निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
तृप्यन्तुपितरःसर्वेमातृमातामहादयः १ अतीतकुलकोटीस्थानद्वीपनिवासिनाम्। आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकम् २ इतित्रिस्त्रिर्दश्चत्तार्थं ततो येकेचास्मत्कुलेजाताअपुत्रागोत्रिणोमृताः। तेगृह्णन्तुमयादत्तंवस्त्रनिष्पीडनत्वत्यष १ इतिपरिधानवस्त्रम्भूमौनिष्पीड्यदद्यात् अत्रबह्वृनाम्प्राचीनावीती अन्यविष्ठेतपवीती इदङ्गृहेनिषिद्धम् ब्रह्मयज्ञोग्रामाद्बहिरुदकसमीपेविहितः ग्रामेमनसाधीयीत सव्यान्वारब्धदक्षिणेनवाअञ्जलिनावातर्पणं तर्पणम्बर्हिषाच्छन्नेस्थलेकार्यन्नतुजले पात्राद्वाजलमादायशुभेपात्रान्त-
रेक्षिपेत्। जलपूर्णेथवागर्तेनस्थलेतुविबर्हिषि १ हेमरौप्यताम्रकांस्यमयेपात्रेनमृन्मये। यत्राशुचिस्थलन्तत्रतर्पणंस्यान्नदीजले २ अनामिकाधृतंहेमतर्जन्यांरौप्यमेवच। कनिष्ठिकाधृतङ्खङ्गन्तेनपूतोभवेन्नरः ३ अङ्गुल्यग्रेतीर्थन्दैवंस्वल्पाङ्गुल्योर्मूलेकायम्। मध्येऽङ्गुष्ठाङ्गुल्योःपित्र्यम्मूलेत्वङ्गुष्ठस्यब्राह्मम् १ उद्धृतजलेनपितृतर्पणेतिलान्सम्मिश्रयेज्जले अनुद्धृतजलेनतर्पणेवामहस्तेतिलाग्राह्याः तिलतर्पणङ्गृहेनिषिद्धं रविभृगुवारेसप्तमीनन्दासुकृत्तिकामघाभरणीषुमन्वादौयुगादौच पिण्डदानम्मृदास्नानन्नकुर्यात्तिलतर्पणम् पित्रोःश्राद्धदिनेनित्यतर्पणेतिलानिषिद्धाः पर्वदिनेनिपिद्धतिथिवारादिष्वपितिलतर्पणं विकिरेपिण्डदानेचतर्पणेस्नानकर्मणि। आचान्तःसन्प्रकुर्वीतदर्भसन्त्न्याजनम्बुधः १ दर्भत्यागमन्त्रस्तु येषाम्पिताननभ्रातानपुत्रोनान्यगोत्रिणः। तेसर्वे तृप्तिमायान्तुमयोत्सृष्टैःकुशैस्तथा १ इति अथहिरण्यकेशीयानांसङ्कल्पादित्रिर्गायत्रीजपान्तम्प्राग्वत्
ततइषेत्वोर्जेत्वेतिअध्यायमनुवाकंवायथाशक्तिपठित्वाऋचंसामपडङ्गेतिहासपुराणादीनिपठित्वानमोब्रह्मणइत्येतयात्रिः परिदधाति अथतर्पणं तच्चतैत्तिरीयाणाम्ब्रह्मयज्ञाङ्गनभवारे तेनब्रह्मयज्ञोत्तरंव्यवहितकालेपिब्रह्मयज्ञात्प्रागपिभवति एवङ्काण्वमाध्यन्दिनानामपि अतोदेवर्ष्याचार्यपितृतृप्तिद्वाराश्रीपरमेश्वरं॰ देवर्ष्याचार्यपितृतर्पणङ्करिष्येइतिपृथगेवसङ्कल्पः पूर्ववदेकैकाञ्जलिनादेवतर्पणम् ब्रह्माणन्तर्पयामि प्रजापतिन्तर्प॰ बृहस्पतिं॰ अग्निं॰ वायुं॰ सूर्यं॰ चन्द्रमसं॰ नक्षत्राणि ० इन्द्रꣳराजानं॰ यमꣳराजानं॰ वरुणꣳराजानं॰ सोमꣳराजानं॰ वैश्रवणꣳराजानं॰ वसुन्॰ रुद्रान्॰ आदित्यान्॰ विश्वान्देवान्॰ साध्यान्॰ ऋभून॰ भृगून॰ मरुतः॰ अथर्वणः॰ अङ्गिरसस्तर्पयामीति निवती उदङ्मुखः विश्वामित्रं॰ जमदग्निं॰ भरद्वाजं॰ गौतमं॰ अत्रिं॰ वसिष्ठं॰ कश्यपं॰ अरुन्धतीं॰ अगस्त्यं॰ कृष्णद्वैपायनं॰ जातकर्ण्यं॰ तरुक्षं॰ तृणबिन्दुं॰ वर्मिणं॰ वरूथिनं॰ वाजिनं॰ वाजिश्रवसन्तर्पयापि सत्यश्रवसन्त॰ सुश्रवसन्त॰ सुतश्रवसं ० सोमशुष्मायणं॰ सत्ववन्तं॰ बृहदुक्थं॰ वामदेवं॰ वाजिरत्नं॰ हर्यज्वायनं॰ उदमयं॰ गौतमं॰ ऋणञ्जयं॰ ऋतञ्जयं॰ कृतञ्जयं॰ धनञ्जयं॰ बभ्रुं॰ त्र्यरुणं॰ त्रिवर्षं॰ त्रिधातुं॰ शिविं॰ पराशरं॰ विष्णुन्त॰ रुद्रं॰ स्कन्दं॰ काशीश्वरं॰ ज्वरन्त॰ धर्मं॰ अर्थं॰ कामं॰ क्रोधं॰ वसिष्ठं॰ इन्द्रं॰ त्वष्टारन्त॰ कर्तारं॰ धर्तारं॰ धातारं॰ मृत्युं॰ सवितारन्त॰ सावित्रीन्तर्प॰ ऋग्वेदन्त॰ यजुर्वेदं॰ सामवेदं॰ अथर्ववेदं॰ इतिहासपुराणन्त॰ ६१ इतिद्वौद्वावञ्जली प्राचीनावीतीदक्षिणामुखः वैशम्पायनं॰ पिलिङ्गुं॰ तित्तिरन्त॰ उखन्त॰ आत्रेयम्पदकारं॰ कौण्डिण्यंवृत्तिकारं॰ सूत्रकारान्॰ सत्याषाढन्त॰ प्रवचनकर्तृन्॰ आचार्यान्॰ ऋषीन्॰ वानप्रस्थान्॰ ऊर्ध्वरेतसः॰ एकपत्नीस्तर्पयामीतित्रीङ्खीनञ्जलीनितिविशेष शेषम्पितृतर्पणादिसर्वम्प्रागुक्तमेव अथापस्त-
म्यादीनाम्ब्रह्मादयोयेदेवास्तान्॰ सर्वान्देवांस्त॰ सर्वान्देवगणांस्त॰ सर्वादेवपत्नीः॰ सर्वान्पुत्रां॰ सर्वान्पौत्रांस्त॰ भूर्देवां॰ भुवर्देवां॰ सुवर्देवां॰ भूर्भुवःसुवर्देवां॰ कृष्णद्वैपायनादयोयेऋषयःतानृषीं॰ सर्वानृषीं॰ सर्वानृषिगणान्॰ सर्वाऋषिपत्नीः ० सर्वानृषिपुत्रां॰ सर्वानृषिपौत्रां॰ ६ भूर्ऋषीं॰ ४ एवंसोमःपितृमान्यमोङ्गिरस्वानग्निष्वात्ताः ० तान्पितृृनित्यादयोदशपितृपर्यायाऊह्याः एवमन्येषामप्यूह्यम् अथकात्यायनानाम् प्राङ्मुखआचम्यपवित्रेधृत्वाप्राणानायम्यश्रीपर॰ र्थं ब्रह्मयज्ञेनयक्ष्ये
दर्भानञ्जलौधृत्वादक्षिणजानौधृत्वासूत्रान्तराद्गायत्रीन्त्रिरुच्चार्यइषेत्वेत्यादिआरभ्यसंहिताम्ब्राह्मणञ्चपूर्वोक्तरीत्यापठेत् अन्तेउपनिषदितिहासपुराणादिपठित्वाअन्तेॐस्वस्तीतिवदेत् सूत्रान्तरोक्तत्वात्नमोब्रह्मणइतित्रिःपठन्तिकेचित् अथतर्पणम् एतच्चप्रातःसन्ध्योत्तरंवामध्याह्ने ब्रह्मयज्ञोत्तरंवासकृदेवकार्यम् ब्रह्मयज्ञस्यवैकल्पिकङ्कालत्रयमुक्तं तत्रदेवर्षिपितृतर्पणङ्करिष्यइतिसङ्कल्प्यादौपूर्वोक्तधर्मेणदेवतर्पणम् भूमौताम्रादिपात्रेवादर्भानास्तीर्य विश्वेदेवासआगतेतिदेव॰. वाह्यविश्वेदेवाःशृणुतेममितिजपित्वात्रीन्प्रागग्रान्दर्भान्धृत्वादेवतीर्थेन ॐब्रह्मातृप्यतां विष्णुस्तृप्य॰ रुद्र॰ प्रजापति॰ देवास्तृ॰ छन्दांसि॰ वेदा॰ ऋषय॰ पुराणाचार्या॰ गन्धर्वा॰ इतराचार्या॰ संवत्सरःसावयव॰ देव्यस्तृप्यन्तां॰ अप्सरसः॰ देवानुगा॰ नागा॰ सागरा॰ पर्वता॰ सरित॰ मनुष्या॰ यक्षा॰ रक्षांसि॰ पिशाचा॰ सुपर्णा॰ भूतानि॰ पशव॰ वनस्पतय॰ ओषधय॰ भूतग्रामश्चतुर्विधस्तृप्यतामितिसर्वत्रसप्रणवम्प्रथमान्तन्नामोच्चार्यतर्पयेत् २९ सप्तऋषयइतिमन्त्रेणर्षीनावाह्यनिवीतीद्विर्द्विः सनकस्तृप्यतु सनन्दन॰ कपिल॰ आसुरि॰ वोढुस्तृ॰ पञ्चशिख॰ ७ अपसव्यम् उशन्तस्त्वेतिपितॄनावाह्य आयन्तुनःपितरइतिजपित्वापितृतीर्थेनत्रिस्त्रः कव्यवाडनलस्तृप्यतां सोम॰ यम॰ अर्यमा॰ अग्निष्वात्ताःपितरस्तृप्यन्तां सोमपाःपितरः॰ बर्हिषदः॰ यमायनमस्तर्पयामि धर्मराजाय॰ मृत्यवे॰ अन्तकाय॰ वैवस्वताय॰ कालाय॰ सर्वभूतक्षयाय॰ औदुम्बराय॰ दध्नाय॰ नीलाय॰ परमेष्ठिने॰ वृकोदराय॰ चित्राय॰ चित्रगुप्ताय॰ २१ यमतर्पणंवैकल्पिकं सूत्रेएकेइत्युक्तेः जीवत्पितृकस्यमणिबन्धपर्यन्तमपसव्यं सर्वत्र ततोमृतपितृकःपित्रादित्रयीम्मात्रादित्रयीञ्चतर्पयित्वा उदीरतामितिनवभिर्ऋग्भिस्तर्पणञ्जलस्थानेअञ्जलिनाधारान्निषिञ्चेत्उदीरतां॰ १ अङ्गिरसोनःपितरो॰ २ आयन्तुनः॰ ३ ऊर्जंवहन्तीरमृतं॰ ४ पितृभ्यःस्वधानमः॰ ५ येचेह॰ ६ मधुवा ताइततिस्रइति ९ प्रत्यृचम्प्रत्येकङ्कुर्यात्तृप्यध्वमितिचत्रिःसिञ्चेत् ततोनमोवःपितरइत्यष्टौयजूंषिपठित्वामातामहादीनेकोद्दिष्टगणांश्चतर्पयेत् देवागातुविदतिर्विसर्जयेत्
स्नानवस्त्रनिष्पीडनोदकदानादिप्राग्वत् प्रातर्होमोत्तरन्देवतार्चनन्नकृतञ्चेच्चतुर्थभागे ब्रह्ययज्ञोत्तरङ्कार्यम्॥
अथपश्चमभागकृत्यं वैश्वदेवःप्रकर्तव्यः पञ्चसूनापनुत्तये। कण्डनीपेषणीचुल्लीजलकुम्भोथमार्जनी १ इतिपञ्चहिंसास्थानानिपञ्चसूनाः वैश्वदेवस्यप्रातरेवप्रारम्भोनत्वग्निहोत्रादिवत्सायं तेनप्रातःसायंवैश्वदेवेत्यादिरेवसङ्कल्पः पञ्चमहायज्ञाअहरहःकर्तव्याः तेचब्रह्मयज्ञदेवयज्ञभूतयज्ञपितृयज्ञमनुष्ययज्ञाख्याः तत्रब्रह्मयज्ञउक्तः बह्वृचादीनांवैश्वदेवोदेवयज्ञादियज्ञत्रयरूपः मनुष्ययज्ञस्तुमनुष्येभ्योन्नदानं गृहपक्वहविष्यान्नैस्तैलक्षारादिवर्जितैः। जुहुयात्सर्पिषाभ्यक्तैर्गृह्येऽग्नौलौकिकेऽपिवा १ यस्मिन्नग्नौपचेदन्नन्तस्मिन्होमोविधीयते। वैश्वदेवान्तर्गतपितृयज्ञेनैवनित्यश्राद्धसिद्धेर्ननित्यश्राद्धार्थंविप्रभोजनम् अनेनैवदर्शश्राद्धस्यापिसिद्ध्यादर्शश्राद्धमप्यशक्तैःसंवत्सरमध्येसकृदेवकार्यमितिभट्टोजीये सूतकेपञ्चमहायज्ञानांलोपइत्युक्तं सचायंवैश्वदेवआत्मसंस्कारार्थोन्नसंस्कारार्थश्चतेनाविभक्तानां पाकैक्येपृथग्वैश्वदेवोन विभक्तानान्तुपाकैक्येपिहविष्यान्तरेणपृथगेव अविभक्तानाम्पाकभेदेपृथक्वैश्वदेवःकृताकृतइतिभट्टोजीये पाकासम्भवेएकादश्यादौतण्डुलैर्वापयोदधिघृतफलोदकादिभिर्वाकार्यः हस्तेनान्नादिभिःकुर्यादद्भिरञ्जलिनाजले। कोद्रवञ्चणकम्माषम्मसूचकुलित्थकम् १ क्षारञ्चलवर्णसर्वंवैश्वदेवेविवर्जयेत्। प्रवसतागृहेषुत्रर्त्विगादिद्वारावैश्वदेवःकारयितव्यः गृहेकर्त्रन्तराभावेप्रवासेस्वयङ्कार्यः वैश्वदेवोवह्वृचैस्तैत्तिरीयैश्चदिवारात्रौचेतिद्विवारङ्कार्यः अशक्तैस्त्वेककालेएवद्विरावृत्त्यासहवाकार्यः बह्वृचतैत्तिरीययोर्लैकिकाग्नौपाकोवैश्वदेवश्चेतिप्रायेणाचारः अथप्रातःसायंवैश्वदेवस्यसहकरणपक्षेतन्त्रप्रयोगः तत्रवैष्णवैर्भगवतेषोडशोपचारेषुदीपान्तानुपचारान्समर्प्यसर्वान्नात्पुरुषाहारपर्याप्तन्नैवेद्यंसमर्प्यशेषान्नेनवैश्वदेवःकार्यः वैष्णवभिन्नैस्तुवैश्वदेवान्तेतच्छेषेणनैवेद्यःकार्यः विष्णोर्निवेदितान्नेनयष्टव्यन्देवतान्तरम्। पितृभ्यश्चापितद्देयन्तदानन्त्यायकल्पते १ इत्यादिवचनानांवैष्णवविषयकत्वस्थनिबन्धकारैरुक्तत्वात् अत्रवैष्णवानारायणाष्टाक्षरादिवैष्णवमन्त्रदीक्षोपदेशजपवन्तोमुख्याः उपदेशःकलौयुगइतिस्मृत्योपदेशमात्रस्यापिदीक्षासमफलत्वात् गौणाश्चपारम्पर्यागतारुणोदयविद्धैकादश्यनुपवासशुक्लकृष्णैकादश्युपवासादियत्किञ्चिद्धर्ममात्रपरामन्त्रोपदेशादिरहिताः ननुपाञ्चरात्राद्यागमोक्तदीक्षाम्प्राप्तोहिवैष्णवः। इत्युक्तेःकिञ्चिद्धर्ममात्रानुष्ठानेनकथंवैष्णवत्वमितिचेत् गायत्र्यध्ययनादिक्षत्रियवैश्यसाधारणधर्मवतांयाजनाध्यापनप्रतिग्रहरूपासाधारणधर्मशून्यानाम्पित्रादिपरम्परयावैश्यादिवृत्तिपराणामप्यव्यभिचरितैकङ्गोत्रत्वादियत्किञ्चिद्ब्राह्मणधर्ममात्रेणयथाब्राह्मणत्वन्तदुचितसूतकाद्याचारश्चतथाकलियुगेकिञ्चिद्धर्मेणापिवैष्णवत्वन्तदुचिताचारश्चयुज्यते क्षत्रियाणांहिपुरो-
हितभेदेनगोत्रभेदस्तेनयदुवंशेषुपरस्परंविवाहोनैवम्ब्राह्मणेष्वितिस्पष्टम् एवंश्राद्धेपिनैवेद्यंसमर्प्यपितृभ्योन्ननिवेदनञ्ज्ञेयम् ममात्मान्नसंस्कारपञ्चसूनाजनितदोषपरिहारद्वाराश्रीपर॰ प्रातर्वैश्वदेवसायंवैश्वदेवञ्चसहतन्त्रेणकरिष्ये कुण्डेस्थण्डिलादौवापचनाग्निंव्याहृतिभिःपावकनामानम्प्रतिष्ठाप्यचत्वारिशृङ्गेति ध्यात्वापरिसमुह्यपर्युक्ष्यविश्वानिनइत्यर्चनादिविधायघृताक्तमन्नमग्नावधिश्रित्यमोक्ष्योद्वास्याग्नेःपश्चान्निधायत्रिधाविभज्यप्रथमभागन्देवेभ्योजुहुयात् तद्यथा हृदिसव्यङ्करं निधायोत्तानहस्तेन सूर्यायस्वाहासूर्यायेदन्नमम प्रजापतये॰ सोमायवनस्पतये॰ अग्नीषोमाभ्यां॰ इन्द्राग्निभ्यां॰ द्यावापृथिवीभ्यां॰ धन्वन्तरये॰ इन्द्राय॰ विश्वेभ्योदेवेभ्यः॰ ब्रह्मणे॰ इतिदशप्रातर्वैश्वदेवाहुतयः अथसायंवैश्वदेवीयाः अग्नयेस्वाहेतिहुत्वाप्रजापतयइत्यादिपुनर्नवजुहुयात् एवंविंशत्याहुतीर्हुत्वाप्रायश्चित्तार्थव्यस्तसमस्तव्याहृतिभिर्हुत्वानहुत्वावापरिसमूहनपर्युक्षणेकुर्यात् ओञ्चमइत्युपतिष्ठेत् इतिदेवयज्ञः अथबलिहरणाख्योभूतयज्ञः द्वितीयभागाद्गृहीत्वाशुद्धभूमौ सूर्यायस्वाहासूर्यायेदन्नममेत्येवन्दशाहुतीःप्राक्संस्थानिरन्तराहुत्वामध्येन्तरालन्त्यक्त्वा अद्भ्यःस्वाहा औषधिवनस्पतिभ्यः॰ गृहाय॰ गृहदेवताभ्यः॰ वास्तुदेव॰ इतिमाक्संस्थाहुत्वा अद्भ्यआहुतेःपश्चात् इन्द्राय॰ तदुत्तरेइन्द्रपुरुषेभ्यः ० अन्तरालस्यदक्षिणे यमाय॰ तदुत्तरे यमपुरुषेभ्यः॰ ब्रह्मणआहुतेःप्राक् वरुणाय॰ तदुत्तरे वरुणपुरुषेभ्यः॰ अन्तरालस्योत्तरे सोमाय॰ तदुत्तरे सोमपुरुषेभ्यः॰ अन्तराले ब्रह्मणे॰ ब्रह्मपुरुषेभ्य॰ विश्वेभ्योदेवेभ्यः॰ सर्वेभ्योभूतेभ्यः॰ दिवाचारिभ्यः॰ सोमपुरुषोचरे रक्षोभ्यः॰ एवमेवसूर्यस्थानेप्रथममग्नयेहुत्वाप्रजापतयइत्यादिपूर्ववत्सायंवैश्वदेवसंवन्धिद्वितीयबलिहरणङ्कुर्यात् तत्र दिवाचारिभ्यइत्यस्यस्थानेनक्तञ्चारिभ्यःस्वाहेतिजुहुयादितिविशेषः इतिभूतयज्ञः प्राचीनावीती तृतीयभागादादायस्वधापितृभ्यःइतियमबलेर्दक्षिणतोदत्त्वापितृभ्यइदन्नममेतित्यक्त्वाद्वितीयबलेर्दक्षिणतःद्वितीयपितृयज्ञमेवङ्कुर्यात् इतिपितृयज्ञः अपरेचक्राकारम्बलिमाहुः बलावनुद्धृतेनाद्यान्नोद्धरेच्चस्वयम्बलिम्। ततोगृहाङ्गणेभूमावपआसिच्य ऐन्द्रवारुणवायव्यांयाम्यान्नैर्ऋतिकाञ्चये। तेकाकाःप्रतिगृह्णन्तुभूम्याम्पिण्डमयोज्झितम् १ इतिपितृयज्ञशेषेणदत्त्वा वैवस्वतकुलेजातौद्वौश्यामशबलौशुनौ। ताभ्यां॑पिण्डोमयादत्तोरक्षेताम्पथिमांसदा १ येभूताःप्रचरन्ति॰ इतिद्वयम्भूतयज्ञशेषेणदद्यात् येभूताइतिमन्त्रेतन्त्रेणवैश्वदेवप्रयोगेदिवानक्तम्बलिमितिपाठः अह्निरात्रौचपृथक्प्रयोगेदिवाबलिमिच्छन्तोनक्तम्बलिमिच्छन्तइतिविभागेनपाठः प्रक्षालितपाणिपादआचम्यगृहम्प्रविश्यशान्तापृथिवीत्यादिजपित्वाविष्णुंस्मृत्वाकर्मार्पयेम् अथमनुष्ययज्ञः अतिथिभोजनपर्याप्तंवाषोडशग्रासमितंवाग्रासचतुष्टयंवाग्रासमितंवान्नंसनकादिमनुष्येभ्यो सप्राप्तायत्वतिथयेप्रदद्यादासनोदके॥ अत्रञ्चैव यथाशक्ति सत्कृत्य विधि-")ो
हन्तइदन्नममेतिदद्यात् बहुषुभिक्षुकेष्वागतेष्वशक्तेनत्रिभ्योग्रासत्रयन्देयम् अर्थतैत्तिरीयाणां श्राद्धदिनेभिन्नपाकेनादौवैश्वदेवःदेवयज्ञादिचतुष्टयञ्चभवति अपरेआदौवैश्वदेवोऽन्तेपञ्चमहायज्ञाइत्याहुः याजुषाःसामगाःपूर्वम्मध्येकुर्वन्त्यथर्वणाः।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा