निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
श्रात्कण्ठेधारयेदिति उपवीतम्ब्रह्मसूत्रम्प्रोद्धृतेदक्षिणेकरे। प्राचीनावीतमन्यस्मिन्निवीतङ्कण्ठलम्बितम् १ चितिकाष्ठचितिधूमचण्डालरजस्वलाशवसूतिकास्पर्शेस्नात्वायज्ञोपवीतत्यागः कण्ठलम्बितत्वाद्यकृत्वामलमूत्रोत्सर्गेचतत्त्यागः मासचतुष्टयोत्तरञ्चयज्ञोपवीतत्यागः केचिज्जननशावाशौचयोरन्तेपितत्त्यागमाहुः समुद्रङ्गच्छवाहेतिमन्त्रेणसप्रणवव्याहृतिभिर्वाजीर्णयज्ञोपवीतत्यागः यज्ञोपवीतम्प्रमादाद्गतञ्चेत्तूष्णींलौकिकन्धृत्वा मनोज्योतिरिति अग्नेव्रतपतेव्रतञ्चरिष्यामितच्छकेयन्तन्मराध्यतां वायोव्रतपते॰ आदित्यव्रतपतेइत्यादिमन्त्रचतुष्टयेनचतस्रआज्याहुतीर्हुत्वाविधिवन्नूतनन्धारयेत् अथवायज्ञोपवीतनाशजन्यदोषनिरासार्थम्प्रायश्चित्तङ्करिष्येइतिसङ्कल्प्यआचार्यवरणाग्निप्रतिष्ठादिआज्यभागान्तेसवितारङ्गायत्र्यातिलैराज्येनचाष्टोत्तरंशतंसहस्रंवाजुहुयात् नूतनंवृत्वातिक्रान्तंसन्ध्याद्याचरेत्इति यज्ञोपवीतहीनःक्षणन्तिष्ठेच्चेच्छतगायत्रीजपः यज्ञोपवीतंविनाभोजनेविण्मूत्रकरणेवागायत्र्यष्टसहस्रञ्जपः वामस्कन्धात्कूर्परेमणिबन्धान्तेवापतितेयथास्थानन्धृत्वात्रीन्षट्वायथाक्रमम्प्राणायामान्कृत्वानवन्धारयेत् कोपादिनास्वयंयज्ञोपवीतत्यागेपूर्ववल्लौकिकन्धृत्वाप्रायश्चित्तान्तेनवन्धारयेत् ब्रह्मचारिणएकंयज्ञोपवीतं स्नातकस्यद्वे उत्तरीयाभावेतृतीयकं जीवत्पितृकेणजीवज्ज्येष्ठभ्रातृकेणचोत्तरीयन्तत्स्थानेतृतीयंयज्ञोपवीतंवानधार्यम् आयुष्कामस्यत्र्यधकानिवहूनियज्ञोपवीतानि अभ्यङ्गेचोदधिस्नानेमातापित्रोर्मृतेहनि। तैत्तिरीयाःकठाःकण्वाश्चररकावाजसनेयिनः १ कण्ठादुत्तार्यसूत्रन्तुकुर्युर्वैक्षालनन्द्विजाः। अन्ययाजुषैर्बव्हृचैःसामगैश्चकण्ठादुत्तारणेतत्त्यत्त्कानवन्धार्यम् अथमेखला मौञ्जीत्रिवृत्समाश्लक्ष्णाकार्याविप्रस्यमेखला। त्रिवृत्ताग्रन्थिनैकेनत्रिभिःपञ्चभिरेवच १ मुञ्जाभावेतुकर्तव्याकुशाश्मन्तकबल्वजैः।
ब्राह्मणस्यभवेद्दण्डःपालाशःकेशसम्मितः २ सर्वेषांयज्ञियोवास्यादूर्ध्वनासाग्रसम्मितः। बटुहस्तेनचतुर्हस्ताहस्तोच्छ्रिताचतुरस्रासोपानाङ्किताप्रागुदक्प्रवणाकदलीस्तम्भाद्यलङ्कृतावेदिःसम्पाद्या अथोपनयनान्तर्गतपदार्थेषुविशेषउच्यते वासःपरिधानोत्तरंलौकिकमाचमनं यज्ञोपवीतधारणोत्तरन्तुयथाविधि आचमनविधिवक्ष्यते
एवमाज्यपात्रादुत्तरभागेबटुमाचमय्यप्रणीतापश्चिमदेशरूपतीर्थेनप्रवेश्याचार्याग्न्योर्मध्येननीत्वाचार्यदक्षिणतउपवेशयेत् ततोबर्हिरास्तरणादिस्रुवसम्मार्गान्तेयज्ञोपवीतदानाद्याचमनान्तं ततःशिष्याञ्जलौजलावक्षारणादिसमिदाधानान्तङ्गायत्र्युपदेशाङ्गम्बटोःशुचित्वसिद्धये अग्नयेसमिधमितिमन्त्रएकश्रुत्याप्रयोक्तव्यः ततःपरिदानाभिवादनान्तेआचारप्राप्तङ्गायत्रीपूजनङ्कृत्वाऽग्नेरुत्तरदेशेगायत्र्यु-
पदेशःकार्यः अवक्षारणमप्युत्तरदेशेउक्तम् प्राङ्मुखआचार्यःप्रत्यङ्मुखायोपविष्टायबटवेगायत्रीमुपदिशेत् अथोपसङ्ग्रहणप्रकारः उपसङ्ग्रहणन्नामामुकप्रवरान्वितामुकगोत्रोमुकशर्माहम्भोअभिवादयइत्युक्त्वादक्षिणोत्तरकर्णौवामदक्षिणपाणिभ्यांस्पृष्ट्वादक्षिणहस्तेनगुरोर्दक्षिणपादंवामेनवामंस्पृष्ट्वाशिरोवनमनमिति एवङ्गुरुषुमातापित्रादिषुचअभिवादनपूर्वकपादस्पर्शात्मकमुपसङ्ग्रहणम् वृद्धतरेषुत्वभिवादनमात्रम् वृद्धेपुननमस्कारः अशुचिंवमन्तमभ्यक्तंस्नानङ्कुर्वन्तञ्जपादिरतम्पुष्पजलभैक्षादिभारवाहन्ननमेत् तन्नमनेउपवासः शूद्रनतौत्रिरात्रम् अन्त्यजेकृछ्रं देवतागुरुयतिनमनाकरणेउपवासः अथप्रत्यभिवादनम् तत्रान्त्यस्वरःप्लुतःकार्यः तद्यथा आयुष्मान्भवसौम्यदेवदत्ता ३ एकारौकारान्तेनाम्नि हरा ३ इ शम्भा ३ उ इतिसन्ध्यक्षरविश्लेषेण पूर्वभागाकारःप्लुतइति अनुप्रवचनीयार्थभिक्षायाम्भिक्षाम्भवान्ददातुभिक्षाम्भवतीददात्वितिवाभवच्छब्दमध्यकभिक्षावाक्यप्रयोगः अन्यभिक्षायामादावन्तेवाभवच्छन्दइति अथोपनयनविवाहादौनिर्विघ्नफलप्राप्त्यर्थमुपसर्गनिरासायवासपिण्डमरणादिनिमित्तकप्रतिकूर्लानवृत्यर्थवाविनायकशान्तिःकार्या तत्रकालः शुक्लपक्षचतुर्थी गुरुवारःपुष्यश्रवणोत्तरारोहिणीहस्ताश्विनीमृगनक्षत्राणिशस्तानि उपनयनादौतुप्रधानकालानुरोधेनयथासम्भवकालोग्राह्यः तत्रामुककर्मणोनिर्विघ्नफलसिद्ध्यर्थमतिवाउपसर्गनिवृत्त्यर्थमितिवाऽमुकसपिण्डमरर्णानिमित्तकाशुचित्वप्रातिकूल्यनिरासार्थमितिवासङ्कल्पऊह्यः अवशिष्टप्रयोगोन्यत्रज्ञेयः विवाहोपनयनादिष्वाभ्युदयकर्मस्वादौग्रहयज्ञङ्कुर्यात् ग्रहानुकूल्यकामोग्रहयज्ञङ्कुर्यात् श्राद्धातिरिक्तेष्वनाभ्युदयिकेष्वपिशान्त्यादिकर्मसु
अरिष्टनिरासार्थमुत्पातेषुशान्तिस्थानेष्वप्रधानोपिग्रहमखउक्तः प्रधानकर्मणःपूर्वमव्यवहितेव्यवहितेवाकालेकुर्यात् व्यवहितपक्षेसप्तदिनाधिकव्यवधानन्नकार्यम् प्रतिग्रहन्दशावरप्रधानाहुतिसङ्ख्यायामेकएंवऋत्विक् दशाधिकपञ्चाशत्पर्यन्तसङ्ख्यायाञ्चत्वारऋत्विजः ततःऊर्ध्वंशतावरहोमेऽष्टौऋत्विजोनवमआचार्यः तत्राचार्यआचार्यकर्मकृत्वाआदित्यायजुहुयात् अष्टभ्यः सोमादिभ्योष्टौऋान्त्वजोजहुयुः ऋत्विक्चतुष्टयपक्षेद्वाभ्याङ्ग्रहाभ्याम्एकैकोजुहुयात् आचार्योर्काय ताम्रादिमयीषुप्रतिमासुसर्वासुसौवर्णीषुवाफलेष्वक्षतपुञ्जेषुवाआदित्यादिपूजनं होमसङ्ख्यानुसारेणकुण्डस्यस्थण्डिलस्यवाग्रहवेदेश्चहस्तादिमानं तत्र प्रधानाङ्गाहुतीनाम्पञ्चाशदवरसङ्ख्यत्वेरत्निमितङ्कुण्डं शतावरत्वेअरविमितं सहस्रा-
वरत्वेहस्तमितम् अयुतादिहोमेहस्तद्वयं लक्षहोमेचतुर्हस्तं तत्र कृतमुष्टिःकरोरत्निः मुक्तकनिष्ठिकःकरःअरत्निः चतुर्विंशत्यङ्गुलोहस्तः यवोनचतुस्त्रिंशदङ्गुलानिहस्तद्वयम् अष्टचत्वारिंशदङ्गुलानिहस्तचतुष्टयं कुण्डेमेखलायोनिनाभिखातादिमानङ्ग्रन्थान्तरेभ्योज्ञेयम् इदङ्कुण्डादिमानंसर्वत्रज्ञेयं समिच्चर्वाज्यन्द्रव्यम् अर्कःपलाशःखदिरश्चापामार्गोथपिप्पलः। औदुम्बरःशमीदूर्वाकुशोऽर्कादेःक्रमात्समित् १ केचित्तिलानपिआहुः अर्कादिप्रधानहोमसङ्ख्यादशांशेनाधिदेवताप्रत्यधिदेवतानांहोमः अधिदेवताद्यर्धसङ्ख्ययाक्रतुसंरक्षकक्रतुसाद्गुण्यदेवतानां शान्त्यङ्गभूतेग्रहयज्ञेबलिदानङ्कुर्वन्ति अन्यत्रग्रहमखेबलिदानन्नकुर्वन्ति प्रधानभूतायाएकाहुतेरेकविप्रभोजनंश्रेष्ठं शताहुतेरेकविप्रभोजनम्मध्यमं सहस्राहुतेरेकविप्रभोजनञ्जघन्यं सुविस्तरप्रयोगादिकमन्यत्र इतिग्रहयज्ञः कुमारस्योपनयनकालेकन्यायाविवाहेवाबृहस्पत्यानुकूल्याभावेशौनकाद्युक्ताशान्तिःकार्या अस्यकुमारस्योपनयनेअस्याःकन्यकायाविवाहेवाबृहस्पत्यानुकूल्यसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थम्बृहस्पतिशान्तिकरिष्यइतिसङ्कल्प्याचार्यंवृणुयात् स्थण्डिलेईशान्यांयथाविधिस्थापितेश्वेतकलशेपञ्चगव्यकुशोदकविष्णुक्रान्ताशतावरीप्रमुखौषधिप्रक्षेपपूर्णपात्रनिधानान्तेहरिताक्षतनिर्मितदीर्घचतुरस्रपीठेहैमीङ्गुरुप्रतिमाम्प्रतिष्ठाप्यस्थण्डिलेग्निस्थापनादि अन्वाधानेबृहस्पतिमश्वत्थसमिदाज्यसर्पिर्मिश्रपायसैः साज्येनमिश्रितयवव्रीहितिलेनच प्रतिद्रव्यमष्टोत्तरशताहुतिभिःशेषेणस्विष्टकृतमित्यादि आज्यभागान्तेप्रतिमायांषोडशोपचारैर्गुरुपूजा बत्रपीतवस्त्रयुग्मपीतयज्ञोपवीतपीतचन्दनपीताक्षतपीतपुष्पघृतदीपदध्योदननैवेद्यार्पणान्तेमाणिक्यं सुवर्णंवादक्षिणान्दत्त्वाग्रहमखोक्तरीत्याकुम्भानुमन्त्रणान्तेबृहस्पतिमन्त्रेणदधिमध्वक्तसमिदाज्यगृहसिद्धपायसमिश्रितयवाद्यैर्यथान्वाधानंहोमः होमशेषंसमाप्यगन्धादिभिर्बृहस्पतिंसम्पूज्यपीतगन्धाक्षतपुष्पयुतताम्रपात्रस्थजलेनार्घ्यन्दद्यात् तत्रमन्त्रः गम्भीरदृढरूपाङ्गदेवेज्यसुमतेप्रभो। नमस्तेवाक्पतेशान्तगृहाणार्घ्यन्नमोस्तुते १ प्रार्थयेत् भक्त्यायत्तेसुराचार्यहोमपूजादिसत्कृतम्। तत्त्वङ्गृहाणशान्त्यर्थं बृहस्पतेनमोनमः १ जीवोबृहस्पतिःसूरिराचार्योगुरुरङ्गिराः। वाचस्पतिर्देवमन्त्रीशुभं कुर्यात्सदामम २ इति विसर्जनप्रतिमादानान्तेकुमारादियुतयजमानाभिषेकः तत्र मन्त्राः आपोहिष्ठेतितिस्रः ३। तत्त्वायामि॰ ३। स्वादिष्ठया॰ ३। समुद्रज्येष्ठाः॰ ४। इदमापःप्रवह॰ १। तामग्निवर्णां॰ १। याओषधीः॰ १। अश्वावतीर्गोमतीर्न॰ १।यद्देवादेवहेडनमित्याद्याःकूष्माण्डमन्त्राःपुनर्मनःपुनरायुरित्यन्तास्तैत्तिरीयशाखायाम्प्रसिद्धाः कौस्तुभादौलिखिताएतैरभिषिच्यविप्रान्भोजयेदिति इतिबृहस्पतिशान्तिः अथोपनयनादौसङ्कल्पाः तत्रोपनयनात्पूर्वेद्युराचार्योममोपनेतृत्वयोग्यतासिद्ध्यर्थं
कृच्छ्रत्रयन्तत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतद्रव्यदानेनाहमाचरिष्ये तथाद्वादशाधिकसहस्रगायत्रीजपमुपनेतृत्वयोग्यतासिद्ध्यर्थं करिष्येइतिसङ्कल्पयेत् यदिपूर्वसंस्काराअतीतास्तदाअस्यकुमारस्यपुंसवनादीनामथवा जातकर्मादीनाञ्चौलान्तानांसंस्काराणाङ्कालातिपत्तिजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रतिसंस्कारमेकैकां भूर्भुवःस्वःस्वाहेतिसमस्तव्याहसाज्याहुतिंहोप्यामिइतिसङ्कल्प्याग्निस्थापनेध्माधानादिपाकयज्ञतन्त्रसहितावह्निस्थापनाज्यसंस्कारपात्रसम्मार्गमात्रसहितावातीतसंस्कारसमसङ्ख्यसमस्तव्याहृत्याज्याहुतीर्जुहुयात् ततोस्यकुमारस्यपुंसवनानवलोभनसीमन्तोन्नयनजातकर्मनामकर्मसूर्यावलोकननिष्क्रमणोपवेशनान्नप्राशनचौलसंस्काराणांलोपनिमित्तप्रत्यवायपरिहारार्थम्प्रतिसंस्कारम्पादकृच्छ्रम्प्रायश्चित्तञ्चौलस्यार्धकृच्छ्रम्बुद्धिपूर्वकलोपेर्भातसंस्कारमर्द्धकृच्छ्रचूडायाःकृच्छ्रं तत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतद्रव्यदानेनाहमाचरिष्ये चौलस्योपनीत्यासहकरणस्यकुलधर्मप्राप्तत्वेकालातिपत्तिहोमञ्चौललोपप्रायश्चित्तञ्चनकार्यं केचित्संस्कारलोपप्रायश्चित्तम्बटुनाकारयन्ति ततोबटुर्ममकामचारकामवादकामभक्षादिदोषपरिहारद्वारोपनेयत्वयोग्यतासिद्ध्यर्थङ्कृच्छ्रत्रयप्रायश्चित्तन्तत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतदानद्वारा आचरिष्येइतिसङ्कल्पयेत् निष्कन्निष्कार्धन्निष्कपादनिष्कपादार्धंवा रजतङ्गोमूल्यन्देयन्नतुन्यूनम् अष्टगुञ्जमाषरीत्याचत्वारिंशन्माषोनिष्कइत्युक्तं ततःप्रायश्चित्तेकृतेपश्चादतीतमपिकर्मवै। कार्यमित्येकआचार्यानेत्यन्येतुविपश्चितः १ इतिवचनाज्जातकर्मादिसंस्काराःकार्यानकार्याइतिपक्षद्वयं तत्रप्रायश्चित्तेनप्रत्यवायपरिहारेपिसंस्कारजन्यापूर्वोत्पत्त्यर्थंसंस्कारानुष्ठानपक्षेसङ्कल्पः पत्न्याकुमारेणचसहोपविश्य देशकालौसङ्कीर्त्यास्यकुमारस्यगर्भाम्बुपानजनितदोषनिवर्हणायुर्मेधाभिवृद्धिवीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थम्अतिक्रान्तञ्जातकर्म तथाबीजगर्भसमुद्भवैनोनिबर्हणायुरभिष्टद्धिव्यवहारसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थन्नामकर्म आयुरभिवृद्धिद्वाराश्रीपर॰सूर्यावलोकनम् आयुःश्रीवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपर॰निष्क्रमणम् आयुरभिवृद्धिद्वारा॰उपवेशनं मातृगर्भमलप्राशनशुद्ध्यन्नाद्यब्रह्मवर्चसतेजइन्द्रियायुरभिवृद्धिबीजगर्भसमुद्भवैनोनिवर्हणद्वाराश्रीप॰ अन्नप्राशनञ्चाद्यकरिष्ये बीजगर्भसमुद्भवैनोनिवर्हप्पवलायुर्वर्चोभिवृद्धिद्वाराश्रीप॰ र्थञ्चूडाकर्म द्विजत्वसिद्ध्यावेदाध्ययनाधिकारार्थम्उपनयनञ्चश्वःकरिष्ये जातादिसर्वसंस्काराङ्गत्वेनपुण्याहवाचनम्मातृकापूजनन्नान्दीश्राद्धङ्करिष्ये उपनयनाङ्गत्वेनमण्डपदेवतास्थापनङ्कुलदेवतास्थापनञ्चकरिष्ये इतिस्वस्वगृह्यग्रन्थानुसारेणसङ्कल्प्यनान्दीश्राद्धान्तंतन्त्रेणकृत्वामण्डपदेवतास्थापनादिकंबटुपितृभ्यांसुहृत्कृतवस्त्रदानान्तङ्कृत्वान्नप्राशनान्ताःसंस्कारायथागृह्यम्पूर्व-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा