🕉️ 24 November 2026, Tuesday · 08:04:26 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 40/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

71. विवाहभेदाः

अथविवाहभेदाः ब्राह्मोदैवआर्षःप्राजापत्यआसुरोगान्धर्वोराक्षसःपैशाचइत्यष्टौविवाहाः योग्यवरमाहूयालङ्कृत्यकन्यादानविधिनातस्मैदानम्ब्राह्मोविवाहः १ यज्ञेऋत्विक्कर्मकुर्वतेऽलङ्कृत्यकन्यार्पणन्देवः २ वरादेकङ्गोमिथुनन्द्वेवागृहीत्वातस्मैकन्यार्पणमार्षः इदङ्गोमिथुनग्रहणन्ननिन्दितं तस्यकुमारीपूजनार्थत्वेनकन्याविक्रयाभावात् ३ त्वयैतयैवसहगृहधर्मआचरणीयएतस्याजीवनपर्यन्तंविवाहान्तरञ्चतुर्थाश्रमो वानकार्यइत्याभाष्यकन्यादानम्प्राजापत्यः ४ ज्ञातिभ्योयथेच्छन्धनन्दत्त्वाविवाहआसुरः ५ वरवध्वोरिच्छयान्योन्यसंयोगोगान्धर्वः ६ युद्धादिनाबलाद्धरणंराक्षसः ७ चौर्येणकन्याहरणम्पैशाचः ८ पूर्वचतुर्षुपूर्वःपूर्वःश्रेष्ठः उत्तरेषुत्तरउत्तरोनिन्द्यः तत्रविप्रस्यब्राह्मदैवौप्रशस्तौ क्षत्रियस्यगान्धर्वराक्षसौ आसुरोवैश्यस्य आर्षप्राजापत्यपैशाचाःसर्वेषां सङ्कटेराक्षसभिन्नाःसप्तविप्रस्य ब्राह्मदैवेतरेषट्क्षत्रियस्य वैश्यशूद्रयोर्ब्राह्मदैवराक्षसभिन्नाःपञ्च सर्वेष्वपिविवाहेषुतत्तत्प्रकारैःकन्यापरिग्रहोत्तरंस्वस्वगृह्यरीत्याविवाहहोमादिविधिरावश्यकः दानविधिनादानंसर्वत्रनभवति पैशाचादौसप्तपदीविधेःपूर्वमन्यस्मैकन्यादेया ब्राह्मादिष्वपिकन्यादानोत्तरमपिसप्तपदीविधेःपूर्वंवरस्यषण्ढत्वादिदोषज्ञानेवरमृतौवाकन्याऽन्यस्मैदेया ब्राह्मविवाहोढायाञ्जातःपुत्रोदशपूर्वान्दशपरान्पितृंस्तारयते दैवोढापुत्रःसप्तसप्त प्राजापत्योढापुत्रःषट्षट् आर्षोढापुन्त्रस्त्रींस्त्रीन् आश्वलायनसूत्रेतुब्राह्मादिषुद्वादशदशाष्टौसप्तचपूर्वान्पराञ्चपुत्रस्तारयतइत्युक्तम् अन्येषुदुर्विवाहेषुब्रह्मधर्मद्विषःसुताः। वाग्दानोत्तरंवरस्यदेशान्तरगमनेषण्मासम्प्रतीक्ष्यान्यस्मैदेया कन्यायाःशुल्कम्प्रदायगमनेवर्षप्रतीक्षा यत्तुबलाद्वि-

सहिस्वाम्यादतिक्रामेदृतूनाम्प्रतिबोधनात्॥ अत्रप्रायश्चित्तमुक्तमाश्वलायनेन॥ कन्यामृतुमतींशुद्धाङ्कृत्वानिष्कृतिमात्मनः। शुद्धिञ्चकारयित्वातामुद्बहेदनशस्यधीः॥ पिताऋतून्स्वपुत्र्यास्तुगणयेदादितःसुधीः। दानावधि गृहेयत्नात्पालयेच्चरजोवतीम्॥ दद्यात्तदृतुसख्यागाःशक्तःकन्यापितायदि। दातव्यैकापिनिःस्वेनदानेतस्यायथाविधि॥दद्याद्वाब्राह्मणेष्वन्नमतिनिःस्वःसदक्षिणम्। तस्यातीतर्तुसख्येषुवरायप्रतिपादयेत्॥ उपोष्यत्रिदिनङ्कन्यारात्रौपीत्वागवाम्पयः॥ अदृष्टरजसेदद्यात्कन्यायैरत्नभूषणम्॥ तामुद्वहनूवरश्चापिकूष्माण्ढैर्जुहुयाद्द्विज इतिः॥ दात्रभावेतु। त्रीणिवर्षाण्ण्यतुमतीकाङ्क्षेतपितृशासनमित्यादिनाऋतुमाप्राप्त्यनतरमपिवर्षत्रयप्रतीक्षेत्यादिवतदन्यत्॥ एवञ्च आर्तवप्रवृत्तिकालात्पूर्वेयथाविवाहः स्यात्तथापित्रादिभिर्यतितव्यम्। ऋतुप्राप्त्यनन्तरं प्रायश्चित्तादिनादिसम्पादनस्योक्तत्वादितिप्रतिभाति। ऋतुदर्शनकालश्च यमः॥ अष्टवर्षाभवेद्गौरीनववर्षातुरोहिणी। दशवर्षाभवेत्कन्याअतऊर्ध्वरजस्वलाइति। मनुः॥ (अ. ९ श्लो. ९१ ) अदीयमानाभर्तारमधिगच्छेयादिस्वयम्। नेनःकिचिदयानोतिनचर्यसाधिगच्छतीतिश्लोके मेधातिथिना ऋतुदर्शनञ्चद्वादशवर्षाण्णामितिस्मर्यतेइत्युक्तम्॥ आयुर्वेदशन्नेअष्टाङ्गङ्गहरये वाग्भटः॥ मासि मासिरजःस्त्रीणांरसजंस्रवतिभ्यहम्॥ वत्सराहाद्द्वादशादूर्ध्वेयातिपञ्चाशतः क्षयमित्यादिवचनैवाचितः एकादशवर्षादिर्द्वादशवर्षादिर्वाज्ञेय इति॥

वाहेसगोत्रत्वक्लीबत्वादिवरदोषेवाकन्यासप्तपदीविध्युत्तरमप्यन्यस्मैदेयेतितत्कलियुगे निषिद्धं वाग्दानोत्तरम्पातित्यादिदोषाभावेपिकन्यामदातुर्दण्डउक्तः एवङ्कन्याया अपस्मारदोषमनुक्त्वादातापिदण्ड्यः अधर्म्योद्वाहेषुद्विजैर्भोजनादौकृतेआसुरेएकरात्रम् उपवासोगान्धर्वेत्रिरात्रंराक्षसपैशाचयोश्चान्द्रायणम्प्रायश्चित्तम् इतिविवाहभेदाः॥

72. परिवेन्त्रादिविचारः

अथपरिवेन्त्रादिविचारः दाराग्निहोत्रसंयोगङ्कुरुतेयोऽग्रजेस्थिते। सकनिष्ठः परिवेत्ताज्येष्ठःपरिवित्तिः एवञ्ज्येष्ठायामनूढायाङ्कनिष्ठकन्योद्वाहेज्येष्ठाकन्यादिधिषुः कनिष्ठाग्रेदिधिषुः अत्रप्रायश्चित्तम् अज्ञानतःपित्रादिदत्तोद्वाहेभ्रात्रोःपरिवेत्तृपरिवित्तिसञ्ज्ञयोःकृच्छ्रद्वयङ्कन्यायाःकृच्छ्रन्दातुरतिकृच्छ्रंयाजकस्यचान्द्रायणं ज्ञानतःपित्राद्यदत्तोद्वाहेसर्वेषांवत्सरङ्कृच्छ्राचरणं कामतःपित्रादिदत्तोद्वाहेत्रैमासिकम् अज्ञानेनादत्तोद्वाहेचान्द्रायणादि दिधिष्वादिपतेरतिकृच्छ्रकृच्छ्रौ अत्रापवादः सापत्नेदत्तकेवाज्येष्ठे कनिष्ठस्यदाराग्निहोत्रग्रहणेदोषोन सोदरेपिक्लीबेमूकबधिरवामनभग्नपादत्वादिदोषयुतेदेशान्तरस्थेवेश्यासक्तेपतितेमहारोगिण्यतिवृद्धेकृषिसक्तेधनवृद्धिराजसेवादिव्यापारासक्तेचौर्यासक्तेउन्मत्तेविवाहाग्निहोत्रेच्छानिवृत्तेचज्येष्ठेकनिष्ठस्यदाराग्निहोत्रग्रहणे दोषोन देशान्तरगतञ्ज्येष्ठमष्टौद्वादशवावर्षाणिकनिष्ठःप्रतीक्षेत् एवङ्कन्यायाअपिज्येष्ठायाभिन्नमातृजत्वेकनिष्ठायाविवाहेदोषोन एवम्मूकत्वादिदोषयुतायाञ्ज्येष्ठायामूह्यम् इतिपरिवेन्त्रादिनिर्णयः॥

73. कन्यादातृक्रमः

अथकन्यादातृक्रमः पितापितामहोभ्रातापितृकुलस्थःपितृव्यादिर्मातृकुलस्थो मातामहमातुलादिःसर्वाभावेजननीत्येवम्पूर्वाभावेपरःपरः भ्रातृृणामुपनीतानामेवाधिकारःअनुपनीतभ्रातुर्मात्रादेश्चसत्त्वेमात्रादेरेवाधिकारोनत्वनुपनीतभ्रातुः सर्वाभावे कन्यास्वयंवरंवृणुयात् कन्यास्वयंवरेमातुर्दातृत्वेचताभ्यामेवनान्दीश्राद्धङ्कार्यं तत्रमाताकन्यावास्वयम्प्रधानसङ्कल्पमात्रङ्कृत्वान्यद्ब्राह्मणद्वाराकारयेत् वरस्तुसंस्कृतभ्रात्राद्यभावेस्वयमेवनान्दीश्राद्धङ्कुर्यान्नमाता उपनयनेनकर्माधिकारस्यजातत्वात् द्वितीयादिविवाहेवरःस्वयमेवनान्दीश्राद्धङ्कुर्यात् परकीयकन्यादानेविशेषः आत्मीकृत्यसुवर्णेनपरकीयान्तुकन्यकाम्। धर्मेणविधिनादानमसगोत्रेपियुज्यते १ इतिदातृनिर्णयेवरवत्वोरपिनान्दीकर्तृत्वनिर्णयः॥

74. वधूवरयोर्मूलजत्वादिगुणदोषाः

अथवधूवरयोर्मूलजत्वादिगुणदोषाः मूलनक्षत्राद्यपादत्रयजातौबधूवरौ स्वस्वश्वशुरन्नाशयतः आश्लेषान्त्यपादत्रयजातौश्वश्रूं ज्येष्ठान्त्यपादजातावन्योन्यज्येष्ठभ्रातरं विशाखान्त्यपादजातावन्योन्यकनिष्ठभ्रातरम् मघाप्रथमपादेमूलवत्फलङ्केचिदाहुः केचिदुपनयनस्यद्वितीयजन्मरूपत्वात्तेनचद्वितीयजन्मनापूर्वजन्मसम्भवमूलादिदोषस्यनिरस्तत्वाद्वरस्यश्वशुरघातित्वादिदोषोनेत्यपवादंसङ्कटेवदन्ति श्वशुराद्य्रभावेवध्वाअपिनदोषः नर्क्षवृक्षनदीनाम्नीन्नान्त्यपर्वतनामिकाम्। नपक्षग्रहि

प्रेष्यमाम्नीन्नविभीषणनामिकानुद्वहेदिति वरायपुंस्त्वपरीक्ष्यकन्यादेया यस्याप्सुप्लवतेषीजंह्रादिमूत्रञ्चफेनिलमित्यादिपुंस्त्वपरीक्षा कुलञ्चशीलञ्चवपुर्वयश्चविद्याञ्चवित्तंवसनाथताञ्च। एतान्गुणान्सप्तपरीक्ष्यदेयाकन्याबुधैःशेषमचिन्तनीयम् १ इतिवधूवरयोर्मूलजातत्वादिगुणदोषनिर्णयः ॥

75. विवाहेमासादिनिर्णयः

अथविवाहेमासादिनिर्णयः माघफाल्गुनवैशाखज्येष्ठमासाःशुभप्रदा-मार्गशीर्षोमध्यमःस्यात्क्वचिदाषाढकार्तिकौ अत्रमिथुनेऽर्केआषाढोवृश्चिकेकार्तिकश्चदेशाचारानुरोधेनग्राह्यौनसर्वदेशे एवम्मकरस्थपौषोमेषस्थचैत्रोपि ज्येष्ठयोर्वधूवरयोर्ज्येष्ठेमासिविवाहोनशुभः मासान्तरेमध्यमः नज्येष्ठयोर्विवाहःस्याज्ज्येष्ठेमासिविशेषतः। द्वौज्येष्ठौमध्यमौप्रोक्तावेकज्यैष्ठ्यंसुखावहम् १ ज्येष्ठत्रयन्नकुर्वीतविवाहेसर्वसम्मतम्। इत्युक्तेः तथाचज्येष्ठमासोज्येष्ठगर्भस्यमङ्गलेमध्यमः जन्ममासजन्मनक्षत्रादिकञ्ज्येष्ठापत्यस्यनिषिद्धं सार्वकालमेकेविवाहमितित्वासुराद्यधर्मविवाहविषयम् मयूखेआर्द्रादिदशनक्षत्रेषुसूर्याधिष्ठितेषुविवाहमौञ्ज्यादिकं वसिष्ठादिभिर्निषिद्धमित्युक्तं नैतत्कौस्तुभसिन्ध्वादिग्रन्थेमार्तण्डादिज्योतिर्ग्रन्थेऽपीतिबहवःशिष्टाःआर्द्रादिप्रवेशदोषन्नमन्यन्ते अमावास्यानिषिद्धा रिक्ताष्टमीषष्ठ्योल्पफलाः अन्यास्तिथयोबहुफलाः शुक्लपक्षःश्रेष्ठः कृष्णस्त्रयोदशीपर्यन्तो मध्यमः सोमबुधगुरुशुक्रवाराःशुभाः अन्येमध्यमाः रोहिणीमृगमघास्तिस्रउत्तराहस्तस्वातीमूलानुराधारेवत्यःसर्वसम्मतनक्षत्राणि हरदत्तमतेचित्राश्रवणधनिष्ठाश्विन्यइत्यधिकानिचत्वारि तत्रापिखलग्रहयुतन्नक्षत्रंवर्ज्यं चन्द्रताराबलङ्कन्यावरयोरुभयोरपि। अन्यतरस्यचन्द्रबलाभावेरजतादिदानङ्कार्यम् मेषःकन्याघटःसिंहोनक्रंयुग्मन्धनुर्वृषः। मीनःसिंहोधनुःकुम्भोऽजादीनाङ्घातचन्द्रमाः १ यात्रायांयुद्धकार्येषुघातचन्द्रविवर्जयेत्। विवाहेसर्वमाङ्गल्येचौलादौव्रतबन्धने २ घातचन्द्रोनैवचिन्त्योयज्ञेसीमन्तजातयोः। मृत्युषोगेपारिघार्धेभद्रायाम्पातवैभृतौ ३ विष्कम्भादेर्दुष्टभागेतिथिवृद्धक्षयेपिच। यामार्धकुलिकादौचगण्डान्तेरविसङ्क्रमे ४ केतूद्गमेभूमिकम्पेविवाहाद्यंविवर्जयेत्। ग्रहणेपादादिग्रासेत्रिचतुःषडष्टदिवसाःप्रागर्धितावर्ज्याः भूकम्पेउल्कापातेचत्रिदिनंवज्रपातेचैकन्दिनंवर्ज्यं यावत्केतूद्गमस्तावदशुभःसमयोभवेत्। अस्यापवादः भूकम्पादेर्नदोषोस्तिवृद्धिश्राद्धेकृतेसति। दिवाविवाहःप्रशस्तः रात्रावपिकन्यादानहेमाद्र्यदिमतेप्रशस्तम्भवति ॥

लग्नेवर्ज्यग्रहाः

76. अयमुहूर्तविचारः

अयमुहूर्तविचारः तत्रलग्नेग्रहबलं त्रि ३ षष्ठा ६ ऽष्ट ८ स्वर्कस्त्रि ३ जल ४ घन २ गोऽब्जःक्षितिसुतस्त्रि ३ षष्ट ६ स्थो ज्ञेज्यौव्ययनिधन १२।८ वर्ज्यैभृगुसुतः॥द्वितीयाब्धीष्वङ्काभ्रतनुषु २। ४।५। ९। १०। १ रिपु ६ त्र्य ३ ष्ट ८ सुशनिस्तमःकेतुश्चाये ११ भवतिसुखहेतुश्चसकलः॥१॥अथलग्नेवर्ज्यग्रहाः रविर्लग्ने १ चन्द्रस्तनुरिपुमृति १। ६। ८ स्थःक्षितिसुतोऽष्टलग्नाभ्रे ८। १। १० ज्ञेज्यौनिधन ८ उशनास्त्र्य ३ष्ट ८ रिपु ६षु॥शनिःशेषौलग्ने १ तनुपतिरथार्य ६ ष्टम ८ गृहेविवाहेस्युःसर्वेमदनसदने ७ नैवशुभदाः॥१॥शेषौराहुकेतू॥अन्येद्वादशगं १२ चन्द्रन्दृक्केशनवमांशपौ ॥षष्टाष्ट ६। ८ गौबुधञ्चाभ्रे १० वर्ज्यानाहुर्मनीषिणः॥२॥मेषान्नक्रोत्तुलात्कर्कान्त्रिर्गण्यानवमांशकाः॥ शस्तावृषनृयुक्कर्ककन्यातुलधनुर्झषाः ॥१॥अथैकविंशतिमहादोषाः दुःपञ्चाङ्ग्यष्टमोर्सृक्सविधुखलतनुःषण्मृतीन्दुःसितोरौसङ्क्रान्तिर्गण्डदोषःसखलभदिनजौचक्रचक्रार्धपातौ॥

एकविंशतिमहादोषाः

रन्ध्रंलग्नङ्कुवर्गोस्तगखलउदयास्ताशुचिःक्रूरवेधःकर्त्तर्येकार्गलाङ्घ्रिर्ग्रहणभकुलवौदुःक्षणोत्पातभेच॥१॥अथसङ्कटेगोधूलं गोधूलं पदजातकेशुभकरम्पञ्चाङ्गशुद्धौरवेरर्धास्तात्परपूर्वतोऽर्धघटिकन्तत्रेन्दुमष्टारिङ्गम् ॥

सङ्कटेगोधूलादि

सोग्रोङ्गङ्कुजमष्टमंगुरुयमाहःपातमर्कक्रमञ्जह्याद्विप्रमुखेतिसङ्कटइदंसद्यौवनाद्येक्वचित्॥१॥यथोक्तचन्द्रताराद्यभावेदानानि चन्द्रेचशङ्खं लवणञ्चतारेतिथौविरुद्धेत्वथतण्डुलांश्च॥धान्यञ्चदद्यात्करणेचवारेयोगेविरुद्धेकनकञ्चदेयम्॥१॥षड्वर्गशुद्ध्यादिविचारः कालसाधनादिप्रकारःकुलिकादिस्वरूपाणिचज्योतिर्ग्रन्थेभ्योज्ञातव्यानि विस्तरभयान्नेहोच्यन्ते इतिमुहूर्तविचारसङ्क्षेपः॥

77. विवाहाङ्गमण्डपादिविचारः

अथविवाहाङ्गमण्डपादिविचारः मण्डपनिर्माणाद्यङ्गजातमङ्गिनोविवाहादे-

रुक्तनक्षत्रादौकार्यं कण्डनदलनयवारकमण्डपमृद्वेदिवर्णकाद्यखिलम्। तत्सम्बन्धिगतागतमृक्षेवैवाहिकेकुर्यात्१इत्युक्तेः यवारकञ्चिकसाइतिभाषायाम् एवंहरिद्वादिषुअङ्गेषुचन्द्रबलन्नापेक्ष्यं विवाहाङ्गंविवाहात्प्राक्तृतीयषष्ठनवमदिनेषुनकार्यं तत्रमण्डपःषोडशद्वादशदशाष्टान्यतमसङ्ख्यहस्तश्चतुर्द्वारःकार्यः मण्डपेचतुर्वरकराम्पञ्चवधूकराम्बावेदीञ्चतुरस्रांसोपानयुताम्प्राक्प्रवणांरम्भास्तम्भादिभिःसर्वतःसुशोभिताङ्गृहनिर्गमाद्वामभागेकुर्यात्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬