निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथकन्यायाजन्मकालीनग्रहादियोगसूचितवैधव्यपरिहारोपायः तत्रमूर्तिदानं कन्यादेशकालौसङ्कीर्त्यवैधव्यहरंश्रीविष्णुप्रतिमादानङ्करिष्यइतिसङ्कल्प्यपलतदर्धतदर्धान्यतमप्रमाणहेमनिर्मितांविष्णुप्रतिमाञ्चतुर्भुजांसायुधांवृतेनाचार्येणाग्न्युत्तारणादिपूर्वकंषोडशोपचारैःपूजयेत् वस्त्रार्पणकालेपीतवस्त्रेपुष्पार्पणकालेकुमुदोत्पलमालाञ्चदद्यात् पूजान्तेकन्यादेवम्प्रणम्यमन्त्रेणदद्यात्। यन्मयाप्राञ्जिजनुषिघ्नन्त्यापतिसमागमम्। विषोपविषशस्त्राद्यैर्हतोवापिविरक्तया १ प्राप्यमाणम्महाघोरंयशःसौख्यधनापहम्। वैधव्याद्यग्रतिदुःखौघन्तन्नाशयमुखाप्तये २ बहुसौभाग्यवृद्ध्यैचमहाविष्णोरिमान्तनुम्। सौवर्णीनिर्मितांशक्त्यातुभ्यंसम्प्रददेद्विज ३ इति ततोयथाशक्तिहेमदक्षिणान्दत्त्वा अनघाद्याहमस्मीतित्रिर्वदेत् एवमस्त्वितिविप्रोपित्रिः ततोविप्रभोजनम्॥
अथवैधव्यहरःकुम्भविवाहः विवाहकर्तापित्रादिःकन्यावैधव्यहरङ्कुम्भविवाहङ्करिष्यइतिसङ्कल्प्यनान्दीश्राद्धान्तङ्कृत्वामहीद्यौरित्यादिनाकुम्भस्थापनान्तेतत्रवरुणप्रतिमायांवरुणंसम्पूज्यतत्रकलशमध्येविष्णुप्रतिमायांविष्णुंषोडशोपचारैःसम्पूज्यप्रार्थयेत् वरुणाङ्गस्वरूपायजीवनानांसमाश्रय।पतिञ्जीवयकन्यायाश्चिरम्पुत्रसुखङ्कुरु १ देहिविष्णोवरन्देवकन्याम्पालयदुःखतः। इति ततोविष्णुरूपिणेकुम्भायेमाङ्कन्यां श्रीरूपिणींसमर्पयामीतिसमर्प्यपरित्वेत्यादिमन्त्रैरधस्तादुपरिचकुम्भङ्कन्याञ्चमन्त्रवृत्त्यापरिवेष्ट्यततःकुम्भन्निःसार्यजलाशयेप्रभज्यशुद्धजलेनसमुद्रज्येष्ठेत्यादिमन्त्रैःपञ्चपल्लुवैःकन्यामभिषिच्यविप्रान्भोजयेदिति इतिकुम्भविवाहः॥
अथवरस्यमृतभार्यात्वपरिहारोपायः तत्रपरिवेत्तृत्वपापान्मृतभार्यात्वन्तत्पापपरिहारायप्राजापत्यत्रयञ्चान्द्रायणत्रयङ्कृत्वाअसकृन्मृतभार्यात्वयोगेतदुभयत्रयमावृत्त्याकृत्वामुतभार्यात्वनिरासद्वाराश्रीपरमेश्वरप्रीत्यर्थम्अयुतसङ्ख्यचर्वाज्यहोमङ्करिष्यइतिसङ्कल्प्याग्निस्थापनान्तेऽन्वाधानं दुर्गाग्निविष्णून्अष्टाधिकायुतसङ्ख्याभिश्चर्वाज्याइतिभिःशेषेणस्विष्टकृतमित्यादि प्रतिदैवतन्तूष्णीन्निरूप्यप्रोक्ष्यचत्यागकालेअष्टोत्तरायुतसङ्ख्याहुतिपर्याप्तञ्चर्वाज्यद्रव्यंयथामन्त्रलिङ्गन्दुर्गायैअग्नयेविष्णवेचनममेतिस्यजेत् जातवेदतेइत्यनुवाकस्पउपनिषदऋषयः दुर्गाग्निविष्णवोदेवताः त्रिष्टुप्छन्दः चर्वाज्यहोमे
अनुवाकानुवृत्त्याप्रत्यृचंहोमः तत्रप्रथमञ्चतुरधिकपञ्चसहस्रसङ्ख्यश्चरुहोमस्ततवतुरधिकपञ्चसहस्राज्यहोमइत्येवमयुतहोमः होमशेषंसमाप्यदशविप्रान्भोजयेदिति अथवाकस्यचिद्ब्राह्मणस्पविवाहङ्कुर्यात्॥
अमृतपुत्रत्वदोषे ब्राह्मणोद्वाहनंहरिवंशश्रवणम्महारुद्रजपचेतित्रीणिव्यस्तानिसमस्तानिवाशक्त्यपेक्षयाकुर्यात् रुद्रजपेदशांशेनाज्याक्तदूर्वाहोमः हरिवंशश्रवणविधिरन्येपिविधयोविस्तरेणप्रागुक्ताः॥
अथकन्यादानप्रशंसातद्गृहेभोजननिषेधादिच यथाशक्तिभूषणालङ्कृतकन्याप्रदाताऽश्वमेधयाजीभयेषुप्राणदाताचेतित्रयःसमपुण्याः श्रुत्वाकन्याप्रदातारम्पितरःसपितामहाः। विमुक्ताःसर्वपापेभ्योब्रह्मलोकंव्रजन्तिते १ इतिकन्यादानप्रशंसा विष्णुञ्जामातरम्मत्वातस्यकोपन्नकारयेत्। अप्रजायान्तुकन्यायान्नाश्नीयात्तस्यवैगृहे १ इतिकन्यागृहेपित्रोर्भोजननिषेधः विवाहमध्येस्त्रियासहभोजनेपिनदोषः अन्यदापत्न्यासहभोजनेचान्द्रायणप्रायश्चित्तम्॥
अथवाग्दानादिविचारः विवाहनक्षत्रादियुतेसुदिनेवरस्यपित्रादिःकन्यागृहङ्गत्वाकन्यापूजनङ्करिष्ये तदङ्गत्वेनगणपतिपूजनंवरुणपूजनञ्चकरिष्यइतिसङ्कल्पयेत् कन्यापितातुकरिष्यमाणकन्यादानाङ्गभूतंवाग्दानङ्करिष्येतदङ्गगणपतिपूजनंवरुणपूजनं चकरिष्येइतिसङ्कल्पयेत् अवशिष्टप्रयोगोन्यत्रज्ञेयः अथविवाहदिनेतत्पूर्वदिनेवावध्वा हरिद्रातैलादिनामङ्गलस्नानङ्कारयित्वातच्छेषहरिद्रादिनावरस्यमङ्गलस्नानङ्कारणीयमित्याचारः एवंवरस्यपित्रादिःपत्न्यासंस्कार्येणचसहकृताभ्यङ्गस्नानोऽहतवासाःप्राङ्मुखउपविश्यस्वदक्षिणेपत्नीन्तद्दक्षिणेसंस्कार्यमुपवेश्यदेशकालौसङ्कीर्त्यममास्य पुत्रस्यदैवपित्र्यऋणापाकरणहेतुधर्मप्रजोत्पादनसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थंविवाहाख्यंसंस्कारकर्मकरिष्येतदङ्गत्वेनस्वस्तिवाचनम्मातृकापूजनन्नान्दीश्राद्धन्नन्दिन्यादिमण्डपदेवतास्थापनञ्चकरिष्ये तदादौनिर्विघ्नतासिद्ध्यर्थङ्गणपतिपूजां करिष्येइतिपुत्रविवाहेसङ्कल्पः कन्याविवाहेतुजातकर्मादिलोपे ममास्याःकन्यायाःजातकर्मनामकर्मसूर्यावलोकननिष्क्रमणोपवेशनानप्राशनचौलसंस्काराणाम्बुद्धिपूर्वकलोपजन्यप्रत्यवायपरिहारार्थम्प्रतिसंस्कारमर्धकृच्छ्रञ्चूडायाःकृच्छ्रतत्प्रत्यम्नायगोनिष्क्रयीभूतयथाशक्तिरजतदानेनाहमाचरिष्ये गर्भाधानसीमन्तयोर्लोपेतयोरप्यूहः ततो ममास्याःकन्यायाःभर्त्रासहधर्मप्रजोत्पादनद्रव्यपरिग्रहधर्माचरणेष्वधिकारसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थविवाहाख्यंसंस्कारङ्करिष्यतिविशेषः शेषम्पूर्ववत् भ्राताममभ्रातुरिति भगिन्याइतिवापितृव्यादिःकर्ताममभ्रातृसुतस्यभ्रातृकन्यायाइतिवासङ्कल्पोहकुर्यात् वरवध्वोःस्वयङ्कर्तृत्वेममदैवपित्र्यऋणेत्यादिममभर्त्रासहेसादिचसङ्कल्पः केचित्तस्वस्तिबाचनकालेकन्यादानादिकालेवाप्रधानविवाहसंस्कारसङ्कल्पन्नकुर्वन्तिसममादरतिष
हवः अन्येतुकन्यादानविवाहहोमादिसङ्कल्पएवप्रधानसङ्कल्पस्तदतिरिक्तविवाहपदार्याभावादित्याहुः मातृकापूजान्तेमृतपितृमातृ मातामहोवरवध्वोः पितास्वपित्रायुद्देश्यकपार्वणत्रययुतन्नान्दीश्राद्धङ्कुर्यादित्यसन्दिग्धम् मातर्येवजीवन्त्यान्तत्पार्वणलोपः मातामहमात्रजीवनेतत्पार्वणमात्रलोपः तथाचोभयत्र पार्वणद्वयेनैवनान्दीश्राद्धसिद्धिः मातृमातामहयोर्जीवनेपितृपार्वणेनैवतत्सिद्धिः पितृ-प्रपितामहमृतौपितामहजीवनेचपितृप्रपितामहतत्पितॄनुद्दिश्यपितृपार्वणं तथाचपितृ-मपितामहतत्पितरोनान्दीमुखाइदंवः पाद्यमित्यादिप्रयोगः प्रपितामहमात्रजीवनेपितृ-पितामहतत्पितामहाइत्युद्देशः पितृमृतौपितामहप्रपितामहजीवने पितः पितामहस्यपि-तामहमपितामहौचनान्दीमुखाइत्युच्चार एवम्मातृमरणेपितामहीमात्रजीवनेमातःपितुः पितामहीप्रपितामह्यौचनान्दी मुखाइत्युच्चारः प्रपितामहीमात्रजीवनेमातृपितामसौ पितुःप्रपितामहीचनान्दीमुखाइत्युच्चारः पितामहीप्रपितामह्योर्जीवनेमातः पितामह -स्यपितामहीप्रपितामह्यौचेत्युच्चारः मुख्यमातृजीवनेसपत्नमातृमरणेपिनमातृपार्वणम् एवम्मुख्यपितामहीजीवनेपितामह्याःसपत्नीमृतावपितयासहनमातृपार्वणङ्किन्तुपूर्वोक्त एवोच्चारः एवम्प्रपितामहीसपत्नीविषयेपि एवं मुख्यमातामहीजीव नेतत्सपत्न्यादिमरणे पिनमातामहादीनांसपत्नीकत्वेनोच्चारः किन्तुकेवलानामेव दर्शादौमातृजीवनेसपत्न-मातुर्मृतौकेवलानामेवपत्रादीनामुद्देशइतिसिद्धान्तात् अथमातामहमृतौमातुः पितामह -जीवनेमातामहतत्पितामहप्रपितामहाइत्युच्चारः मातुःप्रपितामहमात्रजीवनेमातामहमा-तृपितामहौमातामहस्यप्रपितामहश्चनान्दीमुखाइत्युच्चारः द्वयोर्जीवनेमातामह मातुः पितामहस्य पितामहप्रपितामहौचनान्दीमुखाइत्युच्चारः
अथजीवत्पितृकोमृतमातृमातामहश्चविवाहोपनयनजातकर्मादिषुपुत्रसंस्कारेषुमातृमातामहपार्वणद्वयमेवकुर्यात् मातर्यपिजीवत्याम्मातामहपार्वणमेव मातामहजीवनेमातृमरणेजीवत्पितृकःसुतसंस्कारेमातृपार्वणमेवदेवरहितङ्कुर्यात् त्रिष्वपिजीवत्सुसुतसंस्कारेपितुःपित्रादीनुद्दिश्यपार्वणत्रयङ्कुर्यात् त्रिष्वपिजीवत्सुसुतसंस्कारेनान्दीश्राद्धलोपएवेतिपक्षान्तरङ्ग्रन्थारम्भेउक्तं द्वितीयविवाहसमावर्तनाधानादिषुस्वसंस्कारेषुनान्दीश्राद्धङ्कुर्वञ्जीवत्पितृकःपितुः पित्रादीनुद्दिश्यपार्वणत्रयङ्कुर्यात् पितुःमातृपितामहीप्रपितामह्यः पितुःपितृपितामहमपितामहाःपितुर्मातामहमातुःपितामहमातुःप्रपितामहानान्दीमुखाइतितत्रोच्चारःअत्रपितुर्मात्रादिजीवनेतत्पार्वणलोपःमृतपितृकस्तुस्वपित्रादीनुद्दिश्येतित्वसन्दिग्धम् पितृपितामहयोर्जीवनेपितामहस्यमात्रादिपार्वत्रयोद्देशः त्रयाणाञ्जीवनेपितृपार्वणलोपः तत्रसुतसंस्कारेइवस्वसंस्कारेमातृमातामयोःपार्वणाभ्यामेवनान्दीश्राद्धसिद्धिः पित्रादित्रयजीवनेमातृमातामहयोश्चजीवनेप्रपितामहस्य इपार्वणत्रयोद्देशेननान्दीश्राद्धम् एवम्प्रथमविवाहेपिकर्त्रन्तरा
भावात्वरएवनान्दीश्राद्धङ्कुर्वनमृतपितकःस्वपित्रादीनुद्दिश्यजीवत्पितृकस्तुपितुःपित्रादीनुहश्यकुर्यात् जीवत्पितृपितामहस्तुपितामहस्यपित्रादिपार्वणत्रयोद्देशेन प्रपितामहस्यापिजीवनेप्रपितामहस्यपित्रादिपार्वणत्रयोदेशेनवापितृपार्वणलोपेनवानान्दीश्राद्धम् अत्रसर्वत्रपितुःपितामहादेवपित्रादिपार्वणोद्देशपक्षेस्वमातृमातामहयोर्मरणेपिन स्वमातृमातामहयोःपार्वणङ्किन्तुपित्रादेर्मातृमातामहयोरेवेतिज्ञेयम् इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः यदातुकन्याविवाहम्पुत्रस्योपनयनम्प्रथमविवाहञ्चपितृव्यमातुलादिः करोतितदासंस्कार्यस्यमृतपितृकत्वेअस्यसंस्कार्यस्यपितृपितामहप्रपितामहाइत्यादिप्रयोगङ्कुर्यात् सोदरभ्रातुर्नोच्चारेविशेषः भ्रातुःपित्रादीनां संस्कार्यपित्रादीनाञ्चैक्यात् सापत्नभ्रातातुसंस्कार्यस्यमातृपितामहीप्रपितामह्यइत्याद्युच्चारयेत् संस्कार्यमातृजीवनेतत्पार्वणलोपः संस्कार्यस्यजीवत्पितृकत्वेमातुलादिःकर्तासंस्कार्यपितुःमातृपितामहीप्रपितामह्यः संस्कार्यपितुःपितृपितामहप्रपितामहा इत्याद्युच्चार्यतत्पितुःपित्रादिपार्वणत्रयङ्कुर्यात् संस्कार्यस्थपितृपितामहयोर्जीवनेमातुलादिः संस्कार्यस्यपितुर्मात्रादीन्मातामहादींश्चोद्दिश्यपार्वणद्वयङ्कुर्यात् पितुर्वर्गद्वयाद्यजीवनेएकैकवर्गपार्वणम् पितुर्वर्गत्रयाद्यजीवनेमातुलादिःपितामहस्यमात्रादिपार्वणत्रयोद्देशङ्कुर्यात् पितामहस्यमात्रादिजीवनेतत्पार्वणलोपःपूर्ववत् पितृव्यजीवत्पितृकसंस्कारकर्तरिनोच्चारेविशेषः संस्कार्यपितुःपित्रादीनाम्पितृव्यस्यपित्रादीनाञ्चैक्यात् पितामहस्यसंस्कर्तृत्वेसंस्कार्यपितृमरणे संस्कार्यस्यपितःममपितृपितामहौचनान्दीमुखाःसंस्कार्यस्यमात्रादयोमातामहादयश्चेत्याद्युच्चारः संस्कार्यपितृजीवनेपितामहःकर्तास्वमातृपितृमातामहपार्वणानिममेतिपदरहितानितत्सहितानिवोच्चारयेत् एवम्प्रपितामहेकर्तर्यपियोज्यं दातुमशक्क्रुवताकन्यादानाधिकारिणात्वङ्कन्यादानङ्कुर्वितिप्रार्थितोयःपरकीयकन्यान्दातुमिच्छति यश्चसुवर्णेनात्मीयाङ्कृत्वा अनाथाञ्ज्ञात्वावाऽन्यकन्यान्दातुमिच्छतिसोपिसंस्कार्यायाःकन्यायाःपित्रादीनुच्चारयेत् तस्याःपितृजीवनेतदीयमात्रादीन्तस्यावर्गत्रयाद्यजीवनेपितुःपित्रादीनितियथासम्भवमूह्यम् इतिपित्रन्यकर्तृकनान्दीश्राद्धप्रयोगः दत्तकन्यायाविवाहङ्कुर्वन्प्रतिग्रहीतापितास्वपित्रादीनुद्दिश्यैवकुर्यात् दत्तकस्तुपुत्रोयदिअधिकार्यन्तराभावाल्लब्धजनकपितृधनस्तदाजनकपित्रादीनप्रतिग्रहीतृपित्रादींश्चपितरौपितामहौप्रपितामहौचनान्दीमुखाइत्येवमुच्चार्श्राद्धङ्कुर्यात् एवम्मातपार्वणेमातामहपार्वणेचद्विवचनप्रयोगऊह्यःयदितुजनकधनग्रहणेधिकार्यन्तरसखादलब्धजनकधनस्तदाप्रतिग्रहीतपित्रादीनेवोद्दिश्यकुर्यात्नपितृद्वयोद्देशेन
अत्रसर्वत्र सम्भ्रमेणक्वचिन्क्वचिन्मातृपार्वणपितृपार्वणयोःक्रमवैपरीत्यपातेऽपिसक्रमोनविवक्षितः सर्वत्रनान्दीश्राद्धेषुपूर्वम्मातृपार्वणन्ततःपितुःपार्वणन्ततोमातामहस्येति
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा