निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
गायत्र्याद्वादशाधिकसहस्रजपश्चोपनयनेऽत्राधिकारसिद्ध्यर्थङ्कार्यः केचिद्द्वादशसहस्रीञ्जपन्ति अथोपनयनकालः गर्भतोजन्मतोवापञ्चमेष्टमेवावर्षेब्राह्मणस्योपनयनम् एकादशेद्वादशे
वाक्षत्रियत्स द्वादशेषोडशेवावैश्यस्य धनकामस्यविद्याकामस्यसप्तमे। अष्टमेसर्वकामस्यनवमेकान्तिमिच्छतः १ केचित्तुविप्रस्यषष्ठन्नमन्यन्ते आषोडशादाद्वाविंशादाचतुर्विंशाच्चवर्षात्ब्राह्मणादेर्गौणकालः अत्रगर्भादिःसङ्ख्या तथाचजन्मतःपञ्चदशवर्षपर्यन्तंविप्रस्यनविशेषतःप्रायश्चित्तं षोडशेवर्षेसशिखवपनमेकविंशतिरात्रंयावकाशनमन्तेसप्तब्राह्मणभोजनमितिप्रायश्चत्तं सप्तदशादिवर्षेषुकृछ्रत्रयादिप्रायश्चित्तपूर्वकमुपनयनम्बोध्यं विप्रक्षत्रिययोरुत्तरायणेमौञ्जीवन्धः वैश्यदक्षिणायनेपि वसन्ते ब्राह्मणमुपनयीतग्रीष्मेराजन्यंशरदिवैश्यम् माघादिशुक्रान्तकपञ्चमासाःसाधारणा वासकलद्विजानामितिगर्गोक्तेर्वसन्तालाभेशिशिरग्रीष्मावपिग्राह्यौ वसन्तविधिनोत्तरायणादिविधेःसङ्कोचायोगात् एवम्माघादिमासपञ्चकनियमात्पौषाषाढयोःसत्यप्युत्तरायणेउपनयनन्नकार्यं तत्रापिमीनार्कमारभ्ययावन्मिथुनप्रवेशम्प्रशस्तःकालः मीनमेषयोस्तुप्रशस्ततरः मकरकुम्भस्थैर्केमध्यमम्मीनमेषस्थेउत्तमन्तृषभमथुनस्थेऽधममुपनयनमित्यभिधानात् मीनार्कविशिष्टश्चैत्रोऽनिष्टबृहस्पत्यादिवहुविधदोपापवादकतयाप्रशस्ततमः जीवभार्गवयोरस्तेसिंहस्थेदेवतागुरौ। चन्द्रसूर्येदुर्बलेपिगोचरेनिष्टदेगुरौ १ मेखलाबन्धनङ्कार्यञ्चैत्रेमीनगतेरवावित्यर्थकस्मृतेः अत्रगुरुशुक्रास्तदोषापवादोतिमहासङ्कटविषयत्वान्नकथनीयः मीनार्कचैत्रेजन्ममासनक्षत्रदोषोनास्ति जन्ममासजन्मनक्षत्रजन्मतिथिजन्मलग्नजन्मराशिलग्नेषुविप्राणामुपनयनन्नदोषाय क्षत्रियवैश्ययोरप्रथमगर्भेदोषोन ज्येष्ठापत्यस्यज्येष्ठमासेमङ्गलन्न शुक्लपक्षःशुभःप्रोक्तःकृष्णश्चान्त्यत्रिकंविनेतिगुरूक्तेःकृष्णपक्षेदशमीपर्यन्तंसङ्कटेकार्यम् शिष्टास्तुसङ्कटेपिकृष्णपक्षेपञ्चमीपर्यन्तमेवकुंर्वन्ति अथतिथिविचारः द्वितीयातृतीयापञ्चमीषष्ठीदशम्येकादशीद्वादश्यःप्रशस्ताः क्वचित्सप्तमीत्रयोदशीकृष्णप्रतिपद्विधिःपुनरुपनयनमूकाद्युपनयनविषयः तिथौसोपपदाख्यायामनध्यायेगलग्रहे। अपराह्णेचोपनीतःपुनःसंस्कारमर्हति १ सिताज्येष्ठेद्वितीयाचआश्विनेदशमीसिता। चतुर्थीद्वादशीमाघेएताःसोपपदाः स्मृताः २ अनध्यायाःपौर्णमासीचतुर्दश्यष्टमीअमा। प्रतिपत्सूर्यसङ्क्रान्तिर्मन्वाद्याश्चयुगादयः ३ कृष्णपक्षेद्वितीयाश्चकार्तिकाषाढफाल्गुने। विषुवायनसङ्क्रान्त्योःपक्षिणीअनध्यायइतिपूर्वपरिच्छेदेउक्तं सोपपदानामनध्यायतिथीनाञ्चदिनद्वयेस्तूर्योदयोत्तरंसूर्यास्तापूर्वचत्रिमुहूर्तसत्त्वेदिनद्वयमनध्यायः शिष्टास्तुप्रतिपच्छेषघटिकादिमात्रेपिव्रतबन्धेऽनध्यायंवदन्ति विषुवायनेतरसङ्क्रान्तिमन्वादियुगादिषुतुप्रथमद्वितीयपरिच्छेदोक्तरीत्या यत्रदिनेसङ्क्रान्तिपुण्यकालोयुगमन्वादिश्राद्धकालश्चतद्दिनेऽनध्यायः नतुतेषामस्तादौमुहूर्तत्रयेसत्त्वमनध्यायहेतुः त्रयोदश्यादिचत्वारिस-
त्पम्यादिदिनत्रयम्। चतुर्थीचैकतःप्रोक्ताअष्टावेतेगलग्रहाः १ अत्रचतुर्थीनवमीचव्रतकालेसाज्येतिभाति केचिच्चतुर्थीशेषयुतपञ्चम्यांव्रतबन्धन्नकुर्वन्तितत्रमूलम्मृग्यं नवमीशेषयुतदशम्याम्मौञ्जीनकार्येतिमयूखे अपराह्णस्त्रेधाविभक्तदिनतृतीयांशोव्रतबन्धे वर्ज्यः दिनमध्यमभागोमध्यमः प्रथमभागोमुख्यः मन्वादियुगादयोद्वितीयपरिच्छेदे दर्शिताःतत्रोपनयनेचैत्रशुक्लतृतीयायाःमन्वादेर्वैशाखशुक्लतृतीयायायुगादेश्चप्रसक्तिः अन्येषां युगादिमन्वादितिथीनाम्प्रसक्तिर्नास्तिअनयोरपवादःसिन्धुकौस्तुभादौस्मर्यते याचैत्रवैशाखसितातृतीयामाघस्यसप्तम्यथफाल्गुनस्य। कृष्णेद्वितीयोपनयेप्रशस्ता प्रोक्ताभरद्वाजमुनीन्द्रमुख्यैः १ इति अत्रमाघसप्तम्यामन्वादेरपवादःपुनरुपनयनादिविषयः फाल्गुनकृष्णद्वितीयायाश्चातुर्मास्यद्वितीयात्वेनानध्यायत्वम्प्राप्तन्तस्यापवादोयं यत्तु अनध्यायस्यपूर्वेद्युरनध्यायात्परेहनि। व्रतारम्भंविसर्गचविद्यारम्भञ्चवर्जयेत् १ इतिस्मृत्यन्तरं तद्वितीयाविध्यनुपपत्त्यागलग्रहत्वेनप्राप्तसप्तमीनवमीत्रयोदशीनिषेधानुवादकमितिभाति अप्राप्तनिषेधकत्वेमन्वादियुगादिसङ्क्रान्त्यादिप्रयुक्तानध्यायेभ्योपिपूर्वपरदिनयोर्निषेधापत्त्याचैत्रशुक्लद्वितीयादेपिनिषिद्धत्वापातात् नचेष्टापत्तिः शिष्टाचारग्रन्थेषुचानुपलम्भात् मुहूर्तमार्तण्डोक्त्यामाघेशुक्लद्वतीयाकृष्णद्वितीयावैशाखकृष्णद्वितीयाचेत्यनध्यायत्रयमुपनयनेधिकम्प्राप्नोति एतदपरेनाद्रियन्ते बहुग्रन्थेषुमूलानुपलम्भात्मौञ्जीप्रकरणेमूहूर्तचिन्तामण्यादिग्रन्थेषुक्वाप्यनुक्तेश्च अतोमार्तण्डोक्तानामतिरिक्तानध्यायानामुपनिषत्पाठादिविषयत्वन्नतुमौञ्जीविषयत्वमतियुक्तम्भाति तत्रतृतीयाषष्ठीद्वादशीषुप्रदोषसत्त्वेमौञ्जीनकार्या रात्रेःप्रथमयामेचतुर्थीसार्धयामेसप्तमीयामद्वयेत्रयोदशीचेत्तदाप्रदोषः दिनद्वयेप्रथमयामादिषुचतुर्थ्यादिव्याप्तौपूर्वदिनेप्रदोषानोन्त्तरदिनेइतिकौस्तुभे प्रदोषदिनेमन्दवारेकृष्णपक्षान्यत्रिकेचोपनयनेपुनरुपनयनमितिमयूखे एतेनित्यानध्यायाः अथनैमित्तिकाः विवाहप्रतिष्ठोद्यापनादिष्वासमाप्तेःसगोत्राणामनध्यायइतिस्मृत्यर्थसारोक्तेस्त्रिपुरुषर्सापण्डेषुब्रह्मयज्ञादिवर्जध्यायाः नात्मौ जीविवाहादिनिमित्तकमण्डपप्रतिष्ठाद्युत्सवसमाप्तिपर्यन्तग्रुप-नयनन्नकार्यमितिभाति विवाहादिमङ्गलकरणेदोषोन शोभर्नादनेचानध्यायइत्युक्तेर्ग-र्भाधानादिशुभकार्यदिनेएककुलेएकगृहेवाव्रतबन्धोनकार्यइतिभाति भूकम्पेभूविदारवज्रपातेउल्कापातेधूमकेतूत्पत्तौग्रहणेचदशाहंसप्ताहंवाव्रतबन्धादिमङ्गलन्नकार्यं केचित्सङ्कटेत्रिदिनमनध्यायमाहुः अकालदृष्टौत्रिरात्रम्पक्षिणीवाऽनध्यायः पौषादिचैत्रान्तमकालदृष्टिः केचिदार्द्रादिज्येष्ठान्त सूर्यनक्षत्रादन्यत्राकालदृष्टिरित्याहुः यस्मिन्दे-योवर्षाकालस्ततोन्यत्राकालदृष्टिरितिसिद्धान्तः अतिदृष्टौकरकादृष्टौरुधिरदृष्टौचमन्ध्यागर्जनेत्वहोरात्रं गुरुशिष्यऋत्विक्मरणेत्र्यहम् पशुमण्डूकनकुलकैरन्तरागमनेहोरात्रम् आरण्यमार्जारादिगमनेत्रिरात्रं सृगालवान-
रैर्द्वादशरात्रं श्रवणद्वादशीयमद्वितीयामहाभरण्यादयोऽन्येप्यनध्यायानित्यानैमित्तिकाश्चबहवोग्रन्थेषूक्तास्तेषामुपनयनेप्रसक्त्यभावात्रनोक्ताः व्रतबन्धेनान्दीश्राद्धोत्तरं पूर्वोक्तप्रातर्गर्जितादिनैमित्तिकानध्यायप्राप्सौज्योतिर्निबन्धे नान्दीश्राद्धङ्कृतञ्चेत्स्यादनध्यायस्त्वकालिकः। तदोपनयनङ्कार्यवेदारम्भन्नकारयेत् १ इति वेदारम्भन्नकारयेदितिनिषेधोयाजुषादिविषयः बह्वृचानामुपाकर्मण्येववेदारम्भोक्त्यामौञ्जीदिनेवेदारम्भाप्रसक्तेः तदोपनयनङ्कार्यमितिबह्वृचादिसर्वसाधारणः याजुषादिभिर्मैञ्ज्युत्तरमपअनध्यायमाप्तौवेदारम्भोवर्ज्यः नान्दीश्राद्धात्माक्नैमित्तिकानध्यायेमुहूर्तान्तरेकार्यम् मौञ्ज्युत्तरमनुप्रवचनीयात्प्राक्गर्जनेवक्ष्यते इतिअनध्यायादिनिर्णयः इत्थन्तिथितत्प्रसङ्गप्राप्तमनध्यायादिकञ्चविचार्यवारादिचिन्त्यते गुरुशुक्रबुधवाराःश्रेष्ठा सूर्यवारोमध्यमः चन्द्रवारोधमः भौममन्दवारौनिषिद्धौ सामवेदनाङ्क्षत्रियाणाञ्चभौमवारःप्रशस्तःशाखाधिपतिवारश्चशाखाधिपवलन्तथा। शाखाधिपतिलग्नञ्चदुर्लभन्त्रितयन्त्रते १ गुरुशुक्रौभौमबुधातृग्वेदाद्यधिपाःस्मृताः। पतीसितज्यौ विप्राणान्नृपाणाङ्कुजभास्करौ २ वैश्यानांशशभृत्सौम्यावितिवर्णाधिपाःस्मृताः। पितुःसूर्यवलंश्रेष्ठंशाखावर्णेशुयोर्बटोः ३ पितुर्बटोश्चसर्वेषाम्बलंवाक्पतिचन्द्रयोः। बटुतत्पित्रोरुभयोर्गुरुचन्द्रबलालाभेबटोरुभयवलमावश्यकं तत्रचन्द्रबलङ्गर्भाधानप्रसङ्गेउक्तं द्विपक्षसप्तनवैकादशस्थोगुरुःशुभफलप्रदः जन्मतृतीयषष्ठदशमस्थानेषुपूजाहोमात्मकशान्त्याशुभः चतुर्थाष्टमद्वादशस्थानेषदुष्टफलः कर्कधनुमनराशिपुचतुर्थादिस्थानेपि नदोषः अतिसङ्कटेचतुर्थद्वादशस्थोद्विगुणपूजाहोमादिनाशुभः अष्टमस्तुत्रिगुणपूजादि-नाशुभः केचिर्दानष्टोवामवेधेनशुभइत्याहुस्तन्नेतिराजमार्तण्डः अष्टमवर्षादिमुख्यकाले गुरुबलाभावेपिमीनगतरविद्युतचैत्रेवाशान्त्यावाव्रतवन्धःकार्योनतुमुख्यकालातिक्रमः
नित्यकालस्यबलीयस्त्वात् अथनक्षत्राणि पूर्वात्रयहस्तचित्रास्वातीमूलाश्लेषार्द्राश्रवणेपुऋग्वेर्दिनाम्मौञ्जीशस्ता रोहिणीमृगपुष्यपुनर्वसुत्र्युत्तराहस्तानुराधाचित्रारेवतीपुयाजुषाणाम् अश्विनीपुष्योत्तरात्रयार्द्राहस्तधनिष्ठाश्रवणेषुसामगानाम् अश्विनीमृगानुराधाहस्तधनिष्ठापुनर्वसुरेवतीपुअथर्ववेदिनाम् पूषान्नक्षत्राणामसम्भवे भरणीकृत्तिकामघाविशाखाज्येष्ठाशततारकावर्जयित्वासर्वाणिसर्वेषाङ्ग्राह्याणि राजमार्तण्डेपुनर्वसुनिषेधोनिर्मूलइतिबहवः केचिदृक्सामवेदविषयःपुनर्वसुनिषेधइयाहुः व्यतीपातवैधृतिपरिघार्धेषुविष्कम्भादीनान्निषिद्धनाडीषुभद्रायाङ्ग्रहणेचमौञ्जीवर्ज्या अथलग्नेग्रहबलं व्रतेग्राह्याद्वादशाष्टषट्वर्ज्याःशुभखेचराः।
खलास्त्र्यायारिगाचन्द्रःशुक्लेगोकर्कगस्तनौ १ क्वचित्सूर्यस्तनौश्रेष्ठोऽष्टमेवर्ज्योऽखिलोग्रहः। लग्नेशःशुक्रचन्द्रौचषष्ठेवर्ज्याःसितोन्त्यगः २ लग्नेचन्द्रखलाश्चैवेन्दुर्वर्ज्योद्वादशाष्टमे।
पञ्चेष्टग्रहहीनञ्चलग्नंसर्वत्रवर्जयेत् ३ तुलामिथुनकन्याख्याधनुर्वृषझषाव्हयाः। नवमांशाःशुभाःप्रोक्ताःकर्कांशंवर्जयेह्रते ४ षड्वर्गशुद्ध्यादिकमिष्टकालसाधनादिविचारश्च ज्योतिर्ग्रन्थेभ्योज्ञातव्यः मातरिरजस्वलायाम्मातुलज्येष्ठभ्रात्रादीनाम्पित्रसान्निध्यात् कर्तृृणाम्पत्न्यांरजस्वलायाञ्चमौञ्जीविवाहादिनकार्यं नान्दीश्राद्धोत्तरम्मातृरजसिभ्रात्रादिकर्त्रन्तरसत्त्वेपिसन्निहितमुहूर्तान्तरालाभे शान्तिङ्कृत्वाकार्यम् अन्यथामुहूर्तान्तरेएव नान्दीश्राद्धोत्तरम्मातुलादिकर्तृृणाम्पत्नीरजोदोषेआरब्धत्वाच्छान्तिंविनैवकार्यम् मौञ्जीविवाहोत्तरम्मण्डपोद्वासनात्प्राक्मातृरजोदोषेपिशान्तिःकार्यामङ्गलस्यासमाप्तत्वादितिमुहूर्तचिन्तामणिटीकायाम् प्रारम्भात्मार्गापरजोदोषेमुहूर्तान्तरालाभेशान्तिङ्कृत्वाऽतिसङ्कटेव्रतवन्धादिकङ्कार्यमितिशान्तिप्रकारश्चममामुकमङ्गलेसंस्कार्यजननीरजोदोषजनिताशुभफलनिरासार्थशुभफलावाप्त्यर्थंश्रीपूजनादिशान्तिङ्करिष्यइतिसङ्कल्प्यमापसुवर्णनिर्मितांलक्ष्मींश्रीसूक्तेनषोडशोपचारैःसम्पूज्यस्वगृह्योक्तविधिनाश्रीसूक्तेनप्रत्यृचम्पायसंहुलाकलशोदकेनाभिषिच्यविष्णुंस्मृत्वाकर्मेश्वरार्पणं कुर्यादिति प्रारम्भोत्तरसूतकप्राप्तौएकोदरयोःसमानसंस्कारेप्रेतकर्मासमाप्तौचचौलप्रकरणेउक्तं विशेषस्तुवक्ष्यते अथपदार्थसम्पादनं कौपीनङ्गा वारश्चकार्पासजमहतंसम्पाद्यम् ईपद्धौतनवंश्वेतसदशंवस्त्रमहतसञ्ज्ञं
प्रावारार्थमजिनंवा तच्चत्र्यङ्गुलञ्चतुरङ्गुलंवाबहिर्लोमाखण्डन्त्रिखण्डवाष्टाचत्वारिंशदङ्गुलन्धार्यं त्रिखण्डपक्षेचतुर्विंशत्यङ्गुलाष्टाङ्गुलषोडशाङ्गुलाःक्रमेणत्रयःखण्डाः कार्पासंयज्ञोपवीतं तन्निर्माणमकारः ब्राह्मणेनब्राह्मणस्त्रीभिर्विधवादिभिश्चनिर्मितंसूत्रङ्ग्राह्यं संहतचतुरङ्गुलिमूलेषुषण्णवसासूत्रमावेष्ट्यतत्त्रिगुणीकृसोर्ध्ववृत्तं
वलितङ्कृत्वापुनरधोवृत्तरीत्यात्रिगुणीकृतन्तत्सूत्रन्नवतन्तुकंसम्पद्यते तत्त्रिरावेष्य्यदृढग्रन्थिङ्कुर्यात् स्तनादूर्ध्वमधोनाभेर्नधार्यन्तत्कथञ्चन। विच्छिन्नंवाप्यधोयातम्भुक्तानिर्मितमुत्सृजेत् १ सिद्धेमन्त्राः प्रयोक्तव्याइतिन्यायेनसिद्धंयज्ञोपवीतन्त्रिगुणीकरणादिमन्त्रैरभिमन्त्र्ययज्ञोपवीतम्परममितिमन्त्रेणधारयेत् तद्यथागायत्र्यात्रिगुणीकृत्यापोहिष्ठेतितिसृभिःप्रक्षाल्यपुनर्गायत्र्यात्रिगुणीकृत्यग्रन्थौविष्णुब्रह्मरुद्रान्नमेत् केचिन्नवतन्तुषुनवदेवतान्यासमाहुः ततोगायत्र्यादशवारमभिमन्त्रिताभिरद्भिर्यज्ञोपवीतं प्रक्षाल्योदुत्यमिततृचेनसूर्यायमदर्श्ययज्ञोपवीतमितिमन्त्रेणप्रथमन्दक्षिणम्बाहुमुद्धृत्यथ-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा