निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ वैष्णवानां शुद्धैकादशीभेदाः ( धर्माब्धिस्थनिर्णयः ) दशमी. एकादशी. द्वादशी.
अथ स्मार्तानां विद्धैकादशीभेदाः (धर्माब्धिस्थनिर्णयः)
“२५ अथसङ्क्षेपतोव्रतदिननिर्णयः। जयन्तीव्रतवन्नित्यं काम्यञ्चैकादशीव्रतम्॥ अरुणोदयवेधोऽत्रवेधःसूर्योदयेतथा॥१॥ उक्तौद्वौदशमीवेधौ वैष्णवस्मार्तयोःक्रमात्॥ विद्धात्याज्यावैष्णवेन शुद्धाप्याधिक्यसम्भवे॥२॥ एकादशीद्वादशीवाऽधिकाचेत्त्यज्यतान्दिनम्॥ पूर्वग्राह्यन्तूत्तरं स्यादिति वैष्णवनिर्णयः॥३॥ अस्यार्थः। जयन्तीव्रतवत् अकरणेप्रत्यवायश्रवणान्नित्यं सम्पत्यादिफलश्रवणात्काम्यञ्चैकादशीव्रतं तत्रैकादश्यान्द्वौदशमीवेधौ अरुणोदयेदशमीवेधः सूर्योदयेदशमीवेधश्च क्रमान्द्वैष्णवस्मार्तयोः वैष्णवानामरुणोदयेदशमीवेधः स्मार्तानांसूर्योदयेदशमीवेधइत्यर्थः पदपक्षाशद्धटीमि ते अरुणोदयः सूर्योदयश्चस्पष्टः अत्रस्वपारम्पर्यप्रसिद्धमेव वैष्णवत्वं स्मार्तवञ्चवृद्धामन्यन्ते इतितदेवग्राह्यम्॥ वैष्णवेनविद्धैकादशी अरुणोदयेवेधवती एकादशी त्याज्या द्वादश्युपोप्या आधिक्यसम्भवेएकादशीद्वादश्योरुभयोराधिक्ये सूर्योदयोत्तरंसच्चे शुद्धा पित्याज्या परैत्रैकादशी उपोष्या तथा एकादश्याएवाधिक्ये शुद्धमपिपूर्वदिनं त्याज्यं परङ्ग्राह्यं तथैव द्वादश्या एवाधिक्येपि पूर्वदिनं साज्यं परदिनं ग्राह्यमित्यर्थः इतिवैष्णवनिर्णयः॥ अथ स्मार्तानां निर्णयउच्यते॥ एकादशीद्वादशीचेत्युभयंवर्धते यदा॥ तदा पूर्वदिनन्त्याज्यं मह्यम्पदनम्॥१॥ एकादशीमात्रवृद्धौ गृहयत्योर्व्यवस्थितः॥ उपोष्यागृहिभिः पूर्वायतिभिश्चोत्तरातिथिः॥२॥ द्वादशीमात्रवृद्धौतु शुद्धाविद्धेव्यवस्थिते। शुद्धापूर्वोत्तराविद्धा स्मार्तनिर्णयईदृशः॥३॥ अस्यार्थः। एकादशीद्वादश्योर्यदावृद्धिः सूर्योदयोत्तरंविद्यमानत्वं तदापूर्वैकादशीशुद्धापिस्मार्तेस्त्याज्या परवोपोघ्या। एकादश्याएववृद्धौतु गृहिभिः स्मार्तेः पूर्वोपोप्या यसादिभिरुत्तरा। द्वादश्याएवद्धौतुशुद्धाविद्धयोर्व्यवस्थाएकादशीशुद्धाचेत्साउपोष्या एकादशीविद्धाचेाद्द्वादश्ये-वोपोध्या एवञ्चोभयाधिक्येद्वादशीमात्राधिक्येच स्मार्तानां विद्धैकादशीत्यागो नान्यत्रेत्यर्थः इति स्मार्तनिर्णयः॥”
अथवेधभेदाः अत्रार्धरात्रोत्तरन्दशमीसत्वेकपालवेधोद्विपञ्चाशघटिकादशमीसत्वेछायावेधस्त्रिपञ्चाशदघटीत्वेदशम्याग्रस्ताख्योवेधश्चतुःपञ्चाशत्त्वेसम्पूर्णाख्यः पञ्चपञ्चाशन्वेवेधः षट्पञ्चाशवेमहावेधः सप्तपञ्चाशत्वेमलयाख्योऽष्टपञ्चाशत्वेमहाप्रलय एकोनषष्टित्वेघोराख्यःषष्टिघटित्वेराक्षसाख्यइति वेधभेदानारदेनोक्तामध्वादिमतानुसारिभिः कैश्रिदेवकेचिदेवानुसृताः माधवाचार्यादिसर्वसम्मतस्तुपदपञ्चाशदघटीवेधएवेतिज्ञेयं दशमीपञ्चदशघटीभिरेकादशीदूषिकेतितूपवासातिरिक्तव्रते बताङ्गेसङ्कल्पार्चनादौ तत्रापितद्दोषेणनसर्वथासागः किन्तुप्रातःकर्तव्यंसङ्कल्पार्चनादिमध्याहोत्तरङ्कार्यमितिध्येयम्
अथव्रतप्रयोगः उपवासात्पूर्वदिनेप्रातःकृतनिसक्रियः दशमीदिनमारभ्यकरिष्येहंव्रतन्तव। त्रिदिनन्देवदेवेशनिर्विघ्नङ्कुरुकेशव १ इतिसङ्कल्प्यमध्याह्नेएकभक्तङ्कुर्यात्
तत्रनियमाः कांस्यमां समसूरदिवास्वापातिभोजनात्यम्बुपानपुनर्भोजनमैथुनक्षौद्रानृतभाषणचणककोद्रवशाकपरान्नद्यूततैलतिलपिष्टताम्बूलवर्जनादयः एकभक्तानन्तरङ्काष्ठेनदन्तधावनङ्कुर्यात् निशिभूतल्पेशयित्वाप्रातरेकादश्याम्पर्णादिनादन्तधावनङ्कार्य नतुंकाष्ठेन स्नानादिनित्यक्रियान्तेपवित्रपाणिरुदङ्मुखः वारिपूर्णताम्रपात्रमादाय सङ्कल्पङ्कुर्यात् एकादश्यान्निराहारोभूत्वाहमपरेहनि। भोक्ष्यामिपुण्डरीकाक्षशरणम्मेभवाच्युत ? इत्यनेनमन्त्रेणपुष्पा ञ्जलिंवाहरौदद्यात अशक्तस्यतुएकादश्याञ्जलाहारएकादश्याङ्क्षीरभक्षएकादश्याम्फलाहारएकादश्यान्नक्तभोजीत्याद्यूहेनशक्सनुसारेणसङ्कल्पः शैवानांरुद्रगायत्र्यासङ्कल्पः सौराणान्निसगायत्र्यानाम्नावासङ्कल्पः अयंसङ्कल्पः सूर्योदयोत्तरन्दशमीसत्वेस्मार्तैरेकादश्यांरात्रौकार्यः अर्धरात्रादुपरिदशम्यनुवृत्तौसर्वैरेवैकादश्याम्मध्याह्नोत्तरङ्कार्यः सङ्कल्पोत्तरमष्टाक्षरमन्त्रेणत्रिरभिमन्त्रितन्तज्जलम्पिबेत् ततः पुष्पमण्डपङ्कृत्वातत्र पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यकैः परैः। स्तोत्रैर्नानाविधैदिव्यैगीतवाद्यैर्मनोहरैः १ दण्डवत्प्रणिपातैश्चजयशब्दैस्तथोत्तमैः। हरिसम्पूज्यविधिवद्रात्रौ कुर्यात्मजागरम् १ एकादश्यान्नियमाः पाखण्डिसम्भाषणस्पर्शदर्शनवर्जनं ब्रह्मचर्यसत्यभाषणदिवास्वापवर्जनादयः परिभाषोक्ताश्चज्ञेयाः पाखण्डिदर्शनादौ तुसूर्यपश्येत्ततः शुचिः। संस्पर्शेतुषुधःस्नायाच्छुचिरादित्यदर्शनात् १ सम्भाष्यतानशुचिषदञ्चिन्तयेदच्युतम्बुधः। इत्यादिप्रायश्चित्तम् उपवासदिनेश्राद्धमाप्तौश्राद्धशेषसर्वान्नेनैकम्पात्रपरिवि
प्यतत्सर्वान्नावघ्राणङ्कृत्वापात्रङ्गवादिभ्योदेयं कन्दमूलफलाहाराद्धादिप्राप्तौनिर्णयः धनुकल्पेनोपवासकर्त्रातुस्वभक्ष्यस्यैवफलादेः पितृब्राह्मणपात्रेषुपरिवेषणपूर्वकन्तच्छेषभक्षणङ्कार्यम् एकादश्यांयदाभूपमृताहःस्यात्कदाचन। तहिनन्तुपरिसज्यद्वादश्यामेवकारयेत् १ इत्यादिवचनानियथाचारंवैष्णवपराणि वैष्णवैः षोडशमहालयकरणपक्षेएकादश्यधिकरणकन्द्वादश्यकिरणकञ्चमहालयन्तन्त्रेणकरिष्ये इतिसङ्कल्प्यमहालयद्वयन्द्वादश्याङ्कार्यं काम्योपवासे सूतकमाप्तौशारीरनियमान्स्वयङ्कृत्वा सूतकान्तेपूजादानब्राह्मणभोजनादिकङ्कार्यं नित्योपवासे सूतकादिमा सौस्नात्वा हरिं णम्यनिराहारादिकंस्वयङ्कृत्वापूजादिकम्ब्राह्मणद्वाराकार्यं दानादेर्लोपो नसूतकान्ते ऽनुष्ठानावश्यकत्वम् एवंरजस्वलादिदोषेपि द्वादश्याम्प्रातनिसपूजांविधायभगवतेव्रतमर्पयेत् अज्ञानतिमिरान्धस्यव्रतेनानेनकेशव प्रसीदसुमुखोनाथज्ञानदृष्टिप्रदोभव १ इति तत्रमन्त्रः दशम्यादिषूक्तानान्नियमानाम्भङ्गेदिवास्वापेबहुशोजलपानेमिथ्याभाषणेवा
तत्तन्नियमभङ्गानुद्दिश्यनारायणाष्टाक्षरमन्त्रजपमष्टोत्तरशतसङ्ख्ययाकुर्यात् अल्पदोषे नामशतत्रयजपः रजस्वलाचाण्डालरजकसूतिकादिशब्दस्यव्रतमध्येश्रवणेऽष्टोत्तरसहस्रगायत्रीजपः ततोनैवेद्यतुलसीमिश्रितान्नेनपारणङ्कार्यम् आमलकीफलस्यपारणायां भक्षणेऽसम्भाष्यभाषणादिदोषनाशः पारणञ्चद्वादश्युल्लङ्घनेमहादोषाद्वादशीमध्ये
एवकार्यं स्वल्पद्वादशीसत्त्वे रात्रिशेषेआमाध्याह्नान्ताः क्रियाः सर्वा पारणानिर्णयः अपकृष्य कार्याः अग्निहोत्रहोमस्यनापकर्षइतिकेचित् एवंश्राद्धस्यापिनापकर्षोरात्रौश्राद्धनिषेधात् अतिसङ्कटेश्राद्धेमदोषादित्रतेचतीर्थजलेनपारणकार्यं द्वादशीभूयस्त्वेद्वादशीप्रथमपादंहरिवासरसञ्ज्ञकमुल्लङ्घयपारणङ्कार्यं कलामात्राया अपिद्वादश्याअभावे त्रयोदश्याम्पारणं द्वादश्यामध्याह्रोवसत्वेमातर्मुहूर्तत्रयमध्येएवपारणं नमध्याह्नादौइतिवहवः बहूनाङ्कर्मकालानाम्बाधापत्तेरपरा हएवेतिकेचित् द्वादश्यांसर्वमासेषुशुक्लायाङ्कृष्णायवाश्रवणयोगेशक्तेनैकादशीद्वादश्योर्द्वयोरप्युवासः कार्यः अशक्तेनैका-दश्याम्फलाहाराद्यनुकल्पङ्कृत्वाश्रवणद्वादश्यामुपवासःकार्यः विष्णुगृङ्खलयोगसत्वेतु एकादश्यामेवश्रवणद्वादशीमयुक्तमप्युपवासङ्कृत्वाद्वादश्यांश्रवणयोगरहितायाम्पारणं कार्यं द्वादश्याःश्रवणतोन्यूनत्वेश्रवणयुक्तायामपिद्वादश्यामेवपारणं द्वादश्युल्लङ्घने दोषात् विष्णुशृङ्खलयोगादिनिर्णयोभाद्रपदमासगतश्रवणद्वादशीमकरणेवक्ष्यते दिवा निद्राम्परानञ्च पुनर्भोजनमैथुने। क्षौद्रङ्कांस्यामि तैलन्द्वादश्यामष्टवर्जयेत् १ द्यूतक्रोधचणककोद्रवमाषतिलपिष्टमसूरनेत्रा अनमिथ्याभाषणलोभायासप्रवासभारवहनाध्ययनताम्बूलादीनिवर्जयेत् एतेचनियमाः काम्यव्रतेआवश्यकाः निसव्रतेतु शक्तिमा॑स्त॒षुमान्कुर्यान्नियमंसविशेषणम्। विशेषनियमाशक्तोहोरात्रम्भुजिवर्जितः १ निगृहीतेन्द्रियः श्रद्धासहायोविष्णुतत्परः। उपोष्यैकादशीम्पापान्मुच्यतेनात्रसंशयः १ अन्यम्भुङ्क्ष्वेति यान्त्र्याहुङ्केवायःसनारकी। एकादशीव्रताद्विष्णुसायुज्यंलभतेश्रियम् १ इसेकादशीव्रतनिर्णयः कार्यान्तरेष्वैकादशीद्वादशीयुतैवग्राह्या इसेकादशीनिर्णयोदेशः सप्तदशः १७
अथद्वादशीनिर्णयः द्वादशीत्वेकादशीविद्धाग्राह्या अथ अष्टौमहाद्वादश्यः शुद्धाधिकैकादशीयुक्ताद्वादशीउन्मीलनीसञ्ज्ञा द्वादश्येवशुद्धाधिकावर्धतेसाव ञ्चलीसूर्योदयेएकादशीततःक्षयगामिनीद्वादशीद्वितीयसूर्योदये त्रयोदशीएवमेकाहोरात्रेति-थित्रयस्पर्शातत्रिस्पर्शासञ्ज्ञाद्वादशी दर्शस्यपौर्णमास्यावायदादिनवृद्धिस्तदापक्षवार्धनीसञ्ज्ञा पुष्यर्क्षयुताजया श्रवणयुताविजया पुनर्वसुयुताजयन्ती रोहिणीयुतापापनाशिनी एताः पापक्षयमुक्तिकामउपवसेत् श्रवणयुतातुएकादशीवन्नित्या एतास्वष्टसुएकादशीद्वादश्योरेकत्वेतन्त्रेणोपवासः पार्थक्येशक्तस्योपवासद्वयं यस्वारब्धव्रतद्वय उपवासद्वयाशक्तश्चतस्यद्वादशीसमुपोषणाद्व्रतद्वयपुण्यलाभः तत्रश्रवणर्क्षयोगोमुहूर्तमात्रोपिग्राह्यः पुष्यादियोगः सूर्योदयमारभ्यास्तमयपर्यन्तश्चेदुपवासः पारणन्तुतिथिन-
क्षत्रसंयोगोपोषणेउभयान्तेन्यतरान्तेवेतिसर्वसामान्यनिर्णयः इतिद्वादशीनिर्णयोद्देशोऽष्टादशः १८
अथत्रयोदशीनिर्णयः त्रयोदशीशुक्लापूर्वाकृष्णोत्तरा शनिवारादियुक्ताङ्काञ्चिच्छुक्लत्रयोदशीमारभ्यसंवत्सरपर्यन्तम्प्रतिपक्षन्त्रयोदशीषुशनिवारयुक्तास्वेवचतुविंशतिशुक्लत्रयोदशीषुवाकर्तव्यंयत्प्रदोषसमयेशिवपूजानक्तभोजनात्मकम्प्रदोषत्रतन्तत्र सूर्यास्तमयोत्तरत्रिमुहूर्तात्मकप्रदोषव्यापिनीत्रयोदशीग्राह्या दिनद्वयेप्रदोषव्याप्तौसाम्येनतदेकदेशस्पर्शेवाउत्तरा वैषम्येणैकदेशाधिक्यवतीपूर्वापिग्राह्या यदिदेवपूजाभोजनपर्याप्तन्तदाधिक्यंलभ्येतनोचेत्साम्यपक्षवदुत्तरैव उभयत्रसर्वथाव्याप्त्यभावेपिपरैव इतित्रयोदशीनिर्णयोद्देशः १९
अथचतुर्दशीनिर्णयः चतुर्दशीतुशुक्लापराकृष्णापूर्वा यत्तुप्रतिमासङ्कृष्णचतुर्दश्यांशिवरात्रित्रतङ्काम्यमनुष्टीयतेतत्रमहाशिवरात्रिवन्निशीथव्यापिन्येवग्राह्या उभयत्रनिशीथव्याप्तौम्परा प्रदोषव्याप्तेराधिक्यात् कैश्चित्प्रदोषमात्रव्यापिनीगृह्यते तत्रमूलञ्चिन्त्यं यत्तुचतुर्दश्यान्दिवाभोजननिषेधएवनित्यत्वात्पाल्यतेतत्रभोजनकालव्यापिनीञ्चतुर्दशीन्त्यत्कात्रयोदश्याम्पञ्चदश्याम्भोक्तव्यं शिवरात्रित्रतिभिस्तुचतुर्दश्यामेवपारणाकर्त्तव्यानतत्रचतुर्दश्यष्टमीदिवेतिभोजननिषेधप्राप्तिः विधिप्राप्तेनिषेधाप्रवेशात् इतिचतुर्दशीनिर्णयोद्देशः २०
अथपूर्णिमामावास्ययोर्निर्णयः पूर्णिमामावास्येतु सावित्रीवतंविनापरेग्राह्ये यत्तकै चिच्छ्रावणी हुताशनीपूर्णिमयोः कुलधर्मादौ पूर्वविद्धयोग्रीह्यत्वोक्तेः सर्वापौर्णमासीकुलधर्मादौ पूर्वागृह्यते तत्र मूलम्मृग्यम् अष्टादशनाडिकातोन्यूनचतुर्दशीसत्वेतादृशचतुर्दशीवेधस्य भूतोष्टादशनाडीभिरितिवचनाददृषकत्वप्रतीतेरस्तुवातादृशस्थलेकुलधर्मेपूर्वत्रग्राह्यत्वम् अष्टादशनाडिकाधिकचतुर्दशीवेधेतुपूर्वविद्धापौर्णमासीनग्राह्येतिमे प्रतिभाति अमावास्याभौमसोमवारयुतास्नानदानादौमहापुण्या एवम्भानुयुतासप्तमी भौमयुताचतुर्थी यत्तुसोमयुतामावास्यायामश्वत्थपूजाद्यात्मकंसोमवतीव्रतमनुष्ठीयते तत्र अपराहपर्यन्तम्मुहूर्तमात्रयो गेपिवतङ्कार्यं दिनान्सप६ टिकात्मकसायान्हेयोगे रात्रियोगेचनक्कार्यमितिशिष्टाचारः यतीनाङ्क्षौरादौउदयेत्रिमुहूर्तव्यापिनी पौर्णमासी ग्राह्या तृतीयमुहूर्तस्पर्शाभावेचतुर्दशीयुता इतिपञ्चदशीनिर्णयोदेशः २१
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा