निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथेष्टिकालः पक्षान्ताउपवस्तव्याःपक्षाद्यायष्टव्याः उपवासोन्वाधानाख्यं कर्म पर्वणोयश्चतुर्थांशआद्याः प्रतिपदस्त्रयः। यागकालःसविज्ञेयःप्रातरुक्तोमनीषिभिः १ प्रतिपत्तुर्यचरणेनयष्टृव्यमितिस्थितिः। तत्रपर्वप्रतिपदोःपूर्णत्वेसन्देहाभावः पर्वण्यन्वाधानस्योत्तरदिनेयागस्ययथोक्तकाललाभात् पर्वणःखण्डत्वेतुपर्वापेक्षयाप्रतिपदोहासवृ-
द्धिघटिकागणयित्वातदर्धहासेपर्वणिवियोज्यवृद्धौसंयोज्यसन्धिकालञ्ज्ञात्वान्वाधाना
दिकालोनिर्णेतव्यः यत्रहासदृद्धीनस्तस्तत्रयथास्थितःस्पष्टएवसन्धिः तत्रसन्धिश्चतुर्विधः पूर्वाह्नसन्धिर्मध्याह्नसन्धिरपराह्नसन्धी रात्रिसन्धिश्चेति द्वेधाविभक्तदिनस्यपूर्वार्धपूर्वाहः अपरार्धअपराह्नः पूर्वाह्नापराहसन्धिभूतोघटिकाद्वयात्मकोमुहूर्तोमध्याह आवर्त्तनापरपर्यायइतिकौस्तुभे उभयसन्धिरेकपलात्मकएवमध्याह्नोनतुघटिकाद्वयात्मक इतिप्रायेणेदानींशिष्टाचारः तत्रोक्तरीत्याहासवृद्ध्यर्धवियोजनसंयोजनेननिर्णीतःपर्वप्रतिपदोःसन्धिर्यदिपूर्वाह्नेमध्याह्नेवाभवति तदासन्धिदिनात्पूर्वदिनेन्वाधानंसन्धिदिनेयागः यद्यपराहेरात्रौवासन्धिस्तदासन्धिदिनेन्वाधानन्तत्परदिनेयागः अथोदाहरणम् पर्वसप्तदशघटीमितम्प्रतिपदेकादशघटीमितातत्रपघटीमितःप्रतिपत्क्षयस्तदर्धघटीत्रयम्पर्वणिवियोजितञ्जातःसन्धिश्चतुर्दशघटीमितः अयन्त्रिंशद्घटीमितेदिनमानेपूर्वाह्नसन्धिः अष्टाविंशतिघटी मितेतुदिनमानेऽयमेवमध्याह्नसन्धिः अत्रसन्धिदिनेयागःपूर्वदिनेन्वाधानम् पर्व १४ प्रतिपत् १९ अत्रपञ्चघटिकावृद्धिः तदधंसार्धघटीद्वयम्पर्वणिसंयोजितञ्जातः सन्धिः सार्धषोडशघटीमितः अयम्अपराहसन्धिः अत्रसन्धिदिनेन्वाधानम्परेछुर्यागः अथात्रवालबोधनार्थप्रकारान्तरं सूर्योदयोत्तरंविद्य-
मानाः पर्वनाडिकाः प्रतिपन्नाडिका चैकीकृताः सयोर्याददिनमानतोन्यूनास्तदापूर्वाह्नसन्धिः यदिदिनमानसमास्तदामध्याह्नसन्धिः यदिदिनमानादधिकास्तदापराहसन्धिरिति इत्थंसूर्योदयोत्तरमनुवर्तमानपर्वप्रतिपदोःक्षयवृद्धिभ्यामेवसन्ध्यवलोकनमिदानींसर्वत्रशिष्टाचारेषुप्रसिद्धं कौस्तुभादौतुचतुर्दशीदिनस्थाउदयात्पूर्वपर्वणोगतघटिकाउद यादेष्यघटिका चैकीकृत्यैवम्प्रतिपदः पूर्वदिनस्थाउत्तरदिनस्थाचघ-
टिकाएकीकृत्यपर्वापेक्षयाप्रतिपदोवृद्धिक्षयोज्ञेयौ तद्यथा चतुर्दशी २२पर्व १७ चतुर्दशीदिनस्थाः पर्वनाडिका : ३८ उत्तरदिनस्थाः १७ एकीकृत्यजाताः ५५ पर्वदिनस्थाःप्रतिपन्नाण्ड्यः ४३ उत्तरदिनस्थाः ११ एकीकृत्यजाताः ५४ अत्रैकाघटीप्रतिपत्क्षयस्तदर्धमर्धघटीपर्वणिवियोजिताजातःसन्धिः सार्धपोडशनाड्यः अयमपराहसन्धिः प्रथममतेत्वत्रपूर्वाह्नसन्धिःस्थितः तथा चतुर्दशी २४ पर्व १७ पूर्व गतनाड्यः ३६ एष्ययोगेजाताः ५३ प्रतिपत् ११ गतैष्ययोगेजाताः ५४ अत्रपूर्वोक्तरीत्याक्षयोदाहरणेएवैकाघटीवृद्धिस्तदर्धसंयोजनेसार्धसप्तदशनाडीमितोपराह्नसन्धिः एवञ्चपूर्वमतै-तन्मतयोरत्यन्त॑विरोधःवृद्धिक्षयादि सर्ववैपरीत्यात् अत्रमतेघटीद्वयाधिकावृद्धिःक्षयोवानसम्भवतीति परेन्हिघटिकान्यूनास्तथैवाभ्यधिकाञ्चयाइतिवहुवचनमसङ्गतमितिद्षणपुरुषार्थचिन्तामणौद्रष्टव्यम् अथपौर्णमास्यांविशेषः सङ्गवकालादूर्ध्वत्रयोदशादि-
घटीमारभ्यार्धाद्वात् पूर्वसन्धौसद्यस्कालापौर्णमासीतस्यांसन्धिदिनेएवान्वाधानंयागश्व सद्योनुष्ठेयः इदम्पौर्णमास्यांसद्यस्कालत्वंवैकल्पिकमितिकेचित् अ-
मावास्यायांसर्वत्रद्व्यहकालतैवनकदाचिदपिसद्यस्कालता पौर्णमास्याममायाञ्चापराह्णसन्धौप्रतिपच्चतुर्थपादेयागोनदोषाय अमावास्यायामपराह्णसन्धावपिप्रतिपदित्रिमुहूर्ताधिकद्वितीयाप्रवेशेचन्द्रदर्शनसम्भवेन चन्द्रदर्शनेयागनिषेधादमावास्यायामेवेष्टिश्चतुर्दश्यामन्वाधानम्बौधायनादीनाम् अमावास्यायांसप्तघटीमितप्रतिपदभावेचन्द्रदर्शनेपित्रतिपद्येवबौधायनैरिष्टिः कार्या आश्वलायनापस्तम्बादीनान्तुचन्द्रदर्शननिषेधोनास्तीतिप्रतिपद्येवेष्टिः यत्रसन्धिदिनेइष्टिस्तत्रसाप्रतिपद्येवसमापनीयानतपर्वणि पर्वणियागसमाप्तौ पुनर्यागः कर्तव्यः एवमेवस्मार्तेपार्वणस्थालीपार्कानिर्णयः केचित्तुस्मार्तेस्थालीपा-
कःप्रतिपद्येवसमापनीयइतिनियमोनास्ति पूर्वाह्णेएवस्थालीपाकंसमाप्यसन्धेरूर्ध्वप्रतिपदिब्राह्मणभोजनमात्रङ्कार्यं जयन्तोपिसन्धिसन्निकृष्टेप्रातःकाले एव स्थालीपाकमाहेतिविशेषमाहुः श्रौतेपिब्राह्मणभोजनमात्रम्मतिपदिकार्यमन्यत्तन्त्रम्पूर्वाह्णएवसमापनीयन्नप्रतिपदपेक्षेतिपुरुषार्थचिन्तामणावुक्तं कात्यायनानाम्पौर्णमासेष्टिनिर्णयः पूर्वोक्तःसर्वसाधारणएवनतत्रकश्चिद्विशेषः इतिसिन्ध्वादिबहुग्रन्थसम्मतम् अन्येतुपूर्वाह्णसन्धौसन्धिदिनेन्वाधानम्परेह्नियागइतिपौर्णमासीविषयेकातीयानांविशेषमाहुः॥
अथामावास्यायाङ्कातीयानांविशेषः अमाविषयेत्रेधाविभक्तदिनस्यप्रथमोभागःपूर्वाह्णः द्वितीयोभागोमध्याह्नः तृतीयोभागोऽपराह्णः तत्ररात्रिसन्धौप्रतिपद्दिनेचन्द्रदर्शनेसत्यपिपरेषामिवकातीयानामपिसन्धिदिनेपिण्डपितृयज्ञोन्वाधानञ्चपरदिनेचे-ष्टिरितिनिर्विवादम् पूर्वाह्णेदिनद्वितीयभागाख्यमध्याह्नेचसन्धौसन्धिपूर्वदिनेन्वाधानपिण्डपितृयज्ञौसन्धिदिनेचेष्टिः तदाचतुर्दशीदिनेमावास्यायादिनतृतीयभागाख्यापराह्णे यदिपूर्णव्याप्तिस्तर्हि अमायुक्तेऽपरा हेपिण्डपितृयज्ञइतिनसन्देहः यदितृतीयभागाख्यापराह्णान्त्यभागेपरा ह्णैकदेशेमावास्याव्याप्तिस्तर्ह्यमावास्यायाम्प्राप्तायाम्पिण्डपितृयज्ञोनचतुर्दश्यामित्येकःपक्षः चतुर्दश्यन्येभागेपिण्डपितृयज्ञश्चन्द्रस्यपरमक्षीणत्लादित्यपरःपक्षः अथापराह्णसन्धौचखारःपक्षाः सन्धिदिनेएवदिनतृतीयभागाख्यापंराह्णेऽमायाःपूर्णव्यातिरितिप्रथमःपक्षः यथाचतुर्दशी २९ अमा ३० प्रतिपत् २९ दिनमानञ्चत्रिंशत् ३० अत्रसन्धिदिनेन्वाधानपितृयज्ञौपरदिनेयागः सन्धिपूर्वदिनेएवोक्तापराह्णेमायाः पूर्णव्याप्तिरितिद्वितीयःपक्षः यथाचतुर्दशी २० अमा २२ प्रतिपत् २४ दिनं ३० अत्रसन्धिदिनात्परदिनेमुहूर्तत्रयात्मकप्रातःकालेप्रतिपत्पादत्रयावच्छन्नयागकाललाभात्सन्धि-दिनेन्वाधानपित्यागौप्रतिपदिचेष्टिरितिकौस्तुभमतं त्रिमुहूर्ताद्वितीयाचेत्प्रतिपच्चापराहिकी। अन्वाधानञ्चतुर्दश्याम्परतः सोमदर्शनात् १ इति वचनाच्चतुर्दश्याम्पिण्डपितृयज्ञोपवासौसन्धिदिनेचेष्टिरितिपरमतम् अथापरन्द्वितीयपक्षोदाहरणं चतुर्दशी १८ अमा १८ प्रतिपत् १९ दिनम् २७ अप्रतिपहिनेप्रातः पादत्रयावच्छिन्नयागकालाभावात्सन्धिदिनेएव सर्वमतेकात्यायनानामिष्टिः पूर्वदिनेपिण्ड पितृयज्ञोपवासौ अथदि-
नद्वयेसाम्येनवैषम्येणवैकदेशव्याप्तिरितितृतीयःपक्षःयथाचतुर्दशी २५ अमा २५ प्रतिपत् २४ दिनमानं ३० इयंसाम्येनापराह्णव्याप्तिः अत्रकौस्तुभमतपरमतोक्तरीत्याद्वेधानिर्णयः यथावाचतुर्दशी २५ अमा २० प्रतिपत् १७ दिनं २७ इयमपिसाम्येनैकदेशव्याप्तिः अत्रसर्वमतेसन्धिदिनेएवकातीयेष्टिः पूर्वदिनेचपिण्डपितृयज्ञोपवासौ अथ वैषम्येणैकदेशव्याप्तिः चतुर्दशी २५ अमा २३ प्रतिपत् २३ दिनं २० अत्रापिपूर्वोक्तमतद्वयेनद्वेधानिर्णयोज्ञेयः यथावाचतुर्दशी २५ अमा २२ प्रतिपत् १८ दिनं ३० इयमपिवैषम्येणैकदेशव्याप्तिः अत्रापिसर्वमतेसन्धदिनेकातीयेष्टिश्चतुर्दश्यामुपवासपिण्डपितृयज्ञौ यथावाचतुर्दशी २५ अमा २७ प्रतिषत् २९ दिनं ३० अत्रसन्धिदिनेन्वाधानयागौमतिपदीष्टिः सन्धिदिने वैकदेशव्याप्तिरितिचतुर्थःपक्षः यथाचतुर्दशी ३१ अमा २६ प्रतिपत् २३ दिनं ३० यथावाचतुर्दशी २८ अमा २२ प्रतिपत् १७ दिनं २७ अत्रोभयत्रापिसन्धिदिनेएवपिण्डपितृयज्ञान्वाधानेयागस्तुपरेह्निप्रतिपदि एवञ्चकात्यायनमतेपिसर्वत्रोदाहरणेचन्द्रदर्शननिषेधप्रतिपालनन्नसम्भवति किन्तुकुत्रचिन्निषेधादरात्पूर्वत्रयागादिकङ्क्कचित्तुचन्द्रदर्शनवत्येवदने एवम्पिण्डपितृयज्ञोपीतिध्येयं दर्शश्राद्धार्थममावास्यानिर्णयःसर्वसाधारणोग्रेपृथगेववक्ष्यते॥
अथसामगानामिष्टेनिर्णयः तत्रपौर्णमासीसर्वसाधारणापूर्वोक्तैव अमावास्यायान्तुरात्रिसन्धौप्रतिपद्येवचन्द्रदर्शनेपियागः अपराह्णसन्धौतुप्रातः षड्घटिकात्मकप्रतिपदाद्यपादत्रयरूपयागकाललाभेप्रतिपदिचन्द्रदर्शनेपीष्टिःसन्धिदिनेचोपवासपितृयज्ञौ उक्तयागकालालाभेसन्धिदिनेयागः पूर्वदिनेचतुर्दश्याम्पितृयज्ञोपवासौ एवञ्चसामगैरपि चन्द्रदर्शननिषेधःकात्यायनवदेवयथासम्भवपालनीयः इतिसामगनिर्णयः इतियागकालर्निर्णयोद्देशः २२
अथपिण्डपितृयज्ञकालः तत्राश्वलायनानांयस्मिन्नहोरात्रे अमावास्याप्रतिपदोः सन्धिस्तहिनापराह्णेपञ्चधाविभक्तदिनचतुर्थभागरूपेपिण्डपितृयज्ञः सचापराह्णसन्धावन्वाधानदिनेभवति मध्याह्नेपूर्वाह्णेवासन्धौयागदिनेयागोत्तरमपराह्णेभवति। यदाहोरात्रसन्धौतिथिसन्धिस्तदान्वाधानदिनेएवपिण्डपितृयज्ञैः एवमापस्तम्बहिरण्यकेशिमतानुसारिणामपिसन्धिदिनेएवपितृयज्ञः सचापराह्णेधिसूर्येवाकार्यः अपराह्णश्चपञ्चधाविभक्तदिनचतुर्थभागोनवधाविभक्तदिनसप्तमभागोवा साङ्ख्यायनकात्यायनसामगानामन्वाधानदिने एव पिण्डपितृयज्ञः पूर्वमेवोक्तः सचत्रेधाविभक्तदिनतृतीयभागरूपेपराह्णेकार्यः गृह्याग्निमताम्बहृचानान्दर्शश्राद्धपिण्डपितृयज्ञयोरेकस्मिन्दिनेप्राप्तौव्यतिषङ्गेणानुष्ठानं व्यतिषङ्गोनामोभयोः सहप्रयोगः खण्डपर्वणितपूर्वेद्युः केवलदर्शश्राद्धमुत्तरेन्हिकेवलः पिण्डपितृयज्ञः श्रौताग्निमतान्तुकेवलः पिण्डपितृयज्ञएव दक्षिणाग्नौकार्योनव्यतिषङ्गेण श्रौताग्निमतांसम्पूर्णेदर्शे इत्थङ्क्रमः आदावन्वाधानन्ततोवैश्वदेवस्ततः
पिण्डपितृयज्ञस्ततोदर्शश्राद्धमिति अस्मिन्नेवकालेजीवत्पितृकेण साग्निकेनहोमान्तेवा पितुः पित्रादित्रयोद्देशेनपिण्डसहितोवापिण्डपितृयज्ञः कार्यः यद्वा पिण्डपितृयज्ञोनैवारब्धव्यः इष्टिलोपेपादकृच्छ्रम्प्रायश्चित्तम् इष्टिद्वयलोपेऽर्द्धकृच्छ्रम् इष्टित्रयलोपेअग्निनाशात्पुनराधानम् पिण्डपितृयज्ञलोपेवैश्वानरेष्टिःप्रायश्चित्तम् इष्टिस्थानेसप्तहोतारंहोप्यामीतिसङ्कल्प्यतन्मन्त्रेणचतुर्गृहीताज्येनपूर्णाहुतिर्वाकार्या इति पिण्डपितृयज्ञोद्देशः २३
अथश्राद्धेमावास्यानिर्णीयते पञ्चधाविभक्तदिनचतुर्थभागाख्यापराह्णव्यापिन्यमावास्यादर्शश्राद्धेग्राह्या पूर्वेद्युरेव परेद्युरेववापराह्णेकार्त्स्न्येनैकदेशेनवाव्यापित्वे सैवग्राह्या उभयदिनेप्यपराह्णेवैषम्येणैकदेशव्यापित्वेयाधिकव्यापिनीसाग्राह्या दिनद्वयेसाम्येनैकदेशव्याप्तौतिथिक्षयेपूर्वातिथिवृद्धौतिथिसाम्येचपरा तत्रसमव्याप्तौतिथिवृद्धिक्षयसाम्योदाहरणानि चतुर्दशी १९ अमा २३ दिनम् ३० अत्रदिनद्वयेपिसमापञ्चघटिकैकदेशव्याप्तिश्चतुर्दश्यपेक्षयाचतुर्घटिकाभिरमायावृद्धिसत्वादुत्तरा ग्राह्या तथा चतुर्दशी २३ अमा १९ अत्रैकाघटिकासमाव्याप्तिर्घटिकाचतुष्टयेनतिथिक्षयात्पूर्वाग्राह्या अथचतुर्दशी २१ अमा २१ अत्रघटीत्रयेणदिनद्वयेऽंशतःसमाव्याप्तिस्तिथेस्तुवृद्धिक्षयाभावेनसमत्वात्पराग्राह्या दिनद्वयेपूर्णापराह्णव्याप्तौतिथिवृद्धित्वात्पराग्राह्या यदादिनद्वयेप्यपराह्णस्पर्शाभावस्तदागृह्याग्निमद्भिःश्रौताग्निमद्भिश्वसनी वालीसञ्ज्ञिकाचतुर्दशीमिश्रापूर्वाग्राह्या निरग्निकैः स्त्रीशुद्रादिभिश्चकुहूसञ्ज्ञिकाप्रतिपन्मिश्रापराग्राह्येतिमाधवाचार्यसम्मतोदर्शनिर्णयःप्रायःसर्वत्रशिष्टैराद्रियते पुरुषार्थचिन्तामणौतुबहृचैस्तैत्तिरीयैश्वसाग्निकैरपराह्णव्याप्त्यसत्वेपिइष्टिदिनात्पूर्वदिनेएवदर्श- अन्यमतम्. श्राद्धङ्कार्यं तथाचदिनद्वयेकार्त्स्न्येनापराह्णव्याप्सौपरत्रैवदर्शः एकदेशेनापराह्णव्याप्तौप्रतिपदृद्ध्याप्रतिपदीष्टावृत्तरत्रैवदर्शः द्वितीय दिनेए वापराह्णव्याप्सौतुयदिप्रतिपत्क्षयवशाद्दर्शदिन एवइष्टिप्राप्तिस्तदाबह्वृचानांसिनीवालीतैत्तिरीयाणां कुहूर्ग्राह्या सामगानांविकल्पेनद्वयं यदापूर्वदिनेपराह्णेधिकाव्याप्तिः परदिनेल्पा तदा सामगानाम्पूर्वातैत्तिरीयाणाम्उत्तरा उभयत्रापराह्णस्पर्शाभावेपिसामगानाम्पूर्वातैत्तिरीयाणाम्परेत्याद्युक्तम् दर्शेदर्शश्राद्धवर्षश्राद्धयोर्दर्शमासिकयोदर्शश्राद्धोदकुम्भश्राद्धयोश्चसम्पातेदेवताभेदाच्छ्राद्धद्वयकार्यं तत्रादौमासिकाब्दिकादिश्राद्धङ्कृत्वापाकान्तरेणदर्शश्राद्धङ्कार्यं वैश्वदेव आब्दिकादिश्राद्धशेषेणपृथक्पाकेनवादर्शश्राद्धात्प्राग्भवति आहिताग्निस्तुवैश्वदेवम्पिण्डपितृयज्ञञ्चकृत्वाब्दिकङ्कुर्यात् दर्शश्राद्धमनुपनीतविधुरमवासस्थैरपिकार्यम् अमाश्राद्धातिक्रमेन्यूषुवाचमितिऋचंशतवारञ्जपेत् इतिदर्शनिर्णयोद्देशः २४
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा