निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
तत्राशक्तः सूत्रोक्तान्येवव्रतानिकुर्यात् शक्तस्तुस्मृत्युक्तान्यपि तानियथा निमित्तंविनाननक्तंस्नास्यामि ननग्नःस्नास्यामि ननग्नःशयिष्ये ननग्नांस्त्रियमीक्षिष्येन्यत्रमैथुनात् वर्षतिनधाविष्ये नक्षमारोहिष्ये नकूपमवरोहिष्ये नबाहुभ्यान्नदीन्तरिष्यामि नप्राणसंशयमभ्यापत्स्ये इतिसूत्रोक्तानि अथ स्मृत्युक्तानि नित्यंयज्ञोपवीतद्वयन्धारयिष्ये सोदककमण्डलुञ्छत्रमुष्णीपम्पादुकेउपानहौ सुवर्णकुण्डलेदर्भमुष्टिञ्चधारयिष्ये कर्तनेनह्रस्वीकृतकेशश्मश्रुनखःस्यां निमित्तंविनामुण्डनन्नकरिष्यइत्यर्थः नसमावृत्तामुण्डेरनितिनिषेधात् नित्यमध्ययनरतःस्यां स्वशरी-
रादुवृतंस्वनिर्माल्यपुष्पचन्दनादिपुनर्नधारयिष्ये शुक्लाम्बरधरःस्यां सुगन्धीप्रियदर्शनःत्यां विभवेसतिजीर्णवासामलवद्वासाचनस्यां रक्तंवासःशरीरपीडावहम्बावस्त्रन्नधारयिष्ये गुरुंविनान्यैर्धृतंवस्त्रमलङ्कारंस्रजञ्चनधारयिष्ये अशक्तस्तुअन्यद्धृतमपि वस्त्रादिप्रक्षाल्यधारयेत् अन्यधृतोपवीतमुपानहौचनधारये कन्यान्नधारयिष्ये नस्वरूपमुदकेनिरीक्षिष्ये नभार्ययासाकमेकपात्रेएककालेवाश्नीयाम् एतद्विवाहभिन्नविषयं शूद्रायधर्मज्ञानन्नीतिज्ञानंव्रतकल्पञ्चनोपदिशामि एतत्साक्षादुपदेशपरं कृत्वा ब्राह्मणमग्रतइतिब्राह्मणद्वारकोपदेशेदोषाभावात् गृहमेधिशूद्रायोस्वोच्छिष्टन्नदास्ये शूद्रायहोमशेषन्नदास्ये उद्धृतोदकेनतिष्ठन्नाचमनङ्करिष्ये जानुमात्रेतदधिकेवाजलेतिष्ठदाचमनेदोषाभावात् अशुचिनाएकहस्तेनवाआनीतजलैर्नाचमिष्ये पादेनपादधावनन्नकरिष्ये अकल्पांस्त्रियन्नगमिष्यामि नप्रातृतमस्तकोहनिपर्यटिष्यामि रात्रौमलमूत्रोत्सर्गेचप्रावृतशिराःस्यां सोपानत्कोशनाभिवादननमस्कारान्नकरिष्ये पादेनासनन्नापकर्षिष्यामि एवमन्यान्यपिस्मृत्युक्तानिज्ञेयानि एतेषुव्रतेषुयानिकर्त्तुंशक्नुयात्तावन्त्येवसङ्कल्पयेत् अत्रसङ्कल्पितव्रतोल्लङ्घनेमत्याकृतेत्र्यहमभोजनम् अमत्याकृतेएकरात्रमभोजनम्प्रायश्चित्तम् अशक्तस्त्रीनेकंवाविप्रम्भोजयेत् इतिस्नातकव्रतानि आतुरदशायांयथोक्तसमावर्तनासम्भवेसङ्क्षेपतस्तत्कार्यं तत्प्रयोगः सङ्कल्प्य ब्रह्मचारिलिङ्गानिमेखलादीनित्यक्त्वावपनङ्कृत्वातीर्थस्नात्वावासःपरिधानाचमनतिलकधारणानिकृत्वाऽग्निम्प्रतिष्ठाप्यतत्रप्रजापतिम्मनसाध्यायंस्तूष्णींसमिधमादध्यात् अन्यदपिअविरोधितूष्णीमेवकर्तव्यमिति इतिसमावर्तनानुकल्पः
ब्रह्मचर्यदशायान्दशाहाशौचहेतुसपिण्डमरणेसमावर्तनोत्तरमुदकदानपूर्वकन्त्रिरात्रमतिक्रान्ताशौचङ्कार्यम् अनुपनीतसपिण्डेमातुलादौचमृतेऽतिक्रान्ताशौचनम् एवञ्जननाशौचेप्यतिक्रान्ताशौचन्न ततश्चदशाहाशौचापादकसपिण्डमृतौसमावर्तनोत्तरन्त्रिरात्रमध्येविवाहोनकार्यः कस्यचिन्मरणाभावेतुन विवाहेदोषः इत्थंव्रतान्तकर्माण्यनन्तोपाध्यायसूतुना। निर्णीयश्रीविठ्ठलाङ्घ्योर्वाग्विलासःसमर्पितः १॥
अथ विवाहः। अथश्रीभगवत्पादौपुण्डरीकवरप्रदौ। श्रीगुरून्पितरौनत्वाविवाहंवक्तुमुद्यतः १ उद्वहत्तुद्विजोभार्यांसवर्णांलक्षणैर्युताम्। अव्यङ्गाङ्गींसौम्यनाम्नीम्मृद्वङ्गीञ्चमनोहराम् २ भाविशुभाशुभज्ञानहेतुलक्षणविचारोऽष्टौमृत्पिण्डान्कृत्वेत्यादिरूपम्आश्वलायनसूत्रेउक्तः ज्योतिःशास्त्रोक्तराशिनक्षत्रादिघटितविचारोपिशुभाविज्ञानहेतुः सचसङ्क्षेपेणोच्यते तत्रमेषादिराशिस्वामिनः भौमःशुक्रोबुधश्चन्द्रःसूर्यः सौम्योभृगुःकुजः। गुरुःशनैश्चरोमन्दःसुरेज्योराशिपाःस्मृताः १ अथग्रहाणांशत्रु-
मित्रादि रवेर्गुरुभौमचन्द्रामित्राणि शनिशुक्रौशत्रू बुधःसमःइन्दोःसूर्यबुधौमित्रे भौमगुरुशुक्रशनयःसमाः अस्याशत्रुर्न कुजस्यबुधोरिपुः सूर्यगुरुचन्द्रामित्राणि शनिशुक्रौसमौ बुधस्यार्कशुक्रौमित्रे चन्द्रोऽरिः शनिभौमगुरवःसमाः गुरोःसूर्यभौमचन्द्रामित्राणि शुक्रबुधौशत्रू शनिःसमः शुक्रस्यशनिबुधौमित्रे सूर्यचन्द्रावरी भौमगुरूसमौ शनेःशुक्रबुधौमित्रे कुजसूर्यचन्द्राअरयः गुरुःसमः अत्रगुणविचारः राश्योरेकाधिपत्वेराशिपत्योर्मित्रत्वेचपञ्चगुणाः राशिपयोः समत्वशत्रुत्वेऽर्धोगुणः समत्वमित्रत्वेचत्वारः शत्रुत्वमित्रत्वेएकः द्वयोःसमत्वेत्रयः द्वयोःशत्रुत्वेगुणाभावः अथगणाः पूर्वात्रयोत्तरात्रयभरणीरोहिण्यार्द्रामनुष्यगणः हस्तरेवतीपुनर्वसुपुष्यस्वातीमृगश्रवणाश्विन्यनुराधादेवगणः कृत्तिकाश्लेषामघाचित्राविशाखाज्येष्ठामूलधनिष्ठाशततारकाराक्षसगणः गणैक्येशुभं देवमनुष्ययोर्मध्यमं देवरक्षसोर्वैरं राक्षसमनुष्ययोर्मरणम् अतोमनुष्यराक्षसयोर्विवाहोनकार्यः अत्रगुणाः गणक्येपड्गुणाः वरोदेवोनृगणाकन्यात्रापिषट् वैपरीत्येपञ्च वरोराक्षसः कन्यादेवगणाअत्रैकः वैपरीत्येगुणाभावः मनुष्यराक्षसत्वेपिगुणाभावः अथराशिकूटम् द्विर्द्वाशकेनिर्धनत्वम् नवपञ्चमत्वेनिःपुत्रता षट्काष्टकेमरणंविपत्तिर्वा उभयसप्तमेतृतीयैकादशेचतुर्थदशमेचशुभं नक्षत्रैक्येचरणभेदेशुभम् अत्रराश्यैक्येतिशुभम् राशिभेदेपिकूटदोषोन नक्षत्रभेदेराश्यैक्येचशुभम् अत्रनाडीगणादिदोषोन चरणैक्यंषट्कोष्टकञ्चवर्ज्यम् द्विर्द्वादशकेनवपञ्चमेचमध्यमं शेषेशुभम् अत्रगुणाः सत्कूटेसप्त दुःकूटेग्रहमैत्रीसत्त्वेचत्वारः अन्यथाएकः चरणैक्येगुणाभावः अथनाडी अश्विन्यार्द्रापुनर्वसूत्तराफाल्गुनीहस्तज्येष्ठामूलशततारापूर्वाभाद्रपदेतिप्रथमनाडी भरणीमृग पुष्यपूर्वा फल्गुनीचित्रानुराधापूर्वाषाढाधनिष्ठोत्तराभाद्रपदेतिमध्यमनाडी कृत्तिकारोहिण्याश्लेषामघास्वातीविशाखोत्तराषाढाश्रवणरेवतीतिचरमनाडी अत्रनाड्यैक्येमृत्युः नाडीभेदेष्टौगुणाः नाड्यैकंसर्वथावर्ज्यं शूद्रादौपार्श्वैकनाडीद्वयंसङ्कटेशुभम् अत्रवर्णवश्यभकूटयोनिकूटानामल्पगुणत्वात्विवाहविघटकत्वाभावाच्चस्वरूपन्नोक्तम् अत्रसर्वगुणमेलनेनविंशतिगुणसम्भवेमध्यमं विंशत्यधिकगुणत्वेऽतिशुभं विंशत्यूनत्वेत्वशुभम् इतिनक्षत्रादिघटितविचारः अनन्यपूर्विकाङ्कान्तामसपिण्डांयवीयसीम्। अरोगिणीम्भ्रातृमतीमसमानार्षगोत्रजाम् १ इतियाज्ञवल्क्यायुक्तकन्याविशेषणेषुकान्तत्वनीरोगत्वभातृमत्वभिन्नविशेषणानामभावेइहपरत्रपातित्यात्तानि
प्रपञ्चयन्ते तत्रान्यपूर्विकाःपुरुषान्तरपूर्विकाः मनोदत्तावाचादत्ताग्निम्परिगतासप्तमम्पदन्तक्तागृहीतगर्भाप्रसूतेतिसप्तविधपुनर्भवास्तद्भिन्नामनन्यपूर्विकां सप्तपदीविधेःपूर्वमाद्यानान्तिसृणांसङ्कटेन्येनविवाहोभवति सप्तपदीविधौजातेबलाद्विवाहितापिनान्यत्रदेया असपिण्डां समानः एकः पिण्डःपिण्डदानक्रियामूलपुरुषशरीरंवायस्याःसासपिण्डातद्भिन्नाम्
तत्रलेपभाजश्चतुर्थायाःपित्राद्याःपिण्डभागिनः। पिण्डदःसप्तमस्तेषांसापिण्ड्यंसाप्तपौरुषम् १ इतिमात्स्योक्तेरेकस्याम्पिण्डदानक्रियायान्दातृत्वपिण्डभाक्त्वलेपभाक्वान्यतमसम्बन्धेनप्रवेशोनिर्वाप्यसापिण्ड्यमितिकेषाञ्चिन्मतम् अत्रस्त्रीणामपिपतिभिःसहकर्तृत्वात्सापिण्ड्यसिद्धिः मूलपुरुषैकशरीरावयवान्वयेनावयवसापिण्ड्यमित्यपरम्मतं यद्यपिभ्रातृपत्नीनाम्परस्परन्नैतत्सम्भवततथाप्याधारत्वेनैकशरीरान्वयः एकमूलपुरुषावयवानाम्पुत्रद्वारातास्वाधानादितिज्ञेयम् उभयत्रापिगयादौमित्रादेरपि पिण्डभाक्त्वादेकशरीरान्वयस्यसप्तमात्परेषुपरश्शतेष्वपिसवाच्चातिप्रसङ्गप्राप्तेः वध्वावरस्यवातातःकूटस्थादसप्तमः। पञ्चमीचेत्तयोर्मातातत्सापिण्ड्यन्निवर्त्तते १ इत्यादिवचनैर्निरासः मातृत्वपितृत्वादिसम्बन्धेसत्येवपञ्चमसप्तमपर्यन्तमेवेत्युभयनियमस्वीकारात् तथाचपितृद्वारकसापिण्ड्यविचारेसप्तमादूर्ध्वसापिण्ड्यनिवृत्तिः मातृद्वारकसापिण्ड्यविचारेतुपञ्चमादूर्ध्वन्तन्निवृत्तिरितिनिर्णयः
विष्णुर्मूलभूतः विष्णुर्मूलभूतः
कान्तिः २ गौरी २ दत्तः २ चैत्र २
३ हरः ३ सोमः ३ मैत्रः ३
४ मैत्रः ४
सुधीः ४ बुधः ४
५ शिवः ५ श्यामा ५ नर्मदा ५
६ ६ शिवः ६ कामः ६ मूहः ७ अच्युतः७
रमा ७ कविः ७ रतिः ८ कामः ८
तमयोरष्टमयोर्विवाहःपितृअत्रमारकव्योर्नविवाहः मण्डुकप्लुता
सापिण्ड्यानुवृत्तेः द्वारकला
विष्णुर्मूलभूतः विष्णुर्मूलभूतः
दत्तः २ चैत्रः २ दत्तः २ चैत्रः २
सोमः ३ मैत्रः ३ सोमः ३ मैत्रः ३
सुधीः ४ बुधः ४
४ बुधः ४
श्यामा ५ रतिः ५ श्यामा ५ शिवः ५
शिवः ६ गौरी ६ कान्तिः ६ हरः ६
अत्रगौरीशिवयोःषष्ठयोर्विवाहः मातृ अत्रकान्तिहरयोर्नविवाहः एकतोनिट-
द्वारकत्वात् त्तावपिअन्यतोऽनुवृत्तेः
विष्णोर्मूलात्कान्तिगौर्यौजातौताभ्यांसुधीहरौ। बुधमैत्रौचैत्रशिवौगणभूपौमृडाच्युतौ १ तज्जातयोरष्टमंयोर्विवाहोरतिकामयोः। विष्णोर्मूलाद्दत्तचैत्रौसोममैत्रौसुधीबुधौ २ ताभ्यांश्यामारतीतज्जशिवगौर्योःकरग्रहः। विष्णोर्मूलाद्दत्तचैत्रौसोममैत्रौसुधीबुधौ ३ ताभ्यांश्यामानर्मदाचशिवकामौरमाकवी। मण्डूकप्लुतिसापिण्ड्यंरमाकव्योर्विवाहहृत् ४ विष्णोर्मूलाद्दत्तचैत्रौसोममैत्रौसुधीबुधौ। श्यामाशिवौकान्तिहरौहरकान्तीनदम्पती ५ निवृत्तमध्येकतस्तदन्यतस्त्वनुवर्तते। दिङ्मात्रेणोदाहृतात्र सेयंसापिण्ड्यपद्धतिः ६ कूटस्थात्पञ्चम्योःकन्ययोःसन्ततौपितृद्वारकत्वात्सापिण्ड्यनिवृत्तिः पञ्चम्योःकन्ययोर्यौपुत्रौतयोःसन्ततौपितृद्वारकत्वात्सापिण्ड्यमनुवर्ततइतीदम्मण्डूकतिसापिण्ड्यम् पञ्चम्याःकन्यायाःपुत्रस्यषष्ठस्यकूटस्थात्पञ्चमादिःसपिण्डोनभवतितथापिद्वितीयसन्ततिपकौपञ्चमषष्ठादेःपितृद्वारकत्वादिनासापिण्ड्यसत्त्वादेकतोनिवृत्तावप्यन्यतोनुवृत्यापञ्चमषष्ठादिनापञ्चम्याःकन्यायाःसन्ततिर्नविवाह्या एवङ्कूटस्थमारभ्याष्टमादेःकूटस्थमारभ्यद्वितीयादेश्चैकतोनिवृत्तिपरतोनुवृन्योःसत्त्वमूह्यम् एवमाशौचविषयकसापिण्ड्येपिएकतोनुवृत्त्यादिकंयथासम्भवंसर्वमूह्यम् एवम्पितृद्वारकसापिण्ड्यंसप्तमादूर्ध्वन्निवर्ततेमातृद्वारकन्तुपञ्चमादूर्ध्वमितिमुख्यकल्पेनवर्जनीयानाङ्कन्यानांसङ्ख्याचेत्थंसम्पद्यते पितृकुलेषोडशाधिकद्विसाहस्री २०१६ मातृकुलेपञ्चोत्तरशतम् १०५ कुलद्वयेमेलनेनैकविंशत्युत्तरशताधिकसहस्रद्वयसङ्ख्या २१२१ कन्यावर्ज्याःसम्पद्यन्ते अत्रगणनाप्रकारस्तत्रमूलश्लोकास्तद्व्याख्याचकौस्तुभेस्पष्टाः बालानान्दुर्बोधतयानेहोच्यते तथाचमुख्यकल्पेनकुलद्वयेएतावत्यः वर्जनीयाएव नत्वनुरूल्पानुसरणेनसप्तमात्पञ्चमादर्वाग्विवाहःकार्यः पञ्चमेसप्तमेचैवयेषांवैवाहिकीक्रिया। क्रियापराअपिहितेपतिताःशूद्रताङ्गताः १ सप्तमात्पञ्चमाद्धीमान्यःकन्यामुद्वहेद्द्विजः। गुरुतल्पीसविज्ञेयःसगोत्राञ्चैवमुद्वहन् २ इत्यादिस्मृतिभ्यः यानितु चतुर्थीमुद्वहेत्कन्याञ्चतुर्थःपञ्चमोवरः। तृतीयांवाचतुर्थीवापक्षयोरुभयोरपि १ तेषुकानिचिन्निर्मूलानिकानिचि
दिषुसापिण्ड्यविषयतयावानेयानिइतिनिर्णयसिन्धुमतं कौस्तुभेतु उद्वहेत्सतमादूर्ध्वन्तदभावेतुसप्तमीम्। पञ्चमीन्तदभावेतुपितृपक्षेप्ययंविधिः १ सप्तमीञ्चतयाषष्ठीपञ्चमीञ्चतथैवच। एवमुद्वहयेत्कन्यान्नदोषःशाकटायनः २ तृतीयांवाचतुर्थीवापक्षयोरुभयोरपि। विवाहयेन्मनुःप्राहपाराशर्योयमोऽङ्गिराः ३ यस्तुदेशानुरूप्येणकुलमार्गेणचोद्वहेत्। नित्यंसव्यवहार्यःस्याद्वेदाञ्चैतत्प्रतीयते ४ इत्यादिवचनानाञ्चतुर्विंशतिमतषट्त्रिंशन्मतादिषूपलभ्यमानत्वात्सापिण्ड्यसङ्कोचेनविवाहस्यबहुदेशेषुदर्शनाच्चयेषाङ्कुलेदेशेचानुकल्पत्वेनसापिण्ड्यसङ्कोचःपरम्परयासमागतस्तेषांसापिण्ड्यसङ्कोचेनविवाहोनदोषाय स्वकुलदेशविरुद्धेनसापिण्ड्यसङ्कोचेनविवाहेदोषोभवत्येव जनपदधर्माग्रामधर्माश्चतान्विवाहेप्रतीयात् येनास्पपितरोयातायेनयाताःपितामहाः। तेनयायात्सताम्मार्गतेनगच्छन्नदुष्यति १ इत्यादिवाक्यैः स्वकुलदेशाचाराविरुद्धस्यैवशास्त्रस्यविवाहेनुसर्तव्यत्वात् एवम्मातुलकन्यापरिणयनेपि तृप्ताञ्जहुर्मातुलस्येवयोषाभागस्तेपैतृष्वसेयीवपामिवेतिमन्त्रलिङ्गैर्मातुलस्यसुतामूदामातृगोत्रान्तथैवच। समानप्रवराञ्चैवत्यक्त्वाचान्द्रायणञ्चरेत् १ इत्यादिस्मृतीनाम्बाधात्येषाङ्कुलेमातुलकन्यापरिणयःपरम्पराप्राप्तस्तैःसकार्यः गोत्रान्मातुःसपिण्डाच्चविवाहोगोवधस्तथाइतिमातुलकन्याविवाहस्यकलिवर्ज्यत्ववचनमपियेषाङ्कुलेदेशेमातुलकन्याविवाहोनास्तितत्परम् मातुलकन्यापरिणयनस्यानेकश्श्रुतिस्मृतिसिद्धत्वात् अतएवमातुलकन्योद्वाहिनांश्राद्धेनिमन्त्रणनिषेधोपिस्वकुलाचारादिविरोधेनतदुद्वाहिपरः उक्तविधसापिण्ड्यसङ्कोचेनविवाहङ्कुर्वतांशिष्टैःश्राद्धादौभोजनाद्याचारादित्यादिबहूपपादितम् परन्तुसापिण्ड्यसङ्कोचस्वीकारेपिकतिथीकन्याकतिथेनपुरुषेणविवाह्याकतिथेन नविवाह्येतिव्यवस्थानोपपादिता सापिण्ड्यदीपिकाकारादयोर्वाचीनास्तु चतुर्थीमुद्वहेत्कन्याञ्चतुर्थःपञ्चमोवरः। पाराशरमतेषष्ठीम्पञ्चमोतुपञ्चमीम् १ इत्यादिवचनानांसमूलत्वन्निश्चित्यअशक्तैःसङ्कटेसमाश्रयणीयस्यसापिण्ड्यसङ्कोचस्यव्यवस्थामूचुः तथाहि चतुर्थीकन्यापितृपक्षेमातृपक्षेचचतुर्थेनपञ्चमेनवापुंसाविवाह्या
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा