्वन्निर्णयौचित्येनमध्याहव्यापिनीग्राह्या दिनद्वयेमध्याह्णव्याप्तौपूर्वैव प्रदोषव्यापिनीतिकौस्तुभे अतउभयदिनेप्रदोषव्याप्तौद्विविधवाक्याविरोधायपरैव पूर्वत्रप्रदोषव्याप्तिरेवपरत्रमध्याह्नेएवतदाबहुशिष्टाचारानुरोधात्मदोपगापूर्वैव यत्तु अर्कपर्वद्वयेरात्रौचतुर्दश्यष्टमी दिवेतिवचनादिवाभोजननिषेधमात्रपरिपालनन्नतु किञ्चिद्रतन्तत्र निषेधस्तुनिवृत्त्यात्माकालमात्रमपेक्षतइतिवचनाद्भोजनकालव्यापिनीमष्टमसक्त्वानवम्या॑सप्तम्यांवाभोक्तव्यमितिभाति युक्तमयुक्तंवासद्भिर्विचारणीयम् इत्यष्टमीनिर्णयश्चतुर्दशोद्देशः १४

17. नवमीनिर्णयः

अथनवमीनिर्णयः नवमीसर्वत्राष्टमीविद्धैवग्राह्या इतिनवमीनिर्णयः पञ्चदशः १५

18. दशमीनिर्णयः दशमीतूपवासादौनवमीयुतैवग्राह्या

अथ दशमीनिर्णयः दशमीतूपवासादौनवमीयुतैवग्राह्या पूर्वविद्धायाअलाभे उत्तरविद्धाऽपिग्राह्या इतिदशमी निर्णयःपोडशः १६

19. एकादशीनिर्णयः

अथैकादशीनिर्णयः तत्रैकादश्युपवासोद्वेधा भोजननिषेधपरिपालनात्मकोव्रतात्मकश्च आद्येपुत्रवगृहस्थादीनाङ्कृष्णपक्षेप्यधिकारः व्रतात्मकोपवासस्तुअपत्ययुक्तैर्गृ-

एकादश्यधिकारिनिर्णयामाह

हस्थैश्चकृष्णपक्षेनकार्यः किन्तुसमत्रकन्त्रतसङ्कल्पमकृत्वायथाशक्तिनि यमयुतम्भोजनवर्जनमेवकार्यम् एवन्तिथिक्षयेशु हैकादश्यामपिज्ञेयं शयनीबोधनीमध्यवर्तिकृष्णैकादशीषुसापयगृहस्थादीनां सर्वेषामधिकारः विष्णुसायुज्यकामैरायुः पुत्रकामैश्चकाम्यव्रतम्पक्षद्वयेपिकार्यं तत्रनकोपिनिषेधः वैष्णवगृहिणाङ्कृष्णकादश्यपिनियोपोष्या इदमेकादशीव्रतंशैववैष्णवसौरादीनांसर्वेषान्नियम् अकरणेप्रयवायश्रवणात् सम्पत्यादिफलश्रवणात्काम्यङ्घभवति केचिन्मुहूर्तादिमितदशमीसत्वे दशम्यामेवभोजनङ्कर्तव्यंसूर्योदयात्पूर्वमेवप्रवृत्तायांशुद्धाधिकाधिकद्वादशिकायान्तुनैरन्तर्येणोपवासद्वयङ्कार्यमितितिथिपालनमपिवदन्तितन्नयुक्तम् अष्टमवर्षादूर्ध्वमशीतितमवर्षपर्यन्तमेकादशीव्रताधिकारः शक्तस्यतुअशीतेरूर्वमप्यधिकारः सभर्तृकाणांस्त्री-

णाम्भर्त्रनुज्ञपित्राद्यनुज्ञांवाविनोपवासव्रताद्याचरणेव्रतवैफल्यम्भर्त्रायुःक्षयोनरकश्च अशक्तानान्तु नक्तंहविष्यान्नमनौदनंवाफलन्तिलाःक्षीरमथाम्बुचाज्यम्। यत्पञ्चगव्यंयदिचापिवायुःप्रशस्तमत्रोत्तरमुत्तरञ्च १ इतिपक्षेषुशक्तितारतम्येनैकपक्षाश्रयणन्नत्वेकादशीत्यागः प्रमादादिनैकादश्यामुपोषणाद्यकरणेद्वादश्यामपिव्रतङ्कार्यं द्वादश्यामप्यकरणेयवमध्यचान्द्रायणप्रायश्चित्तं नास्तिक्यादकरणेपिपीलिकामध्यचान्द्रायणम् अशक्तपतिपित्राद्युद्देशेनस्त्रीपुत्रर्भागनीभ्रात्रादिभिरेकादशीव्रताचरणेक्रतुशतजं-पुण्यम्

20. व्रतदिननिर्णयः

अथव्रतदिननिर्णयः तत्रव्रताधिकारिणोद्विविधावैष्णवाःस्मार्ताश्च तत्रयद्यपि यस्यदीक्षास्तिवैष्णवीसादिलक्षणयुक्तावैष्णवास्तद्भिन्नाः स्मार्ताइतिमहानिबन्धेषूक्तं तथापिस्वपारम्पर्यप्रसिद्धमेववैष्णवत्वं स्मार्तत्वञ्चवृद्धामन्यन्तइतिसिन्धूक्तमेवसर्वदेशेसर्वशिष्टपरिगृहीतम्मचरति वेधोपिद्विविधः अरुणोदयेदशमीवेधः सूर्योदयेतद्वेधश्च सूर्योदयात्माक्चतुर्घटिकात्मकोऽरुणोदयः सूर्योदयस्तुस्पष्टः तेनषट्पञ्चाशद्घटिकानन्तरम्पलादिमात्रदशमीप्रवेशेऽरुणोदयवेधोवैष्णवविषयः षष्टिघटिकात्मकसूर्योदयोत्तरम्पलादिमात्रदशमीसत्वेसूर्योदयवेधःस्मार्तविषयः ज्योतिर्विदादिविवादेनवेधादिसन्देहेतु बहुवाक्यविरोधेनब्राह्मणेषुविवादिषु। एकादशीम्परिसज्यद्वादशींसमुपोषयेत् १ तथा चैकादशीद्विविधा शुद्धाविद्धाच अरुणोदयवेधवतीविद्धातांसक्त्वावैष्णवैर्द्वादश्येवोपोप्या अरुणोदयवेधरहिताशुद्धासाचचतुर्विधा एकादशीमात्राधिक्यवती द्वादशीमात्राधिक्यवती उभयाधिक्यवती अनुभयाधिक्यवतीचेति अत्राधिक्यं सूर्योदयोत्तरंसत्वं तत्रीदाहरणं दशमीनाड्यः ५५ एकादशी ६०। १ द्वादश्याः क्षयः ५८ इयमेकाद

भागवतैकादश्यदाहणानि

शीमात्राधिक्यवतीशुद्धावैष्णवैः परोपोप्या स्मार्तगृहस्थैः पूर्वा अथदशमी ५५ एकादशी ५८ द्वादशी ६०। १ इयंशुद्धाद्वादशीमात्राधिक्यवती अत्रवैष्णवान्नान्द्वादश्यामुपोषणं स्मार्तानाम्पूर्वा अथदशमी ५५ एकादशी ६०।१ द्वादशी ५ इयंशुद्धाउभयाधिक्यवती अत्रसर्वैर्वैष्णवैः स्मार्तेश्चपरैवोपोप्या अथदशमी ५५ एकादशी ५७ द्वादशी ५८ इयमनुभयाधिक्यवतीशुद्धावैष्णवैः स्मार्तेवपूवैवोपोष्या इतिसङ्क्षेपतोवैष्णवनिर्णयः॥ अथस्मार्तनिर्णयः तत्रसूर्योदयवेधवतीवि

स्मार्तेकादश्युदाहरणानि

-द्धातद्रहिताशुद्धाचेतिद्विविधापिमसेकञ्चतुर्धा एकादशीमात्राधिक्यवती उभयाधिक्यवती द्वादशीमात्राधिक्यवती अनुभयाधिक्यवतीत्येवमष्टभेदाभवन्ति अत्रोदाहरणानि दशमी ५८ एकादशी ६०। १ द्वादश्याः क्षयः

५८ इयंशुद्धाएकादशीमात्राधिक्यवती दशमी ४ एकादशी २ द्वादश्याःक्षयः ५८ इयंविद्धाएकादशीमात्राधिक्यवती अत्रोभयत्रापिस्मार्तानाङ्गृहिणाम्पूर्वोपोप्या यति भिर्निष्कामगृहिभिर्वनस्थैर्विधवाभिर्वैष्णवैश्चपरैवोपोष्या विष्णुप्रीतिकामैःस्मार्तैरुप-

वासद्वयङ्कार्यमितिकेचित् उभयाधिक्यवतीशुद्धा यथा दशमी ५८ एकादशी ६०। १. द्वादशी ४ उभयाधिक्यवतीविद्धायथा दशमी २ एकादशी ३ द्वादशी ४ अत्रोभयत्रापिसर्वैः स्मार्ते वैष्णवैश्वावशिष्टापरैवैकादशीउपोष्या द्वादशीमात्राधिक्यवतीशुद्धायथा दशमी ५८ एकादशी ५९ द्वादशी ६०। १ अत्रशुद्धत्वात्स्मार्तानामेकादश्यामेवोपवासोनद्वादश्यामितिमाधवमतं हेमाद्रिमतेतुसर्वैः पराद्वादश्येवोपोष्या केचित्तुमुमुक्षुभिःस्मार्तैःपरोपोष्येसाहुः द्वादशीमात्राधिका विद्धायथा दशमी १ एकादशीक्षयगामिनी ५८ द्वादश्यावृद्धिः ६०। १ अत्रैकादश्याविद्धवात् द्वादश्यामेव स्मार्तानामप्युपवासः एवञ्चोभयाधिक्येद्वादशीमात्राधिक्येचस्मार्तानांविद्धायास्त्यागोनान्यत्र वैष्णवानान्तुषड्विधामप्याधिक्यवतीं त्यक्त्वाद्वादश्युपोष्या अनुभवाधिक्यवतीशुद्धायथा दशमी ५७ एकादशी ५८ द्वादशी ५९ स्मार्तानामेकादश्यामेवो-पवासोनद्वादश्यां वैष्णवानान्तुविद्धत्वाद्द्वादश्यामुपवासः अनुभयाधिक्यवती विद्धायथा दशमी २ एकादश्याः क्षयः ५६ द्वादशी ५५ अत्रापिस्मार्तानामेकादश्यामुपवासः वैष्णवानान्द्वादश्यामुपवासः अस्मिन्नुभयानाधिक्यवतीविद्धाचरमभेदे प्रथमभेदद्वयेइवयतिभिर्मुमुक्षुभिर्विधवाभिः परोपोष्या विष्णुप्रीतिका मैरुपवासद्वयङ्कार्यमितितुल्ययुक्साप्रतिभाति इदानींशिष्टास्तुहेमाद्रिमतन्निष्कामत्वादिकञ्चानादृसमाधवमतेनैवसर्वस्मार्तनिर्णयमविशेषेणवदन्तिनतुक्कचिदुपवासद्वयंशुद्धाधिकद्वादशिकायां सर्वेषामेकम्परोपवासंवावदन्तिइतिसर्वत्रदेशेषुप्रायोमाधवोक्तानुसारएवप्रचारइतिबो-ध्यम् एतेनवैष्णवाष्टादशभेदानां स्मार्ताष्टादशभेदानाञ्चनिर्णयःसर्वोपिगतार्थोभवतीतिविभावनीयं विस्तरस्तुमहाग्रन्थेष्वनुसन्धेयः अत्राष्टादशभेदानाम्पृथक्पृथगुदाहरणकथनेतन्निर्णयकथनेचबालानांव्यामोहमात्रंस्यादितिसनिर्णयःपृथगेवपट्टेलिखित्वा स्थापितोनुसन्धेयः

पृष्ठं ५ मलमासनिर्णये व्रतविशेषः। अधिमासेतुसम्प्राप्ते गुडसर्पिर्युतानिच॥ त्रयस्त्रिशदपूपानिदातव्यानिदिनेदिने॥१॥ अधिमासेतुसम्प्राप्ते त्रयस्त्रिंशत्तुदेवताः॥ उद्दिश्यापूपदानेनपृथ्वीदानफलंलभेत्॥२॥ त्रयस्त्रिशदपूपानङ्कांस्यपात्रेनिधायच॥ सघृतंसहिरण्यं चब्राह्मणायनिवेदयेत्॥३॥ विष्णुरूपीसहस्रांशुः सर्वपापप्रणाशनः॥ अपूपानप्नदानेनममपापव्यपोहतु॥४॥ नारायण जगद्वोजभास्करप्रतिरूपक॥ व्रतेनानेनपुत्रांश्चसम्पदञ्चाभिवर्धय॥५॥ यस्यहस्तेगदाचक्रेगरुडोयस्यवाहनम्॥ शङ्खःकरतलेयस्यसमे विष्णुः प्रसीदतु॥६॥ कलाकाष्ठादिरूपेणनिमेषघटिकादिना॥ योवञ्चयतिभूतानितस्मैकालात्मनेनमः॥७॥ कुरुक्षेत्रमयन्देशःकालः पर्वन्द्विजोहरिः॥ पृथ्वीसममिदन्दानं गृहाणपुरुषोत्तम॥८॥ मलानाञ्चविशुद्धयर्थपापप्रशमनायच॥ पुत्रपौत्राभिवृद्ध्यर्थतनदास्यामिभास्कर॥९॥ मन्त्रेणानेनयोदद्यात्रयस्त्रिंशदपूपकान्॥ प्राप्नोतिविपुलांलक्ष्मीपुत्रपौ त्रादिसम्पदः॥१०॥इतिनिर्णयसिन्धुः॥

अत्र न्यूनत्व सूर्यादयात्माक्समाप्तिमत्त्वं समत्वंसूर्योदयसमकालिकसमाप्तिमत्त्वम् पष्टिघटिकारूपम् । आधिक्यं सूर्योदयोत्तरंसत्वम्.

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬