निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथमूत्रपुरीषोत्सर्गादिविधिः तृणाद्यन्तर्हितभूमौशिरःप्रावृत्ययज्ञोपवीतन्निवीतम्पृष्ठतःकर्णेवाकृत्वाघ्राणपिधानङ्कृत्वादिवासन्ध्ययोरुदङ्मुखोरात्रौदक्षिणामुखोमौनीअनुपानत्कआसीनोमूत्रपुरीषोत्सर्गङ्कुर्यात् यज्ञोपवीतस्यनिवीतत्वंविनैवकर्णेधारणमनाचारः मार्गजलदेवालयनदीतीरादौमलोत्सर्गोनिषिद्धः हस्तान्द्वादशसन्त्यज्य मूत्रङ्कुर्याज्जलाशयात्। अवकाशेषोडशवापुरीषेतुचतुर्गुणम् १ प्रत्यर्कादिमेहनेस्वश-
कुद्दर्शनेचसूर्यङ्गांवापश्येत् ततोगृहीतशिश्नउत्थायशौचङ्कुर्यात् मूत्रोत्सर्गेशुद्धमृदंसकृत्लिङ्गेत्रिवारंवामकरेद्विवारमुभयोःकरयोर्दत्त्वातावद्वारञ्जलेनक्षालयेत् मूत्रात्तुद्विगुणं शुक्रेमैथुनेत्रिगुणंस्मृतम्। पुरीषेतु एकालिङ्गेगुदेतिस्रस्तथावामकरेदश। उभयोःकरयोःसप्तसप्तत्रिर्वापिपादयोः १ द्विगुणम्ब्रह्मचर्येस्याद्यतीनाञ्चचतुर्गुणम्। एवम्मृद्भिर्जलैः शौचन्तदर्धन्निशिकीर्तितम् २ तदर्धमातुरेशूद्रस्त्रीबालानान्तदर्धतः। उक्तसख्ययागधलेपक्षयाभावेयावतातत्क्षयस्तावच्छौचम् मृदार्द्रामलकमात्रा जलालाभेनशौचविलम्बेसचैलंस्नानं यथोक्तशौचाकरणेतु गायत्र्यष्टशतञ्जप्त्वाप्राणायामत्रयञ्चरेत्। अथमूत्रेचत्वारोगण्डूषाःपुरीषेद्वादशाष्टौवाभोजनान्तेषोडशकार्याः॥
अथाचमनविधिः अप्रावृतशिरःकण्ठउपविष्टःउपवीतीमाड्मुखउदङ्मुखोवाअङ्गुष्ठमूलेनमुक्ताङ्गुष्ठकनिष्ठहस्तेनानुष्णम्फेनादिरहितञ्जलंहृदयङ्गतन्त्रिःपिबेत् केशवाद्यैस्त्रिभिःपीत्वैकेनदक्षकरंसृजेत्। द्वाभ्यामोष्ठौचसम्मृज्यएकेनोन्मार्जयेच्चतौ १ जलमेकेनसम्मव्यैकेनवामकरम्मृजेत्। एकेनदक्षिणम्पादवाममेकेनचैवहि २ सम्प्रोक्ष्यैकेनमूर्धानमूर्ध्वोष्ठन्नासिकाद्वयम्। नेत्रयुग्मंश्रोत्रयुग्मन्दक्षिणोपक्रमङ्क्रमात् ३ नाभिंहृदयमूर्धानौदक्षवामभुजौस्पृशेत्। केचित् केशवाद्यैस्त्रिभिःपीत्वाद्वाभ्याम्प्रक्षालयेत्क्ररौ। गण्डोष्ठौमार्जयेद्द्विर्द्विरेकैकम्पाणिपादयोः १ यद्वा ओष्ठम्मार्ज्योन्मृजेद्द्विर्द्विरेकैकम्पाणिपादयोः। शेषम्प्राग्वदित्याहुः तत्रोर्ध्वोष्ठस्याङ्गुल्यग्रैःस्पर्शः अङ्गुष्ठतर्जनीभ्यान्नासिकयोः अङ्गुष्ठानामिकाभ्यान्नेत्रयोः अङ्गुष्ठकनिष्ठिकाभ्याङ्कर्णयोर्नाभेश्च तलेनहृदयस्य पाणिनामूर्ध्नः अङ्गुल्यग्रैर्भुजयोः एतावदाचमनविधावशक्तस्त्रिःपीत्वाकरम्प्रक्षाल्पदक्षिणकर्णंस्पृशेत् कांस्यायःसीसत्रपुपित्तलपात्रैर्नाचामेत् श्रौताचमनन्तुदेव्यास्त्रयःपादाआपोहिष्ठेतिनव पादाःसप्तव्याहृतयोदेवीपादत्रयन्द्वेधाविभक्तन्देवीशिरश्चेतिचतुर्विंशतिस्थानानि॥
अथाचमननिमित्तानि कर्मकुर्वन्नधोवायुनिःसरणेऽश्रुपातेक्रोधेमार्जारस्पशक्षुतेवस्त्रपरिधानेरजकाद्यन्त्यजदर्शनेआचामेत् स्नात्वापीत्वाभुक्त्वासुप्त्वाचाचामेत् विष्मूत्ररेतःशौचान्तेआचामेत् सर्वत्राचमनासम्भवेदक्षिणकर्णस्पर्शः दन्तलग्नान्नम्मृदूपायेननिर्हरेत् रक्तनिर्गमेदोषोक्तेः दन्तलग्नञ्चदन्तवत् तस्यान्नस्यकालान्तरेनिर्गमेआचमनं वामहस्तस्थितेदर्भेदक्षिणेननचाचमेत्। करद्वयस्थितेदर्भेआचामेत्सोमपोभवेत् १ नचोच्छिष्टम्पवित्रन्तद्भुक्तेपित्र्येचसन्त्यजेत्। विण्मूत्रोत्सर्गेचत्यजेत्॥
अथदन्तधावनं कण्टकीक्षीरवृक्षापामार्गादिकाष्ठैःकार्यं काष्ठालाभेश्राद्धोपवासादिनिषिद्धदिनेचपर्णादिनाप्रदेशिनीवर्ज्याङ्गुल्यावाद्वादशगण्डूषैर्वादन्तान्शोधयेत् ॥
१८ अयसङ्क्षेपतःस्नानविधिःनद्यादौगत्वाशिखाम्बध्वाजानूर्ध्वजलेतिष्ठन्नन्यथातूप-
विश्याचम्यममकायिकवाचिकमानसिकदोषनिरसनपूर्वकंसर्वकर्मसुशुद्धिसिद्ध्यर्थम्प्रातःस्त्रानङ्करिष्येइतिसङ्कल्प्यजलन्नत्वाप्राङ्मुखःप्रवाहाभिमुखोवात्रिरवगाह्याङ्गानिनिमृज्यस्नात्वाद्विराचम्यापोहिष्ठेतिमार्जनङ्कृत्वाइमम्मेगङ्गेइतित्रिर्जलमालोड्याघमर्षणन्त्रिरावृतेन ऋतञ्चेतिसूक्तेन कात्यायनैर्दुपदेतिऋचाजलनिमग्नतयाकृप्लुत्याचम्यजलतर्पणङ्कुर्यान्नवा तदित्थम् उपवीतीब्रह्मादयोयेदेवास्तान्देवांस्त॰ भूर्देवानित्यादि निवीतीकृष्णद्वैपायनादयोयेऋषयस्तानित्यादि प्राचीनावीतीसोमःपितृमान्यमोङ्गिरस्वानग्निष्वात्तादयोयेपितरस्तानित्यादि एकनद्यांस्त्रानेअन्यान्नदीन्नस्मरेत् अत्रतैत्तिरीयादिभिस्तर्पणेऋष्यादीनान्नामान्तराण्युक्तानितानिसङ्क्षेपविधौतस्यतर्पणस्यकृताकृतत्वान्नोक्तानि अथगृहेउष्णोदकेनस्नानन्नतुशीतोदकेन तद्विधिश्च पात्रेशीतोदकम्प्रक्षिप्यतदुपरिउष्णोदकेनापूय शन्नोदेवी॰। आपः पुनन्तु॰। द्रुपदादि-वे॰। ऋतञ्च॰। आपोहिष्ठेतिपञ्चभिऋग्भिरभिमन्त्र्यइममेइत्यादिनातीर्थानिस्मरन्स्नायात् गृहेस्नानेसङ्कल्पआचमनमघमर्षणन्तर्पणञ्चन अन्तेआचमनम्मार्जनञ्चकार्यम् एवंस्नात्वावस्त्रेणपाणिनावाजलापनयनमकृत्वाशुष्कंशुभ्रकार्पासवस्त्रम्परिधायस्नानार्द्रवस्त्रमूर्ध्यवतउत्तारयेत् विकच्छोनुत्तरीयश्चनग्नश्चावस्त्रएवच। श्रौतस्मार्तेनवकुर्यात् द्विगुणवस्त्रोदग्धवस्त्रःस्यूतग्रथितवस्त्रःकापायवस्त्रादयोदिगम्बरश्चनग्नाः निष्पीडितंवस्त्रन्नस्कन्धेक्षिपेत् चतुर्गुणीकृत्यवस्त्रङ्गृहेऽधोदशन्नद्यामूर्ध्वदशंस्थलेनिष्पीडयेत् नतुत्रिगुणम् उत्तरीयञ्जीवत्पितृकजीवज्ज्येष्ठभ्रातृकैर्नधार्यम् प्रावारवस्त्रन्तुसर्वैर्धार्यम् इतिप्रातर्नित्यस्नानम् चण्डालसूतकिसूतिकोदक्याचितिकाष्ठशवचण्डालछायादिस्पर्शेस्नानं चाण्डालादिस्पर्शिनमारभ्यतत्स्पृष्टस्पृष्टेषुतृतीयपर्यन्तंसचैलंस्नानं चतुर्थस्याचमनमात्रं तदूर्ध्वम्प्रोक्षणं द्वितीयादेर्दण्डतृणाद्यन्तरितस्पर्शेत्वाचमनमेव वस्त्रान्तरितःसाक्षात्स्पर्शएवेतितत्रचतुर्थस्यैवाचमनं नैमित्तिकस्नानंरात्रावपि मृतेजन्मनिसङ्क्रान्तौश्राद्धेजन्मदिनेतथा।
अस्पृश्यस्पर्शनेचैवनस्नायादुष्णवारिणा १ नैमित्तिकेजलतर्पणादिविधिर्न नित्यस्नानमकृत्वाभुक्तौउपवासः ग्रहसङ्क्रान्त्यादिनैमित्तिकस्नानमकृत्वाभोजनेपानेअष्टसहस्रजपः शुद्रादिस्पर्शनिमित्तेउपवासः श्वकाकचण्डालादिस्पर्शेस्नानमकृत्वाभुक्तौपानेचत्रिरात्रं रजकादिस्पर्शेतदर्धम् इतिनैमित्तिकस्नानं दर्शव्यतीपातरथसप्तम्यादौस्नानङ्कार्तिकस्नानमाघस्नानादिकञ्चकाम्यम् इतिजलावगाहादिरूपवारुणस्नानानि अथगौणस्नानानि आपोहिष्ठादिभिर्मन्त्रैःप्रोक्षणम्मन्त्रस्नानं गायत्र्यादशकृत्वोजलमभिमन्त्र्यतेनसर्वाङ्गप्रोक्षणङ्गायत्रम्
भस्मस्नानमाग्नेयम् आर्द्रवस्त्रेणाङ्गमार्जनङ्कापिलं विष्णुपादोदकवि-
प्रपादोदकप्रोक्षणविष्णुध्यानादिभिश्चस्नानान्तराणि गौणस्नानैर्जपसन्ध्यादौशुद्धिर्नतुश्राद्धदेवार्चनादौ ब्रह्मयज्ञेविकल्पः॥
अथतिलकविधिः प्रातःपुण्ड्रम्मृदाकुर्याद्भुत्वाचैवतुभस्मना। मृदश्चगोपीचन्दनतुलसीमूलसिन्धुतीरजाह्नवीतीरवल्मीकादिस्थाः ललाटोदरहृदयकण्ठेदक्षिणपार्श्वबाहुकर्णदेशेवामपार्श्वबाहुकर्णदेशेपृष्ठेककुदिचेतिद्वादशस्थानेषुशुक्लेकेशवादिनामभिः कृष्णपक्षेसङ्कर्षणादिनामभिःशिरसिवासुदेवेतिमृदातिलकोविधेयः अथभस्मत्रिपुण्ड्रः श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने। भस्मत्रिपुण्ड्रैःपूतात्मामृत्युञ्जयतिमानवः १ भस्मगृहीत्वाअग्निरितिभस्मवायुरितिभस्मजलमितिभस्मस्थलमितिभस्मव्योवेतिभस्मसर्वꣳहवाइदम्भस्ममनएतानिचक्षूंषिभस्मानीतिमन्त्रेणाभिमन्त्र्यजलमिश्रितेनमध्यमाङ्गुलित्रयगृहीतेनललाटहृदयनाभिगलांसबाहुसन्धिपृष्ठशिरःस्थानेषुशिवमन्त्रेण नारायणाष्टाक्षरेणवागायत्र्यावाप्रणवेनवात्रिपुण्ड्रान्कुर्यात्॥
अथसन्ध्याकालः उत्तमातारकोपेतामध्यमालुप्ततारका। अधमासूर्यसहिता प्रातःसन्ध्यात्रिधामता १ उत्तमासूर्यसहितामध्यमालुप्तभास्करा। अधमातारकोपेता सायंसन्ध्यात्रिधामता २ अध्यर्धयामादासायंसन्ध्यामाध्याह्निकीष्यते। सर्वेषांसन्ध्यात्रयं नद्यादौबहिरेवप्रशस्तं साग्निकस्यतुप्रादुष्करणाद्यनुरोधेनसायम्प्रातःसन्ध्येगृहेकर्तव्ये॥
अथसङ्क्षेपतःसन्ध्याप्रयोगोवह्वृचानां दर्भद्वयकृतेपवित्रेग्रन्थियुतेग्रन्थिरहितेवाहस्तयोर्धृत्वाद्विराचम्यप्राणायामङ्कुर्यात् प्रणवस्यपरब्रह्मऋषिःपरमात्मादेवतादैवीगायत्रीच्छन्दः सप्तानांव्याहृतीनांविश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपाऋषयः अग्निवाय्वादित्यबृहस्पतिवरुणेन्द्रविश्वेदेवादेवताः : गायत्र्युष्णिगनुष्टुपबृहतीपङ्क्तित्रिष्टुप्जगत्यश्छन्दांसिगायत्र्याविश्वामित्रऋषिःसवितादेवतागायत्रीच्छन्दः गायत्रीशिरसःप्रजापतिर्ऋषिःब्रह्माग्निवाय्वादित्यादेवताःयजुश्छन्दः प्राणायामेविनियोगः सर्वाङ्गुलीभिस्तर्जनीमध्यमाभिन्नाभिर्वानासान्धृत्वादक्षिणेनवायुमाकृष्यरोधयेत् ॐभूः ॐभुवः ॐस्वः ॐमहः ॐ जनः ॐतपः ॐ सत्यम् ॐतत्सवितुर्वरेण्यं॰ यात् ॐआपोज्योतीरसोमृतम्ब्रह्मभूर्भुवःसुवरोम् इतिसप्रणवसप्तव्याहृतिगायत्रीशिरस्त्रिःपठित्वावामनासयावायुंविसृजेदितिप्राणायामःसर्वशाखासाधारणः ममोपात्तद्भुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थम्प्रातःसन्ध्यामुपासिष्ये आपोहिष्ठेतितृचस्याम्बरीषः सिन्धुद्वीप आपोगायत्रीमार्जनेविनि॰ आपोहिष्ठेतिनवभिःपादैःसप्रणवैःकुशोदकेनमूध्निंविकृत्वोमार्जयेत् यस्यक्षयायेत्यधोमार्जयेत् नद्यादौतीर्थस्थन्ताम्रमृन्मयादिभूमिष्ठपात्रस्थंवावामकरस्थंवाजलन्दर्भादिनादायमार्जनंसर्वत्रनतुधाराच्युतजलेन अथमन्त्राचमनं सूर्यश्चेतिमन्त्रस्ययाज्ञवल्क्यउपनिषदऋषिःसूर्यमामन्युमन्युपतयोरात्रिश्चदेवताः प्रकृतिश्छन्दःआचमनेविनियोगः सूर्यश्चमामन्युश्चमन्युपतयश्चमन्युकृतेभ्यः।
पापेभ्योरक्षन्ताम्। यद्रात्र्यापापमकार्षम्। मनसावाचाहस्ताभ्याम्। पद्ध्यामुदरेणशिश्ना। रात्रिस्तदवलुम्पतु। यत्किञ्चदुरितम्मयि। इदमहम्माममृतयोतौ। सूर्येज्योतिषिजुहोमिस्वाहा। इतिजलम्पिबेत् आचम्य आपोहिष्ठेतिनवऋचस्याम्वरीषःसिन्धुद्वीपआपोगायत्री पञ्चमीवर्धमाना सप्तमीप्रतिष्ठा। अन्त्येद्वेअनुष्टुभौमार्जनेविनियोगः प्रणवेनव्याहृतिभिर्गायत्र्याप्रणवान्तया। आपोहिष्ठेतिसूक्तेन मार्जनञ्चचतुर्थकम् १ ऋगन्तेर्धऋचान्तेवापादान्तेवापिमार्जयेत्। गायत्रीशिरसाचान्ते मार्जयित्वाघमर्षणम् २ ऋतञ्चेतितृचस्यमाधुच्छन्दसोघमर्षणोभाववृत्तमनुष्टुप् अघमर्षणेविनि॰ दक्षिणहस्तेजलङ्कृत्वाऋतञ्चेतिऋक्त्रयन्द्रुपदेतिऋचंवाजप्त्वादक्षिणनासया पापपुरुषन्निरस्यतज्जलन्नावलोक्यवामभागेक्षितौक्षिपेत् आचम्य गायत्र्याविश्वामित्रः सवितागायत्री श्रीसूर्यायार्घ्यदानेवि॰ प्रणवव्याहृतिपूर्वयागायत्र्यातिष्ठन्सूर्योन्मुखः जलाञ्जलिन्त्रिःक्षिपेत् कालातिक्रमेप्रायश्चित्तार्थञ्चतुर्थम् असावादित्योब्रह्मेतिप्रदक्षिणम्भ्रमञ्जलंसिञ्चत् अर्ध्याञ्जलौतर्जन्यङ्गुष्ठयोगोनकार्यः इदमर्घ्यदानम्प्रधानमित्येकेअङ्गमितिपरे अथगायत्रीजपः प्राणायामङ्कृत्वा गायत्र्याविश्वामित्रःसवितागायत्री जपेवि॰ तत्सवितुर्हृदयायनमः वरेण्यंशिरसेस्वाहा भर्गोदेवस्यशिखायैवषट् धीमहिकवचायहुं धियोयोनोनेत्रत्रयायवौषट् प्रचोदयात्अस्त्रायफट् इतिषडङ्गन्यासःकार्यः नवाकार्योन्यासविधेरवैदिकत्वादितिगृह्यपरिशिष्टेस्पष्टम् एतेनाक्षरन्यासपादन्यासादीनाम्मुद्रादिविधेःशापमोचनादिविधेश्चतान्त्रिकत्वेनावैदिकत्वादनावश्यकत्वंवेदितव्यम् मन्त्रदेवतान्ध्यायेत् केचिद्गायत्र्यादिध्यानंवदन्ति आगच्छवरदेदेविजपेमेसन्निधौभव। गायन्तन्त्रायसेयस्माद्गायत्रीत्वन्ततःस्मृता १ इतितामावाह्य योदेवःसवितास्माकन्धियोधर्मादिगोचरे। प्रेरयेत्तस्यतद्भर्गस्तद्वरेण्यमुपास्महे १ इतिमन्त्रार्थञ्चिन्तयन्मौनीप्रातःसूर्याभिमुखस्तिष्ठन्नामण्डलदर्शनात्सप्रणवव्याहृतिकायाःगायत्र्याअष्टशतमष्टाविंशतिन्दशकंवाजपेत् सायंवायव्याभिमुखआनक्षत्रदर्शनादितिविशेषः अनध्यायेऽष्टाविंशतिम्प्रदोषेदशैवजपेदितिकारिकायां रुद्राक्षविद्रुमादिमालाभिरङ्गुलीपर्वभिर्वाजपः अष्टशतञ्चतुःपञ्चाशत्सप्तविंशतिर्वामालामणयः उत्तरन्यासङ्कृत्वोपस्थानं जातवेदसे॰। तच्छंयो॰। नमोब्रह्मणइतिमन्त्रैःसायम्प्रातश्चोपतिष्ठेदितिपरिशिष्टमतं स्मृत्यन्तरेमित्रस्पचर्षणीत्यादिमित्रदेवताकैःप्रातः इमम्मेवरुणेत्यादिभिर्वरुणपदोपेतैः सायंसूर्योपस्थानमुक्तम् प्राच्यैदिशेनमइन्द्रायनमःआग्नेय्यैदिशे॰अग्नयेनमः इत्यादिना दशदिग्वन्दनान्ते सन्ध्यायैनमः गायत्र्यैनमः सावित्र्यै॰ सरस्वत्यै॰ सर्वाभ्योदेवताभ्योनमइतिनत्वा उत्तमेशिखरेजातेभूम्याम्पर्वतमूर्धनि। ब्राह्मणैरग्न्यनुज्ञातागच्छदेविग्रयासुखम् १ इतिविसृज्य भद्रन्नोअपिवातयमनःइतित्रिरुक्ताप्रदक्षिणम्भ्रमन् आस-
त्यलोकादापावालादालोकालोकपर्वतात्। येसन्तिब्राह्मणादेवास्तेभ्योनित्यन्नमोनमः १ इतिभूम्युपसङ्ग्रहनमस्कृत्यद्विराचामेदिति॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा