🕉️ 24 November 2026, Tuesday · 08:08:42 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 36/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

साप्ण्ड्यसङ्कोचव्यवस्था

द्वितीयतृतीयषष्ठाद्यैश्चतुर्थीनोद्वाह्या पराशरमतेपञ्चमःषष्ठीमुद्वहेत् द्वितीयतृतीयचतुर्थादिःषष्ठीं नोद्वहेत् पञ्चमःपञ्चमीन्नोद्वहेत मातृतःपितृतश्चापिषष्ठःषष्ठींसमुद्वहेत्। इतिवचनान्तरात्षष्ठेनापिषष्ठीविवाह्या पञ्चमषष्ठभिन्नैःषष्ठीनविवाह्येतिपर्यवसन्नं तथापितृपक्षेसप्तमीमातृपक्षेपञ्चमीचतृतीयाद्यैःसर्वैःपरिणेया पितृपक्षाच्चसप्तमीम्मातृपक्षात्तुपक्षीमितिव्यासवचनात् उद्वहेत्सप्तमादूर्ध्वन्तदभावेतुसप्तमीम्। पञ्चमीन्तदभावेतुपि-

सापिण्ड्यसङ्कोचेनविवाहः

तृपक्षेप्ययंविधिः। इतिचतुर्विंशतिमतोक्तेश्चपितृपक्षेपिपञ्चमीतृतीयाद्यैःपरिणेया तत्रापिमातृपक्षेपितृपक्षेपिपञ्चमेनपञ्चमीनोद्वाह्या पञ्चमोनतुपञ्चमीमीतिसर्वत्रनिषेधात् तृतीयांवाचतुर्थीवापक्षयोरुभयोरपीतिवचनात्तुतृतीयाविवाह्याप्राप्नोतितत्रव्यवस्थोच्यते मातृपक्षेतावत्तृतीयामातुलकन्यामातृष्वसृकन्यावासम्भवति पितृपक्षेतुतृतीयापितृव्यकन्यापितृष्वसृकन्यावा तत्रपितृव्यकन्यासगोत्रत्वात्त्याज्या पैतृष्वसेयीम्भगिनींस्त्रीयाम्मातुरेवच १ एतास्तिस्रस्तुभार्यार्थेनोपयच्छेतबुद्धिमान् १ इतिमनुक्तेः पितृष्वसृमातृष्वसृकन्येअपित्याज्ये पितृष्वसृकन्याम्मातुर्भगिनीम्मातृष्वसारम्मातुःस्वस्त्रीयां मातृष्वसृकन्यामेतास्तिस्रोनोद्वहेदितितदर्थात् मातुलकन्यैवतृतीयापूर्वोक्तरीत्याकुलपरम्परागतत्वेपरिणेया एवञ्चतृतीयापितृतीयेनैवमातुलकन्यैवपरिणेयानचतुर्थादिना केनापि केचित्सङ्कटेपितृष्वसृकन्यापरिणयनमाहुः तत्रदेशकुलाचाराद्व्यवस्थाज्ञातव्या अत्रायंसापिण्ड्यदीपिकादिसिद्धार्थसङ्ग्रहः तृतीयामातुलकन्यैवोद्वाह्या चतुर्थी चतुर्थपञ्चमाभ्यामेव पञ्चमीपञ्चमभिन्नैस्तृतीयाद्यैःसप्तमान्तैः षष्ठीपञ्चमषष्ठाभ्यामेव सप्तमीतृतीयाद्यैःसप्तमन्तैरिति अयंसापिण्ड्यसङ्कोचेनविवाहःसङ्कटेष्वशक्तेनकार्यः कन्यान्तरलाभेशक्तैर्नकार्यः गुरुतल्पादिदोषस्मृतेः सापिण्ड्यसङ्कोचवाक्यानामशक्तविषयवस्पस्पष्टत्वात् प्रभुःप्रथमकल्पस्ययोनुकल्पेनवर्तते। सनाप्नोतिफलञ्चेहेतिशक्तैरनुकल्पस्वीकारेदोषोक्तेः दत्तकसापिण्ड्यं दत्तकनिर्णयेप्रागेवोक्तम् अथसापत्नमातृकुलेसापिण्ड्यप्रकारंसुमन्तुराह पितृपत्न्यःसर्वामातरः तद्भ्रातरोमातुलाः

सापत्नमातृसापिण्ड्यविचारः

तद्भगिन्योमातृष्वसारः तद्दुहितरश्चभगिन्यः तदपत्यानिभागिनेयानि अन्यथासङ्करकारिणःस्युरिति अत्रलक्षणयासापत्नमातृकुलेचतुःपुरुषसापिण्ड्यंविवाहनिषेधायविधीयतइतिकेचित् अपरेतुविवाहमात्रविषयत्वेमानाभावादाशौचादिविषयकत्वस्यापिसम्भवात् यावद्वाचनिकम्प्रमाणमितिन्यायेनपरिगणितेष्वेवसापिण्ड्यमितिवदन्ति तथाचसुमन्तुवाक्येवाक्यभेदाश्रयणेनैवंवाक्यार्थाः पर्यवस्यन्ति पितृपत्न्यःसर्वामातरइतिप्रथमवाक्येसापत्नमातरिमुख्यमातृवत्सम्माननन्तद्वधेमातृवधप्रायश्चित्तन्तद्गमनेमातृगमनप्रायश्चित्तादिकञ्चातिदिश्यते नात्रातिक्रान्तविषयेदशाहाशौचातिदेशः त्रिरात्रविधिनाबाध्यत् तद्भ्रातरोमातुलाइत्यत्रमातुलत्वप्रयुक्तमाशौचादिकम्मातुलस्पस्वभगिनीसपत्न्याकन्योद्वाहनिषेधश्च अत्रमातुलत्वातिदेशेपिनतत्पुत्रादिषुमातुलपुत्रत्वाद्यतिदेशः तेनवन्धुत्रयत्वमयुक्तमाशौचन्न मातुलकन्यादौविवाहविधिनिषेधावपिन एवम्मातुलकन्यादौ पितुर्भगिनीत्वातिदेशाभावेनतत्पुत्रम्मत्यपिपितृष्वसृत्वाद्यतिदेशोनभवति तद्रनियमातृष्वसारहत्यत्राशौचंविवाहनिषेधश्च मातृष्वसपुत्रेबन्धुत्रयत्वञ्चम सापणमातृष्य

विरुद्धसम्बन्धनिषेधः

सृकन्याविवाहनिषेधस्तुविरुद्धसम्बन्धत्वादेववक्ष्यते तदपत्यानिभगिन्यइत्यात्राशौचं सम्माननादिकञ्च नात्रविवाहप्रसक्तिःसगोत्रत्वात् अत्रसापत्नमातुलसापत्नभ्रातृसापत्नमातृष्वसृसापत्नभगिनीनांस्वमातुलसोदरभ्रात्राद्यनन्तरन्तर्पणम्महालयादाबुद्देशोप्यतएववचनादावश्यकइतिभाति तदपत्यानिभागिनेइत्यत्राशौचंविवाहनिषेधश्च भागिनेयीत्वातिदेशेपितत्कन्यासुभागिनेयीकन्यात्वातिदेशोनयाबदुक्तम्प्रमाणमितिन्यायादितिदिक् क्वचित्सापिण्ड्याभावेपिवचनादविवाहः अविरुद्धसम्बन्धासुपयच्छेत दम्पत्योर्मिथःपितृमातृसाम्येविरुद्धसम्बन्धः यथाभार्यास्वसुर्दुहितापितृव्यपत्नीस्वसाचेतिपरिशिष्टोक्तेः बौधायनः मातुःसपत्न्याभगिनीन्तत्सुताञ्चविवर्जयेत्। पितृव्यपत्नीभगिनीन्तत्सुताञ्चविवर्जयेत् १ केचिज्ज्येष्ठभ्रातापितुःसमइत्युक्तेर्ज्येष्ठभ्रातृपत्न्याभगिनीमातृष्वसृतुल्यत्वान्नविवाहोत्याहुः यवीयसीं स्वापेक्षयावयसावपुषाचन्यूनामुद्वहेत् असमानार्षगोत्रजाम् आर्षप्रवरःस्वसमानेआर्षगोत्रेयस्यतज्जानभवतियाताम् असमानगोत्रामसमानप्रवराञ्चोद्वहेदित्यर्थः॥

57. सङ्क्षेपतोगोत्रप्रवरनिर्णयः

अथसङ्क्षेपतोगोत्रप्रवरनिर्णयः तत्रगोत्रलक्षणं विश्वामित्रोजमदग्निर्भरद्वाजोऽथगौतमः। अत्रिर्वसिष्ठःकश्यपइत्येतेसप्तऋषयः १ सप्तानामृषीणामागस्त्याष्टमानांयदपसन्त्यन्द्गोत्रमित्याचक्षते यद्यपिकेवलभार्गवेष्वार्ष्टिषेणादिषुकेवलाङ्गिरसेषुहारितादिषुचनैतल्लक्षणम्भृग्वङ्गिरसोरष्टऋषिष्वनन्तर्गतत्वात् तथाप्यत्रप्रवरैक्यादेवाविबाहः यद्यपिगोत्राणिअनन्तानि गोत्राणान्तुसहस्राणिप्रयुतान्यर्बुदानिच। इत्युक्तेस्तथापिऊनपञ्चाशदेवगोत्रभेदाः व्यावर्तकप्रवरभेदानान्तावतामेवदर्शनात् प्रवरलक्षणन्तुगोत्रवंशप्रवर्तकऋषीणांव्यावर्तकाऋषिविशेषाःप्रवराइत्येवसङ्क्षेपतोज्ञेयम् समानगोत्रत्वंसमानप्रवरत्वञ्चपृथक्पृथक्विवाहप्रतिबन्धकं तत्रप्रवरसाम्यन्द्विविधम् एकप्रवरसाम्यन्द्वित्रिप्रवरसाम्यञ्च तत्रभृग्वाङ्गिरोगणेतरेषुएकप्रवरसाम्यमपिविवाहप्रतिबन्धकं केवलभृगुगणेषुकेवलाङ्गिरोगणेषुचैकप्रवरसाम्यन्नविवाहबाधकं किन्तुत्रिप्रवरेषुद्विप्रवरसाम्यमेव पञ्चप्रवरेषुत्रिप्रवरसाम्यमेवचविवाहबाधकम् पञ्चानान्त्रिषुसामान्यादविवाहस्त्रिषुद्वयोः। भृग्वङ्गिरोगणेष्वेवंशेषेष्वेकोपिवारयेत् १ इत्यादिवचनात् जामदग्न्यभृगुगणेषुगौतमाङ्गिरसेषुभारद्वाजाङ्गिरसेषुचैकप्रवरसाम्येपिक्वचित्प्रवरसाम्याभावेपिचसगोत् त्वादेवाविवाहः गोत्राणाम्प्रवराणाञ्चगणनाप्रोच्यतेधुना। सङ्क्षेपात्सुखबोधाय भगवत्प्रीतयेपिच १ सप्तभृगवः। सप्तदशाङ्गिरसः। चत्वारोऽत्रयः। दशविश्वामित्राः। त्रयःकश्यपाः। चत्वारोवसिष्ठाः। चत्वारोगस्तयः। इत्येकोनपञ्चाशद्गणास्तथापिसर्वग्रन्थमतसङ्ग्रहेणाधिकास्तत्रतत्रवक्ष्यन्ते तत्रसप्तभृगुगणाः। वत्साः बिदाः एतौ जामदग्न्यौ आर्ष्टिषेणाः यस्काः मित्रयुवः वैन्याःशुनकाः एतेचपञ्चकेवलभृगवःएवंस-

भृगुगणाः

प्त। तत्र वत्साः मार्कण्डेयाः माण्डूकेयाःइत्यादयःशतद्वयाधिकावत्सगोत्रभेदाः एतेषाम्पञ्चप्रवराः भार्गवच्यावनाप्नवानौर्वजामदम्येति भार्गवौर्वजामदग्न्येति त्रयोवा भार्गवच्यावनाप्नवानेतित्रयोवा। बिदाः शैलाः अवटाःइत्यादयोविंशत्यधिकाबिदाः तेषाम्पञ्चप्रवराः भार्गवच्यावनाभवानौर्ववैदेति। भार्गवौर्वजामदग्न्येतिवा। आर्ष्टिषेणाः नैरृतयः याम्यायणाः इत्यादयोविंशत्यधिकार्ष्टिषेणाः एषाम्भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेतिपञ्च भार्गवार्ष्टिषेणानूपेतित्रयोवा एतेषान्त्रयाणांवत्सबिदार्ष्टिषेणानाम्परस्परमविवाहः द्वित्रिप्रवरसाम्यात् आद्ययोर्जामदग्न्यत्वेनसगोत्रत्वाच्च यद्यपित्रिप्रवरार्ष्टिषेणानांवत्सबिदैःसहनद्विप्रवरसाम्यन्नापिसगोत्रत्वं जामदग्न्ययत्वाभावात् तथापिपञ्चप्रवरपक्षगतमपित्रिप्रवरसाम्यंविवाहबाधकम् एवमग्रेपिज्ञेयं वात्स्यानाम्भार्गवच्यावनाप्नवानेतित्रयः। वत्सपुरोधसोर्भार्गवच्यावनाप्नवानवत्सपौरोधसेतिपञ्च। बैजमथितयोर्भार्गवच्यावनाप्नवानवैजमथितेतिपञ्च। एतेत्रयःक्वचित्एतेषाम्परस्परम्पूर्वोक्तैश्चत्रिभिर्नविवाहः त्रिप्रवरसाम्यात् यस्काः मौनाः मूकाः इत्यादयस्त्रिपञ्चाशदधिकायस्काः एषाम्भार्गववैतहव्यसावेतसेतित्रयः। मित्रयुवः रौष्ट्यायनाः सापिण्डिनाः इत्यादयस्त्रिंशदधिकामित्रयुवः तेषाम्भार्गववाध्र्यश्वदैवोदासेतित्रयः भार्गवच्यावनदैवोदासेतिवा वाध्र्यश्वेत्येकोवा। वैन्याः पार्थाः बाष्कलाःश्येताइत्येतेवेन्याः एषाम्भार्गववैन्यपार्थेतित्रयः। शुनकाः गार्त्समदाः यज्ञपतयः इत्यादयःसप्तदशाधिकाःशुनकाः एषांशौनकेत्येकः। गार्त्समदेतिवा। भार्गवगार्त्समदेतिद्वौवा। भार्गवशौनहोत्रगार्त्समदेतित्रयोवा। यस्कादीनाञ्चतुर्णांस्वस्वगणंहित्वापरस्परम्पूर्वैर्जामदग्न्यवत्सादिभिश्चसहविवाहोभवति एकप्रवरसाम्येपिद्वित्रिप्रवरसाम्याभावात् भृगुगणेषुएकप्रवरसाम्यस्यदूषकत्वाभावात् अजामदग्न्यत्वेनासगोत्रत्वात् मित्रयुवाम्पाक्षिकद्विप्रवरसाम्यात्त्रिप्रवरैर्वत्सादिभिःसहनविवाहइतिकेचित् तत्प्रवरपक्षग्राहिणामविवाहः पक्षान्तरग्राहिणाम्मित्रयूनांविवाहएवेत्यन्ये क्वचिदधिकङ्गणद्वयमुक्तं वेदविश्वज्योतिषाम्भार्गववेदवैश्वज्योतिषेतित्रयः शाठरमाठराणाम्भार्गवशाठरमाठरेतित्रयः अनयोःपरस्परं पूर्वैश्चसर्वैर्विवाहः इतिभृगुगणाः अथाङ्गिरसःतेत्रिविधाः गौतमाः भरद्वाजाः केवलाश्चेति

गौतमाङ्गिरसः

तत्रगौतमाङ्गिरसोदश आयास्या १ शारद्वताः २ कौमण्डाः ३ दीर्घतमसः ४ करेणुपालयः ५ वामदेवाः ६ औशनसाः ७ राहूगणाः ८ सोमराजकाः ९ बृहदुक्थाश्चेति १० तत्र आयास्याः श्रोणिवेधाः मूढरथाइसादयोष्टादशाधिकाआयास्याः तेषामाङ्गिरसायास्यगौतमेतित्रयः शारद्वताः अभिजिताः रौहिण्याइत्यादयः सप्तसधिकाःशारद्वतास्तेषामाङ्गिरसगौतमशारद्वतेतित्रयः कौमण्डाः मामन्थरेषणाः मासुराक्षाइत्यादयोदशाधिकाःकौमण्डा स्तैषामाङ्गिरसौतथ्यकाक्षीवतगौतमकौमण्डेतिपञ्च आङ्गिरसौतथ्यमौतमौशिक्षका

भारद्वाजाङ्गिरसः

क्षीयतेतिया आङ्गिरसायात्यौशिजगौतमकाक्षीवतेतिया आङ्गिरसौयिजकाक्षीबतेतित्रयोवा आशिरसौतथ्यकाक्षीवतेतिवा औतथ्यगौतमकौमण्डेतिवा अथदीर्घतम गौतमास्तेषामानिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेतिपञ्च आङ्गिरसौतथ्यदैर्घतमसेतित्रयोवा करेणुपालयः वास्तव्याः श्वेतीयाइत्यादयःसप्ताधिकाःकरेणुपालयस्तेषामाङ्गिरसगौतमकारेणुपालेतित्रयः वामदेवानामाङ्गिरसवामदेव्यगौतमेतित्रयः आङ्गिरसवामदेव्यबार्हदुक्थेतिवा औशनसाः दिश्याः प्रशस्ताः इत्यादिकानवाधिका औशनसास्तेषामाङ्गिरसगौतमौशनसेतित्रयः रहूगणानामाविरसराहूगणगौ-तमेतित्रयः सोमराजकानामाङ्गिरससौमराज्यगौतमेतित्रयः बृहदुक्थानामाङ्गिरसदुक्थगौतमेतित्रयः १० क्वचिद्रणद्वयमधिकम् उतथ्यानामाङ्गिरसौतथ्यगौतमेति राघुवानामाङ्गिरसराघुवगौतमेति गोतमानांसर्वेषामविवाहः सगोत्रत्वात्मायेणद्वित्रि-मवरसाम्याच्च अथभरद्वाजाः तेचत्वारः भरद्वाजाः गर्गाः ऋक्षाः कपयश्चेति भरद्वाजाः क्षाम्यायणाः देवाश्वइत्यादयः षष्ट्युत्तरशताधिकाभरद्वाजास्तेषा-माङ्गिरसवार्हस्पत्यभारद्वाजेतित्रयः गर्गाः साम्भरायणाः सखीनयः इत्यादयः पञ्चाश-दधिकागर्गास्तेषामाङ्गिरसबार्हस्पत्यभारद्वाजशैन्यगार्ग्यतिपञ्च आङ्गिरसशैन्यगार्ग्यतित्रयोवा अन्ययोर्व्यत्ययोवा भारद्वाजगार्ग्यशैन्येतिवा गर्गभेदानामाङ्गिरसतैत्तिरि-कापिभुवेति ऋक्षाः रौक्षायणाः कपिलाः इत्यादयोनवाधिकाऋक्षास्तेषामाङ्गिरसवार्हस्पत्यभारद्वाज वान्दनमातवचसेतिपञ्च आङ्गिरसवान्दनमातवचसेतित्रयोवा कपयः खस्तितरयःदण्डिनःइत्यादयः पञ्चविंशत्यधिकाःकपयस्तेषामाङ्गिरसामहय्यौरुक्षय्येतित्रयः आङ्गिरसामहीयवौरुक्षयसेत्या श्वलायनपाठः आत्मभुवामाङ्गिरसभारद्वाजबार्हस्पत्यवरात्मभ्रुवेतिपञ्च अयङ्गणः कचित् भरद्वाजानांसर्वेषाम्परस्परमविवाहः सगोत्रत्वात् प्रायेणद्वित्रिमवरसाम्याच्च ऋक्षान्तर्गतानाङ्कपिलानां विश्वामित्रैरप्यविवाहः इति भारद्वाजाङ्गिरसः

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬