निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथचतुर्थदिवसेऐरिणीदानं तच्चवधूपितृभ्यामुपोषिताभ्यामुपोषितायैवरमात्रेकार्यं वरमातूरजोदोषेतस्याःशुद्धिप्रतीक्षाकरणासम्भवेमनसापात्रमुद्दिश्येति रीत्याताम्मनसोद्दिश्यैरिणीदानं वधूवरमात्रोर्विवाहोत्तरन्देवकोत्थापनात्प्राक्रजोदोषेपूर्वोक्तांशान्तिकृत्वाशुद्ध्यन्तेसङ्कटेशुद्धेःप्रागपिदेवकोत्थापनङ्कार्यम् मातुलादेःकर्त्र-
न्तरस्यपत्न्यारजसिमौञ्जीप्रकरणेउक्तम् एवंविवाहोत्तरमाशौचपाते चतुर्थीकर्मपर्यन्तम्प्राप्तकर्मकरणेदातुर्वरस्यकन्यायाश्चनाशौचम् आ-
शौचान्तेदेवकोत्थापनम् असम्भवेआशौचमध्येएवदेवकोत्थापनङ्कृत्वाआशौचङ्कार्यं विवाहात्पूर्वमाशौचरजोदोषयोस्तुप्रागुक्तं चतुर्थीकर्महोमःकौस्तुभेउक्तः एनङ्केचितऋक्शाखिनोनकुर्वन्ति मण्डपोद्वासनदिननिर्णयोमण्डपोद्वासनपर्यन्तङ्कर्तव्याकर्तव्यनिर्णयश्चोपनयनप्रकरणेउक्तस्तत्रैवद्रष्टव्यः ॥
अथमण्डपोद्वासनोत्तरङ्कार्याकार्यविचारः नस्नायादुत्सवेऽतीतेमङ्गलंविनिवर्त्यच। अनुव्रज्यसुहृद्वन्धूनर्चयित्वेष्टदेवताम् १ स्नानंसचैलन्तिलमिश्रकर्मप्रेतानुयानङ्कलशप्रदानम्। अपूर्वतीर्थामरदर्शनञ्चविवर्जयेन्मङ्गलतोऽब्दमेकम् २ मासषट्कंविवाहादौव्रतप्रारम्भणेपिच। जीर्णभाण्डादिनसाज्यङ्गृहसम्मार्जनन्तथा ३ ऊर्ध्वविवाहात्पुत्रस्यतथाचव्रतबन्धनात्। आत्मनोमुण्डनञ्चैववर्षंवर्षार्धमेवच४ मासमन्यत्रसंस्कारेत्रिमासञ्चौलकर्मणि। पिण्डदानम्मृदास्नानन्नकुर्यात्तिलतर्पणम् ५ अयंविवाहव्रतबन्धचौलोत्तरंवर्षपण्मासत्रिमासेषुअन्यवृद्धिश्राद्धयुतमङ्गलोत्तरञ्चमासमेकम्पिण्डदानतिलतर्पणनिषेधस्त्रिपुरुषसपिण्डानामेव एवम्मुण्डननिषेधोपि व्रतोद्वाहौतुमङ्गलमितिपक्षे मौञ्ज्युत्तरम्मुण्डननिषेधः व्रतबन्धस्यमुण्डनरूपत्वपक्षेतुननिषेधः आत्मनोमुण्डनमितिकर्माङ्गतयाप्राप्तंरामप्राप्तञ्चमुण्डनन्निषिध्यते अत्रापवादः गङ्गायाम्भास्करक्षेत्रेमातापित्रोर्मृताहनि। आधानेसामयागादौदर्शादौक्षौरमिप्यते १ महालयेगयाश्राद्धेपित्रोःप्रत्याब्दिकेतथा। सपिण्ड्यन्तम्प्रेतकर्मश्राद्धषोडशकेष्वपि २ कृतोद्वाहादिकःकुर्यात् पिण्डदानञ्चतर्पणम्। केचिद्भ्रातृपितृव्यादेराब्दिकेप्येवमृचिरे ३ एवम्पिण्डपितृयज्ञेअष्टकान्वष्टकापूर्वेद्युःश्राद्धेपुनपिण्डदाननिषेधः दर्शश्राद्धन्त्वपिण्डकमेव तेनबह्वृचानांव्यतिषङ्गोन इतिमण्डपोद्वासनोत्तरङ्कार्याकार्यनिर्णयः ॥
. ८८ अथवधूप्रवेशः विवाहात्षोडशदिनान्तःसमदिनेषुपञ्चमसप्तमनवमदिनेषुचरात्रौस्थिरलग्नेनूतनभिन्नगृहेवधूप्रवेशःशुभः प्रथमदिनेपिक्कचित् षष्ठदिननिषेधःप्रयोगरत्नोक्तोनिर्मूलः षोडशदिनमध्येपूर्वोक्तदिनेषुप्रवेशोक्तनक्षत्रतिथिवारगोचरस्थचन्द्रवलाद्यभावेपिगुरुशुक्रास्तादावपिनदोषः व्यतीपातेक्षयतिथौग्रहणेवैधृतौतथा। अमासङ्क्रान्तिविष्ट्यादौप्राप्तकालेपिनाचरेत् १ प्रथमनववधूप्रवेशेविवाहार्थगमनेचप्रतिशुक्रदोषोनास्ति द्विरागमनेएवसम्मुखशुक्रदोषः षोडशदिनोत्तरम्मासपर्यन्तंविषमदनेषुमासोत्तरंविषममासेषुवर्षोत्तरंविषमवर्षेषुवधूप्रवेशःशुभः समेष्वेतेषुवैधव्यादिदोषः पञ्चमवर्षोत्तरंसमविषमविचारोनास्ति षोडशदिनोत्तरंवधूप्रवेशेनक्षत्राणि अश्विनीरोहिणीमृगपुष्यमघोत्तरात्रयहस्तचित्रास्वात्यनुराधामूलश्रवणधनिष्ठारेवत्यःशुभाः मासोत्तरम्मार्गशीर्षमाघफाल्गुनवैशाखज्येष्ठमासाः शुभाः चतुर्थीनवमीचतुर्दशीपञ्चदशीभिन्नतिथयो रविभौमेतरवाराश्चशुभाः इतिनववधूप्रवेशः॥
अयद्विरागमनं तत्रमाघफाल्गुनवैशाखाःशुक्लपक्षश्चशुभाः अश्विनीरोहि-
णीपुनर्वसुपुष्योत्तरात्रयानुराधाज्येष्ठाहस्तस्वातीचित्राश्रवणशततारकानक्षत्रेषुचन्द्रबुधगुरुशुक्रवारेगुरुशुक्रास्तादिरहितेस्थिरलग्नादिशुभकालेद्वितीयवधूप्रवेशःशुभः द्विरागमनेऽधिमासविष्णुशयनमासाःसमवत्सराःप्रतिशुक्रादिदोषाश्चवर्ज्याः द्विरागमोपियदिविवाहमारभ्यषोडशदिनमध्येक्रियतेतदाप्रतिशुक्रादिदोषोऽस्तादिदोषश्चनास्ति द्विरागमेषोडशवासरान्तरेकादशाहेसमवासरेषु। नचात्रऋक्षन्नतिथिर्नयोगोनवारशुद्ध्यादिविचारणीयम् १ केवलाङ्गिरसकेवलभृगुभरद्वाजवसिष्ठकश्यपात्रिवत्सगोत्राणाम्प्रतिशुक्रदोषोन रेवत्यश्वनीभरणीकृत्तिकाद्यचरणेषुचन्द्रेसतिशुक्रस्यान्धत्वात्प्रतिशुक्रदोषोन दुर्भिक्षेदेशविप्लवेविवाहेतीर्थगमनेएकनगरग्रामयोश्चप्रतिशुक्रदोषोन इतिद्विरागमः॥
अथवध्वाःप्रथमाब्देनिवासः उद्वाहात्प्रथमेशुचौयदिवसेद्भर्तुगृहेकन्यकाहन्यात्तज्जननीङ्क्षयेनिजतनुञ्ज्येष्ठेपतिज्येष्ठकम्।पौषेचश्वशुरम्पतिञ्चमलनेचैत्रेस्वपित्रालये तिष्ठन्तीपितरन्निहन्तिनभयन्तेपामभावेभवेत् १ इतिवध्वाःप्रथमाब्देनिवासविचार
अथपुनर्विवाहः
दुष्टलग्नेयथोक्तग्रहताराद्यभावेऽन्यत्रापिदुष्टयोगाद्यशुभकालेकूष्माण्डीघृतहोमादियथोक्तविधिंविनासूतकादौचविवाहेजातेतयोरेवदम्पत्योः सुमुहूर्तेपुनर्विवाहःकर्तव्यः सुराम्पीव्याधिताधूर्तावन्ध्यार्थध्न्यप्रियंवेदा। स्त्रीप्रसूश्चाधिवेत्तव्यापुरुषद्वेषिणीतथा १ अधिवेदनम्भार्यान्तरकरणम् अप्रजान्दशमेवर्षेस्त्रीप्रजान्द्वादशेत्यजेत्। मृतप्रजाम्पञ्चदशेसद्यस्त्वप्रियवादिनीम् १ अत्राप्रियवादोव्यभिचारः प्रतिकूलभाषणरूपस्यतस्यप्रायःकलौसार्वत्रिकत्वात् आज्ञासम्पादिनीन्दक्षांवीरम्प्रियवादिनीम्। पत्नीन्त्यक्त्वाभोगार्थमन्योद्वाहीपूर्वभार्यायैस्वधनस्यतृतीयांशन्दद्यान्त् निर्धनश्चेत्ताम्पोषयेत् मनुः अधिविन्नातुयानारीनिर्गच्छेद्रोषितागृहात्। सासद्यःसन्निरोद्धव्यात्याज्यावाकुलसन्निधौ १ अग्निशुश्रूषादिधर्माचरणञ्ज्येष्ठयासहकार्यं नतुकनिष्ठया इदञ्ज्येष्ठायाआज्ञासम्पादिनीत्वेयदितुरोषादिशीलेनसमनन्तरोक्तमनुवाक्याज्ज्येष्ठाकुलसन्निधौत्यागार्हागृहान्तरेनिरोधार्हावातर्हिकनिष्ठयापिसहधर्मञ्चरेदन्यथाधर्मभ्रंशापातात् तथावीरसुतायास्यादाज्ञासम्पादिनीचया। दक्षाप्रियंवदाशुद्धातामत्रविनियोज़येत् १ इतिमाधवीयेस्मृतेश्च द्वितीयविवाहहोमःपूर्वविवाहसम्बन्धिगृह्याग्नावेवकार्यः तदसम्भवेलौकिकाग्नौकार्यः लौकिकाग्नौकरणपक्षेद्वितीयविवाहहोमादिनोत्पन्नाग्नेर्गृ-
ह्याग्नित्विाद्द्वयोर्गृह्याग्न्योःसंसर्गःकार्यः अथाग्निद्वयसंसर्गप्रयोगः देशकालौसङ्कीर्त्यममद्वाभ्याम्भार्याभ्यांसहनिष्पन्नगृह्याग्न्योस्ताभ्यांसहाधिकारसिद्धिद्वारा श्री॰ र्थं संसर्गङ्करिष्यइतिसङ्कल्प्यस्वस्तिवाचनङ्कृत्वाउदगपवर्गस्थण्डिलेकृत्वादक्षिणेस्थण्डिलेज्येष्ठायागृह्याग्निमुत्तरेकनिष्ठायागृह्याग्निम्प्रतिष्ठाप्यप्रथमाग्नौ ज्येष्ठपत्न्यान्वारब्धोऽन्वाधानङ्कुर्यात् अग्निद्वयसंसर्गार्थेप्रथमाग्निहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानङ्करिष्ये चक्षुषीआज्येनेत्यन्तेअग्निन्नवभिराज्याहुतिभिःशेषेणेत्यादि अग्निमीळेइतिनवानाम्मधुच्छन्दोग्निर्गायत्री अग्निद्वयसंसर्गार्थप्रथमाग्नौप्रधानाज्यहोमे वि॰ अग्निमीळेइत्यादिनवभिर्ऋग्भिःप्रत्यृचंस्रुवेणनवाज्याहुतीर्जुहुयात् अग्नयइदमितिसर्वत्रत्यागः होमशेषंसमाप्य अयन्तेयोनिरितिमन्त्रेणज्येष्ठाग्निंसमिधिसमारोप्यप्रत्यवरोहेतिमन्त्रेणतन्द्वितीयाग्नौप्रत्यवरोह्यध्यात्वापत्नीद्वयान्वारब्धोऽन्वाधानङ्कुर्यात् अग्निद्वयसंसर्गार्थेप्रथमसंसृष्टद्वितीयाग्नौविहितहोमेदेवतापरिग्रहार्थमन्वाधानङ्करिष्ये आज्यभागान्तेअग्निम्प्रधानंषड्वारमाज्येनशेषेणेत्यादि प्रोक्षणीङ्कुशान्दवींस्रुवौप्रणीताज्यपात्रेइध्मावर्हिषीत्यष्टौपात्राणि स्रुचिचतुर्गृहीतमाज्यङ्गृहीत्वापत्नीद्वयान्वारब्धोजुहुयात् अग्नावग्निस्त्यिस्यहिरण्यगर्भोग्निरष्टी अग्निद्वयसंसर्गार्थेसंसृष्टाग्नौप्रधानाज्यहोमेविनि॰ अग्नावग्निश्चरतिप्रविष्टऋषीणाम्पुत्रोअधिराजएषः। तस्मैजुहोमिहविषाघृतेनमादेवानाम्मोमुहद्भागधेयंस्वाहा अग्नयइदं॰। एवमग्रेपि आज्यस्यस्रुचिचतुर्ग्रहणंविनियोगस्त्यागश्च अग्निनाग्निर्मेधातिथिःकाण्वोग्निर्गायत्री अग्निनाग्निःसमिध्यते॰। अस्तीदमितितिसृणांविश्वामित्रोग्निरनुष्टुप्अन्त्येत्रिष्टुभौ अस्तीदमधि॰। अरण्यो॰। उत्तानायाम॰। पाहिनोअग्नइत्यस्यभर्गःप्रगाथोग्निर्बृहती पाहिनो॰ भिर्वसोस्वाहा। होमशेषंसमाप्याहिताग्नयेगोयुग्मन्दत्त्वाविप्रान्भोजयेत् इत्यग्निद्वयसंसर्गप्रयोगः पत्न्योरेकायदमृतादग्ध्वातेनैवताम्पुनः। आदधीतान्ययासार्धमाधानविधिनागृही १ ॥
द्वितीयादिविवाहकालः प्रमदामृतिवासरादितःपुनरुद्वाहविधिर्वरस्यच। विषमेपरिवत्सरेशुभोयुगलेचापिमृतिप्रदोभवेत् १ सङ्कटेमहारुद्राभिषेकम्मृत्युञ्जयमन्त्रजपं वाकृत्वाविवाहःकार्यइतिभाति तृतीयामानुषीकन्यानोद्वाह्याम्रियतेहिसा। विधवावाभवेत्तस्मात्तृतीयेर्कंसमुद्वहेत् १ अथार्कविवाहः रविशन्योर्वारेहस्तर्क्षेवान्यत्रशुभदिनेवापुष्पफलयुतमर्कङ्गत्वाअर्ककन्यादातारमाचार्यङ्कृत्वारक्तगन्धादिभूषितोदेशका-
लौस्मृत्वाममतृतीयमानुषीविवाहजन्यदोषपरिहारार्थन्तृतीयमर्कविवाहङ्करिष्ये आचार्यङ्कृत्वानान्दीश्रद्धान्तङ्कुर्यात् दातामधुपर्कयज्ञोपवीतवस्त्रगन्धमाल्यादिभिर्वरपूजयेत् अर्कस्यपुरतःस्थित्वा त्रिलोकवासिन्सप्ताश्वच्छाययासहितोरवे। तृतीयोद्वाहजन्दोषन्निवारयमुखङ्कुरु १ इतिप्रार्थ्यछायायुतंरविमर्केध्यात्वाऽब्लि-
ङ्गैरभिषिष्यवस्त्रादिभिराकृष्णेनेतिमन्त्रेणसम्पूज्यश्वेतवस्त्रेणसूत्रेणचावेष्ट्यगुडौदनन्निषेद्यताम्बूलन्दद्यात् ममप्रीतिकरायेयम्मयास्पृष्टापुरातनी। अर्कजाब्रह्मणासृष्टाद्यास्मान्सम्प्रतिरक्षतु १ इत्यर्कम्प्रदक्षिणीङ्कृत्य नमस्तेमङ्गलेदेविनमःसवितुरात्मजे। त्राहिमाङ्कृपयादेविपत्नीत्वम्मइहागता १ अर्कत्वम्ब्रह्मणासृष्टःसर्वप्राणिहितायच। वृक्षाणामधिभूतस्त्वन्देवानाम्प्रीतिवर्धन २ तृतीयोद्वाहजम्पापम्मृत्युञ्चाशुविनाशय। इतिचप्रदक्षिणीकुर्यात् अन्तःपटधारणादिकन्यादानपर्यन्तंविधिङ्कृत्वा कन्यादाताऽऽदित्यस्यप्रपौत्रींसवितुःपौत्रीमर्कस्यपुत्रीङ्काश्यपगोत्रामर्ककन्याममुकगोत्रायवरायतुभ्यंसम्प्रददे अर्ककन्यामिमांविप्रयथाशक्तिविभूषिताम्। गोत्रायशर्मणेतुभ्यन्दत्तांविप्रसमाश्रय १ दक्षिणान्दत्त्वागायत्र्यावेष्टितसूत्रेणबृहत्सामेतिमन्त्रेणअर्कवरयोःकङ्कणम्बध्वार्कस्यचतुर्दिक्षुकुम्भेषुविष्णुन्नाममन्त्रेणषोडशोपचारैःसम्पूज्यअर्कस्योत्तरेऽर्कपत्न्यान्वारब्धोवरःअस्याःसम्यक्भार्यात्वसिद्ध्यर्थम्पाणिग्रहहोमङ्करिष्ये आघारदेवतेआज्येनेत्यन्तेबृहस्पतिम्अग्निम्अग्निंवायुंसूर्य॑प्रजापतिञ्चाज्यद्रव्येणशेषेणस्विष्टकृतम् आघारान्तङ्कृत्वा सङ्गोभिरित्यास्याङ्गिरसोबृहस्पतिस्त्रिष्टुप् आज्यहोमेविनियोगः सङ्गोभिराङ्गिरसो॰ बृहस्पतयइदं॰। यस्मैत्वेतिवामदेवोग्निस्त्रिष्टुप् यस्मैत्वाकामकामायवयंसम्रड्यजामहे। तमस्मभ्यङ्कामन्दत्वार्थदन्त्वङ्घृतम्पिबस्वाहा अग्नयइदं ०। ततोव्यस्तसमस्तव्याहृतिभिर्हुत्वाहोमशेषंसमाप्य मयाकृतमिदङ्कर्मस्थावरेषुजरायुणा। अर्कापत्यानिनोदेहितत्सर्वङ्क्षन्तुमर्हसि १ इतिप्रार्थ्यशान्तिसूक्तपाठान्तेगोयुग्ममाचार्यायदत्त्वास्वधृतवस्त्राणिगुरवेदत्त्वान्यानिधारयेत् दशत्रयोवाविप्राभोज्याः इत्यर्कविवाहः॥
अथाह्निकं श्रीमन्नाथाङ्घ्रिकमलन्दीनानाथदयार्णवम्। स्मारम्मारङ्कामपूरमाह्निकाचरणम्ब्रुवे १ प्रथमोक्तोबह्वृचानाम्प्रकारःसतुयाजुषैः। ग्राह्योयत्रस्वसूत्रोन्तोविशेषःस्यान्नबाधकः २ ब्राह्मेमुहूर्तेउत्थायश्रीविष्णुस्मृत्वागजेन्द्रमोक्षादिपठित्वाइष्टदेवतादिस्मरेत् समुद्रवसनेदेविपर्वतस्तनमण्डिते। विष्णुपत्निनमस्तुभ्यम्पादस्पर्शङ्क्षमस्वमे १ इतिभूमिम्प्रार्थ्यगवादिमङ्गलानिपश्येत्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा