निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
वत् ब्रह्मचारिणःपुनरुपनयनेसमन्त्रकंवासोधारणन्नित्यम् अन्यस्यवैकल्पिकम् ब्रह्मसूत्रधारणादिसूर्येक्षणान्तन्नित्यवत् ततोयुवासुवासाइत्येतन्मन्त्रकम्प्रदक्षिणमावर्तनादिवासोबद्धाञ्जलिग्रहणान्तेप्रणवव्याहृतीनाम्ऋष्यादिस्मृत्वा तत्सवितुर्वृणीमहइत्यस्यश्यावाश्वःसवितानुष्टुप् पुनरुपनयनेउपदेशेविनियोगः पादशोर्धर्चशःसर्वामिति त्रिर्वाचयेत् ब्रह्मचारिणोमेखलादानादिनित्यवत्ब्रह्मचर्योपदेशान्तम् अन्यस्यमेखलाजिनदण्डधारणम्पाक्षिकम् ब्रह्मचर्योपदेशोदिवामास्वाप्सीरित्यन्तः वेदमधीष्वेत्यादिकन्न ततःस्विष्टकृदादि मेधाजननपक्षेतत्पर्यन्ताग्निधारणम् भिक्षापूर्वकानुप्रवचनीयः गायत्र्याःस्थानेतत्सवितुर्वृणीमहइतिहोमः त्रिरात्रव्रतान्तेयस्मिन्नाश्रमेपुनरुपनयनन्तदाश्रमधर्मान्कुर्यात् यत्रपुनरुपनयनान्तेपुनर्विवाहःकृतौर्ध्वदैहिकादेःश्रूयते तत्रमेखलादिधारणपूर्वकङ्कतिचिद्दिनानिब्रह्मचर्यङ्कृत्वोचितकालेसमाप्य पूर्वभार्ययान्ययावाविवाहङ्कुर्यात् इतिऋग्वेदिनाम्पुनःसंस्कारः अथयजुर्वेदिनां तत्रबौधायनोब्रह्मचारिणःपितृज्येष्ठाभ्यामन्योच्छिष्टभक्षणेस्त्रियासहभोजनेमधुमांसश्राद्धसूतकान्नगणान्नगणकान्नाशनेपुनरुपनयनमित्यादिउक्त्वाअग्निमुखङ्कृत्वाज्याक्तपालाशसमधमादायवाचयतिपुनस्त्वादित्या॰ कामाःस्वाहेति यन्मआत्मनोमिन्दाभूदग्निः॰ पुनरग्निचक्षुरदादितिद्वाभ्यांहुत्वाचरुम्पक्त्वाजुहोति सप्तते अग्ने॰ घृतेनस्वाहेति ततोयेनदेवाःपवित्रेणेतितिसृभिरुपहोमस्ततःस्विष्टकृत्प्रभृतिसिद्धमाधेनुवरमदानात् अथापरमापरिधानात्कृत्वापालाशींसमिधमादायत्रासप्रायश्चित्तञ्जुहोतिव्याहृतीर्जुहोति अथापरोब्राह्मणवचनात्सावित्र्याशतकृत्वोभिमन्त्रितङ्घृतम्प्राश्यकृतप्रायश्चित्तोभवतीत्यादिकमवदत् अत्रोक्तपक्षाणांशक्ताशक्तभेदेनव्यवस्थाइदङ्कौस्तुभेद्रष्टव्यम् एवंशाखान्तरेष्वपिवपनमेखलाजिनदण्डभैक्ष्यचर्याव्रतादिकंवैकल्पिकंव्यवस्थयानुष्ठायस्वस्वशाखोक्तोपनयनङ्कार्यम् ॥
अथब्रह्मचारिधर्म्मः तत्रसन्ध्यात्रयमग्निपरिचरणम्भैक्षञ्चनित्यं तत्राग्निकार्यं प्रातःसायञ्च सायमेवसकृद्वा तत्रपलाशखदिराश्वत्थशमीसमिधःश्रेष्ठास्तदलाभेऽर्कवेतसाम् भवच्छब्दपूर्विकाभिक्षाविप्राणां साचविप्रगृहेष्वेव आपदिशुद्रगृहेषु आमान्नं गृह्णीयात् हव्येश्राद्धभिन्नकव्येचाभ्यर्थितोभुञ्जीत अस्यब्रह्मयज्ञोपनित्यः सचोपाकरणातत्पूर्वगायत्र्याकार्यः गुरूच्छिष्टम्मध्वादिकन्निषिद्धमपितदन्यापरिहार्यरोगनिवृत्त्यर्थं भक्षणीयं निषिद्धान्यत्गुरूच्छिष्टन्त्वनौषधमपिभक्ष्यम् एवञ्ज्येष्ठभ्रातुःपितुश्चोच्छिष्ठेषुज्ञेयं दिवास्वापोनेत्रेकज्जलमुपानच्छत्रम्मञ्चदौशयनञ्चवर्ज्यं ताम्बूलाभ्यञ्जनंवकांस्यपात्रेचभोजनम्। यतिश्चब्रह्मचारीचविधवाचविवर्जयेत् १ मधुसूतकान्नश्राद्धान्नादेर्निषेधाःपुनःसंस्कारप्रकरणोक्ताअनुसन्धेयाः मेखलामजिनन्दण्डमुपवीतञ्चनित्यशः। कौपीनङ्कटिसूत्रञ्चब्रह्मचारीविधारयेत् १ मेखलोपवीतादौत्रुटितेजलेप्रास्यान्य-
द्धारयेत् यज्ञोपवीतनाशेमनोज्योतिरित्यनेनव्रातपतिभिश्चेतिचतस्रआज्याहुतीर्जुहुयादित्युक्तम् अस्यगुरुपरिचर्याप्रकारोऽन्यत्रज्ञेयः अथब्रह्मचारिव्रतलोपे सन्ध्याग्निकार्यलोपेऽष्टसहस्रगायत्रीजपः क्वचित्सकृल्लोपेमानस्तोकेतिमन्त्रस्यशतञ्जपउक्तः भिक्षालोपेऽष्टशतम् अभ्यासेद्विगुणम्पुनःसंस्कारश्च मधुमांसाद्यशनेउक्तं स्त्रीसङ्गेगर्दभपशुः एकानेकव्रतलोपसाधारणमृग्विधाने तम्बोधियाजपेन्मन्त्रंलक्षञ्चैवशिवालये। ब्रह्मचारीस्वधर्मेषुन्यूनञ्चेत्पूर्णमेतितत् १ उपाकर्मकृत्वाप्रागुक्तविद्यारम्भकालेऽक्षरारम्भोक्तविष्ण्वादिपूजाप्रकारेणवेदारम्भःकार्यः द्विजस्त्रीणांयुगान्तरेमौञ्जीबन्धोवेदाध्ययनञ्चासीत्कलियुगेतुनैतद्द्वयम् अतःस्त्रीणांवेदोच्चारादौदोषः॥
अथानध्यायाः तेचनित्यानैमित्तिकाश्चप्रायेणमौञ्जीप्रकरणेउक्ताः ततोन्येपि उभयविधानध्यायाबहवोनिबन्धेषूक्तास्तेऽत्रनप्रपञ्च्यन्ते कलिकालेस्मिंस्तावदनध्यायपालनस्यदुर्मेधसामशक्यत्वात् तथाचहेमाद्रौस्मृतिः चतुर्दश्यष्टमीपर्वप्रतिपत्स्वेवसर्वदा। दुर्मेधसामनध्यायास्त्वन्तरागमनेषुच १ इति अतःकलौप्रतिपट्ट्वयमष्टमीद्वयञ्चतुर्दशीद्वयम्पूर्णिमादर्शोऽयनसङ्क्रान्तिरित्येतावतएवानध्यायांस्त्यक्तावेदशास्त्रादिकमध्येतव्यम् पुंसाम्प्रायोल्पप्रज्ञत्वात् शिष्टाचारोप्येवमेव पूर्वदिनेसायम्परत्रप्रातश्चत्रिमुहूर्तानध्यायतिथिसत्त्वेउदयेस्तमयेवापीत्यनेनदिनद्वयेऽनध्यायप्राप्तौवचनान्तरं केचिदाहुः क्वचिद्देशेयावत्तद्दिननाडिकाः । तावदेवत्वनध्यायोनतन्मदिनान्तरे १ इति इदमप्यल्पप्रज्ञविषयं चतुर्थीसप्तम्यादौप्रदोषनिर्णयउक्तः प्रदोषेषुनस्मरेन्नचकीर्तयेदित्युक्तेरितरानध्यायतोदोषाधिक्यम् अनध्यायस्तुनाङ्गेषुनेतिहासपुराणयोः। नधर्मशास्त्रेष्वन्येषुपर्वण्येतानिवर्जयेत् १ नित्येजपेचकाम्येचक्रतौपारायणेपिच। नानध्यायोस्तिवेदानाङ्ग्रहणेग्राहणेस्मृतः २॥
अथाध्ययनधर्माः वेदारम्भेवसानेगुरोःपादोपसङ्ग्रहणम् आदौप्रणवमुच्चार्य वेदमधीत्यान्तेप्रणवमुच्चार्यभूमिंस्पृप्ट्वाविरमेत् रात्रेःप्रथमयामेचरमयामेचवेदाध्ययनं यामद्वयंशयानस्तुब्रह्मभूयायकल्पते। गुरुम्पितरम्मातरचमन्येतकदापिनद्रुह्येत अध्यापितायेगुरुन्नाद्रियन्तेशिष्यावाचामनसाकर्मणावा । यथैवतेनगुरोर्भोजनीयास्तथैवतान्नभुनक्तिश्रुतन्तत् १ इत्यध्ययनधर्माः ॥
अथव्रतानि तानिमहानाम्नीव्रतमहाव्रतोपनिषद्द्रतगोदानवताख्यानिचत्वारिक्रमेणजन्मतस्त्रयोदशादिषुवर्षेषुत्तरायणेचौलोक्ततिथिनक्षत्रवारादिषुकार्याणि अत्रविस्तृतप्रयोगाःकौस्तुभादौस्वस्वगृह्येषुचद्रष्टव्याः एतेषांलोपेप्रत्येकमेकैककृच्छ्रञ्चरित्वागायत्र्याशताहुतीर्जुहुयात् त्रीन्षद्वादशवाकृच्छ्रान्कुर्यात्इत्यन्यत्र॥
अथसमावर्तनं गुरवेक्षेत्राद्यन्यतमन्दत्त्वातदनुज्ञयास्नायात् स्नानन्नामसमावर्तनं तानिचक्षेत्रंहेमगौरश्वश्चछत्रोपानहौधान्यंवस्त्रत्रयंशाकमित्येतानि एषुयद्गुरोः
प्रियन्तद्देयं दानंविनैवगुरुप्रीतौतदनुज्ञयैवस्नायात् क्षेत्रादिनापिनविद्यानिष्क्रयः एकैकमक्षरंयस्तुगुरुःशिष्येनिवेदयेत्। पृथिव्यान्नास्तितद्रव्यंयद्दत्त्वात्वनृणीभवेत् १ इत्युक्तेः सचस्नातकस्त्रिविधः विद्यास्नातकोव्रतस्नातकउभयस्नातकइति तत्रैकन्द्वौत्रीञ्चतुरोवावेदान्वेदैकदेशंवाधीत्यतदर्थञ्चज्ञात्वाद्वादशवर्षादिब्रह्मचर्यकालावधेःप्रागेवस्नातिसविद्यास्नातकः उपनयनवतसावित्रीव्रतवेदव्रतान्यनुष्ठायवेदसमाप्तेःपूर्वमेवस्नातोव्रतस्नातकः द्वादशवर्षादिब्रह्मचर्यसमाप्त्यावेदंसमाप्यस्नातोविद्याव्रतोभयस्नातकः तत्रोपनयनोत्तरम्मेधाजननपर्यन्तन्त्रिरात्रद्वादशरात्रादिव्रतमुपनयनव्रतम् मेधाजननोत्तरमुपाकर्मान्तम्ब्रह्मचारिधर्मानुष्ठानंसावित्रीव्रतं तदुत्तरंवेदाध्ययनार्थन्द्वादशवर्षादिकालावच्छिन्नंव्रतंवेदव्रतं स्वाध्यायोध्येतव्यइतिविधेरर्थज्ञानपर्यन्तत्वाद्वेदार्थज्ञानंविनावेदाध्ययनमात्रेणसमावर्तनेऽधिकारोनेतिपूर्वमीमांसकाः वेदग्रहणमेवविधिफलम्पूर्वकाण्डार्थज्ञानङ्कर्मानुष्ठानाक्षिप्तम् उत्तरकाण्डार्थज्ञानङ्काम्यश्रोतव्यविधिप्राप्तमित्युत्तरमीमांसकाः तत्रसंहिताब्राह्मणञ्चमिलित्वैकोवेदः आरण्यकाण्डम्ब्राह्मणान्तर्गतमेव सम्पूर्णैकवेदाध्ययनेष्वशक्तोवेदैकदेशम्पठेत् अत्यशक्तेनसंहितायाःप्रथमचरमसूक्तेकतिपयसूक्तानाम्प्रथमाऋचःसर्वसूक्तानाम्प्रथमाऋचोवाध्येतव्याः एवंवेदैकदेशाध्ययनोत्तरंसमावृत्तोविवाहितोवाब्रह्मचर्योक्तनियमेनवेदाध्ययनङ्कुर्यात् तत्रऋतौभार्यागमनङ्कार्यम् ब्रह्मचारिव्रतलोपप्रायश्चित्तङ्कृछ्रत्रयङ्कृत्वामहाव्याहृतिहोमञ्चकृत्वासमावर्तनङ्कार्यम् एतच्चसन्ध्याग्निकार्यभिक्षालोपशूद्रादिस्पर्शकटिसूत्रमेखलाजिनत्यागदिवास्वापाञ्जनपर्युषितभोजनादित्रतभङ्गेषु अल्पकालमल्पव्रतभङ्गेज्ञेयम् बहुधर्मलोपेतु तम्बोधियानव्यस्पाशविष्ठमितिमन्त्रस्थलक्षजपःशिवालयेइत्युक्तम् एवञ्चमहानाम्न्यादिव्रतलोपस्यब्रह्मचर्यत्रतलोपस्यचप्रायश्चित्तोत्तरंसमावर्तनाधिकारः अथसमावर्तनकालः
तत्रोपनयनोक्तकालेसमावर्तनमितिबहबोज्योतिर्ग्रन्थाः तेनानध्यायेप्रदोषदिनेभौमशनिवारयोःपौषाषाढयोर्दक्षिणायनेचनभवति मार्गशीर्षेविवाहप्रसक्तौदक्षिणायनेऽपिभवति अन्यथा अनाश्रमीनतिष्ठेतदिनमेकमपिद्विजः। इतिनिषेधातिक्रमापत्तेः अन्येतुमौञ्ज्युक्तकालोपादानेमूलाभावात्रिक्तात्रयपूर्णिमामावास्याष्टमीप्रतिपद्भिन्नतिथिषुशुक्लेन्त्पत्रिकभिन्नकृष्णेचगुरुशुक्रास्तादिदिनक्षयभद्राव्यतीपातादिदोषशून्येशुभवारेसमावर्तनङ्कार्यं नात्रप्रदोषसोपपदादितिथिवर्जनमावश्यकमित्याहुः पुष्यपुनर्वसुमृगरेवतीहस्तानुराधोत्तरात्रयरोहिणीश्रवणविशाखाचित्राःश्रेष्ठाः एतदलाभेमौञ्ज्युक्तभानि क्वचिद्भौमशनिवारौसिन्धावुक्तौ अथमणिकुण्डलवस्त्रयुगच्छत्रोपानद्युगदण्डस्रगुन्मर्दनानुपाञ्जनोपोष्णीषाणिआत्मनेआचार्यायचसम्पाद्यालाभेआचार्यायैषवासम्पादयेत् देशकालौसङ्कीर्त्यममब्रह्मचर्यनियमलोपजनितसम्भावितदोषपरिहारेणसमावर्तना-
धिकारसम्पादनद्वाराश्रीपरमेश्वरप्रीत्यर्थमाज्यहोमपूर्वकङ्कृछ्रयम्महानाम्न्यादिव्रतचतुष्टयलोपजनितप्रसवायपरिहारार्थप्रतिसंस्कारमेकैकं गायत्र्याज्यहोमपूर्वकन्तन्त्रेणाहमाचरिष्यइतिसङ्कल्प्याग्निमतिष्ठादिचक्षुषीआज्येनात्रमधानम् अग्निंवायुंसूर्यप्रजापतिञ्चचतसृभिराज्याहुतिभिः अग्निपृथिवीम्महान्तमेकयाज्याहुत्या वायुमन्तरिक्षम्महान्तमेकया॰ आदित्यन्दिवम्महान्तमेकया॰ चन्द्रमसन्नक्षत्राणिदिशोमहान्तमेकया॰ अग्निन्द्विः विभावसुंशतक्रतुम्अग्निम्अग्निम्अग्निवायुंसूर्यम्प्रजापतिञ्चेत्यष्टावेकैकयाज्याहुत्या शेषेणेत्यादि आज्यभागान्तेव्यस्तसमस्तव्याहृतिभिर्हुत्वा भूरग्नयेचपृथिव्यैचमहतेचस्वाहा। अग्नयेपृथिव्यैमहतेइदमित्यादियथान्वाधानन्त्यागः भ्रुवोवायवेचान्तरिक्षायचमहतेचस्वाहा।सुवरादित्यायचदिवेचमहतेचस्वाहा। भूर्भुवःसुवश्चन्द्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चमहते॰। चन्द्रमसेनक्षत्रेभ्योदिग्भ्योमहतइ॰। पाहिनोअग्नएनसेस्वाहा। पाहिनोविश्ववेदसेस्वाहा। यज्ञम्पाहिविभावसोस्वाहा। सर्वम्पाहिशतक्रतोस्वाहा। पुनरूर्जानिवर्तस्वपुनरग्नहायुषा।पुनर्नःपाह्यंहसःस्वाहा। सहरय्यानिवर्तस्वाग्नेपिन्वस्वधारया। विश्वप्स्नयाविश्वतस्परिस्वाहा।पुनर्व्यस्तसमस्तव्याहृतिचतुष्टयं ततःव्रतचतुष्टयार्थङ्गायत्र्याज्यहोमः कृछ्रत्रयगोनिष्क्रयन्दत्त्वाहोमशेषंसमापयेत् महानाम्न्यादिलोपेप्रत्येकमष्टोत्तरशतमष्टाविंशतिमष्टौवागायत्र्याज्याहुतीर्हुत्वाएकैकङ्कृछ्रञ्चरेत् इतिप्रायश्चित्तप्रयोगः
अथसमावर्तनसङ्कल्पादि ममगृहस्थाश्रमार्हतासिद्धिद्वाराश्रीपर॰ समावर्तनङ्करिष्यइतिसङ्कल्प्य नान्दीश्राद्धान्तम्बटुरेवकुर्यात् ब्रह्मचारीजीवत्पितृकश्चेत्पितुर्मात्राद्युद्देशः ब्रह्मचार्यशक्तश्चेत्पित्रादिस्तत्प्रतिनिधित्वेननान्दीश्राद्धङ्कुर्यात् समावर्तनउपनयनादाविवपित्रादिरेवनान्दीश्राद्धकर्तेतिमतान्तरेणप्रागुक्तम् अवशिष्टप्रयोगःस्वस्वगृह्यानुसारेण दशत्रीन्वाविप्रान्भोजयेत् दास्यन्तिमधुपर्कंयेतत्रैतांरजनींवसेत्। ततोव्रतानिसङ्कल्पयेत् तानिचस्वसूत्रोक्तानिस्मृत्युक्तानिचेतद्विविधानि सर्वाण्यपिपुरुषार्थान्येवनतुसमावर्तनाङ्गानि
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा