🕉️ 24 November 2026, Tuesday · 08:08:59 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 39/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

63. प्रतिकूलविचारः

अथप्रतिकूलविचारः विवाहनिश्चयोत्तरंवरस्यकन्यायावासगोत्रत्रिपुरुषात्मककुलेकस्यचिन्मरणेप्रतिकूलदोषः विवाहनिश्चयश्चवैदिकोलौकिकोवाग्राह्यः तत्रवैदिकोषाग्दानाख्यंविधिनाकृतोमुख्यः लौकिकोलग्नतिथिनिश्चयादिर्वरवध्वोःशुल्कमापावन्धपूगीफलदानादिश्च सगोत्रत्रिपुरुषेत्युक्तयामातामहकुलादिव्यावृत्तिः त्याचस्तत्पूर्वपत्रीवरमातापितरौवरपितामहपितामयाबनूढापितृष्वसाचेतिपूर्वत्रिरुपी वर–

स्तस्यभ्रातापपुत्रानूढकन्यासहितोवरस्यानूढाभगिनीवरस्यस्तुपुत्रौअनुढाकन्याचपौत्रस्तद्भार्याचानूढापौत्रीचेतिपरत्रिपुरुषी पितृव्यतत्पत्न्यौपितृव्यपुत्रतत्पत्न्यावनूढापितृव्यकन्याचेतिसन्तानभेदेत्रिपुरुषीचेतिसगोत्रत्रिपुरुषीपुरुषपरिगणना एतेषामन्यतममरणेप्रतिकूलमितिपर्यवसितोर्थः अत्रभ्रातापुत्रपौत्रादिश्चानुपनीतोपित्रिवर्षाधिकवयाःग्रायः एवमनूढभगिन्यादेरपित्रिवर्षाधिकत्वंयुक्तम्भाति एवंवधूकुलेप्यूह्यम् एवमेवमण्डनमुण्डनादावपित्रिपुरुषगणनोह्या अत्रविशेषः पितामातापितामहः पितामहीपितृव्यःपूर्वपत्नीपूर्वस्त्रियाःपुत्रोभ्रातानूढाभगिनीचैतेषाम्मरणेविशेषतःप्रतिकुलदोषान्नैवकर्तव्योविवाहः एतदन्यत्रिपुरुषसपिण्डमरणेशान्त्यादिनादोषम्परिर्हृत्यविवाहःकार्यः सङ्कटेतुपित्रादिमरणेपिकालप्रतीक्षाशान्तिभ्यान्दोषन्निर्हृत्यविवाहःकार्यः तत्रव्यवस्था निश्चयोत्तरम्मातापित्रोर्द्वयोरपिमरणेकालप्रतीक्षाशान्तिभ्यामपिदोषशान्त्याभावान्नकार्योविवाहः मातापित्रोरेकैकमरणेतुशान्त्यादिनाविवाहः तत्र पितुरब्दमिहाशौचन्तदर्धम्मातुरेवच। मासत्रयन्तुभार्यायास्तदर्धम्भ्रातृपुत्रयोः १ अन्येषान्तुसपिण्डानामाशौचम्माससम्मितम्। तदन्तेशान्तिकङ्कृत्वाततोलग्नंविधीयते २ प्रतिकूलेनकर्तव्यंलग्नंयावदृतुत्रयम्। प्रतिकूलेसपिण्डस्यमासमेकंविवर्जयेत् ३ इत्यादिवाक्याश्रयेणव्यवस्थोच्यते अत्राशौचपदेनप्रतिकूलकृतंविवाहानधिकारमात्रङ्कालप्रतीक्षार्थमुच्यते अतःपितृमरणेवर्षोत्तरंविनायकशान्तिङ्कृत्वासङ्कटेविवाहःकार्यः अतिसङ्कटेषण्मासोत्तरंविनायकशान्तिंश्रीपूजनादिशान्तिञ्चकृत्वाविवाहः ततोप्यतिसङ्कटेमासोत्तरंशान्तिद्वयान्तेविवाहइतिसङ्कटतारतम्येनपक्षत्रयम् मातुर्मरणेषण्मासान्तेविनायकशान्त्याविवाहः अतिसङ्कटेमासान्तेशान्तिद्वयङ्कृत्वोद्वाहः यत्तु प्रमीतौपितरौयस्यदेहस्तस्पाशुचिर्भवेत्। नदैवन्नापिवापित्र्यंयावत्पूर्णानवत्सरः १ इतिपित्रोर्मृतौवर्षपर्यन्तंसर्वशुभकर्मनिषेधवचनन्तत्प्राङ्निश्चयात्पित्रोर्मृतौसङ्कटाभावेवाज्ञेयम् भार्यामरणेमासत्रयान्तेमासान्तेवाश्रीपूजनादिशान्तिः भ्रातृमरणेसार्धमासान्तेमासान्तेवाविनायकशान्तिः पुत्रमृतौसार्धमासम्मासंवाप्रतीक्ष्यश्रीपूजनादिशान्तिः पितृव्यमरणेमासान्तेविनायकशान्तिः पितामह्याअनूढभगिन्याश्चमरणेमासान्तेश्रीपूजनादिशान्तिः एतदन्यत्रिपुरुषसपिण्डमरणेमासान्तेश्रीपूजनादिशान्तिः ततोविवाहः गुणवतरमातुर्मृतौषण्मासेनमनःखेदानपगमेवर्षप्रतीक्षा एवङ्गुणवत्तरभार्यायाःषण्मासपर्यन्तम्प्रतीक्षा ज्योतिःप्रकाशेतु अतिसङ्कटवशेनमात्रादिमरणेमासाधिकप्रतीक्षाया असम्भवेमासमध्येपिदशाहोत्तरङ्कञ्चित्कालम्प्रतीक्ष्योक्तव्यवस्थयाविनायकशान्तिश्रीपूजनादिशान्तिचकृत्वागान्दत्त्वापुनर्वाग्दानादिचरेदित्युक्तं जनादिशान्तिञ्चकृत्वागान्दपुनर्वाग्दानादिचरेदित्युक्तं सर्वोप्ययमपवादः सङ्कटे प्रतास्तम्मचैर्योज्यः अल्पसङ्कटविषयेमहासङ्कटविषयकविधिकथनेषक्तुःकर्तुश्चदो-

नतुक्तदिदपि प्रतिकुले पूर्वाशौचादिनिमित्तेननिवृत्ताशौचस्यपि सद्योविवाहेप्रवृत्तिरुचिता

षएव दुर्भिक्षराष्ट्रभङ्गादिभयेपित्रोर्मरणाशङ्कायाञ्चनप्रतिकूलं दीर्घरोगिदूरदेशस्यविरक्तानाङ्कन्यायाःप्रौढत्वेचप्रतिकूलदोषोनेत्यपवादः श्रीपूजनादिशान्तिश्चश्रियेजातइतिश्रियम्इदंविष्णुरितिविष्णुङ्गौरीर्भिमायेतिगौरीन्त्र्यम्बकमितिरुद्रम्परम्मृत्योरितियमं चसम्पूज्याष्टोत्तरशततिलाज्यञ्जुहुयात् भूःस्वाहामृत्युर्नश्यतांस्नुषायैसुखंवर्धतांस्वाहेतिततोहोमंसमाप्याथगोद्वयन्दक्षिणाभवेदितिकौस्तुभेद्रष्टव्या इतिप्रतिकूलविचारः॥

64. आन्त्यकर्माभावप्रतिबन्धनिर्णयः

अथान्त्यकर्माभावप्रतिबन्धनिर्णयः प्रेतकर्माण्यनिर्वर्त्यचरेन्नाभ्युदयक्रियाम्। आचतुर्थन्ततःपुंसिपञ्चमेशुभदम्भवेत् १ अत्रप्रेतकर्मपदेनसपिण्डीकरणात्पूर्वभाविकर्माणिसपिण्डीकरणञ्चसपिण्डीकरणोत्तरम्पार्वणविधिनोक्तानिमासिकानिचोच्यन्ते सपिण्डीकरणादर्वागपकृष्यकृतान्यपि। पुनरप्यपकृष्यन्तेवृद्ध्युत्तरनिषेधनात् १ इत्यनुमासिकानामप्यपकर्षोक्तेः अभ्युदयपदेननान्दीश्राद्धयुक्तङ्कर्ममात्रङ्ग्राह्यं कैश्चिद्विवाहाद्येंवग्राह्यमित्युक्तम् आचतुर्थमितिनान्दीश्राद्धकर्तारम्पुरुषमारभ्यजनकचतुःपुरुषीजन्यचतुःपुरुषीसन्तानभेदेचचतुःपुरुषीसगोत्रागृह्यते तथाचनान्दीश्राद्धकर्तुःपितृपितामहप्रपितामहाःपत्नीसहिताः कर्तुर्भार्यापुत्रपौत्रप्रपौत्रास्तद्भार्याश्चभ्रातातत्पुत्रपौत्रास्तद्भार्याःपितृव्यतत्पुत्रपौत्रास्तद्भार्याश्चप्रपितामहस्यपुत्रपौत्रप्रपौत्रास्तद्भार्याश्चैतेषाम्मृतानामनुमासिकान्तप्रेतकर्माकरणेमङ्गलन्नकार्यमित्यर्थःनान्दीश्राद्धकर्ताऽत्रमुख्यएवग्राह्योनतुमातुलादिर्गैणः मृतपितृकस्योपनयनादौसंस्कार्यमारभ्यैवचतुःपुरुषीगणना मातामहादेर्भिन्नगोत्रत्वेपिनान्दीश्राद्धदेवतात्वात्प्रेतकर्माभावेमङ्गलन्नभवति मातामह्यादेःस्वातन्त्र्येणदेवतात्वाभावात्दशाहान्सकर्माभावेपिमङ्गलप्रतिबन्धोनास्ति इसन्त्यकर्माभावनिमित्तकमङ्गलप्रतिबन्धनिर्णयः॥

65. चतुर्थीकर्ममध्येदर्शादिनिर्णयः

अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः मौञ्जीविवाहयोर्नान्दीश्राद्धमारभ्यमण्डपोद्वासनपर्यन्तम्मध्येदर्शदिनंयथानपतेत्तथाकार्यं दर्शान्यत्पित्रोःक्षयाहादिश्राद्धदिनंयदिज्ञानादज्ञानाद्वापततितदात्रिपुरुषसपिण्डैर्विवाहादिमङ्गलसमाप्त्युत्तरंश्राद्धङ्कार्यम् एवञ्चदर्शान्यश्राद्धस्यैवस्वरूपतोविवाहमध्येनिषेधः नतुदर्शवच्छ्राद्धरहितस्यापिश्राद्धतिथिमात्रस्य वृत्तेविवाहेपरतस्तुकुर्याच्छ्राद्धमित्याद्युक्तेः एतेनसङ्क्रान्तिमन्वाद्यष्टकादिदिनानांश्राद्धदिनत्वाद्दर्शवन्मध्येपातोनिषिद्धइतिशङ्कानिरस्ता तेनषण्णवतिश्राद्धकर्तृभिःसपिण्डैर्मध्यपतितमन्वादेःप्रायश्चित्तादिनासम्पत्तिःसम्पाद्या इतिचतुर्थीकर्ममध्येदर्शादिनिर्णयः॥

66. विवाहादौरजोदोषसूतकनिर्णयः

अथविवाहादौरजोदोषसूतकनिर्णयः प्रारम्भात्प्रागारम्भोत्तरंवामातुःपितृच्यादेःकर्त्रन्तरस्यपत्न्यावारजोदोषेयद्वक्तव्यन्तद्द्व्रतबन्धप्रकरणेविस्तरेणोक्तन्ततएषह्नेरजोदोषजननाशौचादिसम्भावनायान्नान्दीश्रा

द्वाविंशत्यहर्यज्ञेविवाहेदशवासराः। त्रिषट्चौलोपनयनेमान्दीश्राद्धविधीयते १ दशतिक्रमेपुनर्नान्दीश्राद्धमित्यर्यात्सिद्धं नान्दीश्राद्धोत्तरंसूतकमृतकयोःप्राप्तौन विवाहादिप्रतिबन्धः विवाहव्रतयज्ञेषुश्राद्धेहोमेर्चनेजपे। आरब्धेसूतकन्नस्यान्दनारब्धेतुस्तकम् १ प्रारम्भोवरणंयज्ञेसङ्कल्पोव्रतसत्रयोः। नान्दीमुखंविवाहादौश्राद्धेपाकपरिक्रिया २ इत्युक्तेःइदंसन्निहितमुहूर्तान्तराभावादिसङ्कटेएवज्ञेयं सङ्कटाभावेतु नान्दीश्राद्धेजातेपिसूतकान्तेमुहूर्तान्तरेएवमङ्गलं सर्वोप्याशौचापवादोऽनन्यगतिकत्वे आर्तैचज्ञेयइतिसिन्धूक्तेः तेनव्रतेसङ्कल्पोत्तरमाशौचेपिविप्रद्वारैवपूजादि यज्ञादौमधुपर्कविधिनावरणोत्तरमपिऋत्विगन्तरालाभादिकेऽनन्यगतौसङ्कटेएवचमधुपर्कविधिनावृतस्याशौचाभावः एवञ्जपहोमादावप्यूह्यं श्राद्धेपाकपरिक्रिया पाकप्रोक्षणम् एतदप्यार्तिसत्त्वे महासङ्कटेप्रारम्भात्प्रागपिसूतकप्राप्तौकुश्माण्डमन्त्रैर्घृतहोमङ्कृत्वापयस्विनीङ्गान्दत्त्वापञ्चगव्यम्प्राश्यशुद्धश्चुडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत् उपकल्पितबहुसम्भारस्यसन्निहितलग्नान्तराभावेननाशाद्यापत्तावप्येवंशुद्धिः इदञ्जननाशौचमात्रविषयमितिमार्तण्डादौ कूश्माण्डहोमादिनाशुद्धिपूर्वकंसूतकमृतकयोर्मध्येआरब्धेविवाहादौविप्राणाम्पूर्वसङ्कल्पितान्नभोजनेदोषोन पाकपरिवेषणादिकमपिसूतकिभिःकार्यं होमादिविधिनाशुद्धिसम्पादनादितिकौस्तुभेस्थितं नैतद्युक्तं लोकविद्विष्टत्वादतःपरगोत्रैरेवान्नदानंयुक्तम्भाति नान्दीश्राद्धोत्तरंसूतकमृतकयोःप्राप्तौपूर्वमन्नसङ्कल्पाभावेपि विवाहोत्तरकालसङ्कल्पितान्नभोजनंविप्रैःकार्यम् अत्रापि परैरन्नम्प्रदातव्यम्भोक्तव्यञ्च द्विजोत्तमैरितिसर्वसम्मतम् परैरसगोत्रैरितिसिन्धुमयूस्वादौव्याख्यानात् पूर्वसङ्कल्पितान्नस्यापिभोजनसमयेस्तकप्राप्तौभोक्तृभिर्भुक्तशेषन्त्यक्त्वापरगृहोदकैराचान्ततादिविधेयम् पाकशेषःसूतकिभिर्भोक्तव्यः भुञ्जानेषुचविशेषुत्वन्तरामृतसूतके। अन्यगेहोदकाचान्ताइतिस्मृतेः नान्दीश्राद्धोत्तरम्भोजनादन्यकालेसूतकप्राप्तौसूतकिगृहेभोक्तव्यम् भुञ्जानेषुस्तकप्राप्तौभोक्तृभिःपात्रस्थमप्यन्नन्त्याज्यमितिवाचनिकएवविशेषः नहिवचनस्यातिभारइतिन्यायात् ममतुभुञ्जनेष्वितिवाक्यमारब्धानारब्धसर्वकर्मसु असङ्कल्पितान्नविषयमितिभाति इतिविवाहादौरजोदोषसूतकप्राप्तिनिर्णयः॥

67. कन्यारजोदोषनिर्णयः

अथकन्यारजोदोषनिर्णयः विवाहात्पूर्वङ्कन्यायारजोदर्शनेमातृपितृभ्रातृणानरकपातः कन्यायाःवृषलीत्वन्तद्भर्त्तुर्वृषलीपतित्वम् अत्रशुद्धिप्रकारः कन्यादाता ऋतुसङ्ख्ययागोदानानिएकंवागोदानंयथाशक्तिब्राह्मणभोजनंवाकृत्वाकन्यादानेयोकन्यातूपवासत्रयान्तेगव्यपयःपानङ्कृत्वाविप्रकुमार्यैसरत्नभूषणन्दत्त्वोद्वाहयोवरश्चकुश्माण्डहोमपूर्वकन्तामुद्वहन्नदोषीस्यादिति विवाहहोमकालेरजीदोषे तास्नापापत्यायुञ्जानेतितैत्तिरीयमन्त्रेणप्रायश्चित्तंहुत्वाहोमतन्त्रंसमापयेत् यदातुदा-

त्रभावाद्रजोदर्शनं तदाकन्यावर्षत्रयम्प्रतीक्ष्यस्वयंवरंवृणुयात् नात्रवरस्यापिदोषः, इतिकन्यारजोदोषनिर्णयः॥

68. क्षयपक्षादिविचारः

अथक्षयपक्षादिविचारः पक्षमध्येतिथिद्वयस्यक्षयेणयस्त्रयोदशदिनात्मकःपक्षःसक्षयपक्षः तदाबहुप्रजासंहारोराजसंहारोवा क्षयपक्षेचौलोपनयनोद्वाहादिवास्तुकर्मादिशुभन्नकार्यं क्षयमासाधिमासगुरुशुक्रास्तादौविवाहनिषेधःप्रथमपरिच्छेदे एवं सिंहस्थगुरुनिषेधनिर्णयोपिप्रथमपरिच्छेदेद्रष्टव्यः क्षयसंवत्सरोपिनिषिद्धः शीघ्रगत्यापूर्वराशिशेषमतिक्रम्यराश्यन्तरसञ्चारोतिचारस्तम्प्राप्तोगुरुःपुनःपूर्वराशिवक्रगत्यायदिनायातितदासक्षयसंवत्सरःसर्वकर्मसुवर्ज्यः तत्रमेषवृषभवृश्चिककुम्भमीनराशिषुनदोषः केचिद्गोदादक्षिणदेशेकोप्यतिचारादिगुरुदोषोनेत्याहुः इतिक्षयपक्षादिविचारः॥

69. वधूवरयोर्गुरुरविवलम्

अथवधूवरयोर्गुरुरविवलम् मुख्यङ्गुरुवलंवध्वावरस्पेष्टंरवेर्बलम्। द्विपञ्चसप्तनवैकादशस्थोगुरुःकन्यायाःशुभः जन्मतृतीयषष्ठदशमस्थानेषुपूजाहोमात्मकशान्त्याशुभः चतुर्थाष्टमद्वादशस्थानेषुदुष्टफलः कर्कधनुर्मीनगश्चतुर्थादियानेपिनदुष्टः सङ्कटे चतुर्थद्वादशस्थोद्विवारमष्टमस्त्रिवारंहोमादिरूपपूजयार्चितःशुभः वरराशेस्त्रिषट्दशैकादशस्थानेरविःशुभः अन्यत्रग्रहमखोक्तपूजयाशुभः गुरुपूजाप्रकारउपनयनप्रकरणेउक्तः ॥

70. कन्याविवाहकालः

कन्याविवाहकालः त्रिंशद्वर्षोवहेत्कन्यांहृद्यान्द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षावाधर्मेसीदतिसत्वरः ॥ निर्णयसिन्धौ भारते ।अतोऽप्रवृत्तेरजसकन्यादद्यात्पितासकृत् ॥ निर्णयसिन्धावेवयमः । तस्मादुद्वाहयेत्कन्यां यावन्नर्तुमतीभवेत् ॥ एवचयथा उपनयनमुपक्रम्य निर्णयसिन्धौ गौणकालमाह । मनुः ॥ (अ. २ श्लो. ३८) आषोडशाद्ब्राह्मणस्यसावित्रीनातिवर्तते । आद्वाविंशात्क्षत्रमधोराचतुर्विंशविंशः ॥ ज्योतिर्निबन्धे । अग्रजा बाहुजा वैश्याः स्वावधेरूर्ध्वमब्दतः । अकृतोपनयाः सर्वेषलाएवते स्मृताः ॥ इत्यादिवचनैर्ब्राह्मणादीनां स्वस्वोपनयनावधिभूतषोडशवर्षादिकालातिक्रमणंवृषलत्वप्रयोजकमितिबोधितं तथैव सर्वसम्मतेउपनयनस्थानीयेकन्योद्वाहेपि तदवधिभूतस्यपूर्वोक्तवचनैर्बोधितस्य रज.प्रवृत्तिकालस्यातिक्रमणमपितस्यावृषलीत्वप्रयोजकमितिप्रतीयते तस्मादुपनयनं यथाअष्टमवर्षमारभ्यषोडशवर्षपर्येतं करणेविशेषतःप्रायश्चित्ताद्यभावस्तथैवकन्यायाअपि अष्टमवर्षमारभ्य आर्तवप्रवृत्तिमनतिक्रम्य विवाहकरणे विशेषतोदोषोनास्तीतिप्रतिभाति विवाहपूर्वमार्तवप्रवृत्तौ तु भवेदेवदोषः । तथाच निर्णयसिन्धावपरार्के संवर्तः ॥ माताचैवपिताचैवज्येष्ठभ्रातातथैवच। त्रयस्तेनरकंयान्तवाकन्यांरजस्वलाम् ॥ हारीतः ॥ पितुर्गेहेतुयाकन्यारजःपश्यत्यसंस्कृता । साकन्यावृषलीज्ञेयातत्पतिवृषलीपतिः ॥ १ ॥ देवलात्रिकश्यपाः ॥ पूर्वार्धेतदेव । भ्रूणहत्यापितुस्तस्याःसाकन्यावृषलीस्मृता ॥ १ ॥ यस्तामुद्वाहयेत्कन्यां ब्राह्मणोज्ञानदुर्बलः ॥ अश्राद्धेयमपाङ्क्तेयन्तंविद्याद्वृषलीपतिम् ॥ माधवीयेबौधायनः ॥ त्रीणिवर्षाण्पृमती काङ्क्षेतपितृशासनम् ॥ विष्णुः ॥ ऋतुत्रयमुपास्यैवकन्याकुर्यात्स्वयंवरम् ॥ अत्रवरस्यदोषामावमा यमः ॥कन्याद्वादशवर्षाणियाप्रदत्तावसेगृहे । भ्रूणहत्यापितुस्तस्याः साकन्यावरयेत्स्वयम् ॥ एवं चोरन्येत्कदाचन । नतुताङ्गङ्घकींविद्यान्मनुः स्वायम्भुवोब्रवीत् ॥ मनुः ॥ (अ. ९ । श्लो, ९२) भ्रातृदत्तंस्वयंवरे । पितृदसम्मातृवत्तस्तेयीस्याव्यक्तिंहरेत् ॥ वरम्प्रत्याह । पित्रेनदयाकन्तु") जन्मतोगर्भतोवापञ्चमवर्षप्रभृतिअष्टमवर्षपर्यन्तङ्कन्या-

विवाहेउचितःकालः षड्वर्षोत्तरंवर्षद्वयम्प्रशस्ततरः षडब्दमध्येनोद्वाह्याकन्यावर्षद्वयंयतः। सोमोभुङ्क्तेततस्तद्द्वद्गन्धर्वश्चततोनलः १ इत्युक्तेः नवमदशमयोर्मध्यमः एकादशवर्षेऽधमः द्वादशादौप्रायश्चित्तावहः॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬