निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथकात्यायनोपयोगीकिञ्चिदुच्यते पराग्निपक्वन्नाश्नीयाद्गुडगोरसमन्तरा। आहिताग्नेरयन्धर्मोयाज्ञिकानान्तुसम्मतः १ इक्षुक्षीरविकाराश्चभ्राष्ट्रभृष्टयवा अपि। पराग्निपक्वन्नज्ञेयम्प्रवासेचाग्निहोत्रिणः २ यदन्नंवारिहीनञ्चपक्ककेवलपावके। तदन्नम्फलवद्ग्राह्यमन्नदोषोनविद्यते ३ प्रातर्होमन्तुनिर्वर्त्यसमुद्धृत्यहुताशनात्। शेषं महानसेकृत्वातत्रपाकंसमाचरेत् ४ पूर्वेणयोजयित्वातन्तस्मिन्होमोविधीयते। अतोस्मिन्वैश्वदेवादिकर्मकुर्यादतन्द्रितः ५ बह्वृचकारिकायां नित्यम्पाकायशालाग्नेरेकटेशस्यकार्यतः। पाकार्थमुल्मुकंहृत्वातत्रपक्त्वामहानसे १ वैश्वदेवोऽग्न्यगारेस्यात्पाकार्थोग्निश्चलौकिकः। भूरिपाकोभवेद्यत्रश्राद्धादावुत्सवेषुच २ कृतेचवैश्वदेवैऽथलौकिको नैवकार्यतः। दीपकोधूपैकश्चैवतापार्थंयश्चनीयते ३ सर्वेतेलौकिकाज्ञेयास्तावन्मात्रापवर्गतः। बहुधाविहृतोह्यग्निरावसथ्यात्कथञ्चन ४ यावदेकोपितिष्ठेततावदन्योनमथ्यते। वैश्वदेवात्तथाहोमात्प्राक्ज्ञेयन्नैवमन्थनम् ५ पचनाग्नावपक्त्वाहःपुनराधानमईति। आरोपितारणीचोभेएकावायदिनश्यति ६ तत्राग्न्याधेयमिच्छन्तिपुनराधेयमेववा। अथानारोपितारण्योःक्षयेग्राह्येनवेपुनः ७ तदलाभेयदोद्वायादत्रस्यात्पुनराहितिः। शूद्रोदक्यान्त्यजैश्चैवपतितामेध्यरासभैः ८ अनारूढारणिस्पर्शेतेविहायान्ययोर्ग्रहः। आरूढारणिस्पर्शेपुनराधेयमुक्तम् भवतन्नःसमेत्यप्सुमज्जयेद्दूषितारणी ९ एकारण्येवदुष्टाचेत्तामेवाप्सुनिमज्जयेत्। तत्रान्यारणिलाभात्प्रागुद्वातेपुनराहितिः १० उद्वातेअग्नौनष्टे नष्टायामरणौयावदग्निस्तिष्ठतिवेश्मनि। तावद्धोमादिकङ्कृत्वातन्नाशे पुनराहरेत् ११ अत्रैकारणिनाशेन्या मेकाम्मन्त्रेणोपादायोभाभ्याम्मन्थनमितिकेचित् अवशिष्टान्तामेवछित्त्वामन्थनमित्यपरे एकस्याःदोषेप्यरणिद्वयन्त्यक्त्वानूतनद्वयोपादानमितिनारायणवृत्त्याशयः अयमरणिविचारःश्रौतस्मार्तसाधारणःसर्वशाखासाधारणश्च अग्निसमारोपेकातीयैर्वैश्वदेवःपाकश्चलौकिकेऽग्नौकार्यइत्याहुः यस्यवेदश्चवेदी चविच्छिद्येतेत्रिपूरुषम्। सवैदुर्ब्राह्मणोज्ञेयःसर्वकर्मसुगर्हितः १ अग्निहोत्रम्प्रकुर्वीतज्ञानवाञ्छ्रद्धयान्वितः। अग्निहोत्रात्परोधर्मोनभूतोनभविष्यति २ श्रौतेकर्मणिनोशक्तोहानद्रव्याद्यभावतः। स्मार्तङ्कुर्याद्यथाशक्तोऽत्राप्याचारंलभेत्सदा ३ कृतदारो नतिष्ठेतक्षणमप्यग्निनाविना। तिष्ठेतचेद्द्विजोव्रात्यस्तथाचपतितोभवेत् ४ नगृह्णीया-
द्विवाहाग्निङ्गृहस्थइतिमन्यते। अन्नन्तस्यनभोक्तव्यंवृथापाकोहिसस्मृतः ५ योदद्यात्काञ्चनम्मेरुम्पृथिवीञ्चससागराम्। तत्सायम्प्रातर्होमस्यतुल्यम्भवतिवानवा ६ इतिहोमप्रकरणम्॥
अर्थानित्यदानम् एकस्मिन्नप्यतिक्रान्तेदिनेदानविवर्जिते। दस्युभिर्मुषितस्येवयुक्तमाक्रन्दितुम्भृशम् १ तस्माद्विभवानुसारेणधनधान्यादिदेयमसम्भवेपूगीफलादिकर्मापप्रत्यहन्देयं ततोगोब्राह्मणादिमङ्गलदर्शनम् इत्यष्टधाविभक्तदिनस्यप्रथमभागकृत्यम्॥
द्वितीयभागेवेदशास्त्राभ्यासः पठेदध्यापयेद्वेदाञ्जपेच्चैवविचारयेत्। अवेक्षेतचशास्त्राणिधर्मादीनिद्विजोत्तमः १ देवार्चनमपिप्रातर्होमोत्तरंवाचतुर्थभागेब्रह्मयज्ञोत्तरंवाकार्यं विधायदेवतापूजाम्प्रातर्होमादनन्तरम्। कुर्वीतदेवतापूजाञ्जपथज्ञादनन्तरम्। इत्यादिद्विविधस्मृतेः देवार्चनम्प्रकर्तव्यन्त्रिकालेपियथाक्रमम्। अशक्तौवि-
स्तरात्प्रातर्मध्याह्नेगन्धमादितः १ सायन्नीराजनङ्कुर्यान्त्रिकालेतुलसीदलम्।यथासन्ध्यातथापूजात्रिकालेमोक्षदास्मृता २ इतिकमलाकरः तत्रविष्णुशिवब्रह्मसूर्यशक्तिविनायकादिष्वभिमतान्देवतामर्चयेत् तत्रापिकलौहरिहस्योःपूजाप्रशस्ता नविष्ण्वाराधनात्पुण्यंविद्यतेकर्मवैदिकम्। तस्मादनार्दिमध्यान्तन्नित्यमाराधयेद्धरिम् १ अथवादेवमीशानम्भगवन्तंसनातनम्। प्रणवेनाथवारुद्रगायत्र्यात्र्यम्बकेनवा २ तथोन्नमःशिवायेतिमन्त्रेणानेनवायजेत्। तत्रापिप्रतिमास्थण्डिलादिभ्यःशालिग्रामेबाणलिङ्गेचप्रशस्ता आवाहनादिकंविनासदादेवतासन्निधानात् श्रीमद्भागवते उद्वासावाहनेनस्तःस्थिरायामुद्धवार्चने। अस्थिरायांविकल्पःस्यात्स्थण्डिलेतु भवेद्द्वयम् १ तत्रसङ्क्षेपतःपूजाप्रयोगउच्यते विशेषविचारस्तुमूर्तिप्रतिष्ठाप्रसङ्गेनवक्ष्यते तत्रोदयात्पूर्वन्निर्माल्यमपसार्ययथाकालेपूजारम्भः येभ्योमाता॰ एवापित्रे ० इतिपठन्घण्टानादङ्कृत्वाऽऽचम्यप्राणानायम्यदेशकालादिसङ्कीर्तनान्तेश्रीमहाविष्णुपूजाङ्करिष्येइति पञ्चायतनपक्षे श्रीरुद्रविनायकसूर्यशक्तिपरिवृतश्रीमहाविष्णुपूजाङ्करिष्यइतिसङ्कल्प्यासनादिविधाय सहस्रशीर्षेतिषोडशर्चस्यसूक्तस्यनारायणःपुरुषोनुष्टुप् अन्त्यात्रिष्टुपून्यासेपूजायाञ्चविनि॰ ततःप्रथमामृचंवामेकरेद्वितीयान्दक्षिणेन्यसेत् तृतीयांवामेपणदेचतुर्थीदक्षिणेपञ्चमींवामेजानुनिषष्ठीन्दक्षिणेसप्तमींवामकटौअष्टमीन्दक्षिणेनवमीन्नाभौदशमींहृदिएकादशीङ्कण्ठेद्वादशींवामबाहौत्रयोदशीन्दक्षिणेचतुर्दशीं मुखेपञ्चदशीमक्ष्णोःषोडशीम्मूर्ध्नि एवन्देहेचदेवेचन्यासङ्कुर्याद्विधानतः। अन्त्याभिः पञ्चभिर्ऋग्भिर्हृदयाद्यङ्गपञ्चके १ कलशंशङ्खघण्टेचपाद्यार्थ्याचमनीयकम्। सम्पूज्यप्रोक्ष्यचात्मानम्पूजासम्भारमेवच २ ध्यायेदभिमतांविष्णुमूर्तिसम्पूजयेत्ततः। प्रथमयापुरु–
षसूक्तस्यऋचावाहनं शालग्रामादौआवाहनाभावान्मन्त्रपुष्पम् ऋगन्तेश्रीमहाविष्णवे श्रीकृष्णायेत्येवमभिमतमूर्तिचतुर्थ्योद्दिश्यसर्वोपचारार्पणम् पञ्चायतनेतुश्रीविष्णवे शिवविनायकसूर्यशक्तिभ्यश्चेत्येवंयथोपास्यमुच्चारः नैवेद्यादौपार्थक्याभावेयथांशतइतिवदेत् द्वितीययासनन्दद्यात् तृतीययापाद्यं चतुर्थ्यार्ध्यम् पञ्चम्याचमनं षष्ठ्यास्नानं सम्भवेपञ्चामृतस्त्रानान्याप्यायस्वेत्यादिमन्त्रैः चन्दनोशीरकर्पूरकुङ्कुमागरुवासितजलैःसुवर्णघर्मानुवाकमहापुरुषविद्यापुरुषसूक्तराजनसामभिरभिषेकः सप्तम्यावस्त्रम्अष्टम्यायज्ञोपवीतं नवम्यागन्धं दशम्यापुष्पाणि एकादश्याधूपं द्वादश्यादीपं स्नानेधूपेचदीपेचघण्टादेर्नादमाचरेत्। त्रयोदश्यानैवेद्यं सम्भवेताम्बूलफलदक्षिणानीराजनञ्च चतुर्दश्यानमनम् पञ्चदश्याप्रदक्षिणा षोडश्याविसर्जनम्पुष्पाञ्जलिर्वा स्त्रानेवस्त्रेचनैवेद्येदद्यादाचमनन्तथा। दत्त्वाषोडशभिऋग्भिःषोडशान्नस्यचाहुतीः १ सूक्तेनप्रत्यृचम्पुष्पन्दत्त्वासूक्तेनसंस्तुयात्। ततः पौराणैःप्राकृतैश्चस्तुत्वा शिरोमत्पादयोःकृत्वाबाहुभ्याञ्चपरस्परम्। प्रपन्नम्पाहिमामीशभीतम्मृत्युग्रहार्णवात् १ इतिवदन्नमेत् निर्माल्यन्देवदत्तम्भावयित्वाशिरसिधारयेत् विष्णुमूर्ध्निस्थितम्पुष्पंशिरसानवहेन्नरः। शङ्खोदकंशिरसिधृत्वादेवतीर्थपूजान्तेवैश्वदेवान्तेवाशिरसिधार्यम्पेयञ्चतत्रक्रमः विप्रपादोदकम्पीत्वाविष्णुपादोदकम्पिवेत्। शालग्रामशिलातोयमपीत्वायस्तुमस्तके १ प्रक्षेपणञ्चकुरुतेब्रह्महासनिगद्यते। पात्रान्तरेणवैग्राह्यन्नकरेणकदाचन २ इतिकमलाकरः क्षालनेनैकस्यैववस्त्रस्यप्रतिदिनेदानेदोषोन एवंस्वर्णादिभूपणानामपि सुवर्णमययज्ञोपवीतेप्येवमाचारः एवम्पूजायाःफलंस्कान्दे कामासक्तोऽथवाक्रुद्धः शालग्रामशिलार्चनात्। भक्त्यावायदिवाऽभत्तयाकलौमुक्तिमवाप्नुयात् १ कथांयः
कुरुतेविष्णोःशालग्रामशिलाग्रतः। वैवस्वतभयन्नास्तितन्थाचकलिकालजम् २ प्रायश्चित्तंहिपापानाङ्कलौपादोदकंहरेः। धृतेशिरसिपीतेचसर्वास्तुष्यन्तिदेवताः ३ बौधायनोक्तोरिहरयोःपूजाविधिःपराशरमाधवे मयातुशिवपूजाविधिःशिवरात्रिप्रकरणेद्वितीयपरिच्छेदेउक्तइतिनेहोच्यते कौर्मे योमोहादथवालस्यादकृत्वादेवतार्चनम्। भुङ्क्तेसयातिनरकंसूकरेष्वभिजायते १ एवन्देवंसम्पूज्यमातापितृप्रमुखान्गुरून्पूजयेत् यस्यदेवेपराभक्तिर्यथादेवेतथागुरौ। इतिश्रुतेरितिमाधवः॥
तृतीयभागेपोष्यवर्गार्थन्धनार्जनं यजनाध्ययनदानयाजनाध्यापनप्रतिग्रहाःषट्विकर्माणि पण्णान्तुकर्मणामस्यत्रीणिकर्माणिजीविका। याजनाध्यापने चैवविशुद्धाच्चप्रतिग्रहः १ श्रीभागवते प्रतिग्रहम्मन्यमानस्तपस्तेजोयशोनुदम्। अन्या-
भ्यामेवजीवेतशिलैर्वादोषदृक्तयोः १ इति तथा वार्ताविचित्राशालीनपाचावञ्छनम्। विचित्रावार्ताकृष्यादिः शालीनमयाचितं यायावरम्प्रत्यहन्धान्ययाच्ञा कणिशोपादानङ्कणोपादानञ्चशिलोञ्छनम् अत्रोत्तरोत्तराप्रशस्ता शिलोञ्छनङ्कलौनिषिद्धं कुसूलकुम्भीधान्योवात्र्याहिकोश्वस्तनोपिवा। कुटुम्बपोषणेद्वादशाहपर्याप्तधान्यःकुसूलधान्यः षडहपर्याप्तधान्यःकुम्भीधान्यः नकुर्यात्कृषिवाणिज्यंसेवावृत्तिन्तथैवच। ब्राह्मण्याद्धीयतेतेनतस्मात्तानिविवर्जयेत् १ इत्युक्तेर्वार्तावृत्तिरापद्विषया पुत्रमांसंवरम्भोक्तन्नतुराजप्रतिग्रह इतिवाक्यमधर्मवर्तिराजप्रतिग्रहविषयं वृद्धौचमातापितरौसाध्वीभार्याशिशुःसुतश्चायाज्ययाजनशूद्रप्रतिग्रहादिनापिपोषणीयाइत्यप्यापदि शाकपयोदधिपुष्पजलकुशभूमयःकुलटाषण्ढपतितभिन्नात्नीचादप्ययाचितप्राप्ताग्राह्याः ब्रह्मचारीयतिश्चैवविद्यार्थीगुरुपोषकः। अध्वगःक्षीणवृत्तिचषट्पक्वान्नस्यभिक्षुकाः १ शूद्रस्यद्विजशुश्रूषावृत्तिः आपदिकृष्यादिः॥
चतुर्थभागेमध्याहस्नानम् प्रातर्गोमयस्नानम् मध्याह्नेमृत्तिकास्नानम् अनयोर्विधिःप्रायश्चित्तेउक्तः शेषविधिःप्रातःस्त्रानवत् ब्रह्मयज्ञाङ्गतर्पणात्प्राक्वस्त्रन्ननिष्पीड्यमितिविशेषः ततोघृतपुण्ड्रोमध्याह्नसन्ध्याङ्कुर्यात् अध्यर्धदामादासायंसन्ध्या माध्याह्निकीप्यते। तत्रविशेषः सूर्यश्चेतिस्थानेआपःपुनन्त्वितिमन्त्राचमनम् आपःपुनन्त्वित्यस्यनारायणयाज्ञवल्क्यआपःपृथिवीब्रह्मणस्पतिरष्टी मन्त्राचमनेविनियोगः ॐआपःपुनन्तुपृथिवीम्पृथिवीपूतापुनातुमाम्। पुनन्तुब्रह्मणस्पतिब्रह्मपूतापुनातुमाम्।यदुच्छिष्टमभोज्यंयद्वादुश्चरितम्मम। सर्वम्पुनन्तुमामापोसताञ्चप्रतिग्रहꣳस्वाहा। इतिपिवेत् अघमर्षणान्तेतिष्ठन् हंसःशुचिषदित्यस्यगौतमःसूर्योजगतीसूर्यार्घ्यदानेविनियोगः ॐहंसःशुचिष॰ एकार्घ्यम् अर्ध्यान्तेउपस्थानम् ऊर्ध्वबाहुः उदुत्यमितित्रयोदशर्चस्यप्रस्कण्वःसूर्योगायत्रीअन्त्याश्चतस्रोऽनुष्टुभः सूर्योपस्थाने॰ केचिच्चित्रन्देवानामितिषड्भिरप्युपतिष्ठन्ते शेषमुपस्थानवर्ज्यम्प्रातःसन्ध्यावत् रात्रौमध्याह्रसन्ध्यायाम्आकृष्णेनेत्यर्घ्यदानङ्गायत्र्याप्रायश्चित्तार्थन्द्वितीयन्दत्त्वाहविष्पान्तमितिपञ्चर्चेपस्थानम् अथतैत्तिरीयाणाम् आपःपुनन्त्वित्यपःपीत्वा दधिक्राव्णेतिपूर्ववत्कृत्वासूर्यायैकमर्ध्यङ्गायत्र्यादत्त्वोर्ध्व बाहुस्तिष्ठन्नुपतिष्ठेत् उद्वयं॰ १ उदुत्यञ्जातवेदसं॰ १ चित्रन्देवाना ०१ तच्चक्षुर्देवहितम्पुरस्तात् ०१ यउदगान्महतो ०१ ततोजपादिउपस्थानवर्ज्यम्प्राग्वत् अथकातीयानाम् आपःपुनन्त्वितिप्राग्वत् गायत्र्याएकार्घ्यम्उद्वयमित्यादिचतुर्भिरुपस्थानं जपान्तेशक्तस्यपूर्वोक्तैर्विभ्राडित्यनुवाकादिभिरूपस्थानं शेषम्प्राग्वत्॥
अथब्रह्मयज्ञः सचप्रातर्होमोत्तरंवामध्याह्नसन्ध्योत्तरंवावैश्वदेवान्तेवासकृदेवकार्यः भट्टोजिदीक्षितीयेतुप्रातराहुतेरनन्तरकालःशाखान्तरविषयः आश्वलायनैस्तु
मध्याह्नसन्ध्योत्तरमेवानुष्ठेयइत्युक्तम् शुष्कंवासस्तदभावेआर्द्रन्त्रिर्विधुन्वन्परिधायाच-
म्यप्राणानायम्यश्रीपरमेश्वरप्रीत्यर्थम्ब्रह्मयज्ञङ्करिष्ये तदङ्गतयादेवऋष्याचार्यतर्पणङ्करिष्ये मृतपितृकैःपितृतर्पणञ्चकरिष्येइतिसङ्कल्प्य दर्भेषुदर्भपाणिःप्राङ्मुखएवोपविश्यवामजङ्घोपरिमूलदेशेदक्षिणपादन्निधायाथवावामपादाङ्गुष्ठोपरिदक्षिणपादाङ्गुष्ठन्निधायैवमुपस्थङ्कृत्वादक्षिणजानुस्थेवामेकरेउत्तानेप्रागग्राङ्गुलौप्रागग्रेद्वेपवित्रेधृत्वादक्षिणकरेणतथैवसम्पुटीकृत्यद्यावापृथिव्योःसन्धिमीक्षमाणोनिमीलिताक्षोवाॐकारव्याहृतीःसकृदुच्चार्यगायत्रीम्पच्छोर्धर्चशःसर्वामनवानामितित्रिर्जपेत् ततोग्निमीळइतिसूक्तम्पठित्वासंहिताब्राह्मणषडङ्गानिएकंसमाप्यापरमितिअध्यायंसूक्तमृचंवायथाशक्तिक्रमशःपठेत् मधुनापयसाचैवसदेवांस्तर्पयेद्द्विजः। पितृृन्मधुघृताभ्याञ्चऋचौधीतेचयोऽन्वहम्॥१॥ यजूंषिशक्तितोऽधीतेयोन्वहंसघृतामृतैः॥प्रीणातिदेवानाज्येनमधुनाचपितृृस्तथा॥२॥ सतुसोमघृतैर्देवांस्तपेयेद्योऽन्वहम्पठेत्॥सामानितृप्तिङ्कुर्याच्चपितॄणाम्मधुसर्पिषा॥३॥ मेदसातर्पयेद्देवानथर्वाङ्गिरसःपठन्॥ पितॄंश्चमधुसर्पिर्भ्यामन्वहंशक्तितोद्विजः॥४॥वाकोवाक्यम्पुराणञ्चनाराशंसीश्चगाथिकाः॥ इतिहासांस्तथाविद्याःशक्तयाऽधीतेहियोन्वहम्॥५॥मांसक्षीरौदनमधुतर्पणंसदिवौकसाम्॥करोतितृप्तिकुर्याच्चपितृणाम्मधुसर्पिषा॥६॥ तेतृप्तास्तर्पयन्त्येनं सर्वकामफलैःशुभैः॥यंयङ्क्रतुमधीतेसीतस्यतस्याप्नुयात्फलम्॥७॥ इति यस्ययस्यक्रतोःप्रतिपादकं वेदकदेशमन्वहमधीतेतस्यतस्यक्रतोः फलमाप्नोतीत्यर्थः॥") मन्त्रब्राह्मणादीनिभागशःसर्वाणियथाशक्तिमतिदिनम्पठेदितिकेचित् एवञ्चतुर्वेदाध्यायीक्रमशश्चतुर्वेदान्भागशःसर्वानेववाऋग्वेदपूर्वकान्पठेत् एकैकशाखाध्यायीतुस्खशाखामेव शाखाध्ययनाभावे सूक्तमृचंवापठित्वैकंयजुःसामचोपनिषदश्चेतिहासपुराणादींश्चपठेत् पुरुषसूक्तमुक्त्वा नमोब्रह्मणेनमोअस्त्वग्नयइतिऋचन्त्रिःपठेत् नात्रऋष्यादिस्मरणं विद्युदसीत्यादेराद्यध्तेपाठस्तैत्तिरीयविषयः उपविश्यपाठाशक्तस्तिष्ठन्व्रजन्शयानोवापठेदित्याश्वलायनः अनध्यायेष्वल्पम्पठेत् अथतर्पणं तत्रसव्येनदेवतीर्थेनदर्भाग्रैर्देवतर्पणं तद्यथा साक्षतजलैर्देवर्षितर्पणं सतिलजलैराचार्यपितृतर्पणम् प्रजापतिस्तृप्यतु १ ब्रह्मातृप्य॰ २ वेदास्तृप्यन्तु ३ देवास्तृप्यन्तु ४ ऋषयस्तृप्यन्तु ५ सर्वाणिच्छन्दांसितृप्यन्तु ६ ॐकारस्तृप्य॰ ७ वषट्कारस्तृप्य॰ ८ व्याहृतयस्तृप्यं ० ९ सावित्रीतृप्य॰ १० यज्ञास्तृप्यं॰ ११ द्यावापृथिवीतृप्यतां १२ अन्तरिक्षन्तृप्य॰ १३ अ-
होरात्राणितृप्यन्तु १४ साङ्ख्यास्तृप्यं॰ १५ सिद्धास्तृप्यं॰ १६ समुद्रास्तृप्यं ० १७ नद्यस्तृप्यं॰ १८ गिरयस्तृप्यं॰ १९ क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसस्तृप्यं॰ २० नागास्तृप्यं॰ २१ वयांसि स्तृप्यं॰ २२ गावस्तृप्यं॰ २३ साध्यास्तृप्यं॰ २४ विप्रास्तृप्यं॰ २५ यक्षास्तृप्यं॰ २६ रक्षांसि तृप्यं॰ २७ भूतानितृप्यं॰ २८ एवमन्तानितृप्यन्तु २९ अथऋषयः निवीती कनिष्ठिकामूलेनदर्भमध्यैः शतर्चिनस्तृप्यं॰ माध्यमास्तृप्यं॰ गृत्समदस्तृप्य॰ विश्वामित्रस्तृप्य॰ वामदेवस्तृप्य॰ अत्रिस्तृप्य॰ भरद्वाजस्तृप्य॰ वसिष्ठस्तृप्य॰ प्रगाथास्तृप्यं॰ पावमान्यस्तृप्यं॰ क्षुद्रसूक्तास्तृप्यं॰ महासूक्तास्तृप्यं॰ १२ एकत्वद्वित्वबहुत्वेषुतृप्यतुतृप्यतान्तृप्यन्तुइतियथायथंवदेत् अथप्राचीनावीती पितृतीर्थेनद्विगुणीकृतदर्भमूलाग्रैः सुमन्तुजैमिनिवैशम्पायनषैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यन्तु १ जानन्तिबाहविगार्ग्यगौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेयास्तृप्यन्तु २ गर्गीवाचक्रवीतृप्य॰ ३ वडवाप्रातीथेयीतृप्य॰ ४ सुलभामैत्रेयीतृप्य॰ ५ कहोळन्तर्पयामि ० ६ कौषीतकन्त॰ ७ महाकौषीतकन्त॰ ८ पैङ्यन्त॰ ९ महापैङ्यन्त॰ १० सुयज्ञन्तर्पया॰ ११ साङ्ख्यायनन्त॰ १२ ऐतरेयन्त॰ १३ महैतरेयन्त॰ १४ शाकलन्त॰ १५ वाष्कलन्त॰ १६ सुजातवक्त्रन्त॰ १७ औदवाहिन्त॰ १८ महौदवाहित॰ १९ सौजामिन्त॰ २० शौनकन्त॰ २१ आश्वलायनन्त॰ २२ येचान्येआचार्यास्तेसर्वेतृप्यन्तु २३ ततोमृतपतृकःपितृत्रयीम्मातृत्रयींसपत्नीकमातामहत्रयीम्पत्न्याद्येकोद्दिष्टगणांश्चमहालयप्रकरणोक्तान्मृतांस्तर्पयेत् सम्बन्धम्प्रथमम्ब्रूयान्नामगोत्रमनन्तरम्। पश्चाद्रूपंविजानीयात्क्रमएषसनातनः १ एकैकमञ्जलिन्देवेभ्योद्वौद्वौऋषिभ्यस्त्रींस्त्रीपितृभ्यइतिसङ्ख्याविशेषः आश्वलायनानांवैकल्पिकः तत्सूत्रेसङ्ख्याऽनुक्तेः येषांसूत्रेसङ्ख्योक्तिस्तेषान्नित्यइतिमाधवः मातृत्ररिभिन्नस्त्रीभ्यएकाञ्जलिः एतावद्विस्तृततर्पणाशक्तौ आब्रह्मस्तम्वपर्यन्तन्देवपिपितृश्चतस्रः ।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा