🕉️ 24 November 2026, Tuesday · 08:08:37 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 30/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

42. सूर्यावलोकननिष्क्रमणभूम्युपवेशनान्नप्राशनानि

सूर्यावलोकननिष्क्रमणभूम्युपवेशनान्नप्राशनानि तृतीयेमासिसूर्यावलोकनं चतुर्थेमासिअन्नप्राशनकालेवानिष्क्रमणं तत्रकालःशुक्लपक्षःशुभःप्रोक्तःकृष्णश्चान्त्यत्रिकंविना।रिक्ताषष्ठ्यष्टमीदर्शद्वादशीचविवर्जिता १ गुरुशुक्रबुधवाराः अश्विनीरोहिणीमृगपुष्योत्तरात्रयहस्तधनिष्ठाश्रवणरेवतीपुनर्वस्वनुराधानक्षत्राणिचशस्तानि इदन्निष्क्रमणन्नित्यङ्काम्यं सूर्यावलोकननिष्क्रमणयोर्नान्दीश्राद्धङ्कृताकृतम् अथ भूम्युपवेशनकालः पञ्चममासेनिष्क्रमोक्ततिथ्यादौभौमबलेसतिभूम्युपवेशनङ्कार्यम् अथान्नप्राशनकालः षष्ठेऽष्टमेदशमेद्वादशेवामासेपूर्णेवत्सरेवापुंसोन्नप्राशनम् पञ्चमसप्तमनवममासेषुस्त्रीणां द्वितीयाचतृतीयाचपञ्चमीसप्तमीतथा। त्रयोदशीचदशमी प्राशनेतिथयःशुभाः १ बुधशुक्रगुरुवाराःशुभाः रविचन्द्रवारौक्वचित् अश्विनीरोहिणीमृगपुनर्वसुपुष्योत्तरात्रयहस्तचित्रास्वात्यनुराधाश्रवणधनिष्ठाशततारकारेवत्यःशुभाः जन्मनक्षत्रमशुभमितिकेचित् भद्रावैधृतिव्यतीपातगण्डातिगण्डवज्रशूलपरिघावर्ज्याः विष्णुशिवचन्द्रार्कदिक्पालभूमिदिशाब्राह्मणान्सम्पूज्यमात्रुत्सङ्गगतपशिशोः काञ्चनेकांस्येवापात्रेस्थितन्दधिमधुघृतमिश्रम्पायसंसुवर्णयुतहस्तेनसमन्त्रम्प्राशयेत् सूर्यावलोकनादीन्यन्नप्राशनान्तानिअन्नप्राशनकालेशिष्टाःसहैवानुतिष्ठन्ति एतेषांसहप्रयोगसङ्कल्पादिकङ्कौस्तुभादौज्ञातव्यम् अथान्नप्राशनान्तेकर्तव्यम् अग्रतोऽथपरन्यस्यशिल्पवस्तूनिसर्वशः। शस्त्राणिचैत्रवस्त्राणिततः पश्येत्तुलक्षणम् १ प्रथमंयत्स्पृशेद्वालः पुस्तङ्कादिस्वयन्तदा। जीविकातस्यबालस्यतेनैवतुभविष्यति २ अन्नप्राशनान्तसंस्कारेषुमलमासगुरुशुक्रास्तादिदोषोनास्तिइत्युक्तन्तच्छुद्धकालेष्वसम्भवेज्ञेयं तेनषष्ठादिमासेअस्तादिदोषसत्वेऽष्टमादिमामेकार्यम् इतिसूर्यावलोकननिष्क्रमणभूम्युपवेशनानप्राशनानि ॥

43. कर्णवेधः

अथकर्णवेधः दशमेद्वादशेवाह्निषोडशेकर्णवेधनम्। मासेषष्ठेसप्तमेवाअष्टमे दशमेपिवा १ द्वादशेवाततोऽब्देचप्रथमेवातृतीयके। नकर्तव्यंसमेवर्षेस्त्रीपुंसःश्रुतिवेधनम् २ तृतीयादिवत्सरेमासाः कार्तिकेपौषमासेवाचैत्रेवाफाल्गुनेपिवा। शुक्लपक्षः शुभःप्रोक्तोजन्ममासोनिषेधितः १ भद्रायांविष्णुशयनेकर्णवेधंविवर्जयेत्। तेनकार्तिकमासविधिःशुक्लद्वादश्युत्तरञ्ज्ञेयः केचिन्मीनस्थसूर्येचैत्रन्धनुस्थेपौषम्मासंवर्जयन्ति द्वितीयादशमीषष्ठीसप्तमीचत्रयोदशी। द्वादशीपञ्चमीशस्तातृतीयाकर्णवेधने १ चन्द्रबुधगुरुशुक्रवाराःपुष्यपुनर्वसुमृगोत्तरात्रयहस्तचित्राश्विनीश्रवणरेवतीधनिष्ठाःशुभाः विष्णुरुद्रब्रह्मसूर्यचन्द्रदिक्पालनासत्यसरस्वतीगोब्राह्मणगुरुपूजाङ्कृत्वालक्तकरसाङ्कितङ्कर्णप्पुंसःपूर्वदक्षिणंविध्येत्पश्चाद्वामं स्त्रीणाम्पूर्ववामं सौवर्णीराजपुत्रस्पराजतीवि-

भवैश्ययोः। शूद्रस्यचायसीसूचीबालकाष्टाङ्गुलामता १ कर्णरन्ध्रेरवेश्छायाप्रविशेद्वर्धयेत्तथा। अन्यथादर्शनेतस्य पूर्वपुण्य विनाशनम् इतिकर्णवेधः॥

44. बालस्यदृष्टिदोषादौरक्षाविधिः

अथबालस्यदृष्टिदोषादौरक्षाविधिः वासुदेवोजगन्नाथःपूतनातर्जनोहरिः। रक्षतुत्वरितोबालम्मुञ्चमुञ्चकुमारकम् १ कृष्णरक्षशिशुंशङ्खमधुकैटभमर्दन। प्रातःसङ्गवमध्याह्नसायाह्नेषुचसन्ध्ययोः २ महानिशिसदारक्षकंसारिष्टनिषूदन। यद्गोरजःपिशाचांश्चग्रहान्मातृग्रहानपि ३ बालग्रहान्विशेषेणछिन्धिन्धिमहाभयान्। त्राहित्राहिहरेनित्यन्त्वद्रक्षाभूषितंशिशुम् ४ इतिभस्माभिमन्त्र्यैवभूषयेत्तेनभस्मना। शिरोललाटाद्यङ्गेषु रक्षाङ्कुर्याद्यथाविधि ५ इति प्रयोगसागरे रक्षरक्षमहादेवनीलग्रीवजटाधर। ग्रहैस्तुसहितोरक्षमुञ्चमुञ्चकुमारकम् १ अमुम्मन्त्रम्भूर्जपत्रेविलिख्यतत्पत्रम्भुजेबध्नीयात् बालरोदनपरिहारार्थंयन्त्रमुक्तम्मयूखे षडस्रमध्येह्रीङ्कारस्तन्मध्येशिशोर्नामविलिख्यषट्कोणेषु ॐलुलुवस्वाहेतिमन्त्रषडक्षराणिविलिख्यतद्वहिर्नेमिवद्वृत्तद्वयंविलिख्यतद्वहिरधोमुखैरर्धचन्द्रैरावेष्ट्यपञ्चोपचारैःसम्पूज्यबालहस्तेवध्नीयादिति बालग्रहशान्त्यादिकम्बालग्रहस्तवश्वश्चान्तिकमलाकरशान्तिमयूखयोर्द्रष्टव्यम्॥

सङ्क्षिप्तप्रयोगः

45. वर्धापनविधिः

अथवर्धापनविधिः सचवर्षपर्यन्तम्प्रतिमासञ्जन्मतिथौकार्यः वर्षोत्तरम्प्रत्यब्दं जन्मतिथौकार्यः तिथिद्वैधेयत्रजन्मर्क्षयोगः साग्राह्या दिनद्वयेजन्मनक्षत्रयोगसत्त्वासत्त्वयोरौदयिकीद्विमुहूर्ताधिकाग्राह्या द्विमुहूर्तन्यूनत्वेपूर्वा जन्ममासस्यअधिमासत्वेशुद्धमासेप्रत्याब्दिकवर्धापनविधिर्नत्वधिके अथसङ्क्षेपतःप्रयोगः आयुरभिवृद्ध्यर्थं वर्षवृद्धिकर्मकरिष्यइतिसङ्कल्प्यतिलोद्वर्तनपूर्वकन्तिलोदकेनस्नात्वाकृततिलकादिविधिर्गुरुंसम्पूज्याक्षतपुञ्जेषुदेवताःपूजयेत् तत्रादौकुलदेवतायैनमइतिकुलदेवतामावाह्यजन्मनक्षत्रम्पितरौप्रजापतिम्भानुंविघ्नेशम्मार्कण्डेयंव्यासञ्जामदग्न्यरामम्अश्वत्थामानङ्कृपम्बलिम्प्रह्लादंहनुमन्तंविभीषणंषष्ठीञ्चनाम्नैवावाह्यपूजयेत् षष्ठ्यैदधिभक्तनैवेद्यः पूजान्तेप्रार्थना चिरञ्जीवीयथात्वम्भोभविष्यामितथामुने। रूपवान्वित्तवांश्चैवश्रिया युक्तश्चसर्वदा १ मार्कण्डेयनमस्तेस्तुसप्तकल्पान्तजीवन। आयुरारोग्यसिद्ध्यर्थप्रसीदभगवनमुने २ चिरञ्जीवीयथात्वन्तुमुनीनाम्प्रवरोद्विज। कुरुष्वमुनिशार्दूलतथामां चिरजीविनम् ३ मार्कण्डेयमहाभागसप्तकल्पान्तजीवन। आयुरारोग्यसिद्ध्यर्थमस्माकंवरदोभव ४ अथषष्ठीप्रार्थना जयदेविजगन्मातर्जगदानन्दकारिणि। प्रसीद ममकल्याणिनमस्तेषष्ठिदेवते १ त्रैलोक्येयानिभूतानिस्थावराणिचराणिच। ब्रह्मविष्णुशिवैःसार्धंरक्षाङ्कुर्वन्तुतानिमे २ ततस्तिलगुडमिश्रम्पयःपिबेत् तत्रमन्त्रः सतिलं गुडसम्मिश्रमञ्जल्यर्धमित॑पयः। मार्कण्डेयाद्वरंलब्ध्वापिबाम्यायुर्विवृद्धये १ कचित्पूजितषोडशदेवताभ्योनाम्नाप्रत्येकमष्टाविंशतिसङ्ख्यतिलहोमउक्तः ततोविप्रभोजनं तहिनेनियमाः खण्डनन्नखकेशानाम्मैथुनाध्वागमौतथा। आमिषङ्कलहंहिंसांवर्षवृद्धौ

विवर्जयेत् १ मृतेजन्मनिसङ्क्रान्तौश्राद्धेजन्मदिनेत्तथा। अस्पृश्वस्पर्शनेचैषनस्नायादुष्णवारिणा २॥

46. अग्रचौलं

अग्रचौलं जन्मतोगर्भतोवाव्देप्रथमेऽथद्वितीयके। तृतीयेपञ्चमेवापिचौलकर्मप्रशस्यते १ यद्वासहोपनीत्यात्रकुलाचाराद्व्यवस्थितिः। माघफाल्गुनवैशाखज्येष्ठेमासिशुभंस्मृतम् २ जन्ममासेऽधिमासेनज्येष्ठेज्येष्ठस्यनोभवेत्। शुक्लपक्षःशुभःप्रोक्तः कृष्णश्चान्त्यत्रिकंविना २ द्वितीयातृतीयाचपञ्चमीसप्तमीशुभा। दशम्येकादशी वापित्रयोदश्यपिशस्यते ३ रविभौमार्किशनयोवाराविप्रादिवर्णतः। गुरुशुक्रबुधाःशुक्लेसोमःसर्वशुभावहाः ४ अश्विनीमृगपुनर्वसुपुष्यहस्तचित्रास्वातीज्येष्ठाश्रवणघनिष्ठाशततारकारेवत्यःशुभाः क्षौरप्रयाणभैषज्येजन्मक्षंवर्जयेत्सदा। आयुःक्षयोनुराधाङ्ग्नित्र्युत्तरारोहिणीमघे १ सिंहस्थेगुरौचौलादिशुभकर्मनकार्यं सूनोर्मातरिगभिण्याञ्चूडाकर्मनकारयेत्। पञ्चमाब्दात्मागूगर्भिण्यामपिकारयेत् १ सहोपनीत्याकुर्याच्चेत्तदादोषोनविद्यते। पृथक्चूडाकर्मपृथगुपनयनञ्चमातरिगर्भिण्यान्नकार्यम् उभयोःसहानुष्ठानेतुनदोषः गर्भिण्यामपिपञ्चममासपर्यन्तन्नदोषः पञ्चममासादधः कुर्यादतऊर्ध्वन्नकारयेदित्युक्तेः ज्वरितस्यचौलादिमङ्गलन्नकार्यं विवाहव्रतचूडासुमातायदिरजस्वला। तस्माःशुद्धेःपरङ्कार्यम्मङ्गलम्मनुरब्रवीत्। नान्दीश्राद्धोत्तरंरजस्वलायांशान्तिकृत्वाकार्यं केचित्तुमुहूर्तान्तराभावेप्रारम्भात्प्रागपिरजोदोपेश्रीपूजनादिविधिनाशान्तिङ्कृत्वाकार्यमसाहुः मातुलपितृव्यादौकर्तरितत्पत्न्यांरजस्वलायामपिमङ्गलन्नेतिसिन्धुः त्रिपुरुषात्मककुलेषण्मासमध्येमौञ्जीविवाहरूपमङ्गलोत्तरम्मुण्डनाख्यं चूडाकर्मादिनकार्यं सङ्कटेतुअब्दभेदेकार्यं चतुःपुरुषपर्यन्तङ्कुलेसपिण्डीकरणमासिकश्राद्धान्तप्रेतकर्मसमाप्तेःप्राक्चूडाकर्मादिकमभ्युदयिकङ्कर्मनकार्यम् एकमातृजयोरेकवत्सरेऽपत्ययोर्द्वयोः। नसंस्कारः समानःस्यान्मातृभेदेविधीयते १ प्रारम्भोत्तरंसूतकप्राप्तौकूष्माण्डीभिरृग्भिर्वृतंहुवागान्दत्त्वाचूडोपनयनोद्वाहादिकमाचरेत् अत्रविशेषोविवाहमकरणेवक्ष्यते मध्येमुख्याएकाशिखाअन्याश्चपार्श्वादिभागेष्विति यथाकुलाचारम्प्रवरसङ्ख्ययाशिखाश्चूडासमयेकार्याः उपनयनकालेमध्यशिखेतरशिखानांवपनङ्कृत्वामध्यभागेएवोपनयनोत्तरंशिखाधार्या चौलकर्मणिजातकर्मणिचभोजनेसतपनकृछ्रप्रायश्चित्तम् अन्येषुसंस्कारेषुउपवासेनशुद्धिः चूडान्ताःसर्वेसंस्कारा स्त्रीणाममन्त्रकाःकार्याः होमस्तुसमन्त्रकः होमोप्यमन्त्रकःकार्योनवाकार्यइतिवृत्तिकृदादिमतम् एवंशूद्रस्याप्यमन्त्रकञ्चौलम् इदानींशिष्टेषुस्त्रीणाञ्चूडादिसंस्कारकरणन्नदृश्यते १ अग्निः कृत्तिका। एतेषु अनुराधादिनक्षत्रेषु क्षौरेकृते आयुःक्षयोभवतीत्यर्थः। मुहूर्तग्रन्थे क्षौरकर्मन कदाचिदाचरेद्धातमित्रपितृभार्यमाग्निभिः॥ नागरामशरवेदषण्मितावृत्तिभिस्तुमृतिरेकहायने॥१॥ अस्यार्थः। धाता रोहिणी। मित्रम् अनुराधा। पितृभं मघा। अर्यमा उत्तरा। अग्निः कृत्तिका एषुनक्षत्रेषु क्षौरकर्मनकुर्यात् कुतः एतेषु रोहिण्यादिनक्षत्रेषु क्रमेणएकवर्षमध्ये अष्टत्रिपञ्चचतुःषडावृत्तिक्षौरेणमृतिर्भवतीतिविशेषः॥

विवाहकालेचूडादिलोपप्रायश्चित्तमात्रङ्कुर्वन्ति चौलोत्तरम्मासत्रयपर्यन्तंसपिण्डैःपिण्डदानन्तिलतर्पणञ्चनकार्यम् महालयेगयायाम्पित्रोःप्रत्यब्दश्राद्धेचपिण्डदानादिकार्यम्।

47. विद्यारम्भः

अथविद्यारम्भः पञ्चमेवर्षेअक्षरलेखनारम्भउत्तरायणेकार्यः अत्रकुम्भस्थः सूर्योवर्ज्यः शुक्लपक्षःशुभःप्रोक्तःकृष्णश्चान्त्यत्रिकंविना।द्वितीयातृतीयापञ्चमीदशम्येकादशीद्वादशीत्रयोदश्यःश्रेष्ठाः अश्विनीमृगार्द्रापुनर्वसुपुष्यहस्तचित्रास्वात्यनुराधाश्रवणधनिष्ठाशततारकारेवत्यो भौमशनिभिन्नवाराश्चशुभाः विघ्नेशंलक्ष्मीनारायणौसरस्वतींस्ववेदंसूत्रकारञ्चपूजयित्वागुरुम्ब्राह्मणान्धात्रीञ्चसम्पूज्यनत्वासर्वास्त्रिःप्रदक्षिणीकृत्यप्रणवपूर्वकमक्षरमारभेत् ततोगुरुन्नत्वादेवताविसर्जयेत् ततोत्रभुवनमातः सर्ववाङ्मयरूपेणागच्छागच्छेतिसरस्वत्यावाहनमन्त्रः प्रणवेनषोडशोपचारार्पणम् ॥

48. आनुपनीतधर्माः

अथानुपनीतधर्माः प्रागुपनयनात्कामचारकामवादकामभक्षाः तेनमूत्रपुरीषोत्सर्गादावाचमनाद्याचारोनास्ति लघुपातकहेतुलशुनपर्युषितोच्छिष्टादिभक्षणे दोषाभावः एवमपेयपानेअनृतावाच्यभाषणेपि महादोषहेतुमांसान्त्यजरजस्वलादिस्पृष्टान्नभक्षणेमद्यादिपानेचदोषोस्त्येव रजस्वलादिसंस्पर्शेस्नानमेवकुमारके। शिशोरभ्युक्षणम्प्रोक्तम्बालस्याचमनंस्मृतम्। तत्रमागन्नप्राशनाच्छिशुसञ्ज्ञा ततऊर्ध्वम्प्राक्चौलात्त्रिवर्षाद्वाबालसञ्ज्ञा ततआमौञ्जीबन्धनात्कुमारसञ्ज्ञा अत्राचमनमितित्रिरुदकपानमेव नतुओष्ठमार्जनादिकल्पइतिज्ञेयं नचानुपनीतोवेदमुच्चारयेत् पित्रोरन्त्यक्रियायान्त्वनुपनीतेनापिमन्त्रोच्चारःकार्यः सचद्वित्रिवर्षयोःकृतचूडस्यैव त्रिवर्षोर्ध्वङ्कृतचूडस्यापि एतच्चौरसपुत्रविषयम् पित्रोरनुपनीतोपिविदध्यादौरसःसुतः। और्ध्वदेहिकमन्येतुसंस्कृताःश्राद्धकारकाः १ इतिस्कान्दात् बालानामपथ्यम्पित्रादिभिर्निवारणीयं तस्मात्सर्वप्रयत्नेनवालानग्रेतुभोजयेत्। बालानाङ्क्रीडनदानेस्वर्गसुखं तेषाम्भोज्यप्रदानेगोदानफलम्॥

उपनयनेधिकारिणः

49. उपनयनम्

अथोपनयनम् उपनयनन्नामआचार्यसमीपनयनाङ्गकोगायत्र्युपदेशप्रधानकःकर्मविशेषः उपनयनपदस्ययोगरूढवात् तत्राधिकारिणः पितैवोपनयेत्पुत्रन्तदभावेपितुःपिता। तदभावेपितुर्भ्रातातदभावेतुसोदरः १ तदभावेसगोत्रसपिण्डाः तदभावेमातुलादयोऽसगोत्रसपिण्डाः तदभावेअसपिण्डसगोत्रजाः एते चकुमारापेक्षयावयोज्येष्ठाविवक्षिताः कनिष्ठकर्तृकोपनयनस्यनिषिद्धत्वात् सर्वाभावे श्रोत्रियः जन्मनाब्राह्मणोज्ञेयःसंस्कारैर्द्विजउच्यते। विद्वत्त्वाच्चापिविप्रत्वन्त्रिभिःश्रोत्रियउच्यते १ कृछ्रत्रयञ्चोपनेतात्रीन्कृछ्रांश्चबटुश्चरेत्।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬