निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
बह्वृचाःश्राद्धशेषेणतत्राप्यादौतुसाग्निकाः १ स्वर्गपुष्ट्यर्थमात्मसंस्कारार्थम्प्रातःसायंवैश्वदेवौतन्त्रेणकरिष्ये औपासनाग्निम्पचनावाग्निंवाप्रतिष्ठापितमौपासनहोमवत्परिसमुह्यपरिषिच्यान्नमग्नावधिश्रित्यप्रोक्ष्योद्वास्याभिघार्याग्निंसम्पूज्याऽन्नन्त्रेधाविभज्यहस्तेनजुहुयात् अग्नयेस्वाहा विश्वेभ्योदेवेभ्यः॰ ध्रुवायभूमाय॰ ध्रुवक्षितये॰ अच्युतक्षितये॰ अग्नयेस्विष्टकृते॰ परिसमुह्यपर्युक्ष्य अग्नेःपश्चादेकत्रैवदेशेव्यजनाकारश्चक्राकारोवावलिः तत्रदेवताः धर्मायस्वाहाधर्मादं॰ अधर्माय॰ अद्भ्यः॰ ओषधिवनस्पतिभ्यः॰ रक्षोदेवजनेभ्यः॰ गृह्याभ्यः॰ अवसानेभ्यः॰ अवसानपतिभ्यः॰ सर्वभूतेभ्य॰ कामाय॰ अन्तरिक्षाय॰ यदेजतिजगतियच्चचेष्टतिनाम्नोभागोयन्नाम्नेस्वाहानाम्नइदं॰ केचिद्वायवइदमितित्यागमाहुः पृथिव्यैस्वाहा अन्तरिक्षाय॰ दिवे॰ सूर्याय॰ चन्द्रमसे॰ नक्षत्रेभ्यः॰ इन्द्राय॰ बृहस्पतये॰ प्रजापतये॰ ब्रह्मणे॰ सर्वान्सकृत्परिषिच्य पृथक्पृथकूपरिषेचनपक्षे द्वावेकन्द्वेचचत्वारिप्रत्येकन्त्रीणिचैवहि। पृथिव्यादिदशस्वेकमतऊर्ध्वपृथक्क्रमादितिज्ञेयम् प्राचीनावीती तद्दक्षिणतः स्वधापितृभ्यःस्वाहा तदुत्तरतउपवीती नमोरुद्रायपशुपतयेस्वाहा पितृरुद्रवलीपृथक्परिषिञ्चेत् इतिवैश्वदेवः अथदेवयज्ञादिचतुष्टयं देवयज्ञेनयक्ष्येइतिसङ्कल्प्याग्निम्परिषिच्यदेवेभ्यःस्वाहेत्यग्नौहुत्वोत्तरपरिपेकः प्राचीनावीती पितृयज्ञेनयक्ष्ये दक्षिणतो भूमौपितृभ्यःस्वधास्तुइतिदत्त्वात्यक्त्वापरिषिच्य यज्ञोपवीतीअपःस्पृष्ट्वा भूतयज्ञेन यक्ष्ये भूतेभ्योनमइतिभूमौदत्त्वापरिषिच्य निवती मनुष्ययज्ञेनयक्ष्ये उक्तप्रमाणमन्नं मनुष्येभ्योहन्तेतिदद्यात् सर्वयज्ञेषुआद्यन्तयोःक्रमेणविद्युदसिवृष्टिरसीतिमन्त्रयोःपाठः प्रायेणैषाम् बलिशिष्टमन्नं येभूताःप्रचरन्तीतिगृहाङ्गणेगत्वाकाशेउत्क्षिपेत् ततोयथाचारंश्ववायसादिबलिः अथकातीयानां तत्रसाग्निकानामेकपाकेनैवश्राद्धदिनेआ-
दौवैश्वदेवः अन्येषामन्ते आवसथ्योल्मुकम्महानसेकृत्वातत्रपाकं विधायमहानसस्थाङ्गारान्गृह्याग्नौनिधायपाकादन्नङ्घृताक्तमादायपूर्ववदात्मा॰ र्थं वैश्वदेवाख्यङ्कर्मकरिष्यइतिसङ्कल्पः अथवादेवभूर्तापतृमनुष्यान्वैश्वदेवान्नेनयक्ष्ये गृह्णाग्निम्मणिकोदकेनपर्युक्ष्यहस्तेनाग्नौजुहुयात् ब्रह्मणेस्वाहाइदम्ब्रह्मणेनमम एवमग्रेपि
पूर्वकम्॥ (श्लो॰ १०१) तृणानिभूमिरुदकं वाक्चतुर्थीचसूनृता॥ एतान्यपिसताङ्गेहेनोच्छिद्यन्ते कदाचन॥ अतिथिलक्षणम् (श्लेकः १०२) एकरात्रन्तुनिवसन्नतिथिर्ब्राह्मणः स्मृतः॥ अनित्यंहिस्थितोयस्मात्तस्मादतिथिबैकग्रामीणमतिथिविप्रंसाङ्गतिकन्तथा॥ उपस्थितङ्गृहेविद्याद्भार्यायत्राग्नयोपिवा॥इति॥ याज्ञवल्क्य-१११) अध्वनीनोऽतिथिज्ञेयः श्रोत्रियोवेदपारगः॥ मान्यावेतौगृहस्थस्यब्रह्मंलोकमभीप्सतः॥ परआकरूर्नस्यादनिन्धामन्त्रणादृते॥ वाक्पाणिपादचापल्यंवर्जयेचातिभोजनम्॥इति॥
प्रजापतये॰ गृह्याभ्यः॰ कश्यपाय॰ अनुमतये॰ इतिदेवयज्ञः ततोमणिकसमीपेबलित्रयमुदक्संस्थम् पर्जन्यायनमःस्वाहाइदम्पर्जन्यायनमम अद्भ्योन॰ पृथिव्यैन॰ अथद्वार्यशाखयोःप्राक्संस्थम्बलिद्वयं धात्रे॰ विधात्रे॰ उदकेनचतुरस्रङ्कृत्वातत्रपूर्वेवायवे॰ दक्षिणेवायवे॰ पश्चिमेवायवे॰ उत्तरेवायवे॰ प्रागादिपुवायुबलेःप्रागुदग्वा प्राच्यैदिशे॰ दक्षिणस्यैदि॰ प्रतीच्यैदि॰ उदीच्यैदि॰ मध्येप्राक्संस्थम् ब्रह्मणे॰ अन्तरिक्षाय॰ सूर्याय॰ एषामुत्तरे विश्वेभ्योदेवेभ्यो॰ विश्वेभ्योभूतेभ्यो॰ अनयोरुत्तरेउषसे॰ भूतानाञ्चपतये॰ इतिभूतयज्ञः प्राचीनावीतीब्रह्मादिवलत्रयस्यदक्षिणेपितृतीर्थेन पितृभ्यःस्वधानमइदम्पितृभ्योनममेतिदद्यात् इतिपितृयज्ञः पात्रम्प्रक्षाल्यसव्येनब्रह्मादिवलितोवायव्यांयक्ष्मैतत्तेनिर्णेजनमितितज्जलन्निनयेत् पूर्ववन्मनुष्ययज्ञः निरग्निकस्तु लौकिकाग्निमाहृत्यपृष्टोदिवीतिप्रतिष्ठाप्यतत्सवितु॰ ताꣳसवितु॰ विश्वानिदेव॰इति त्रिभिःसावित्रैःप्रज्वाल्यतत्रनित्योपासनहोमङ्कृत्वापाकम्पचेद्वैश्वदेवञ्चकुर्यादतिगदाधरः अत्राप्यशक्तौबह्वृचाद्युक्तरीत्यापचनाग्निम्प्रतिष्ठाप्यध्यात्वासम्पूज्यतत्रपूर्वोक्तरीत्या वैश्वदेवस्तत्रअग्नयेस्विष्टकृतेस्वाहेतिपञ्चाहुतीनामुत्तरंहोमःसर्वत्रनिरग्नेरितिविशेषः शेषम्प्राग्वत् कात्यायनानान्दिवैवैकोवैश्वदेवोनद्वतीयोरात्रौ सामगाथर्वणैरपिस्वगृह्योक्तरीत्यापञ्चमहायज्ञाःकार्याः स्वगृह्यानुपलम्भेबह्वृचोक्तरीत्योपनयनादिसंस्काराःपञ्चमहायज्ञादयश्चकार्याः शाखान्तरमतंसम्यगनालोच्यस्वधार्ष्ट्यतः। शाखान्तराह्निकम्प्रोक्तञ्ज्ञात्वाशोध्यंस्वशाखिभिः १ इक्षूनपःफलम्मूलन्ताम्बूलम्पयऔषधम्। भक्षयित्वाऽपिकर्तव्याःस्नानदानादिकाःक्रियाः २ पञ्चमहायज्ञेष्वन्यतमस्यलोपेउपवासः धनिकस्यातुरस्यचप्रतियज्ञङ्कृछ्रार्धम् अन्येत्वेकाहंलोपेमनस्वस्त्याहुतिःव्द्यहन्त्र्यहंलोपेतिसृभिस्तन्तुमतीभिर्होमोवारुणीनाञ्चतसृणाञ्जपोद्वादशाहंलोपेतन्तुमतीस्थालीपाकोवारुणीभिराज्यहोमश्चेत्याहुः॥
अथसर्वसाधारणोभोजनादिविधिः हैमेराजतेपात्रेआम्रादिपत्रेवाभोजनं शस्तम् एकएवतुभुञ्जीतकांस्यपात्रेनान्योच्छिष्टे ताम्बूलाभ्यञ्जनञ्चैवकांस्यपात्रेचभोजनम्। यतिश्चब्रह्मचारीचविधवाचविवर्जयेत् १ पलाशपर्णेषुयत्यादेःप्रशस्तं गृहिणस्तुचान्द्रायणम्। इदंवल्लीपलाशविषयमितिस्मृत्यर्थसारे कदलीकुटजमधुजम्बूपनैसाम्रचम्पकोदुम्बरपत्राणिशस्तानि अर्काश्वत्थवटादिपत्राणिनिषिद्धानि चतुरस्रमण्डलेप्रक्षालितपात्रन्निधायपञ्चयज्ञावशिष्टङ्घृतादियुतम्परिविष्टमन्नमस्माकन्नित्यमस्त्वेतदितिवदन्नत्वाग्रन्थिरहितपवित्रयुतदक्षिणपाणिः पादाभ्याम्पादेनवाभुवंस्पृशनव्याहृतिभिर्गायत्र्याचाभिमन्त्र्य सत्यन्त्वर्तेनपरिषिञ्चामिइतिदिवा ऋतन्त्वासत्येनपरिषिञ्चामीतिरात्रौपरिषेचनङ्कृत्वा अन्तश्चरतिभूतेषुगुहायांविश्वतोमुखः । त्वंयज्ञस्त्वंवषट्कारस्त्वंविष्णुःपुरुषःपरः १ पात्राद्दक्षिणेभूमौ भूपतयेनमः भुवनपतयेनमः भूतानां
पतये॰ इतित्रीन्वलीन्दद्यात् यदा चित्राय ० चित्रगुप्ताय॰ यमाय॰ यमधर्माय॰ सर्वेभ्यो भूतेभ्य॰ इतिवा व्यस्तसमस्तव्याहृतिभिर्वाचत्वारः धर्मराजायचित्रगुप्तायेतिद्वौवा भूपत्यादित्रययुतावेतावितिपञ्चवादेयाः हस्तपादमुखार्द्रः आपोशनार्थञ्जलमादाय अन्नं ब्रह्मरसोविष्णु॰ अहंवैश्वानरोभूत्वेत्यर्थन्ध्यात्वावामकरेणपात्रन्धृत्वाअमृतोपस्तरणमसीत्यपःप्राश्यमौनी ॐप्राणायस्वाहा ॐअपानायस्वाहा ॐव्यानाय॰ ॐउदानाय॰ ॐ समानाय॰ इतिसघृताःसक्षीरावापञ्चाहुतीःसर्वाङ्गुलिभिःसर्वङ्ग्रासङ्ग्रसन्मुखेजुहुयात् ब्रह्मणेस्वाहेतिषष्ठीक्वचित् प्राणाहुतिपर्यन्तम्पात्रालम्भोमौनञ्चनियतमग्रेऐच्छिकन्द्वयम् भोजनम्प्राङ्मुखम्प्रत्यङ्मुखंवाशस्तं आयुष्यम्प्राङ्मुखोभुङ्क्ते यशस्यन्दक्षिणामुखः॥ श्रियम्प्रत्यङ्मुखोभुङ्क्तेऋतभुङ्क्तेत्युदङ्मुखः॥ अस्यार्थः आयुषेहितमन्नम्प्राङ्मुखोभुङ्क्ते आयु.कामःप्राङ्मुखोभुङ्क्तेइत्यर्थः। यशसेहितन्दक्षिणामुखः। श्रियमिच्छन्प्रत्यङ्मुखः। ऋतंसत्यन्तत्फलमिच्छन्नुदङ्मुखोभुञ्जीतेतिकुल्लूकभट्टाः। मनुः (अ. २ श्लो. ५३) उपस्पृश्यद्विजोनित्यमन्नमद्यात्समाहितः॥ भुत्काचोपस्पृशेत्सम्यगद्भिःखानिचसंस्पृशेत्॥ उपस्पर्शः आचमनम्। पूजयेदशर्ननित्यमद्याच्चैतदकुत्सयन्॥ दृष्ट्वाहृष्येत्प्रसीदेच्चप्रतिनन्देच्चसर्वशः॥ पूजितंह्यशनन्नित्यम्बलमूर्जेचयच्छति॥ अपूजितन्तद्भुक्तमुभयन्नाशयेदिदम्॥ नोच्छिष्टङ्कस्यचिद्दद्यान्नाद्याच्चैवतथान्तरा॥ अन्तरादिवासायम्भोजनयीमध्येनमञ्जीतेत्यर्थः॥ नाचैवात्यशनङ्कुर्यान्नचोच्छिष्टःकचिद्रजेत्॥ अनारोग्यमनायुष्यमस्वर्ग्यवातिभोजनम्॥ अपुण्यकोकेविद्विष्टतस्मातत्परिवर्जयेत्॥इति॥") दक्षिणामुखंयशःफलङ्काम्यम् उदङ्मुखमधमं विदिङ्मुखन्निषिद्धं कृत्स्नङ्ग्रासङ्ग्रसन्द्वात्रिंशदादिनियतग्रासमनियतग्रासंवाभुक्त्वाअमृताभिधानमसीतिगण्डूषार्धपीत्वाऽर्धम्भूमौनिनीयपवित्रन्त्यक्त्वामुखहस्तोच्छिष्टंसम्यक्प्रक्षालयेत् तर्जन्यामुखन्नशोधयेत् किञ्चित्गण्डूषोत्तरंहस्तप्रक्षालनंषोडशगण्डूषान्तेद्विराचामेत् भोजनगृहेचनाचामेत् अनाचान्तोमूत्रपुरीपौनकुर्यात् उत्तरापोशनमकृत्वोत्थानेस्नात्वाशुद्धिः हस्तौसम्मृज्यमस्राव्याङ्गुष्ठेननेत्रयोर्निपिञ्च्येष्टदेवतांस्मरेत् नाञ्जलिनापिवेत् पालाशन्दग्धमयोबद्धञ्चपीठंवर्जयेत् नशिशुभिःसहभुञ्जीत भार्यया सहविवाहवर्जन्नभुञ्जीत बालवृद्धेभ्योन्नमदत्वानभुञ्जीत नप्रौढपादोनासनारूढपादो नप्रसारितपादोनविदिक्तुण्डोनदुष्टैकपङ्क्तौनशून्याग्निपाकगृहेनदेवालयेभुञ्जीत नसन्ध्ययोर्नमहानिशायान्नयज्ञोपवीतहीनोनवामहस्तेननशूद्रशेषम्भुञ्जीत आदौमधुरम्मध्येलवणाम्लमन्तेतिक्तादि पूर्वद्रवम्मध्येकठिनमन्तद्रवम् अष्टौग्रासायतेः षोडशद्वात्रिंशद्वगृहिणो वनस्थस्यषोडश यथेष्टम्ब्रह्मचारिणः सर्वंसशेषमश्नीयान्निःशेषङ्घृतपायसम्।क्षीरन्दधिमधुभुञ्जीत दिवारात्रीचेतिद्विवारमेवनान्तराभोजनम् अर्कपर्वद्वये रात्रौचतुर्दश्यष्टमीदिवा।एकादश्यामहोरात्रम्भुक्त्वाचान्द्रायणञ्चरेत् १ यस्तुपाणितले भुङ्क्तेयश्चफूत्कारसंयुतम्।प्रसृताङ्गुलिभिर्यश्चतस्यगोमांसवच्चतत् १ नाजीर्णेभोजनङ्कुर्यात् कुर्यान्नातिबुभुक्षितः। नार्द्रवासानार्द्रशिरानपादारोपितेकरे २ ग्रासशेषञ्चनाश्नीयात्पीतशेषम्पिबेन्नेच। शाकमूलफलादीनिदन्तच्छेदैर्नभक्षयेत् ३ नोच्छिष्टोघृत-
मादद्यान्नपदाभाजनंस्पृशेत्। पिबतोयत्पतेत्तोयम्भाजनेमुखनिःसृतम् ४अभोज्यन्तत् पीतावशिष्टतोयपानेचान्द्रायणं हस्तनखस्पृष्टजलपानेवामहस्तोद्धृतजलपानेचसुरापानसमम् एकपङ्क्त्युपविष्टानविप्राणाम्भुञ्जानानामेकस्मिन्नप्युत्थितेआचान्तेवान्यैर्नभोज्यम् अत्रोत्थितस्यभोक्तुश्चदोषः गुरोर्नदोषः लवणंव्यञ्जनञ्चैवतन्तैलन्तथैवच। लेह्यम्पेयञ्चविविधंहस्तदत्तन्नभक्षयेत् १ ताम्रेगव्यं कांस्येनारीकेलेक्षुरसौ सगुडन्दधिसगुडमार्द्रकञ्चमद्यसमं सैन्धवसामुद्रभिन्नप्रत्यक्षलवणभक्षणम्मृद्भक्षणञ्चगोमांससमम् उदक्यामपिचाण्डालंश्वानङ्कुक्कुटमेवच। भुञ्जानोयदिपश्येत्तुदन्नन्तुपरित्यजेत् १ भुञ्जानस्यगुदस्रावेउपवासः पञ्चगव्यञ्च आपोशनोत्तरम्प्राणाहुतेःप्राक्तत्स्रावेस्नानंषट्प्राणायामाः भुञ्जानस्याशौचप्राप्तौग्रासन्त्यक्त्वास्नानं ग्रासाशनेउपवासः सर्वाशनेत्रिरात्रं विष्ठादिस्पर्शेस्नानम्प्राणायामत्रयञ्च चाण्डालपतितोदक्यावाक्यंश्रुत्वाभोजनेएकोपवासः स्नात्वाशतगायत्रीजपोवा कलहघरट्टोलूखलमुसलानांयावच्छब्दस्तावदभोजनम् अप्येकपङ्क्त्यानाश्नीयाद्ब्राह्मणैःस्वजनैरपि। कोपिजानातिकिङ्कस्यप्रच्छन्नम्पातकम्भवेत् १ ततोग्निनाभस्मनाचस्तम्भेनसलिलेनच। द्वारेणैवचमार्गेणपङ्क्तिभेदञ्चरेद्बुधः २ केशपिपीलिकामक्षिकाभिःसहपक्वमन्नन्त्यजेदेव पाकोत्तरङ्केशपिपीलिकादिकीटकमक्षिकासंसृष्टेगवाघ्रातेवान्ने सलिलम्भस्ममृद्वापिप्रक्षप्तव्यंविशुद्धये। इतिविज्ञानेश्वरः शूद्रान्नंशुद्रदत्तब्राह्मणान्नंरात्रिपर्युषितंरजस्वलाचाण्डालपतितादिदृष्टङ्काकादिपक्ष्युच्छिष्टमभोज्यं स्नेहपक्वम्मण्डकादिचपर्युषितङ्ग्राह्यम् अवत्सायागोरनिर्दशानाङ्गोमहिष्यजानाङ्गर्भिण्याएककालान्तरितदोहायायमलसूस्रवत्स्तन्योरजवर्जद्विस्तनीनामुष्ट्रीवडवयोरारण्यकमृगादेरवेश्चक्षीराणिवर्ज्यानि शिग्रुंहिङ्गुवर्ज्यंरक्तंवृक्षनिर्यासम्पुरीषस्थानोत्पन्नतण्डुलीयकादिकन्देवाद्युद्देशंविनाकृतंसंयावपायसापूपशष्कुलीकृसरंवर्जयेत् शणकुसुम्भालाबुवार्ताककोविदारवटादिफलानिमातुलिङ्गञ्चवर्ज्यम् पलाण्डुलशुनगृञ्जनभक्षणेचान्द्रायणम्। भुञ्जानेषुपरस्परस्पर्शे पात्रस्थान्नभक्षणेस्नात्वाष्टोत्तरशतगायत्रीजपः अधिकभोजनेसहस्रम् भुञ्जनस्याशुचिनाविप्रेणस्पर्शेऽन्नत्यागः भुक्तोच्छिष्टस्पर्शेसवर्णेस्नानञ्जपोवा असवर्णेतूपवासः भुक्तोच्छिष्टस्यश्वशुद्रादिस्पर्शेउपोष्यपञ्चगव्यं रजकादिस्पर्शेत्रिरात्रम् परिवेषणङ्कुर्वन्नुच्छिष्टस्पर्शेपयोदधिघृतादिलघुद्रव्यमत्यजन्नाचान्तःशुचिः भक्ष्याद्यन्नस्यत्यागएव वस्त्रेविकल्पः परिवेषणादिकालेरजोदृष्टौतत्स्पृष्टान्नत्यागः भोजनान्तेउच्छिष्टशेषान्नं रौरवेपूयनिलये पद्मार्बुदनिवासिनाम्। प्राणिनांसर्वभूतानामक्षय्यमुपतिष्ठतु १ इतिदद्यात् आचान्तोप्यशुचिस्तावद्यावत्पात्रमनुद्धृतम्। उद्धृतेप्यशुचिस्तावद्यावन्नोन्मृज्यतेमही २ पर्णस्पाग्रञ्चमूलञ्चशिराञ्चैवविशेषतः। चूर्णपर्णंवर्जयित्वाताम्बूलङ्खादयेबुधः ३ अनिधायमुखेपर्णम्पूगंवैभक्षयेन्नच। इतिपञ्चमभागकृत्यम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा