निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथतैत्तिरीयाणांसङ्कल्पान्तम्पूर्ववत् गायत्रीन्ध्यात्वा आयातुवरदादेवीअक्षरम्ब्रह्मसम्मितम्। गायत्रीञ्छन्दसाम्मातरिदम्ब्रह्मजुषस्वमे १ सर्ववर्णेमहादेविसन्ध्याविद्येसरस्वति। अजरेअमरेदेविसर्वदेविनमोस्तुते २ ओजोसिसहोसिबलमसिभ्राजोसि देवानान्धामनामासिविश्वमसिविश्वायुःसर्वमसिसर्वायुरभिभूरोङ्गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहया॰ छन्दऋषीनावाह॰ श्रियं॰ ह्रियमावाद्दयामि इत्यावाह्यमार्जनम्पूर्ववत् आपोवाइदꣳसर्वंविश्वाभूतान्यापःप्राणावाआपःपशवआपोन्नमापोमृतमापःसम्राडापोविराडापःस्वराडापश्छन्दाꣳस्यापोज्योतीꣳष्यापोयजूꣳण्यापःसत्यमापःसर्वादेवताआपोभूर्भुवःसुवरापआपॐमितिजलमभिमन्त्र्यसूर्यश्चेतिपूर्ववन्मन्त्राचमनं दधिक्राव्णोअकारिषमितिऋचमुक्त्वाआपोहिष्ठेतितिसृभिःहिरण्यवर्णाइतिपवमानःसुवर्चनइत्यनुवाकेनचऋगन्तेमार्जनान्तेऽघमर्षणङ्कृत्वानकृत्वावार्घ्यदनादिगायत्रीजपान्तमावाहनमन्त्रवर्ज्यम्पूर्ववत् न्यासविधेरवैदिकत्वमुक्तमेवजपान्तेउपस्थानं मित्रस्यचर्षणी॰। मित्रोजनान्॰। प्रसमित्र॰। यच्चिद्धिते॰। यत्किञ्चेदं॰। कितवासोयद्रि॰। इतिषड्भिरुपस्थाय प्राच्यैदिशेयाश्वदेवताएतस्याम्प्रतिवसन्त्येताभ्यश्चनमोनमइत्यादिनाअधरान्ताःषट्नत्वाअवान्तरायैदिशेयाश्चदेवताइतिचनत्वानमोगङ्गायमुनयोर्मध्येइत्यादिनामुनिदेवान्नत्वासꣳस्रवन्तुदिशोइतिमन्त्रम्पठित्वागोत्राद्युच्चार्यपूर्ववद्भूम्युपसङ्ग्रहन्नत्वापूर्ववत्सन्ध्यांविसृजेदिति॥
अथकात्यायनानांसन्ध्याप्रयोगः आचम्यभूःपुनातुभुवःपुनातुश्वःपुनातुभूर्भुवःस्वःपुनात्वित्यादिनापावनङ्कृत्वाअपवित्रःपवित्रोवेतिविष्णुंस्मृत्वाआसनादिविधिङ्कृत्वाद्विराचम्यप्राणानायम्यपूर्ववत्सङ्कल्प्य गायत्रीन्त्र्यक्षराम्बालांसाक्षसूत्रकमण्डलुम्। रक्तवस्त्राञ्चतुर्वक्रांहंसवाहनसंस्थिताम् १ ब्रह्माणीम्ब्रह्मदैवत्याम्ब्रह्मलोकनिवासिनीम्। आवाहयाम्यहन्देवीमायातींसूर्यमण्डलात् २ आगच्छवरदेदेवित्र्यक्षरेब्रह्मवादिनि। गायत्रीछन्दसाम्मातर्ब्रह्मयोनेनमोस्तुते ३ इत्यावाह्यपूर्ववत्आपोहिष्ठेतितृचेनमार्जयेत् सूर्यश्चेतिमन्त्रस्यनारायणऋषिःसूर्योदेवताअनुष्टुप्छन्दःआचमनेविनियोगः सूर्यश्चेतिजलम्प्राश्याचम्य आपोहिष्ठेतिनवऋङ्मार्जनङ्कुर्यादितिकेचिदाहुः बहवस्तुसङ्कल्पाद्यन्तेसूर्यश्चेतिमन्त्राचमनङ्कृत्वाऽऽपोहिष्ठेतितिसृभिःप्रतिपादम्मार्जनान्तेऽघमर्षणकार्थनतुमार्जनद्वयमित्याहुः सुमित्र्यादुमिन्त्र्याइतिद्वयोःप्रजापतिर्ऋषिःआपोदेवतायजुश्छम्आदान वि॰ सुमित्र्यानआपओषधयःसन्तुइतिजलमादायदुर्मित्र्यास्तस्यैसन्तु दान्द्वेर्ष्ठियञ्चवयन्द्विष्मइतिवामभुविक्षिपेत् ततऋतञ्चेतितृचेनद्रुपदेतित्रिरुक्तऋचावाघमर्षणम्पूर्ववत् सायम्प्रातश्चत्रिरर्घ्यदानम्पुष्पयुतजलेनपूर्ववत् मध्याह्नेसकृत् गायत्र्या-
परितउक्षणम् अयोपस्थानम् उद्वयमुदुत्यमितिद्वयोःप्रस्कण्वःसूर्योनुष्टुप्गायत्र्यौ चित्रन्देवानामाङ्गिरसःकुत्सःसूर्यस्त्रिष्टुप् तच्चक्षुर्दध्यढ्काथर्वणःसूर्यःपुरउष्णिक् उपस्थाने॰ उद्वयन्तमस॰ १ उदुत्यञ्जा॰१ चित्रन्दे॰१ तच्चक्षुर्देवहितं॰ इतिऊर्ध्वबाहुःसूर्यमुदीक्षमाणोयथाशाखम्पठेत् प्राणायामादिविधायन्यासमुद्रातर्पणादिविधिःकृताकृतः तेजोसीतिपरमेष्ठीप्रजापतिराज्यंयजुःआवाहने ० तेजोसिशुक्रमस्यमृतमसिधामनामासिप्रियन्देवानामनाधृष्टन्देवयजनमसि परोरजसइतिविमलःपरमात्मानुष्टप् गायत्र्युपस्था॰ गायत्र्यस्येकपदीद्विपदीत्रिपदीचतुष्पद्यपदसिर्नाहपद्यसेनमस्तेतुरीयायदर्शनायपदायपरोरजसेसावदों ततोगायत्रीजपान्तम्पूर्ववत् ततःशक्तेनविभ्राडित्यनुवाकेनपुरुषसूक्तेनवाशिवसङ्कल्पेनवामण्डलब्राह्मणेनवोपस्थानङ्कार्यम् अत्रऋक्शाखोक्तवदिग्वन्दनङ्केचित्कुर्वन्ति ततउत्तमेशिखरे॰ देवागातुविदोगातुमितिमन्त्राभ्यांविसर्जनम् भूम्युपसङ्ग्रहन्नम्मस्कारादिपूर्ववत् इतिकात्यायनसन्ध्या सन्ध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः। अन्यकर्मफलन्नास्तिसन्ध्याहीनेऽशुचित्वतः। जीवमानोभवेच्छूद्रोमृतःश्वाजायतेध्रुवम्। सन्ध्यात्रयेकालातिक्रमेप्रायश्चित्तार्थमेकमर्ध्यमधिकन्दत्त्वारात्रौप्रहरपर्यन्तन्दिनोक्तकर्माणिकुर्यात् ब्रह्मयज्ञस्मैरञ्चवर्जयेत् सर्वथासन्ध्यालोपेप्रतिसन्ध्यमेकोपवासोयुतमष्टोत्तरसहस्रंवागायत्रीजपः अत्यशक्तौप्रतिसन्ध्यालोपंशतगायत्रीजपः द्व्यहन्त्र्यहंलोपेतदावृत्तिः ततःपरङ्कृच्छ्रादिकल्प्यम्॥
अथौपासनहोमः स्वयंहोमोमुख्यः अशक्तौपत्नीपुत्रःकुमारीभ्राताशिष्यो भागिनेयोजामाताऋत्विग्वा पुत्रादिर्दम्पत्योः सन्निधानेएकतरसन्निधानेवाजुहुयात्त्यासागंयजमानःपत्नीवाकुर्यात् तस्या असन्निधौतदाज्ञयाऋत्विगादिरपि पत्न्याऋतुप्रसवोन्मादादिदोषेतुतदाज्ञांविनापिऋत्विगादिस्त्यागङ्कुर्यात् स्वयंहोमेफलंयत्स्यादन्यैर्होमेतदर्धकम्। पर्वणितुस्वयमेवजुहुयात् तत्रप्रातःसूर्योदयात्प्राक्सायंसूर्यास्तात्प्राक्अग्नीनाङ्गृह्याग्नेर्वाप्रादुष्करणङ्कृत्वासूर्योदयास्तोत्तरंहोमःकार्यः प्रादुष्करणकालातिक्रमेॐभूर्भुवःस्वःस्वाहेतिमन्त्रेणस्रुवाज्याहुतिरूपंसर्वप्रायश्चित्तमाज्यसंस्कारपूर्वकङ्कृत्वाहोमः सूर्योदयोत्तरन्दशघटिकापर्यन्तम्प्रातर्होमकालोमुख्यः ततआसायङ्गौणः सायन्नवनाडिकापर्यन्तम्मुख्यः ततआप्रातर्गौणः मुख्यकालातिक्रमेकालातिक्रमनिमित्तप्रायश्चित्तपूर्वकममुकहोमङ्करिष्यइतिसङ्कल्प्याज्यंसंस्कृत्यस्रुचिचतुर्गृहीतङ्गृहीत्वासायङ्कालेदोषावस्तर्नमःस्वाहेतिहुत्वाप्रातस्तुप्रातर्वस्तर्नमःस्वाहेतिहुत्वाहौम्यंसंस्कृत्यनित्यहोमः श्रौतहोमङ्कृत्वास्मार्तहोमः केचित्स्मार्तहोमम्पूर्वमाहुः
आधानेपुनराधानेसायमुपक्रमोहोमः सायम्प्रातर्होमयोर्द्रव्यैक्यङ्कर्त्रैक्यञ्च प्रातर्यजमानः कर्ताचेत्कर्तृभेदोनदोषाय अथाश्वलायनस्मार्तहोमः आचम्यप्राणानायम्यदेशकालौ सङ्कीर्त्यश्रीपरमेश्वरप्रीत्यर्थंसायमौपासनहोमम्प्रातरौपासनहोमंवामुकद्रव्येणकरिष्येचत्वारिशृङ्गेतिध्यात्वासोदकहस्तेनत्रिःपरिसमुह्यपरिस्तीर्यत्रिःपर्युक्ष्य होमद्रव्यंसमिद्युतमुत्तरतःस्थितन्दर्भेणावज्वल्यप्रोक्ष्यत्रिःपर्यग्निकृत्वाऽग्नेः पश्चिमतोदर्भेनिधायविश्वानिनइत्यभ्यर्च्यप्रजापतिम्मनसाध्यायन्समिधमग्नौप्रक्षिप्य तथैवत्यक्त्वासमिधिदीप्तायांशततण्डुलैरग्नयेस्वाहेतिसायम्प्रथमाहुतिः सूर्यायस्वाहेतिप्रातःप्रथमाहुतिः शताधिकतण्डुलैःप्रजापतयइतिमनसोच्चार्यहोमत्यागाभ्यान्द्वितीयाहुतिरुभयकाले परिस्तरणंविसृज्यपरिसमूहनपर्युक्षणेकृत्वोपस्थानम् अग्नआयूंषीतितिसृणां शतंवैखानसाअग्निःपवमानोगायत्री अग्न्युपस्थानेविनियोगः अग्नेत्वन्नइतिचतसृणां गौपायनाबन्धुःसुवन्धुःश्रुतबन्धुर्विप्रवन्धुश्चाग्निर्द्विपदाविरादअग्न्युपस्थानेवि॰प्रजापतेहिरण्यगर्भःप्रजापतिस्त्रिष्टुप् प्रजापत्युपस्थानेविनियोगः तन्तुन्तन्वन्देवाअग्निर्जगती यद्वा देवाप्रजापतिर्जगती उपस्थानेविनियोगः हिरण्यगर्भोहिरण्यगर्भःप्रजापतिस्त्रिष्टुप् प्रजापत्युप॰ इतिवायव्यदेशेतिष्ठन्नुपस्थायउपविश्यमानस्तोकइत्यादिनाविभूतिधारणङ्क्वचिदुक्तं विष्णुंस्मृत्वा अनेनहोमकर्मणापरमेश्वरःप्रीयतामित्यर्पयेत् प्रातस्तुसूर्योनोदिवःसूर्यश्चक्षुःसूर्योगायत्री सूर्योप॰ उदुत्यङ्काण्वःप्रस्कण्वःसूर्योगायत्री सूर्योप॰ चित्रन्देवानामाङ्गिरसःकुत्सःसूर्यस्त्रिष्टुप् सूर्योप॰ नमोमित्रस्यसौर्योभितपाःसूर्योजगती सूर्यो॰ इतिचतुर्भिःपूर्वोक्तस्त्रिभिःप्राजापत्यैश्चोपस्थानं केचित्प्रातस्तन्तुन्तन्वन्नितिनपठन्ति पत्नीकुमारीकर्तृकहोमेध्यानोपस्थानादौमन्त्रावर्ज्याः अथहिरण्यकेशीयानां
पूर्वोक्तसङ्कल्पाद्यन्ते यथाहतद्वसवइतिपरसमुह्यपरिस्तीर्य अदितेनुमन्यस्वेतिदक्षिणतःप्राचीनम्पर्युक्षेत् अनुमतेनुमन्यस्वेतिपश्चादुदीचीनं सरस्वतेनुमन्य-स्वेतिउत्तरतःप्राचीनं देवसवितःप्रसुवेतिसर्वतः तूष्णींसमिधमा-धायहोमादिमाग्वत् अदितेन्वम्ँस्थाः अनुमतेन्त्र॰ सरस्वतेन्व॰ देवसवितःप्रासा-वीरितिपूर्ववत्परिषेचनम् उदुत्यञ्चित्रन्देवानामितिमातरुपस्थानम् अग्निर्मूर्धादिवइतित्वामने पुष्करादधीतिद्वाभ्यांसायमुपस्थानम्
आपस्तम्वानां सायमग्नयेस्वाहाऽग्नये स्विष्टकृतेस्वाहेतिद्वेआहुती प्रातस्तुसूर्यायस्वाहाग्नयेस्विष्टकृतेस्वाहेतिविशेषः शेषंहिरण्यकेशीयवत् अथकात्यायनानां सायमस्तमितेहोमः
प्रातःसूर्येऽनुदितेहोमः तत्रप्रातरुपस्थानान्तांसन्ध्याङ्कृत्वाहोमान्तेगायत्रीजपासन्ध्यासमापनं तत्रपूर्ववत्सङ्कल्पान्तेउपयमनात्कुशानादायसव्येकृत्वादक्षिणकरे-
णतिस्रःसमिधोग्नावाधायमणिकोदकेनपर्युक्ष्याग्निमर्चयित्वाग्नयेस्वाहाप्रजापतयेस्वाहेतिसायन्दध्नातण्डुलैर्वाहुत्वाप्रातस्तथैवसूर्यायप्रजापतयेचजुहुयात् समास्त्वेत्यनुवाकेन सायमुपस्थानम्प्रातस्तुविभ्राडित्यनुवाकेन अत्रदधिहोमादौसंस्रावप्राशनमाहुः होमलोपेऽष्टोत्तरसहस्रगायत्रीजपः मुख्यकालातिक्रमेअनादिष्टहोमः अथहोमद्रव्याणि
व्रीहिश्यामाकयवानान्तण्डुलाःपयोदधिसर्पिर्यवव्रीहिगोधूमप्रियङ्गवः स्वरूपेणापिहोम्याः तिलास्तुस्वरूपेणैव तण्डुलादयःशतसङ्ख्याहस्तेनहोतव्याः दध्यादिद्रवद्रव्यंस्रुवेण सर्वत्रोत्तराहुतिःपूर्वतोभूयसी समिधश्चार्कपलाशखदिरापामार्गपिप्पलोदुम्बरशमीदूर्वादर्भमयादशद्वादशाङ्गुलाःसत्वचः वटप्लक्षविल्वादिजाहेमाद्रौहोमाहुत्योःसंसर्गे यत्रवेत्थेतिमन्त्रेणाग्नयेसमिद्धोमः नित्यहोमेत्वतिक्रान्तेआज्यंसंस्कृत्यचतुर्गृहीत्वामनोज्योतिर्जुषतामितिजुहुयात्
द्वादशदिनपर्यन्तंहोमलोपेइदमेवप्रायश्चित्तं ततःपरमग्निनाशः एवंहोमलोपप्रायश्चित्तङ्कृत्वातिक्रान्तहोमार्थन्द्रव्यंसंस्कृत्यसायम्प्रातःक्रमेणद्वेद्वेआहुतीदिनगणनयाजुहुयात्अग्निसूर्यप्रजापतीनुपतिष्ठेन्नवाजुहुयात्प्रायश्चित्तेनचारितार्थ्यां सूतकादिनाहोमलोपेप्येवं हिरण्यकेशीयानामप्येवम् आपस्तम्बादीनान्त्रिरात्रात्परमग्निनाशोभवतीतिसूतकेपिस्वयंहोमः कार्यः
समारोपोत्तरंसूतकपातेप्रत्यवरोहासम्भवेनत्रिरात्रंहोमलोपेपुनराधानम् अथसमस्यहोमः सायम्प्रातर्होमौसमस्यकरिष्ये पूर्ववत्सायङ्कालहोमान्तङ्कृत्वापर्युक्ष्यपुनर्द्रव्यंसंस्कृत्यसमिधम्प्रक्षिप्यसूर्यप्रजापत्याहुतीदत्त्वाहविष्पान्तमित्युपतिष्ठेत् हविष्पान्तमितिपञ्चर्चस्यवामदेवःसूर्यवैश्वानरौत्रिष्टुप् नित्यवत्प्रजापत्युपस्थानम् अथपक्षहोमः प्रतिपदि
अद्यसायमारभ्यचतुर्दशीसायमवधिकान्पक्षहोमान्तन्त्रेणकरिष्ये सायन्तण्डुलान्पात्रद्वयेवृद्धिक्षयानुसारेण चतुर्दशादिवारङ्गृहीत्वाहोमकालेऽग्नयेस्वाहेतिसर्वान्पूर्वपात्रस्थानेकदैवहुत्वाद्वितीयपात्रस्थान्प्रजापतयेतथैवजुहुयात् एवन्द्वितीयायाम्प्रातरद्यावधिपर्वप्रातरवधिकान्पक्षहोमान्तन्त्रेणकरिष्यइत्यादिसायंवत् विशेषस्तुप्रथमपात्रस्थान्सूर्यायस्वाहेतिजुहुयात् द्वितीयपात्रस्थान्प्रजापतयेहुत्वोभयत्रसमिदेकोपस्थानादिसकृत् पक्षमध्येआपत्प्राप्तौ तत्सायङ्कालाच्चतुर्दशीसायम्पर्यतान्शेषहोमान्सायम्पक्षहोमवद्धुत्वापर्वप्रातर्होमान्तान्प्रातर्जुहुयात् सर्वथापर्वसायंहोमःप्रतिपत्प्रातर्होमश्चपृथगेव इतिपक्षहोमशेषहोमौ पक्षमध्येआपनन्निवृत्तावपकृष्टाहोमाःपुनःकार्याः सन्ततपक्षहोमत्रयेऽग्निनाशात्तृतीयेपक्षेप्रतिदिनंहोमः
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा