निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
सर्वथापन्निवृत्त्यभावेयावज्जीवम्पक्षहोमाः अथसमारोपः अयन्तेयोनिरित्यस्यविश्वामित्रोग्निरनुष्टुप् अग्निसमारोपेवि॰ अनेनमन्त्रेणहोमोत्तरमरणीमश्वत्थसमिधंवाप्रताप्याग्निसमारोहन्तत्रभावयेत् होमादिकालेअरणीन्निर्मथ्यप्रत्यवरोहेतिमन्त्रेण स्थण्डिलेग्निम्प्रतिष्ठापयेत् समित्समारोपेश्रोत्रियागारादग्निम्प्रतिष्ठाप्यप्रत्यवरोहेतिमन्त्रे–
णतांसमिधमग्नाबादध्यात् सूत्रान्तरेआजुह्वानउद्बुध्यस्वेतिमन्त्राभ्याप्रत्यवरोहणम् प्रत्यहंसमारोपादिद्वादशदिनमेव पर्वणिसायंहोमकालपर्यन्तम्प्रत्यवरोहणाभावेग्निनाशइतिकेचित् समारोपप्रत्यवरोहौयजमानकर्तृकावेव तेनसमारोपोत्तरम्पर्वण्याशौचप्राप्तौप्रत्यवरोहासम्भवादग्निनाशः इदमापस्तम्बादिपरम् आश्वलायनानान्तुद्वादशरात्रमध्येपर्वणिप्रत्यवरोहाभावेपिनाग्निनाशः किन्तुद्वादशरात्रोत्तरंहोमलोपएवेत्यपरे राजक्रान्त्यादिसङ्कटेऋत्विग्द्वारापिसमारोपादि केचिदृत्विगाद्यभावेनानन्यगतिकत्वे आशौचपातात्पूर्वम्पर्वहोमसहितानपिहोमानपकृष्यकृत्वानकृत्वावासमारोपङ्कृत्वासूतकान्तेप्रत्यवरोहःकार्योनात्रपर्वोल्लङ्घनदोषइत्याहुः समारोपोत्तरन्दन्त्योःप्रवासेसीमानद्योरुल्लङ्घनकाले उभाभ्यामन्यतरेणवासमिदाद्यन्वारम्भःकार्यः अन्यथाग्निनाशः यजमानस्यैक्प्रवासेकृत्यम् अभयंवोभयम्मेस्त्वितिअग्निमुपस्थायप्रवासङ्गच्छेत् ततआगत्यगृहामाबिभीतोपवःस्वस्त्येवोस्मासुचप्रजायध्वम्माचवोगोपतीरिषदितिमन्त्रेणस्वगृहन्निरीक्ष्यगृहा
नहंसुमनसःप्रपद्येवीरघ्नोवीरवतःसुवीरान् । इरांवहन्तोघृतमुक्षमाणास्तेष्वहंसुमनाःसंविशामीतिगृहम्प्रविश्यशिवंशग्मंशंयोःशंयोरितिपुनस्त्रिरनुवीक्ष्यनित्वहोमान्तेअभयंवोभयम्मेस्त्वित्यग्निमुपतिष्ठेत् ज्येष्ठपुत्रशिरःपाणिभ्याम्परिगृह्यअङ्गादङ्गात्सम्भवसीतिमन्त्रञ्जपित्वामूर्धानन्त्रिर्जिघ्रेत् एवमितरपुत्राणामप्रत्तकन्यानान्तूष्णीञ्जिघ्रेत् प्रवासादागतम्प्रतिज्ञातमपिअप्रियन्तद्दिनेनवदेयुः प्रोषितेपत्यौ पत्नीस्मार्तहोमौस्वयङ्कृत्वादर्शपूर्णमासस्थालीपाकपिण्डपितृयज्ञान्विप्रेणकारयेत् अनुगतप्रायश्चित्तादिपत्न्यांरजस्वलायामपिऋत्विक्कुर्यात् पुनःसन्धानन्तुपत्यौप्रोषितेनभवेत् नैमित्तिकाजातेष्टिगृहदाहेष्टयोपिनभवन्तिप्रायश्चित्तेष्टेःपूर्णाहुतिः
अथोपासनाग्न्यनुगमनेगृह्याग्नेरनुगमनप्रायश्चित्तङ्करिष्येइतिसङ्कल्प्यआयतनस्थम्भस्मदूरीकृत्योपलेपादिकृत्वाग्निम्प्रतिष्ठाप्याज्यंसंस्कृत्यअयाश्चेतिमन्त्रेणैकामाज्याहुतिंसर्वप्रायश्चित्तञ्चहुत्वादम्पत्योरन्यतरेणापरहोमकालपर्यन्तमुपोषितेनस्थातव्यम् एवन्द्वादशरात्रपर्यन्तं केचिदुपवासमयाश्चेतिहोमंवाकुर्यात्नद्वयमित्याहुः एतद्वृत्तिकारमतं केचित्तुयद्यग्न्यनुगमनेहोमकालद्वयातिक्रमस्तदानष्टाग्निसन्धानं तत्रत्रिरात्रमग्निनाशेप्राणायामशतं ततआविंशतिरात्रमेकदिनोपवासः ततआमासद्वयन्त्रिरात्रोपवासः ततऊर्ध्वंसंवत्सरपर्यन्तम्प्राजापत्यकृछ्रं ततःप्रतिवर्षङ्कृछ्रावृत्तिः एवम्प्रायश्चित्तं कृत्वाआधानोक्तसम्भारान्निधायनष्टस्यगृह्याग्नेःप्रायश्चित्तङ्करिष्येइतिसङ्कल्प्यायाश्चेत्याज्येनस्रुवाहुतिपत्न्युपवासादिपूर्ववत् लाजाहोमादिकंवा एवन्द्वादशरात्रपर्यन्तमग्न्युत्प-
त्तिरित्याहुः द्वादशदिनोत्तरंविच्छेदप्रायश्चित्तंहोमादिद्रव्यदानञ्चकृत्वाविवाहहोमादिविधिनायथास्वस्वगृह्यम्पुनःसन्धानम् अथान्वाहिताग्नेःप्राक्यागादनुगतौआयाश्चेतिपूर्ववदग्निमुत्पाद्यपुनरन्वाधानङ्कृत्वाभूर्भुवःस्वरित्युपस्थायसर्वप्रायश्चित्तंहुत्वास्थालीपाकङ्कुर्यात् अन्वाधानोत्तरम्प्रयाणप्राप्तौतुभ्यन्ताअङ्गिरस्तमइत्याज्याहुतिमग्नयेहुत्वासंर्वप्रायश्चित्तंहुत्वाग्निंसमारोप्यगच्छेत् समारूढेसमिन्नाशेपुनराधेयमिष्यते। उपलेपादिकङ्कृत्वानष्टाग्निप्रायश्चित्तम्पुनराधेयंसङ्कल्प्यआधानोक्तसम्भारान्निधायाग्निम्प्रतिष्ठाप्यअया
श्चेतिस्रुवाज्याहुतिंसर्वप्रायश्चित्तञ्चजुहुयादतिपुनराधेयं स्वाग्निभ्रमेणान्याग्नौस्वयंयजनेस्वाग्नावन्ययजनेवापथिकृत्स्थालोपाकङ्करिष्यइतिसङ्कल्प्यचरुःकार्योथवापथिकृत्स्थानेपूर्णाहुतिंहोष्यामीतिसङ्कल्प्यस्रुचिद्वादशवारञ्चतुर्वारंवाज्यङ्गृहीत्वाअग्नयेपथिकृतेस्वाहेतिजुहुयात् विवाहोत्तरमाधानोत्तरं वापौर्णमास्यस्थालीपाकारम्भः प्रतिपदियागोतिक्रान्तश्चेदागामिपर्वपूर्वतिथिषुचतुर्थीनवमीचतुर्दशीद्वितीयापञ्चम्यष्टमीर्विहायकार्यः नात्रकालातिक्रमप्रायश्चित्तम् अन्वाधानोत्तरम्प्रतिपदीष्ट्यकरणेतृतीयादितिथिपुसर्वप्रायश्चित्तंहुत्वापुनरन्वाधाययागः द्वितीयपर्वप्राप्तौअतीतेष्टिःपथिकृच्चरुपूर्वकम्पर्वणिकार्या तत्राप्यतिक्रमेद्वितीयप्रतिपदिलुप्तेष्टेःपादकृछ्रङ्कृत्वाप्राप्तकालयागः द्वितीययागस्यापिआगामितिथिषुलोपेतत्पर्वणिपादकृछ्रपथिकृत्पूर्वर्कन्द्वितीययागः तत्राप्यतिक्रमेतृतीयप्रतिपदिअर्धकृछ्रंयागद्वयस्य कृत्वाप्राप्तयागः तृतीययागस्योक्ततिथावर्धकृछ्रपथिकृत्पूर्वकञ्चतुर्थपर्वणिवाअकरणे अग्निनाशात्पुनराधेयम् अत्रपुनराधेयस्वरूपंसम्भारनिधानपूर्वकमयाश्चेतिस्रुवाज्याहुतिरित्यन्वारूढसमिन्नाशस्थलेउक्तमेव पुनराधानन्तुविवाहहोमादिरूपम्पुनराधेयाद्भिन्नम् आयतनाद्वहिःशम्यापरासात्प्राक्वह्निपातेइदन्तएकमित्यृचातमायतनेप्रक्षिप्यसर्वप्रायश्चित्तञ्जुहुयात् पर्वणिव्रतलोपेग्नयेव्रतपतयेचरुःपूर्णाहुतिर्वा पर्वणिदम्पत्योरन्यतराश्रुपातेग्नयेव्रतभृतेचरुःपूर्णाहुतिर्वा पवित्रनाशेऽग्नयेपवित्रवतेचरुःपूर्णाहुतिर्वा अन्वाधानेष्टिमध्येचन्द्रग्रहणेअत्राहगोरितिचन्द्रायाज्यंहुत्वानवोनवोइत्युपस्थायेध्माधानादियागः सूर्योपरागेउद्वयमितिसूर्यायाज्यंहुत्वाचित्रन्देवानामित्युपस्थाम् अन्वाधानोत्तरंस्वप्नेरेतोविसर्गेइमम्मेवरुणतत्त्वायामीतिवरुणायद्वेआज्याहुतीरविपूजापुनर्मामैत्तिसौत्रमन्त्रयोर्जपश्च बुद्ध्यारेतोविसर्गेग्निव्रतपतिचरुःअन्यदस्वप्नेरेतोविसर्गेसूर्यनमस्कारत्रयम् इध्माधानोत्तरंहविर्दोषेदुष्टस्थानेआज्यम्प्रतिनिधिकृत्वायागंसमाप्यदुष्टञ्जलेत्यक्त्वान्वाधानादिस्तद्देवताकःपुनर्यागः इध्माधानात्पूर्वंहविर्दोषेतद्देवताकंहविःपुनरुत्पाद्ययागः स्विष्टकृदर्थहविर्दोषेआज्येनस्विष्टकृतङ्कुर्यात् अङ्गहविर्दोषेतदाज्यम्पुनरुत्पादयेत् हविर्दोषास्तु प्रच्युतनखकेशैःकीटैरक्तास्थिविण्मूत्रश्लेष्माद्यैर्बीभत्सितैश्व मार्जारनकुलकाकैर्मुखजलबिन्दुघर्मनासिकामलाश्रुकर्णमलैः सूतिकारजस्वलाचा-
ण्डालादिदृष्टिभिश्चसंसर्गाः देवताहविर्मन्त्रादिविपर्यासेयद्वोदेवाइतिमरुद्भ्यआज्यहोमः कृत्स्नहविर्दाहेतद्धविरुत्पाद्यसएवयागोनतुपुनर्यागः पूर्वादिचतुर्दिक्षुचरूत्सेकेअग्नयेयमायवरुणायसोमायेतिक्रमेणहुत्वासर्वतउत्सेकेचतुर्भ्योपिहुत्वाकोणेषूत्सेकेव्याहृतीर्हुत्वाचरुमाप्यायस्वसन्तेपयांसीतिमन्त्राभ्यामाज्येनाप्यायति अग्नौमिन्दाहुतीचद्वेइतिकेचिं स्वगृह्याग्नेरन्यगृह्याग्निनासंसर्गेउभौयजमानौयुगपत्तमग्निंसमारोप्योभौप्रत्यवरोहणङ्कृत्वाऽग्नयेविविचयेचरुङ्कुर्यातां शवाग्निनासंसर्गेऽग्नयेशुचयेचरुः पचनाग्निनासंसर्गेसंवर्गायाग्नयेचरुः सर्वत्रसंसर्गेसमारोपप्रत्यवरोहणोत्तरञ्चरुः स्वयमग्निप्रज्वलनेउद्दीप्यस्वजातवेदो॰। मानोहिंसीर्जातवेदोगामश्वम्पुरुषञ्जगत्। अबिभ्रदग्नआगहिश्रियामापरिपातयेतिद्वाभ्यान्द्वेसमिधावग्नयेजुहुयात् सर्वत्रविध्यपराधेसाङ्गतार्थंसर्वप्रायश्चित्तं गृहदाहेऽग्नयेक्षामवतेचरुः एवमन्यान्यपिप्रायश्चित्तानिबह्वृचब्राह्मणादिषुक्तानिज्ञेयानि यत्रतुप्रायश्चित्तविशेषोनोक्तस्तत्रसर्वप्रायश्चित्तम् भूर्भुवःस्वरित्यनेनाज्याहुतेःसर्वप्रायश्चित्तसञ्ज्ञा॥
अथाग्न्युपघातनिमित्तानि श्वशुकररासभकाकसृगालमर्कटशूद्रान्त्यजपतितकुणपसूतिकारजस्वलाभिःपुरीषमूत्ररेतोश्रुपूयश्लेष्मशोणितास्थिमांसादिभिरन्यैर्वा जुगुप्सितैरारोपितारणिस्पर्शेऽग्नेःस्पर्शेवाऽग्निनाशः तत्रारणिगतेवह्नौनष्टेपुनराधेयमग्नेःस्पर्शेपुनराधानं यद्वा पुनस्त्वादित्यारुद्रावसवःसमिन्धताम्पुनर्ब्रह्माणोवसुनीथयज्ञैः। घृतेनत्वन्तन्वंवर्धयस्वसत्याःसन्तुयजमानस्यकामाःस्वाहा। आदित्यरुद्रवसुब्रह्मभ्यइदन्नममेतिर्सामिद्धोमःस्रुवेणाज्याहुतिर्वा अग्नौजलोपघातेपीदमेव स्वस्यजीविनोमृतशब्दश्रवणेऽग्नयेसुरभिमतेचरुःपूर्णाहुतिर्वा प्रधानाहुतीनांस्विष्टकृतासंसर्गेसर्वप्रायश्चित्तम् पिण्डपितृयज्ञेअतिप्रणीतनाशेतत्राहोमपक्षेसर्वप्रायश्चित्तं होमपक्षेपुनःप्रणयनमपि आपस्तम्बानाम्प्रायश्चित्तान्तेप्रणयनमेवनित्यम् पिण्डपितृयज्ञलोपेवैश्वानरश्चरुः सप्तहोत्राख्यमहाहविर्होतेत्यादिमन्त्रैःपूर्णाहुतिर्वा श्रवणाकर्मसर्पवल्याश्वयुज्याग्रयणप्रत्यवरोहणकर्मणामन्यतमलोपेप्राजापत्यकृछ्रम् अकृताग्रयणस्यनवान्नभक्षणेऽग्नयेवैश्वानरायचरुः अष्टकालोपेउपवासःपूर्वेद्युःश्राद्धलोपेऽप्युपवासः उपवासप्रत्याम्नायएकविप्रभोजनंवा अन्वष्टक्यालोपेएभिर्द्युभिःसुमनाएभिरिन्दुभिरितिऋचःशतञ्जपः सर्वत्रचरुस्थानेपूर्णाहुतिः दर्शपूर्णमासानारम्भे आलस्यादिनापूर्णाहुतिकरणेतुयागपर्याप्तन्त्रीयाज्यन्देयमितिगृह्याग्निसागरे निषिद्धतिथ्यादौस्वभार्यागमनेअयाज्ययाजने लशुनादिगणिकान्नाद्यभोज्यभोजनेनिषिद्धप्रतिग्रहेपुनर्मामैत्विन्द्रियं॰ इमेयेधिष्ण्यासइतिद्वाभ्यामाज्यहोमःसमिद्धोमोवाजपोवा गृहोपरिकपोतोपवेशनेदेवाःकपोतइति पञ्चर्चसूक्तजपःप्रत्यृचमाज्यहोमोवापाकयज्ञतन्त्रेण दुःस्वप्नदर्शनेयोमेराजन्युज्योवेतिऋचासूर्योपस्थानम् आतुरत्वनाशाययक्ष्मरोगनाशायवामुञ्चामित्वेतिसूक्तेनप्रत्यृचं
चरोर्होमः यक्ष्मना शायेदन्नममेतिपञ्चसुत्यागः षष्ठंस्विष्टकृदिति प्रोक्षणीप्रणीतास्थजलानाम्बिन्दुपातेस्रावेवाआपोहिष्ठेतितृचेनपुनःपूरणं ततम्मेअपस्तदुतायतेइत्यृचाज्याहुतिः इध्माधानलोपेतस्याज्यभागोत्तरंस्मरणेविपर्यासप्रायश्चित्तङ्कृत्वेध्माधानञ्चकृत्वाप्रधानयागः प्रधानयागोत्तरंस्मरणेग्निसमिन्धनरूपद्वारस्याभावाल्लोपएवेतिप्रायश्चितेनैवसिद्धिः अन्याङ्गेष्वप्येवमूह्यम्॥
अथाग्निनाशकानि दम्पत्योरन्यतरोग्निसमीपेउदयास्तमयकालेवसेत् उभौदम्पतीगृहसीमाङ्ग्रामसीमांवानदींवोल्लङ्घ्यहोमकालेबहिर्वसेतान्तदापुनराधानम् अग्निनामजस्रहरणेशम्याप्रासात्प्रागुच्छ्वासेऽग्निनाशः कर्मार्थंहरणेऽग्नीनान्नानुच्छ्वासादिचोद्यते आत्मसमारोपणपक्षेऽप्सुमज्जनेमैथुनेशूद्रादिस्पर्शनेऽग्निनाशः पत्न्यनेःकत्वेपिएकस्यामपिहोमकालेगृहसीम्नोबहिर्गतायामग्निनाशः ज्येष्ठायामग्निसमीपस्थायाङ्कनिष्ठयांसहयजमानप्रवासोनदोषाय दम्पतीउभावपिग्रामगृहयोःसीम्नोर्बहिर्गत्वा होमकालात्पूर्वमागतौचेन्नदोषः यजमानेऽग्निसमीपस्थेपिहोमकालेपत्न्याग्रामान्तरस्थितौपुनराधानमाहुः प्रवासेऽन्यतरेणसमारूढाग्नेरन्वारम्भासत्त्वेनदीसीम्नोरुल्लङ्घनेपुनराधानम् अग्निंविहाययजमानस्यशतयोजनगमनेवर्षपर्यन्तंस्वयंहोमाभावेवाग्निनाशः तत्रपुनराधानम्पवित्रेष्टिर्वा विनाग्निभिर्यदापत्नीनदीमम्बुधिगामिनीम्। अतिक्रमेत्तदाग्नीनांविनाशःस्यादितिश्रुतिः १ अग्निसमीपेपत्यौपत्न्यन्तरेवापत्न्यानदीलङ्घनेदोषोन पतिप्रवासेपत्न्याअग्निभिःसहसीमोल्लङ्घनेऽग्निनाशः एवम्पत्युरपिपत्नीप्रवासे जलेनहेतुनाग्निरूपशान्तश्चेत्पुनराधेयं तदेवपुनराधेयमग्नावनुगतेसति। असमाधायचेत्स्वामीसीमामुल्लङ्घ्यगच्छति १ समारोपणंविनाशम्यापरासादूर्ध्वमग्नीनांहरणेनाशः रजोदोषेसमुत्पन्नेसूतकेमृतकेपिवा । प्रवसन्नग्निमान्विप्रःपुनराधानमर्हति १ बह्णीनामपिचैकस्यामुदक्यायायान्नतुव्रजेत्। एकादशेचतुर्थेह्निगन्तुमिच्छेन्निमित्ततः २ नचाग्निहोमवेलायाम्प्रवसेन्नचपर्वणि । होमद्वयात्ययेदर्शपूर्णमासात्ययेपुनराधेयमापस्तम्बादिविषयम् पचनाग्नौपचेदन्नंसूतकेमृतकेपिवा । अपक्त्वातुवसेद्रात्रिम्पुनराधानमर्हति १ इदङ्कात्यायनादिपरम् पत्नीप्रवासेपुनराधानमुक्तन्तदेकभार्यस्य बहुभार्यस्यतुज्येष्ठाप्रवासएवपुनराधानमितिकेचित् एतेषुनिमित्तेषुस्थिताननीनुत्सृज्यान्येषामाधानम् आरादुपकारकाङ्गलोपेकर्मसमाप्तेःप्राक्प्रायश्चित्तङ्कृत्वातदङ्गङ्कुर्यात् कर्मसमाप्तौप्रायश्चित्तमेवनाङ्गावृत्तिः सन्निपत्योपकारकाङ्गस्यद्रव्यसंस्काररूपस्यलोपेप्रधानात्प्राक्तत्कार्यम् प्रधानोत्तरम्प्रायश्चित्तमेवनावृत्तिः मृतायैपत्न्यैदाहायार्धाग्निन्दत्त्वावशिष्टाग्नौसायम्प्रातर्होमस्थालीपाकाग्रयणानिकुर्यात् कौस्तुभेतुअर्धाग्निदानादिकमुक्त्वाविधुरस्यापूर्वाधानप्रकारस्तस्यविच्छेदेपुनराधानप्रकारश्चोक्तः तत्राधान्नप्रकारोवशिष्टाग्नेःप्राक्होमाभान्नशपरः यद्वाश्रौताग्निषुभार्यायैअर्धाग्निदानङ्कृत्वाउत्सर्गेष्ट्यापू-
र्वाग्नीन्परित्यज्यपुनराधानङ्कृत्वाग्निहोत्रङ्कार्यमित्युक्तं तद्वत्रापिउत्सर्गेष्ट्यापूर्वाग्नित्यागोत्तरमपूर्वाधानकौस्तुभेउक्तमितियोज्यमितिभाति अरणिस्रुवादिपात्राणांलक्षणवृक्षादिविचारोऽन्यत्रज्ञेयः एतेषांविधीनांसङ्कल्पादिविस्तरयुक्ताःप्रयोगागृह्याग्निसागरे प्रायश्चित्तादिविधयःप्रायःसर्वसूत्रेषुसमानाएव क्वचित्क्वचित्स्वस्वसूत्रोक्ताविशेषाऊह्याः विवाहहोमोगृहप्रवेशनीयहोमेनसमानतन्त्रोऽनुष्ठीयमानोह्वृचानाम्पुनराधानम् अन्येषांविवाहहोमाद्भिन्नमेवेतिविशेषः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा