निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथकेवलाङ्गिरसः तेचषट् हरिताः कुत्साः कण्वाः रथीतराः विष्णुवृद्धाः मुद्गलाश्चेति हरिताः सौभगाः नैय्यगवाइत्यादयो द्वात्रिंशदधिकाहरितस्तेषामाङ्गिरसाम्बरीषयौवनाश्वेति आद्योमान्धातावा कुत्सानामाङ्गिरसमान्धात्रकौत्सेतित्रयः कण्वाः औपमर्कटाः वाष्कलायनाः इत्यादयएकविंशत्यधिकाःकण्वास्तेषामाङ्गिरसाजमीढकण्वेतित्रयः आङ्गिरसघौरकाण्वेतिवा रथीतराःहस्तिदाःनैतिरक्षयः इत्यादयश्चतुर्दशाधिकारथीतरास्तेषामाङ्गिरसवैरूपरथीतरेतित्रयः आशिरसवैरूपपार्षदश्वेतिवा अष्टादंष्ट्रवैरूपपार्षदश्षेतिवा अन्त्ययोर्व्यत्ययोवा विष्णुवृद्धाः शठाः मरणाइत्यादयःपञ्चविंशत्यधिकाविष्णुवृद्धास्तेषामाङ्गिरसपौरुकुत्स्याशसदस्पवेतित्रयः मुद्गलाः सात्यमुग्रियःहिरण्यस्तम्बयः इत्यादिकाअष्टादशाधिकास्तेषामाङ्गिरसमार्म्याश्वमौद्गल्येतित्रयः आद्यस्तार्क्ष्योवा आङ्गिरसतार्क्ष्यमौद्गल्ये-
तिवा एषांषण्णाङ्केवलाङ्गिरसानांस्वस्वगणंहित्वापरस्परम्पूर्वैश्चसर्वैर्विवाहोभवति अङ्गिरसोगस्त्याष्टमसप्तर्षिभिन्नत्वेनतदपत्यानांसगोत्रत्वाभावात् द्वित्रिप्रवरसाम्याभावाच्च हरितकुत्सयोस्तुनविवाहः पाक्षिकद्विप्रवरसाम्यात् अथअत्रयः तेचत्वारः अत्रयः गविष्ठिराः वाद्गुतकाः मुद्गलाश्चेति अत्रयो भूरयःछान्दयइत्यादयश्चतुर्नवत्यधिकाअत्रयस्तेषामात्रेयार्चनानसश्यावाश्वेतित्रयः १ गविष्ठिराः दक्षयः भलन्दनाइत्यादयश्चतुर्विंशत्यधिकागविष्ठिरास्तेषामात्रेयार्चनानसगाविष्ठिरेतित्रयः आत्रेयगाविष्ठिरपौर्वातिथेतिवा २ वाद्भुतकानामात्रेयार्चनानसवाद्भुतकेतित्रयः ३ मुद्गलाः शालिसन्धयः अर्णवाः इत्यादयोदशावरामुद्गलास्तेषामात्रेयार्चनानसपौर्वातिथेतित्रयः ४ क्वचित्अतिथयोवामरथ्याःसुमङ्गलाबीजवापाधनञ्जयाश्चेतिपञ्चगणाअधिकाः तत्राद्यचतुर्णामात्रेयार्चनानसातिथेतित्रयः आत्रेयार्चनानसगाविष्ठिरेतिवा सुमङ्गलानामत्रिसुमङ्गलश्यावाश्वेतिवा धनञ्जयानामात्रेयार्चनानसधानञ्जयेति वालेयाः कौन्द्रेयाः शौभ्रेयाः वामरथ्याःइत्यादयःअत्रेःपुत्रिकापुत्रास्तेषामात्रेयवामरथ्यपौत्रिकेतित्रयः अत्रीणांसर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च अत्रेःपुत्रिकापुत्राणां वामरथ्यादीनाञ्चवसिष्ठविश्वामित्राभ्यामप्यविवाहः इत्यत्रयः अथविश्वामित्राः
तेदश कुशिकाः लोहिताः रौक्षकाः कामकायनाः अजाः कताः धनञ्जयाः अघमर्षणाः पूरणाः इन्द्रकौशिकाश्चेति कुशिकाः पर्णजङ्घाः वारक्याइत्यादयःसप्तत्यधिकाःकुशिकास्तेषांवैश्वामित्रदेवदातौदलेतित्रयः १ लोहिताःकुडक्याश्चाक्रवर्णायनाइत्यादयःपञ्चाधिकालोहिताः रोहिताइतिकेचित् तेषांवैश्वामित्राष्टकलौहितेतित्रयः अन्त्ययोर्व्यत्ययोवा वैश्वामित्रमाधुच्छन्दसाष्टकेतित्रा विश्वामित्राष्टकेतिद्वौवा २ रौक्षकाणांवैश्वामित्रगाथिनरैवणेतित्रयः वैश्वामित्ररौक्षकरैवणेतिवा एतेरेवणावा ३ कामकायनाः देवश्रवसः देवतरसाइत्यादयःपञ्चावराःकामकायनाः श्रौमतावा तेषांवैश्वामित्रदेवश्रवसदैवतरसेतित्रयः ४ अजानांवैश्वामित्रमाधुच्छन्दसाजेतित्रयः ५ कताः औदुम्बरयः शैशिरयःइत्यादयोविंशत्यधिकाः कतास्तेषांवैश्वामित्रकात्यात्कीलेतित्रयः ६ धनञ्जयाः पार्थिवाः बन्धुलाःइत्यादयः सप्तावराधनञ्जयास्तेषांवैश्वामित्रमाधुच्छन्दसधानञ्जय्येतित्रयः वैश्वामित्रमाधुच्छन्दसाघमर्षणतिवा ७ अघमर्षणानांवैश्वामित्राघमर्षणकौशिकेतित्रयः ८ पूरणानांवैश्वामित्रपूरणेतिद्वौ वैश्वामित्रदेवरातपौरणेतिवा ९ इन्द्रकौशिकानांवैश्वामित्रेन्द्रकौशिकेतिद्वौ १० क्वचिदन्यैप्येकादशोक्ताः आश्मरथ्याः १ साहुलाः २ गाथिनाः ३ वैणवाः ४ हिरण्यरेतसः ५ सुवर्णरेतसः ६ कपोतरेतसः ७ शालङ्कायनाः ८घुतकौशिकाः ९ कथकाः १० रौहिणाइति ११ आश्मरध्यानांवैश्वामित्राश्मरथ्यवाधुलेतित्रयः १ साण्डुलानांवैश्वामित्रसाडुलमाहुलेतित्रयः२गाथिनानवैश्वामित्रगायिनरैवणेतित्रयः३
वैणुवेतिकचित्पाठः एतेएवरेणवइतिउदवेणवइतिचोच्यन्ते ३ वैणवानांवैश्वामित्रगाधिनवैणवेति ४ हिरण्यरेतसांवैश्वामित्रहैरण्यरेतसेतिद्वौ ५ सुवर्णरेतसांवैश्वामित्रसौवर्णरेतसेतिद्वौ ६ कपोतरेतसांवैश्वामित्रकपोतरेतसेतिद्वौ ७ शालङ्कायनानां वैश्वामित्रशालङ्कायनकौशिकेतित्रयःएतेएवकौशिकाइतिजह्नुवइतिचोच्यन्ते ८ घृतकौशिकानांवैश्वामित्रघृतकौशिकेतिद्वौ ९ कथकानांवैश्वामित्रकायकेति १० रौहिणानांवैश्वामित्रमाधुच्छन्दसरौहिणेतित्रयः ११ वैश्वामित्रगणानांसर्वेषाम्परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च कुशिकानान्देवरातप्रवरसाम्येनदेवराताद्भेदानिर्णयाद्वक्ष्यमाणदेवरातवदेवजामदग्न्यैरप्यविवाहइतिभाति धनञ्जयानांविश्वामित्रैरत्रिभिश्चाविवाहः कतानाम्भरद्वाजैर्विश्वामित्रैश्चाविवाहः द्विगोत्रत्वात् इतिविश्वामित्राः अथ कश्यपाः तेत्रयः निध्रुवाः रेभाः शण्डिलाश्चेति तत्र निध्रुवाः कश्यपाः अष्टाङ्गिरसः इत्यादयश्चत्वारिंशदधिकशतावरानिध्रुवास्तेषाङ्काश्यपावत्सारनैध्रुवेतित्रयः निर्णयसिन्धौतुनिध्रुवगणोत्तरङ्कश्यपगणमुक्त्वाकश्यपानाङ्काश्यपावत्सारासितेतिहिप्रवरत्रयमुक्तम् अत्रशिष्टाचारोपिदृश्यते १ रेभाणाङ्काश्यपावत्साररैभ्येतित्रयः २ शण्डिलाः कोहलाः उदमेधाइत्यादयः पष्ट्यवराः शण्डिलास्तेषाङ्काश्यपावत्सारशाण्डिल्येतित्रयः अन्त्यस्थानेदेवलोवाअसितोवा काश्यपासितदैवलेतिवा अन्त्ययोर्व्यत्ययोवा देवलासितेतिद्वौवा एषाङ्कश्यपानाम्परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च अथवसिष्ठाः तेचत्वारः वसिष्ठाः १ कुण्डिनाः २ उपमन्यवः ३ पराशराश्च ४ वसिष्ठा वैतालकवयः
रकयइत्यादयःषष्ठ्यधिकाःवसिष्ठास्तेषांवासिष्ठेन्द्रप्रमदाभरद्वस्वितित्रयः वासिष्ठेत्येकोवा १ कुण्डिनाः लोहितायनाः गुग्गुलयः इत्यादयःपञ्चविंशत्यवराःकुण्डिनास्तेषांवासिष्ठमैत्रावरुणकौण्डिन्येतित्रयः २ उपमन्यवः औदलयः माण्डलेखयइत्यादयःसप्तत्यवराःउपमन्यवस्तेषांवासिष्ठेन्द्रप्रमदाभरद्वस्वितित्रयः आभरद्वसव्न्येतिपाठान्तरं वासिष्ठाभरद्वस्विन्द्रप्रमदेतिवा आद्ययोर्व्यत्ययोवा ३ पराशराः काण्डूशयाः वाजयइत्यादयःसप्तचत्वारिंशदवराःपराशरास्तेषांवासिष्ठशाक्त्यपाराशर्येतित्रयः ४ एषांवसिष्ठानाम्परस्परमविवाहःइतिवसिष्ठाः अथागस्त्याः तेदश इध्मवाहाः १ साम्भवाहाः २ सोमवाहा३ यज्ञवाहाः ४ दर्भवाहाः ५. सारवाहाः ६ अगस्तयः ७ पूर्णमासाः ८ हिमोदकाः ९ पाणिकाश्चेति
१० इध्मम्बाहाः विशालाद्याः स्फालायनाःइत्यादयःपञ्चाशदधिकाइध्मवाहास्तेषामागस्त्यदार्ढ्यच्युतेध्मवाहेतित्रयः आगस्त्येत्येकोवा १ साम्भवाहानामागस्त्यदार्ढ्यच्युतसाम्भवाहेतित्रयः २ सोमवाहानांसोमवाहोन्त्यः आद्यौपूर्वोक्तावेव ३ एवंयज्ञहानांयज्ञवाहोन्स्यः ४ दर्भवाहानान्दर्भवाहोन्त्यः ५ सारवाहानांसारवाहो-
न्त्यः ६ अगस्तीनामागस्त्यमाहेन्द्रमायोभवेति ७ पूर्णमासानामागस्त्यपौर्णमासपारणेतित्रयः ८ हिमोदकानामागस्त्यहैमवर्चिहैमोदकेतित्रयः ९ पाणिकानामागस्त्यपैनायकपाणिकेतित्रयः १० अगस्तीनांसर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च इत्यगस्तयः अथद्विगोत्राः तत्रभारद्वाजाच्छुङ्गात्वैश्वामित्रस्यशैशिरेःक्षेत्रेजातःशौङ्गशैशिरिर्नामऋषिः तस्यगोत्रलक्षणाक्रान्तत्वाद्गोत्रत्वं तद्गोत्राणामाङ्गिरसबार्हस्पत्यभारद्वाजशौङ्गशैशिरेतिपञ्च आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेतिवा आङ्गिरसकात्यात्कीलोतत्रयोवा आद्योभारद्वाजोवा एषांसर्वभरद्वाजैःसर्वैविश्वामित्रैश्वाविवाहः १ सङ्कृतयः पूतिमाषाः तण्डयइत्यादयोष्टाविंशत्यवराःसङ्कृतयस्तेषामाङ्गिरसगौरिवीतिसाङ्कृत्येतित्रयः शाक्त्यगौरिवीतिसाङ्कृत्येतिवा अन्त्ययोर्व्यत्ययोवा एषांस्वगणस्थैःपूतिमाषादिभिःसर्ववसिष्ठगणैश्चाहर्वसिष्ठसञ्ज्ञकवक्ष्यमाणलौगाक्षिभिश्वाविवाहः केवलाङ्गिरोगणैस्तुविवाहोभवत्येव आङ्गिरसत्वेपिसगोत्रत्वाभावात्द्वित्रिप्रवरसाम्याभावाच्च केचिद्भारद्वाजाङ्गिरसत्वमाश्रित्यभारद्वाजशौङ्गशैशिरैःसहाविवाहमाहुः तन्न भारद्वाजत्वेदृढप्रमाणाभावात् प्रयोगपारिजातेकाश्यपैःसहैषामविवाहइत्युक्तन्तत्रहेतुश्चिन्त्यइतिकौस्तुभे २ लौगाक्षयः दार्भायणाः इत्यादयोष्टत्रिंशदधिकालौगाक्षयस्तेषाङ्काश्यपावत्सारवासिष्ठेतित्रयः काश्यपावत्सारासितेतिवा एते अहर्वसिष्ठाःनक्तङ्कश्यपाः दिनकर्मणिवासिष्ठत्वप्रयुक्तकार्यभाजः रात्रिकर्मणिकाश्यपत्वप्रयुक्तकार्यभाजइत्यर्थः एतेषांसर्वैःकाश्यपैःसर्वैश्चवसिष्ठैःसङ्कृतिभिश्चाविवाहः ३ अथस्मृत्यर्थसाराद्युक्ताद्विगोत्राः देवरातानांवैश्वामित्रदेवरातौदलेतित्रयः एतेषां सर्वैर्जामदग्न्यैर्विश्वामित्रैश्चाविवाहः १ धनञ्जयानांवैश्वामित्रमाधुच्छन्दसधानञ्जय्येतित्रयः एषांसर्वैविश्वामित्रैरत्रिभिश्चाविवाहः अयंविश्वामित्रगणेप्रागुक्तः २ जातूकर्ण्यानांवासिष्ठात्रेयजातूकर्ण्येति एषांवसिष्ठैरत्रिभिश्चाविवाहः अयंवसिष्ठगणेसिन्धावुक्तः ३ पूर्वमत्रिगणेषूक्तानांवामरथ्यादीनामत्रिपुत्रिकापुत्राणाञ्चवसिष्ठात्रिभ्यामविवाहः अत्रिविश्वामित्राभ्यामितिकेचित् ४ पूर्वभरद्वाजगणस्थऋक्षान्तर्गणत्वेनोक्तानाङ्कपिलानामाङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेतिपञ्चप्रवराणांविश्वामित्रभरद्वाजाभ्यामविवाहः ५ पूर्वंविश्वामित्रेषूक्तानाङ्कतानांवैश्वामित्रकात्यात्कीलेतित्रिप्रवराणांविश्वामित्रभरद्वाजाभ्यामविवाहः ६ अनेनैवन्यायेनपरगोत्रोत्पन्नदत्तकादीनामिदानीन्तनानामपिद्विगोत्रत्वात्जनकप्रतिग्रहीतृपित्रोर्द्वयोरपिसगोत्रैःसहअविवाहोज्ञेयः
नात्रपुरुषसङ्ख्या तेनशतपुरुषोत्तरमपिद्विगोत्रत्वन्नापैति क्षत्रियवैश्यौ तुपुरोहितगोत्रप्रवरावितिसर्वसिद्धान्तः अथस्वगोत्राज्ञानेउपनयने यआचार्यस्तद्गोत्रप्रवरैरेवकर्माणिविवाहाविवाहौचेति आचार्यगोत्राज्ञानेतु दत्त्वात्मानन्तुकस्मैचित्तद्गोत्रप्रवरोभवेत् ॥
सर्वेषांसुखबोधायास्मिन्नेवग्रन्थे प्रोक्तानाङ्गोत्रसहितप्रवराणां कोष्टकम्प्रदर्श्यते॥ तत्र एककोष्टकस्थितानाम्परस्परंविवाहोनिषिद्धः सगोत्रत्वसप्रवरत्वाभ्यां क्वचिदेकैकस्मादपि॥भिन्नकोष्टकस्थितानांविवाहोभवति। क्वचिदन्यकोष्टकस्थितानामपि विवाहोनिषिद्धः तत्सूचनाटिप्पण्यांयथामत्युक्ता॥ अत्रप्रदर्शितानांवत्सादीनामन्तर्गतागणाबहवः सन्ति तेषाम्प्रदर्शितातिरिक्ताः प्रवरानभवन्तीति बोध्यम्॥
· · · गोत्राणि। · प्रवराः। · · वत्साः… … … · एषां भार्गवच्यावनाप्नवानौर्वजामदग्न्येति। भार्गवौर्वजामदग्न्येतिवा। भार्गवच्यावनाप्नवानेतिवा · · विदा… … … · एषां भार्गवच्यावनाप्नवानौर्ववैदेति। भार्गवौर्वजामदग्न्यतिवा · · आर्ष्टिषेणा… … · एषां भार्गवच्यावनाप्नवानार्ष्टिषेणानुपेति। भार्गवाणानूपेतिवा · · वात्स्याः❋… … · एषां भार्गवच्यावनाप्नवानेति त्रयः · · वत्सपुरोधसौ❋… … · अनयोः भार्गवच्यावनाप्नवानवात्स्यपौरोधसेति पञ्च · · बैजमथितौ❋… … · अनयोः भार्गवच्यावनाप्नवानवैजमथितेति पञ्च · · यस्काः · एषां भार्गववैतहव्यसावेतसेति त्रयः · · मित्रयुवः… · एषां भार्गववाध्र्यश्वदैवोदासेतित्रयः। भार्गवच्यावनदैवोदासेतिवा। वाध्र्यश्वेत्येकोवा · · वैन्याः · एषां भार्गववैन्यपार्थेतित्रयः · · शुनकाः… … · एषां शौनकेत्येकः। गार्त्समदेतिवा। भार्गवगार्त्समदेतिद्वौवा। भार्गवशौनहोत्रगार्त्समदेतित्रयोवा · · वेदविश्वज्योतिषः❋ · एषां भार्गववेदवैश्वज्योतिषेतित्रयः · · शाहरमाठराः❋… · एषां भार्गवशाठरमाटरेतित्रयः
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा