निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
दिनेकार्याः चौलोपनयनेपरदिनेकार्ये सर्वेषांसद्यःकरणेपूर्वोक्तसर्वसङ्कल्पवाक्यान्तेउपनयनञ्चाद्यकरिष्येइतिसङ्कल्पःसंस्काराणामकरणपक्षेचूडाकर्मोपनयनेसङ्कल्प्योभयाङ्गत्वेनपुण्याहवाचनन्नान्दीश्राद्धम्उपनयनाङ्गत्वेनमण्डपदेवतास्थापनङ्कुलदेवतास्थापनं चकरिष्यइतिसङ्कल्पः नान्दीश्राद्धान्तेपूर्वपूजितमातृकासहितमण्डपदेवतास्थापनं ततःपूर्वोक्तरीत्यावेदिनिर्माणम् इतिपूर्वदिनकृत्यं ततःपरदिनेतिक्रान्तञ्चौलङ्कृत्वापूर्वं जातचौलन्त्वभ्यङ्गस्त्रानेनस्नापयित्वामात्रासहभोजयेत् तदाब्रह्मचारिभ्योभोजनन्देयमित्याचारः ततोदेशकालौसङ्कीर्त्यास्यकुमारस्यद्वजत्वसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थङ्गायत्र्युपदेशङ्कर्तुतत्प्राच्याङ्गभूतंवापनादिकरिष्यइति सङ्कल्प्यवापनादिकुर्यात् मुख्यशिखान्यशिखानाञ्चौलेधृतानामत्रवापनं ततःस्नातमहतवस्त्रम्बद्धशिखङ्कृतमङ्गलतिलकम्बटुङ्कुर्युः मौहूर्तिकंसम्पूज्यतदुक्तेसुमुहूर्तेआचार्योवेद्यां प्राङ्मुखउपविष्टोन्तःपटमपसार्यबदुमुखमीक्षेत कृतनमस्कारान्तेस्वाङ्केकुर्वीत ततोविप्रायथाचारम्मन्त्रैरुभयोःशिरस्यक्षतान्क्षिपेयुः एवंयथागृह्यमुपनयनप्रयोगञ्ज्ञात्वानुष्ठेयं सर्वत्रबटुनागायत्र्यादिमन्त्रान्वाचयनसन्धिकृतंवर्णविकारन्नान्यथाकुर्यात् प्रयोगशेषंसमाप्यद्वेशतेशतंयथाशक्तिवाब्राह्मणभोजनंसङ्कल्प्यविप्रेभ्योभूयसीन्दक्षिणान्दद्यात् ततो ब्रह्मचारीनूतनभिक्षाभाजनेमातरम्मातृष्वस्रादिकांवाभिक्षाम्भवतीददात्वितिअनुप्रवचनीयार्थन्तण्डुलान्याचेत पितरम्भिक्षाम्भवान्ददात्वितियाचेत भैक्ष्यमाचार्यायनिवेद्यमध्याह्नसन्ध्यामुपास्यगुरुसन्निधावहःशेषन्नयेत् तद्दिनेमध्याह्नसन्ध्याविकल्पितेत्यन्ये ब्रह्मयज्ञस्तुद्वितीर्यादनमारभ्यगायत्र्याकार्यः अनुप्रवचनीयहोमारम्भात्पूर्वङ्गर्जितदृष्ट्यादिसम्भावनायान्दिवैवचरुश्रपणान्तङ्कृत्वाऽस्तमितेजुहुयात् पाकाभावेगर्जितादिनिमित्तेतु शान्तिङ्कृत्वापाकःकार्यः अथशान्तिप्रयोगः
ब्रह्मौदनपाकात्पूर्वङ्गर्जितेनसूचितस्यब्रह्मचारिकर्तृकाध्ययनविघ्नस्यनिरासद्वाराश्रीपर॰ शान्तिङ्करिष्यइति सङ्कल्प्यस्वस्तिवाचनाचार्यवरणेकृतेआचार्योग्निम्प्रतिष्ठाप्यचक्षुषीआज्येनेत्यन्तेसवितारमष्टोत्तरशतसङ्ख्यसाज्यपायसाहुतिभिर्गायत्रीमन्त्रेणशेषेणस्विष्टकृतमित्यादिमायश्चित्तहोमोहान्तेगायत्र्यासवितारमाज्येनेत्यन्वाधायगृहसिद्धपायसहोमान्तेबृहस्पतिसूक्तजपः अन्तेआचार्यायधेनुन्दत्त्वाशतंयथाशक्तिवाविप्रान्भोजयिष्ये इतिसङ्कल्पयेत् मेधाजननात्पूर्वकालिकाग्निकार्यंयावत्उपनयनाग्निनाशे उपनयनाहुतिभिःकटिसूत्रधारणादिमाणवकसंस्कारावक्षारणाग्निकार्यगायत्र्युपदेशरहिताभिः
पूर्वोत्तरतन्त्रसहिताभिरग्निमुत्पाद्यतत्रानुप्रवचनीयपूर्वभाव्यग्निकार्यङ्कृत्वाऽनुप्रवचनीयहोमङ्कृत्वामेधाजननात्प्राक्तनान्यग्निकार्याणिकृत्वामेधाजननङ्कार्यमितिकौस्तुभेउपपादितं नष्टस्योपनयनाग्नेःपुनरुत्पत्तिहोमेविनियोगइति विशेषइतिचोक्तम् ममतुउपनयनाहुतिभिरग्निमुत्पाद्यतत्रमेधाजननपूर्वभाव्यग्निकार्या-
णिकृत्वामेधाजननङ्कार्यम् अनुप्रवचनपूर्वभाव्यग्निकार्यमनुप्रवचनीयहोमश्चनकार्यइतिभाति गायत्र्युपदेशानुप्रवचनीयमेधाजननानान्त्रयाणांसमप्रधानभावेनाध्ययनाङ्गत्वादग्नेस्त्रितयाङ्गत्वात्कौस्तुभोक्तरीत्यागायत्र्युपदेशतत्पूर्वाग्निकायार्वृत्त्यभाववदनुप्रवचनीयतत्पूर्वाग्निकार्ययोरावृत्त्यभावौचित्यात् नह्यग्निष्टोमाङ्गपशुत्रयस्याङ्गेयूपेपशुद्वयानुष्ठानानन्तरन्नष्टेतृतीयपश्वर्थंयूपोत्पादनेद्वितीयपश्वनुष्ठानमप्यावर्तते अत्रसदसत्सद्भिर्विचार्यानुष्ठेयं सायंसन्ध्याग्निकार्येकृतेनुप्रवचनीयहोमम्ब्रह्मचारीकुर्यात् बटोरशक्तौचरुश्रपणान्तमन्यःकुर्यात् होममात्रम्बटुःकुर्यात् हुतचरुशेषेणत्र्यवरब्राह्मणभोजनम् अथवटुव्रतं क्षारादिवर्जमश्नीयाद्ब्रह्मचारीदिनत्रयम्। शयीताधचतुर्थेह्निमेधाजननमाचरेत् १ यद्वाद्वादशरात्रंस्यादब्दव्रतमथापिवा। मेधाजननविधिरन्यत्र अथमण्डपदेवतोत्थापनं तच्चस्थापनदिनात्समदिवसेपञ्चमसप्तमदिनयोश्चशुभं षष्ठदिनेविषमदिनेचाशुभम् अथमण्डपोद्वासनपर्यन्तन्निषेधाःनान्दीश्राद्धेकृतेपश्चाद्यावन्मातृविसर्जनम्। दर्शश्राद्धङ्क्षयश्राद्धंस्नानंशीतोदकेनच १ अपसव्यंस्वधाकारन्नित्यश्राद्धन्तथैवच। ब्रह्मयज्ञञ्चाध्ययनन्नदीसीमातिलङ्घनम् २ उपवासव्रतञ्चैवश्राद्धभोजनमेवच। नैवकुर्युःसपिण्डाश्चमण्डपोवासनावधि ३ अत्रस्वधाकारग्रहणं तत्सहचरितवैश्वदेवनिषेधार्थम् अत्रसपिण्डास्त्रिपुरुषपर्यन्ताइतिपुरुषार्थचिन्तामणौ अभ्यङ्गेसूतकेचैवविवाहेषुत्रजन्मनि। माङ्गल्येषुचसर्वेषुनधार्यङ्गोपिचन्दनम् १ एतेषुभस्मधारणमपिनकुर्वन्ति जननाशौचेभस्मगोपीचन्दनेनिषिद्धे मृतकेभस्मधार्यं षण्ढान्धवधिरमूकपङ्गुकुब्जवामनादयःसंस्कार्याः मत्तोन्मत्तौनसंस्कार्यावित्येके
पातित्यन्तुनास्ति कर्मानधिकारात् तदपत्यंसंस्कार्यम् ब्राह्मण्याम्ब्राह्मणादुत्पन्नोब्राह्मणएवेतिश्रुतेः अन्येतुमत्तोन्मत्तावपिसंस्कार्यावित्याहुः अत्रहोममाचार्यःकरोति उपनयनञ्चाचार्यसमीपनयनमग्निसमीपनयनंवागायत्रीवाचनंवाविकलाङ्गविषयेप्रधानम् एतन्त्रयान्यतममात्रंविकलाङ्गेसम्पाद्यम् अन्यदङ्गंयथासम्भवङ्कार्यम् मूकबधिरादेःसावित्रीवाचनासम्भवेस्पृष्ट्वासावित्रीजपःकार्यः संस्कारमन्त्रावासःपरिधानमन्त्राश्चाचार्येणवाच्याः केचित्तूष्णींवासःपरिधानादिकमित्याहुः एवंविवाहेपि कन्यास्वीकरणादन्यत्सर्वंविप्रेणकारयेदित्यादिवचनात् इतिविकलाङ्गोपनयनादिविचारः
अमृतेजारजःकुण्डोमृतेभर्त्तरिगोलकः। एतयोःकुण्डगोलकयोःसंस्कार्यत्ववचनंयुगान्तरविषयं तस्यक्षेत्रजपुत्रविषयत्वात् कलियुगेदत्तौरसातिरिक्तपु॒त्राणान्निषेधात् ज्येष्ठेत्वकृतसंस्कारेगर्भाधानादिकर्मभिः। कनिष्ठोनैवसंस्कार्यइति शातातपोब्रवीत् १ इदञ्चौलोपनयनान्तसंस्कारविषयं विवाहविषयेतुविकलाङ्गेषुनायन्नियमः कन्यास्वपिज्येष्ठाविवाहानन्तरमेवकनिष्ठायाविवाहः ज्येष्ठपुत्रविवाहाभावेऽपिकनिष्ठाकन्यासंस्कार्या ज्येष्ठस्योपनयनाभावेकनिष्ठानविवाह्या ॥
अथपुनरुपनयनं तच्चत्रिविधम् प्रत्यवायनिमित्तकम्प्रायश्चित्तभूतम्पुनरुपनयनमाद्यं तच्चजातकर्मादिसहितन्तद्रहितम्प्रायश्चित्तान्तरसहितकेवलञ्चेत्यनेकविधं कृतस्योपनयनस्योक्तकालाद्यङ्गवैगुण्येनवैकल्यापत्तावपरं वेदान्तराध्ययनार्थन्तृतीयं तत्रप्रथमंयथा अमत्याऔषधान्तरानाश्यरोगनाशार्थम्पैष्ट्याःसुरायाःपाने त्रिमासं कृच्छ्राचरणम्पुनरुपनयनञ्च मत्यापैष्ट्यन्यसुरायाऔषधार्थपानेकृच्छ्रातिकृच्छ्रौपुनरुपनयनञ्च पैष्टीपानेद्वादशाब्दम् अज्ञानाद्वारुणी गौडीमाध्वीसुरापीताचेत्पुनरुपनयनन्ततप्तकृच्छ्रञ्च अज्ञानाद्रेतोविण्मूत्राणामशनेसुरासंसृष्टान्नजलादिभक्षणेच पुनःसंस्कारस्तप्तकृच्छ्रञ्च ज्ञात्वाविण्मूत्राद्यशनेचान्द्रायणपुनःसंस्कारौ लशुनपलाण्डुगृञ्जनविड्वराहग्रामकुक्कुटनरगोमांसभक्षणेद्विजातीनान्तत्तत्प्रायश्चित्तान्तेपुनरुपनयनम् अविखरोष्ट्रमानुषीक्षीरपानेहस्तिनीवडवाक्षीरपानेचतप्तकृच्छ्रं पुनःसंस्कारश्च रासभोष्ट्राद्यारोहणेकृच्छ्रःपुनःसंस्कारश्च इदंहेमाद्रिमतमितिसिन्धौ क्वचित् मिताक्षरास्मृत्यर्थसारादिमतेरासभोष्ट्रारोहेउपवासत्रयादिमात्रन्नतुपुनःसंस्कारः कौस्तुभाशयोप्येवं वृपभारोहणेअमत्याकृच्छ्रमत्याकृच्छ्रयादि केचिद्व्टषारोहेपुनःसंस्कारङ्कुर्वन्तितत्रमूलम्मृग्यम् एवमजबस्तमहिषारोहेपि मांसभक्षकपशोर्विद्भक्षणेपुनरुपनयनमात्रं केचिन्मानुपमलभक्षणेपिपुनःसंस्कारमात्रमाहुः प्रेतशय्याप्रतिग्राहीपुनःसंस्कारमर्हति। जीवतोमृतवार्तांश्रुत्वान्त्यकर्मकरणे तङ्घृतकुम्भेनिमज्योद्धृत्यस्नापयित्वाजातकर्माद्युपनयनान्तसंस्कारान्कृत्वात्रिरात्रव्रतान्तेपूर्वभार्ययातस्याम्मृतायामन्यभार्ययावाविवाहःकार्यः आहिताग्निश्चेत्पुनराधानायुष्मदिष्ट्यादि तीर्थयात्रांविनाकलिङ्गाङ्गवङ्गान्धसिन्धुसौवीरप्रत्यन्तवासिदेशगमने पुनःसंस्कारः चाण्डालान्नभक्षणेचान्द्रायणम् बुद्धिपूर्वम्भक्षणेकृच्छ्राब्दम् उभयत्रपुनःसंस्कारः अजिनम्मेखलादण्डोभैक्ष्यचर्याव्रतानिच। निवर्तन्तेद्विजातीनाम्पुनःसंस्कारकर्मणि १ वपनम्मेखलेतिस्मृत्यन्तरेपाठः ब्रह्मचारिणोमधुमांसाशनेपुनरुपनयनं प्राजापत्यन्त्रिरात्रोपवासोवा मत्याभक्षणेपराकः अभ्यासेद्विगुणं पुनःसंस्कारश्च पितृमातृगुरुभ्योभिन्नस्यप्रेतस्यान्त्यकर्मकरणेब्रह्मचारिणःपुनरुपनयनं हस्तमथितदधिभक्षणेबहिर्वेदिपुरोडाशाशनेअभ्यासेकृच्छ्रःपुनःसंस्कारश्च यःसन्न्यासङ्गृहीत्वाततोनिवृत्त्यगार्हस्थ्यञ्चिकीर्षतिसषण्मासङ्कृच्छ्रान्कृत्वाजातकर्मादिसंस्कारैः संस्कृतःशुद्धोगार्हस्थ्यङ्कुर्यात् एवमनशनम्मरणार्थसङ्कल्प्यनवृत्तोषिकुर्यात् कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात्। गण्डकी बाहुतरणात्पुनःसंस्कारमर्हति १ अथद्वतीयम्पुनरुपनयनम् प्रदोषेनिश्यनध्यायेमन्देकृष्णेगलग्रहे। अपराह्णेचोपनीतःपुनःसंस्कारमर्हति १ अत्रम-
दोषःप्रदोषदिनं कृष्णःकृष्णपक्षएकादश्यादिरन्त्यत्रिकरूपः अपराह्णश्चदिनतृतीयभागरूपइत्युक्तम् अनध्यायाअपिनिसाएवपौर्णिमाप्रतिपदादयःपुनरुपनयननिमित्तं नतुनैमित्तिकाअकालगृष्ट्यादिनिमित्तकत्रिरात्रादयः नैमित्तिकेषुप्रातर्गर्जितनिमित्तानध्यायएवपुनःसंस्कारनिमित्तम् अत्रविस्तरःकौस्तुभे अंसाभिमर्शनपूर्वकम्बटोःसमीपमानयनम्प्रधानकर्म तस्यविस्मरणेपुनरुपनयनम् एवङ्गायत्र्युपदेशविस्मरणेपि तृतीयःपुनरुपनयननिमित्तप्रकारः एकंवेदमधीत्यवेदान्तराध्ययनचिकीर्षायाम्प्रतिवेदम्पुनरुपनयनमित्येके
अन्यवेदिनामृग्वेदाध्ययनार्थमुपनयनमित्यपरे अन्येतुएकेनैवोपनयनेनवेदत्रयाध्ययनाधिकारः अथर्ववेदाध्ययनार्थन्द्वितीयमुपनयनमित्याहुः तेनऋगादिवेदत्रयाध्यायिनोमुण्डमाण्डूक्याद्याथर्वणोपनिषदोविनापुनःसंस्कारम्पठन्तितेचिन्त्याः युगपदनेकवेदारम्भे नोपनयनावृत्त्यपेक्षेतिसकृदुपनीत्यायुगपत्सकलवेदारम्भःसिद्ध्यतीतिपरे तत्रएकवेदाध्ययनानन्तरंयद्वेदाध्ययनचिकीर्षातद्वेदेतिकर्तव्यताकम्पुनरुपनयनं तत्रवपनम्ब्रह्मौदनम्मेधाजननन्दीक्षाचकृताकृता परिदानान्ताक्रियाभवति अनध्यायादिकेद्वितीयेपुनरुपनयननिमित्तेसर्वमविकृतंयथोक्तकालेउपनयनम् अथप्रायश्चित्तार्थेव्रतबन्धेविशेषःतत्रनिमित्तानन्तरमेवकरणेउदगयनपुण्यनक्षत्राद्युक्तकालोनापेक्ष्यते
अन्यथातुयथोक्तकालापेक्षा तत्रकर्तापितातदभावेपितृव्यादिःसपिण्डः तदभावेन्यःकश्चित् यत्रपुनरुपनयनम्प्रायश्चित्तत्वेनोक्तन्तत्रपर्षदुपदिष्टविधिनातदेवकार्यं यत्रतुप्रायश्चित्तान्तरसहितन्तत्रोक्तविधिनाप्रायश्चित्तंसंस्कार्येणकारयित्वाचार्येणतस्योपनयनङ्कार्यं यत्रजातकर्मादिसंस्कारसहितमुपनयनंविहितन्तत्रजातादिन्वौलान्तसंस्कारान्कृत्वाकार्यम् पुनरुपनयनेगायत्रीस्थानेतत्सवितुर्वृणीमहइत्यस्याउपदेशादाचार्येणास्याएवऋचोद्वादशोत्तरसहस्रजपः कृच्छ्रत्रयञ्चोपनेतृत्वाधिकारार्थङ्कार्यं तत्रास्यकृतौर्ध्वदैहिकस्यपुनःसंस्कारद्वाराश्रीपरमेश्वरप्रीत्यर्थञ्जातकर्माद्युपनयनान्तसंस्कारान्करिष्ये एवन्निमित्तान्तरेपिसङ्कल्पऊह्यः सर्वसंस्कारोद्देशेनतन्त्रेणनान्दीश्राद्धादिश्मश्रुवपनानन्तरञ्चौलकेशवपनम् मनुष्यादिक्षीरपानादिनिमित्तान्तरेतुसंस्कार्योमुकदोषपरिहारार्थम्पर्षदुपदिष्टममुकप्रायश्चित्तङ्करिष्यइतिसङ्कल्प्यतत्कुर्यात् आचार्यस्तुअस्यामुकदोषपरिहारार्थपुनःसंस्कारसिद्धिद्वाराश्री॰ पुनरुपनयनङ्करिष्यइतिसङ्कल्प्योप्लनयनमात्रङ्कुर्यात् यत्रोपनयनमात्रोक्तिस्तत्रसंस्कार्यस्थनसङ्कल्पः किन्त्वाचार्यस्यैव पुनरुपनयनङ्ग्रामाद्बहिःप्राच्यामुदीच्यांवागत्वाकार्यं नान्दीश्राद्धान्तेमण्डपदेवतास्थापनं कृतमङ्गलस्नानंसंस्कार्यम्भोजयित्वावपनपक्षेवपनस्नानेकारयित्वाअस्यप्रायश्चित्तार्थपुनरुपनयनहोमेदेवतापरिग्रहार्थमन्वाधानङ्करिष्ये अस्मिन्नन्वाहितेनावित्यादिनित्य-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा