🕉️ 24 November 2026, Tuesday · 08:12:53 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 42/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

सीमान्तपूजनं गौरीहरपूजा च

क्रमस्यनिश्चितत्वात् बह्वृचकात्यायनैर्मातृपितामहीप्रपितामह्यइत्यादिनानुलोम्येन पार्वणत्रयेप्युच्चारः तैत्तिरीयादिभिस्तुप्रपितामहपितामहपितरइत्येवमादिनाव्युत्क्रमेणोच्चारःकार्यः एकसंस्कार्यस्यानेकसंस्काराणांसहानुष्ठानेनान्दीश्राद्धंसकृदेव एवं यमलयोर्द्वयोःपुत्रयोःकन्ययोर्वाविवाहोपनयनादिसंस्काराणांसहैवानुष्ठानेपिनान्दीश्राद्धंसकृदेव यमलयोःसंस्काराणामेकमण्डपेएककालेएकेनकर्त्रासहकरणेदोषोनेत्युक्तं नान्दीश्राद्धेअन्नाभावेआममामाभावेहिरण्यन्दद्यात् हिरण्याभावेयुग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतंयथाशक्तिकिञ्चिद्द्रव्यंस्वाहानममेतिवदेत् अन्यःसर्वोपिविशेषोगर्भाधानप्रकरणेविस्तरेणोक्तस्ततएवानुसन्धेयः इतिनान्दीश्राद्धं ततोमण्डपदेवतास्थापनङ्ग्रहयज्ञश्चस्वस्तिवाचनात्पूर्वन्नान्दीश्राद्धोत्तरंवाकार्यः अथकन्यादातावरगृहङ्गतः करिष्यमाणकन्याविवाहाङ्गत्वेनवरस्यसीमान्तपूजाङ्करिष्यइतिसङ्कल्प्यगणेशवरुणौसम्पूज्यवरम्पादप्रक्षालनवस्त्रगन्धपुष्पनीराजनैःसम्पूज्ययथाचारन्दुग्धादप्राशयेत् ततोवरोमङ्गलघोषैर्वाहनारूढोवधूगृहङ्गच्छेत् वरपितावधूंवस्त्रादिनापूजयेदितियथाचारं लग्नदिनेकन्यापिताकन्यावाअन्योन्यालिङ्गितगौरीहरयोःप्रतिमांसुवर्णरौप्यादिनिर्मिताङ्कात्यायनीमहालक्ष्मीशचीभिःसहपूजयेत् तत्रकोणचतुष्टयस्थापितकलशश्रेणीनाम्मध्येउपलयुतदृषदिवस्त्रेवातण्डुलपूर्णे गौरीहरौमन्त्रेणपूजयेत् तत्र सिंहासनस्थान्देवेशींसर्वालङ्कारसंयुताम्। पीताम्बरधरन्देवञ्चन्द्रार्धकृतशेखरम् १ करेणाधःसुधापूर्णकलशन्दक्षिणेनतु। वरदञ्चाभयंवामेनाश्लिष्यचतनुप्रियाम् २ इतिध्यानमन्त्रः गौरीहरमहेशानसर्वमङ्गलदायक।

मधुपर्कविचारः

पूजाङ्गृहाणदेवेशसर्वदाम्मङ्गलङ्कुरु १ इतिपूजामन्त्रः कन्यादेहप्रमाणेनसप्तविंशतितन्तुभिः कृतयावतिङ्कयादीपम्प्रज्वाल्यसुवासिनीब्राह्मणान्भोजयेत् इतिगौरीहरपूजा पञ्चविंशतिदर्भाणांवेण्यग्रग्रन्थिसंयुतोलम्बाग्रोविष्टःसम्पाद्यः वरस्ययाभवेच्छाखातच्छाखागृह्यचोदितः।मधुपर्कःप्रदातव्योह्यन्यशाखेपिदातरि १ दधिमधुमिश्रं मधुपर्कः तत्रदध्यलाभेपयोजलंवा मध्वलाभेसर्पिर्गुडीवाप्रतिनिधिः गृहागतंस्नातकंवरम्मधुपर्केणाईयिष्यइतिसङ्कल्पः वरस्यद्वितीयोद्वाहेतुस्नातकमितिपदलोपः ततोयथागृह्यम्मधुपर्कप्रयोगोज्ञातव्यः एवङ्गुरुःश्रेष्ठविप्राःराजाचेतिगृहागतायज्ञेवृताऋत्विजश्च मधुपर्केणपूजनीयाः ऋत्विगादीनामपिअर्च्यशाखयैवमधुपर्कोनतुदातृशाखया जयन्तस्तुसर्वत्रयजमानशाखयैवमधुपर्कइत्याह अत्रगन्धपुष्पधूपदीपपूजान्तेउपहारोमापविकारसहितोभोजनार्थदेयः एवम्मधुपर्केतत्पूर्वंवाकृतभोजनायैववरायोपोषितोदाता कन्यान्दद्यात्

घटीस्थापमम्

अथलग्नघटीस्थापनं दशपलमितताम्रघटितंषडङ्गुलोन्नतन्द्वादशाङ्गुलविस्तृतङ्घटीयन्त्रङ्कुर्यादितिसिन्धुः द्वादशार्धपलोन्मानञ्चतुर्भिश्चतुरङ्गुलैः। स्वर्णमाषैःकृतच्छिद्रंयावत्प्रस्थजलङ्कप्लुतम्१इतितुश्रीभागवतेतृतीयस्कन्धेउक्तम् अस्यार्थः अ

शीतिगु ञ्जत्मकः कर्षः अस्यैवसुवर्णसञ्ज्ञा कर्षचतुष्टयम्पलं तथाचषट्पलताम्रविरचितम्पा-त्रंविंशतिगु ञ्जोन्मितमुवर्णनिर्मितचतुरङ्गुलदीर्घशलाकयामूलेकृतच्छिद्रङ्कुर्यात् तेनछि-द्रेणयावत्प्रस्थपरिमितञ्जलम्प्रविशतितेनचप्रस्थजलपूरणेनतत्पात्रञ्जलेमग्नम्भवतितत्पात्रं घटीकालप्रमाणं तत्रप्रस्थमानन्तुषोडशपलात्मकम् पलंसुवर्णाश्रत्वारः कुडवःप्रस्थमा-ढकम्।द्रोणञ्चखारिकाचेतिपूर्वपूर्वचतुर्गुणमित्युक्तेः ग्रन्थान्तरेचतुर्मुष्टिःकुडवश्चत्वारःकुडवाःप्रस्थइति केचित्पष्टिसङ्ख्याकगुरुवर्णोच्चारेपलसञ्ज्ञःकालःषष्टिपलकालानाडिकेत्याहुः एवम्प्रमाणीकृतङ्घटीयन्त्रं सूर्यमण्डलस्यार्धोदयेर्धास्तेवाजलपूर्णेताम्रपात्रेमृत्पात्रेवाक्षिपेत् तत्रमन्त्रः मुख्यन्त्वमसियन्त्राणाब्रह्मणानिर्मितम्पुरा। भवभावायदम्पत्योःकाल-साधनकारणम्? अनेनमन्त्रेणगणेशवरुणपूजनपूर्वकङ्घटीयन्त्रंस्थापयेत् एवंस्थापिताष्टी आग्नेययाम्यनैर्ऋतवायव्यदिग्गतानशुभा मध्यस्थितान्यदिग्गताचशुभा एवमाग्ने-यादिपञ्चदिक्षुपूर्णानशुभा इतिघटीविचारः अथज्योतिर्विदादिष्टेशुभकालेहस्तान्त-रालेतन्दुलराशीपूर्वापरौकृत्वापूर्वराशौप्रसङ्मुखंवरमपरस्मिन्मङ्खकन्यामवस्थाप्य तयोर्मध्येकुङ्कुमादिकृतस्वस्तिकाङ्कितमन्तः पटमुदग्दशन्धारयेयुः कन्यावरयोः पित्रादि-

अन्तःपटादिकम्

र्ज्योतिर्विदंसम्पूज्यतद्दत्ताक्षताःफलयुताः कन्याकश्योरञ्जलौदद्यात् कन्यावरौसाक्षतहस्तौ स्वस्तिकालोकनपरौ अमुकदेवतायैनम इति स्वस्वकुलदेवतान्ध्यायन्तौतिष्ठतः ज्योतिर्विदामङ्गलपद्याष्टकपाठान्तेस्वोक्तकालेतदेवलग्नमितिपठित्वासुमुहूर्तमस्तु ॐ प्रतिष्ठेत्युक्तेअन्तःपटमुत्तरतोपसारयेयुः ततःकन्यावरौपरस्परशिरसोरक्षत-प्रक्षेपम्परस्परेक्षणञ्चकुर्यातां वरोवध्वाभ्रूमध्येदर्भाग्रेण ॐ भूर्भुवः स्वरितिपरिमृज्यद-र्भनिरस्यापःस्पृशेत् वैदिकैः पठ्यमानब्राह्मणखण्डवाक्यान्तेकन्यापूर्वकन्ताभ्यामक्षता-रोषणप्रतिवाक्यङ्कार्यं ततःप्राङ्मुखवरम्प्रत्यङ्मुखीङ्कन्याङ्कृत्वादातादक्षिणेसपत्नीकउ-

कन्यादानप्रयोगः

पविश्यवरदत्तालङ्कारादिरहितामहतवस्त्रस्वदेयालङ्कारमात्रयुताङ्कनकयुक्ताञ्जलिंवरपूजावशिष्टगन्धलिप्तहस्तपादाङ्कन्यामेवन्दद्यात् कुशहस्तोदेशकालौसङ्कीर्त्यअमुकप्रवरामुकगोत्रोमुकशर्माहम्ममसमस्तपितॄणान्निरतिशयानन्दब्रह्मलोकावाप्त्यादिकन्यादानकल्पोक्तफलावाप्तयेअनेनवरेणास्याङ्कन्यायामुत्पादयिष्यमाणसन्तत्याद्वादशावरान्द्वादशपरान्पुरुषांश्चपवित्रीकर्तुमात्मनश्चश्रीलक्ष्मीनारायणप्रीतयेब्राह्मविवाहविधिनाकन्यादानङ्करिष्यइतिकुशाक्षतजलेनसङ्कल्प्यउत्थायकन्यांसम्प्रगृह्य कन्याङ्कनकसम्पन्नाङ्कनकाभरणैर्युताम्।दास्यामिविष्णवेतुभ्यम्ब्रह्मलोकजिगीषया१ विश्वम्भरःसर्वभूतःसाक्षिण्यःसर्वदेवताः।इमाङ्कन्याम्प्रदास्यामिपितृणान्तारणायच२ इत्युक्त्वाकांस्यपात्रस्थकन्याञ्जलेरुपरिवराञ्जलिन्निधायदक्षिणस्थितपत्न्यासन्तताङ्क्रियमाणांशुद्धोदकधारांसहिरण्येवरहस्तेनिक्षिपेत् कन्यातारयतु पुण्यंवर्धयतु शान्तिः इष्टश्चास्तु पुण्याहम्भवन्तोब्रुवन्तुइत्यादिवाक्यचतुष्टयान्ते अमुकप्रवरामुकगोत्रो-

मुकशर्माहम्ममसमस्तेत्यादिप्रीतयेइन्त्यतमुक्त्वा अमुकप्रवरोपेतामुकगोत्रायामुकशर्मणः प्रपौत्रायाम्मुकशर्मणःपौत्रायामुकशर्मणःपुत्रायामुकशर्मणेश्रीधररूपिणेवरायअमुकप्रवरामुकगोत्राममुकशर्मणःप्रपौत्रीम्अमुकशर्मणःपौत्रीम्अमुकशर्मणःमम पुत्रीम् अमुकनाम्नीङ्कन्यांश्रीरूपिणीम्प्रजापतिदैवत्याम्प्रजोत्पादनार्थन्तुभ्यमहंसम्प्रददेइतिसहिरण्यहस्तेसाक्षतजलङ्क्षिपेत् प्रजापतिःप्रीयतां कन्याम्प्रतिगृह्णातुभवानितिवदेत् एवन्त्रिवारङ्कन्यातारयत्वित्यादिनाकन्यादानङ्कार्यं वरःॐस्वस्तिइत्युक्त्वाकन्यादक्षिणांसंस्पृष्ट्वा कइदं कस्माअदात्॰ पृथिवीप्रतिगृह्णात्वितित्रिरुक्त्वाधर्मप्रजासिद्ध्यर्थम्प्रतिगृह्णामीतिवदेत्दाता गौरीङ्कन्यामिमांविप्रयथाशक्तिविभूषिताम्। गोत्रायशर्मणेतुभ्यन्दत्तांविप्रसमाश्रय १ कन्येममाग्नतोभूयाःकन्येमेदेविपार्श्वयोः। कन्येमेपृष्ठतोभूयास्त्वहानान्मोक्षमाप्नुयाम् २ ममवंशकुलेजातापालितावत्सराष्टकम्। तुभ्यंविप्रमयादत्तापुत्रपौत्रप्रवर्धीनी ३ धर्मेचार्थेचकामेचनातिचरितव्यात्वयेयं वरोनातिचरामीति दाताउपविश्य कन्यादानप्रतिष्ठासिद्ध्यर्थम्इदंसुवर्णमग्निदैवत्वन्दक्षिणात्वेनसम्प्रददे ॐस्वस्तीतिवरः ततोभोजनपात्रजलपात्रादिदानानि पितामहोदानकर्ताचेत्पौत्रीमित्यतःपूर्वम्ममेतिवदेत् पुत्रीमित्यतःपूर्वन्नवदेत् भ्रात्रादिःपुरुषत्रयकीर्तनमेवकुर्यात्क्वापिममेतिनवदेत् प्रपितामहःप्रपौत्रीमित्यत्रममेतिवदेत् मातुलादिरन्योवादातास्वगोत्रंस्वविशेषणत्वेनोक्त्वामुकशर्मणःसमस्तपितृृणामितिकन्यापितृनामषष्ठ्यन्तमुक्त्वाकन्याविशेषणत्वेन तद्गोत्रादिवदेत् ममवंशकुलेजातेत्यत्रममेतिस्थानेकन्यापितृनामवदेत् दत्तककन्यादाने ममवंशकुलेदत्तेतिऊहः अथकन्यादानाङ्गत्वेनगवादिदानेमन्त्राः यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी।

गवादिदानमन्त्राः

विश्वरूपधरोदेवःप्रीयतामनयागवा १ इतिगोः हिरण्यगर्भसम्भूतंसौवर्णं चाङ्गुलीयकम्। सर्वप्रदम्प्रयच्छामिप्रीणातुकमलापतिः १ इत्यङ्गुलीयस्य क्षीरोदमथनेपूर्वमुद्धृतङ्कुण्डलद्वयम्। श्रियासहसमुद्भूतन्ददेश्रीःप्रियतामिति १ कुण्डलयोः काञ्चनंहस्तवलयंरूपकान्तिसुखप्रदम्। विभूषणम्प्रदास्यामिविभूषयतुमेसदा १ इतिवलययोः परापवादपैशून्यादभक्ष्यस्यचभक्षणात्। उत्पन्नम्पापन्दानेनताम्रपात्रस्यनश्यतु १ इतिताम्रजलपात्रस्य यानिपापानिकाम्यानि काम्योत्थानिकृतानिच। कांस्यपात्रप्रदानेनतानिनश्यन्तुमेसदा १ इतिभोजनार्थकांस्यपात्रस्य अगम्यागमनञ्चैवपरदाराभिमर्शनम्। रौप्यपात्रप्रदानेनतानिनश्यन्तुमेसदा १ इतिजलार्थस्यभोजनार्थस्यचरौप्यपात्रस्य पूरितम्पूगपूगेननागवल्लीदलान्वितम्। पूर्णेनचूर्णपात्रेणकर्पूरपिष्टकेनच। सपूगखण्डनन्दिव्यङ्गन्धर्वाप्सरसाम्प्रियम् १ ददेदेबनिरातङ्कन्त्वत्प्रसादात्कुरुष्वमाम्। इतिताम्बूलस्य एवन्दासीमहिषीगजाश्वभूमिस्वर्णपात्रपुस्तकंशय्यागृहरजतवृषभानान्दानमन्त्राःकौस्तुभेद्रष्टव्याः अन्तःपटधारणादिकन्यादानान्तङ्केचिदग्निप्रतिष्ठापनोत्तरङ्कुर्वन्ति केचित्पूर्वाङ्गहोमोत्तरङ्केचिदाज्यसंस्कारो-

कङ्कणबन्धनादिकम्

त्तरमित्यनेकेपक्षास्तत्रस्वस्वगृह्यानुसारेणाचारानुसारेणचव्यवस्था ततोवधूवराभिषेकः ततःकङ्कणबन्धनम् अथाक्षतारोपणं वधूवराभ्याम्अन्योन्यतिलककरणम् मालाबन्धनम् अष्टपुत्रीकञ्चुकीमाङ्गल्यतन्त्वादिदानं गणेशपूजा लड्डुकबन्धनम् उत्तरीयवस्त्रान्तग्रन्थियोजनं लक्ष्म्यादिपूजादि इतिकन्यादानानुक्रमःप्रायोबव्हृचानामन्येषाञ्चयथागृह्यञ्ज्ञेयः॥

84. विवाहहोमः

अथविवाहहोमः वधूवरौपूर्वोक्तलक्षणांवेदीम्मन्त्रघोषेणारुह्यवरःस्वासनेउपविश्यवधून्दक्षिणतउपवेश्यदेशकालौसङ्कीर्त्य प्रतिगृहीतायामस्यांवध्वाम्भार्यात्वसिद्धयेविवाहहोमङ्करिष्येइतिसङ्कल्प्ययथागृह्णविवाहहोमङ्कुर्यात् एतदादिविवाहाग्निंरक्षेत् रक्षितोग्निश्चतुर्थीकर्मपर्यन्तङ्गृहप्रवेशनीयहोमात्पूर्वमनुगतश्चेद्विवाहहोमःपुनःकार्यः गृहप्रवेशनीयोत्तरङ्गतौहोमद्वयमपिपुनःकार्यं केचित्तद्वादशरात्रपर्यन्तंवृत्त्युक्तायाश्चेत्याज्याहुतेःसार्वत्रिकत्वमाश्रित्यात्रापिअयाश्चेत्याहुतिमेवाहुः॥

85. गृहप्रवेशनीयहोमः

अथगृहप्रवेशनीयहोमः सचवध्वासहस्वगृहङ्गतस्यविहितस्तथापिशिष्टाःश्वशुरगृहेएवकुर्वन्ति तत्रार्धरात्रोत्तरंविवाहहोमेपरेद्युःप्रातस्तिथ्यादिसङ्कीर्त्यममाग्नेर्गृह्याग्नित्वसिद्धिद्वाराश्रीपरमे॰ र्थगृहप्रवेशनीयाख्यंहोमङ्करिष्य इति सङ्कल्पःकार्यः अर्धरात्रात्पूर्वं विवाहहोमेतदैवहोमोत्तरम्पुनस्तिथ्यादिसङ्कीर्त्यसङ्कल्पपूर्वकंरात्रावपिगृहप्रवेशनीयहोमकरणेदोपोन यत्तुविवाहहोमगृहप्रवेशनीयहोमयोरेकतन्त्रेणानुष्ठानङ्कुर्वन्तितन्नयुक्तं विवाहाग्नेरेवगृहप्रवेशनीयहोमोत्तरङ्गृह्यत्वसिद्धिराश्वलायनतैत्तिरीयादीनाम्भवति तै-

औपासनहोम

त्तिरीयकात्यायनादीनाम्पुनराधानेप्रकारान्तरमस्ति यदिरात्रौषट्घटीऽग्न्युत्पत्तिस्तदागृहप्रवेशनीयाभावेपिव्यतीपातादिसम्भवेपितदैवोपासनहोमारम्भः तदुत्तरञ्चेत्परदिनेसायमौपासनारम्भः सचेत्थं सायंसन्ध्यामुपास्यविवाहाग्निम्प्रज्वाल्यप्राणानायम्यदेशकालौसङ्कीर्त्यास्मिन्विवाहाग्नौयथोक्तकालेश्रीपरमेश्वरप्रीत्यर्थयावज्जीवमुपासनङ्करिष्यइतिसङ्कल्प्यपुनर्देशकालौसङ्कीर्त्यश्रीपरमेश्वरप्रीत्यर्थंसायम्प्रातरुपासनहौमौकरिष्ये तत्रेदानींसायमौपासनहोमङ्करिष्ये प्रातस्तुपूर्वसङ्कल्पितप्रातरौपासनहोमङ्करिष्येइतिसङ्कल्प्यहोमःकार्यः अथत्रिरात्रंवधूवरौब्रह्मचारिणावलङ्कुर्वाणावधःशायिनावक्षारालवणाशिनौतिष्ठेताम्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬