🕉️ 24 November 2026, Tuesday · 08:08:34 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 50/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

115. षष्ठभागादिकृत्यविचारः

अथषष्ठभागादिकृत्यविचारः इतिहासपुराणाद्यैःषष्ठसप्तमकौनयेत्।

सायंसन्ध्यादिकृत्यम्

अष्टमेलोकयात्रातुबहिःसन्ध्याततःपुनः १ सायंसन्ध्याप्रातःसन्ध्यावत् अग्निश्चमामन्युश्च॰ यदह्नापापमकार्षं॰ अहस्तदवलुम्पतु॰ सत्येज्योतिषिजुहोमिस्वाहेतिमन्त्राचमनेविशेषः पश्चिमाभिमुखस्तिष्ठन् अर्घ्यदद्यात् ऊर्ध्वजानुरूपविश्यप्रत्यङ्मुखएवगायत्रीञ्जपेत् सायंहोमस्तूक्तएव सायंवैश्वदेवेपुनःपाकः अतिथिंसम्पूज्यघटीत्रयानन्तरंसार्धयामात्प्राक्भुक्ताशयीत भोजनकालेदीपनाशेपात्रमालभ्य सूर्यंस्मृत्वापुनर्दीपन्दृष्ट्वापात्रस्थम्भुञ्जीतनान्यत् श्राद्धनत्पूर्वदनेपातधृतिसङ्क्रान्त्यादिषुननिशिभोजनं चतुर्थप्रथमौयामौविद्याभ्यासैर्नयेन्निशि। प्रहरद्वयशायीतुब्रह्मभूयायुकल्पते १ प्राक्प्रत्यक्दक्षिणस्यांशिरःकृत्वाशयीतनकदाचिदुदक्शिराः रात्रिसूक्तञ्जप्त्वासुखशायिनःस्मृत्वाविष्णुन्नत्वास्वप्यात् अगस्तिर्माधवश्चैवमुचुकुन्दोमहामुनिः। कपिलोमुनिरास्तीकःपञ्चैतेसुखशायिनः १ नसन्ध्यायान्नधान्येनगोगृहेनदेववित्रगुरूणामुपरिनोच्छिष्टोनदिवाननग्नःशयीत निद्राकालेताम्बूलम्मुखात् स्त्रियंशयनाद्भालात्तिलकं शिरमःपुष्पन्त्यजेत् गर्भाधानप्रकरणोक्तकालेसार्धयामोत्तरन्दीपेसत्यमति बानिवीतंयज्ञोपवीतङ्कण्ठादौकृत्वापत्नीङ्गच्छेत् ऋतुकालाभिगामीस्यात्स्वदारनिरतः सदा॥ पर्वत्रर्जेव्रजेच्चैनान्तद्द्रतोरतिकाम्ययाइति अस्यार्थः ऋतुर्नामशोणितदर्शनोपलक्षितोगर्भधारणयोग्य. स्त्रोणामवस्थाविशेषः तत्कालाभिगामीस्यादित्ययनियमविधिः नतुपरिसङ्ख्या स्वार्थहानिपरार्थकल्पनाप्राप्तवाधात्मकदोषत्रयदुष्टत्वात् ऋतुकालेरागतः पक्षेरामनप्राप्तौयस्मिन्पक्षेऽप्राप्तिस्तत्रविधि समेयजेतेतिवत् अतएव ऋतावगमनेदोषमाहपराशरः। ऋतुम्नातान्तुयोभार्योसन्निधौनोपगच्छति॥ घोरायां भ्रूणहत्यायाम्पततेनात्रसंशय॥ अनुत्पन्नपुत्रस्यचायनियमः ब्राह्मणोहवै जायमानस्त्रिभिरृणैर्ऋणवाञ्जायते यज्ञेन देवेभ्यः प्रजयापितृभ्यः स्वाध्यायेनऋषिभ्यःइत्येतत्प्रत्यक्षश्रुतिमूलत्वेऽस्यसम्भवति मूलान्तरकल्पनस्यायुक्तत्वात् तस्माद्युग्मासुपुत्रार्थीसंविशेदार्तवेस्त्रियमितिचवक्ष्यति ततोप्येतच्छ्रुतिमूलत्वमवगम्यते पुत्रोत्पादनशास्त्रस्य चैकपुत्रोत्पादनेनैवचरितार्थत्वात् कामजानितरान्विदुरितिदर्शनादजातपुत्रस्यैवनियमः। दशास्याम्पुत्रानाघेहीतिमन्त्रस्तुषहुपुत्रप्रशंसापरः जातपुत्रस्यापि ऋतुकालगमननियमोन दशस्वेयावतिष्ठते स्वदारनिरतः सदेति नित्यंस्वदारसन्तुष्टःस्यान्नान्यभायामुपगच्छेदितिविधानात्परिसङ्ख्यैव वाक्यानर्थक्यावदारगमनस्यप्रशस्तत्वात् ऋतावगमनेदोषाश्रवणाश्चननियमविधिः पर्ववर्जेव्रजेच्चैनामिति पर्वाण्यमावास्यादनिवेश्यन्तेतानिवर्जयित्वाभार्याप्रोतिव्रतंयस्यसतद्द्रतोऽनृतावप्युपेयादत एव रतिकाम्ययानतुपुत्रोत्पादनशान्नवक्ष्या तस्माद्विधित्रयमिदम् ऋतावुपेयादेव अन्यभार्योनोपगच्छेत् अनृतावपिभार्याप्रीतयेगच्छेदिति अत्रचगौतमः ऋतायुपेयादनृतोचपवर्जम्। याज्ञवल्क्योप्याह यथाकामीभवेद्वापिस्त्रीणांवरमनुस्मरन् इतिकुल्लूकभष्टाः स्त्रीणावरम् इददत्तमनुस्मरन् भवतीनाङ्कामविहन्तापातकीस्यादिति इतिमिताक्षरा॥") अष्टम्याञ्चचतुर्दश्यान्दिवापर्वणिमैथुनम्।कृत्वासचैलंस्नात्वातुवारणीभिश्चमार्जयेत्१ पुनर्मामैत्वितिजपश्चोक्तएव एवंस्त्रानभोजनादिकेबहुविधविधिनिषेधाकुलेआह्निककर्मणिन्यूनाधिकदोषविधिनिषेधातिक्रमदोषपरिहारार्थप्रायश्चित्ताज्ञानेतत्साङ्गतार्थं प्रायश्चित्तसाङ्गतार्थञ्चश्रीविष्णुनामोच्चारणादिकङ्कार्यम् प्रायश्चित्तान्यशेषाणितपःकर्मात्मकानिच। यानितेषामशेषाणाङ्कृष्णानु-

स्मरणं परम् १ यस्यस्मृत्याचनामोत्तयातपोयज्ञक्रियादिषु। न्यूनंसम्पूर्णतांयातिसद्योषन्देतमच्युतम् २ नाम्नोस्तियावतीशक्तिःपापनिर्हरणेहरेः। तावत्कर्तुनशक्नोतिपातकं पातकीजनः ३ लौकिकंवैदिकङ्कर्मेश्वरेऽर्पणीयं यत्करोषियदश्नासियज्जुहोषिददासियत्। यत्तपस्यसिकौन्तेयतत्कुरुष्वमदर्पणम् १ इत्युक्तेः युगपत्सर्वकर्मार्पणेमन्त्रः कामतोकामतोवापियत्करोमिशुभाशुभम्। तत्सर्वन्त्वयिसन्न्यस्तन्त्वत्प्रयुक्तःकरोम्यहम् १ अपारमाह्निकङ्कर्मगहनम्बहुभेदयुक्। निःशेषमक्षमोवक्तुंयथामत्यवदल्लघु १ अनन्तोपाध्यायजनिःकाशीनाथाभिधःसुधीः। तुष्यतान्तेनभगवाञ्छ्रीनाथोविठ्ठलःप्रभुः। इत्यनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेतृतीयपरिच्छेदेआह्निकाचारप्रकरणंसमाप्तम्॥

116. काम्यनैमित्तिकविचारः

अथकाम्यनैमित्तिकविचारः अवश्यम्प्रत्यहङ्कृत्यमुक्त्वातच्छेषउच्यते। काम्यनैमित्तिकञ्चापि प्रायःसिन्धुक्रमादथ १ अथाधानविचारः तत्राधाननक्षत्रादिकालविचारःप्रथमपरिच्छेदेउक्तः आवसथ्याधानन्तुदारकालेदायविभागकालेवा

आधानविचारः

अग्निर्वैवाहिकोयेननगृहीतःप्रमादिना। पितर्युपरतेतेनगृहीतव्यःप्रयत्नतः १ गृह्याग्निहीनस्यान्नमभोज्यम् पितरिज्येष्ठभ्रातरिवासाग्निकेकनिष्ठादेरविभक्तस्यनिरग्नित्वकदोषोन एवञ्ज्ञानाध्ययनादिनिष्ठस्यापिनदोषः गृहस्थस्याप्यध्ययनोक्तेः स्मार्ताधानमपिज्येष्ठेभ्रातरिअकृताधानेसतिनकार्यमितिनिर्णयसिन्ध्वादौगार्ग्योक्तिः अत्रैवन्निर्णयोभाति यत्रज्येष्ठेनदायाद्यपक्षमवलम्ब्यविवाहकालेयावज्जीवमौपासनङ्करिष्येइत्येवंसङ्कल्पपूर्वकंविवाहाग्निर्नगृहीतस्तद्विषयोऽयङ्कनिष्ठस्यनिषेधः येन ज्येष्ठेनविवाहकालेतथासङ्कल्पपूर्वकमग्निःपरिगृहीतःसपश्चात्परिचरणाभावेनाविद्यमानाग्निकोऽपिउच्छिन्नाग्निरेवनत्वकृताधानइतितत्रकनिष्ठस्याधानेदोषोनेति अत्राधिकारिणोऽपिभ्रातुरनुज्ञयाकनिष्ठस्पाधानम्भवति विवाहस्तुअनुज्ञयापिन एवम्पितुरनुज्ञयाप्याधानं सन्न्यस्तेछिन्नहस्तादौयद्वापण्ढादिदूषणे। जनकेसोदरेज्येष्ठेकुर्यादेवेतरः क्रियाम् १ इत्यादिविशेषःविवाहप्रकरणेपरिवेत्तृप्रसङ्गेउक्तः॥

११७अथशूद्रसंस्कारविचारः गर्भाधानपुंसवनानवलोभनसीमन्तोन्नयनजातकर्मनामकर्मनिष्क्रमणान्नप्राशनचौलोपनयनमहानाम्न्यादिव्रतचतुष्टयसमावर्तनविवाहाइतिषोडशसंस्काराद्विजानां जातकर्मनामकर्मनिष्क्रमणान्नप्राशनचूडाविवाहाइतिषट्द्विजस्त्रीणां तत्रविवाहःसमन्त्रकोऽन्येमन्त्ररहिताः गर्भाधानसीमन्तौस्त्रीपुरुषसाधारणौ चूडान्तानवविवाहश्चेतिदशामन्त्रकाःशूद्राणामितिबहुसम्मतं शुद्रकमलाकरेशूद्राणाम्पञ्चमहायज्ञाअप्युक्ताः केचिदवैदिकमन्त्रेणोपनयनमप्याहुः ब्राह्मेतु विवाहमात्रंसंस्कारंशूद्रोपिलभतांसदा। इत्युक्तम् अत्रसदसच्छ्वद्रगोचरत्वेनकपरम्पराप्राप्तप्रकारेणवाव्यवस्था अस्यद्विजसेवावृत्तिः आपदिवाणिज्यशिल्पादि शूद्रेणलक्षणा-

दिविक्रेयम् मद्यम्मांसञ्चन कपिलाक्षीरपानेनब्राह्मणीगमनेनच। वेदाक्षरविचारेण शुद्रचाण्डालतांव्रजेत् १ शुद्रोवर्णश्चतुर्थोपिवर्णत्वाद्धर्ममर्हति। वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना २ स्त्रीशूद्रधर्मेषुव्रतादिषुसर्वत्रविप्रेणमन्त्रःपठनीयःसोपिपौराणएव भारतपुराणयोःश्रवणेस्त्रीशूद्रयोरधिकारोनत्वध्ययने श्रावयेच्चतुरोवर्णान्कृत्वाब्राह्मणमग्रतः। शुद्रस्यपञ्चयज्ञश्राद्धादिकर्माणिकातीयसूत्रानुसारेणेतिमयूखे आगमोक्ताविष्णुशिवादिमन्त्रानमोन्ताःप्रणवरहिताः पुराणादिनाश्रवणनिदिध्यासनादिकृत्वाब्रह्मज्ञानमपिस्त्रीशूद्रैःसम्पाद्यम् उपनिषच्छ्रवणेतुनाधिकारइतिशुद्रस्यतदनादरश्रवणादित्यन्धिकरणे शूद्रस्यसर्वश्राद्धान्यामेनैव केचित्सर्वप्रजानाङ्काश्यपत्वात्सर्वशुद्राणाङ्काश्यपगोत्रन्तच्चश्राद्धएवकीर्तनीयन्नान्यत्रेत्याहुः एवंशान्तिकादावधिकारोविप्रद्वारैव यदिविप्रः शुद्रदक्षिणामादायवैदिकमन्त्रैस्तदीयहोमाभिषेकादिकरोतितदातत्रशूद्रस्तत्पुण्यफलभाक् विप्रस्तुमहाप्रत्यवायीतिमाधवः अहिंसासत्यास्तेयशौचेन्द्रियनिग्रहदानशमदमक्षमादयःशुद्रादिसर्वसाधारणाधर्माःपरपदप्रापकाः स्वस्तिवाचनादिशुद्रकर्मणाम्प्रयोगास्तुशुद्रकमलाकरेज्ञेयाः॥

118. कापीकूपाद्युत्सर्गादि

अथकापीकूपाद्युत्सर्गादि गृहग्रामयोराग्नेयदक्षिणनैर्ऋत्यवायव्येषुमध्येचदुष्टफलःकृपः शेषदिक्षुशुभः वापीकूपतडागाद्युत्सर्गउत्तरायणेमाघादिमासपट्कस्य शुक्लपक्षेषुप्रशस्तः जलक्षयसम्भावनायाङ्कार्तिकमार्गशीर्पयोरपि नकालनियमस्तत्रसलिलन्तत्रकारणम्। इत्युक्तेः चतुर्षुविष्णुशयनमासेषुशुक्रास्तादौचवर्ज्यम् अश्विनीरोहिणीमृगपुष्यमघात्र्युत्तरामूलश्रवणादित्रयहस्तज्येष्ठानुराधारेवतीषुद्वितीयातृतीयापञ्चमीसप्तमीदशम्येकादशीत्रयोदशीतिथिषुबुधगुरुशुक्रसोमवारेषुजलोत्सर्गःशुभः उत्सर्गाभावेजलन्नग्राह्यं वापीकूपतडागादौयज्जलंस्यादसंस्कृतम्। नस्पृष्टव्यन्नपेयञ्चपीत्वाचान्द्रायणञ्चरेत् १ उत्सर्गप्रयोगोऽन्यतोज्ञेन्यः॥

119. वृक्षादिरोपणम्

अथवृक्षादिरोपणम् अश्विनीरोहिणीमृगपुष्यमघोत्तरात्रयहस्तचित्रा विशाखानुराधामूलशततारकारेवतीषुसत्तिथिवारेषुवृक्षलतारोपःशस्तः आश्लेषायांसोमवारःसोमोलग्नेबलान्वितः। योगेऽस्मिन्रोपयेदिक्षुकदलीक्रमुकादिकान् १ नारीकेलान्वपेद्भूमावश्विन्यांलग्नगेरवौ। नागवल्लीङ्गुरौलग्नेचन्द्रेस्वांशस्थितेसति २

120. मूर्तिप्रतिष्ठा

अथमूर्तिप्रतिष्ठा प्रतिष्ठासर्वदेवानांवैशाखज्येष्ठफाल्गुने। चैत्रेतुस्याद्विकल्पेनमाघेविष्ण्वन्यमूर्तिषु १ सौम्यायनेशुभाप्रोक्तानिन्दितादक्षिणायने। मातृभैरववाराहनरसिंहत्रिविक्रमाः २ दक्षिणेप्ययनेस्थाप्यादेव्यश्चेत्यूचिरेपरे। विष्णोःशस्ताश्चैत्रमासाश्विनश्रावणकाअपि ३ माघफाल्गुनवैशाखज्येष्ठाषाढसहःसुच। श्रावणेचनभस्येचलिङ्गस्थापनमुत्तमम् ४ देव्यामाघेऽश्विनेमासेप्युत्तमासर्वकामदा। अश्विनीरोहिण्युत्तरात्रयमृगपुनर्वसुपुष्यहस्तचित्रास्वात्यनुराधाश्रवणत्रयरेवतीषुशनि-

भौमान्यवासरेदर्शरिक्तान्यतिथौसर्वदेवप्रतिष्ठाशुभा श्रवणेकृत्तिकादिविशाखान्तेषुच द्वादश्याञ्चविष्णोःप्रशस्ता चतुर्थीगणेशस्योक्ता नवमीमूलभञ्चदेव्याः तथास्वस्वनक्षत्राणिसर्वेषां यथार्द्राशिवस्य हस्तःसूर्यस्येत्यादि हन्त्यर्थहीनाकर्तारम्मन्त्रहीनातुऋत्विजम्। स्त्रियंलक्षणहीनातुनप्रतिष्ठासमोरिपुः १ ब्रह्मातुब्राह्मणैःस्थाप्योगायत्रीसहितःप्रभुः। सर्ववर्णैस्तथाविष्णुःप्रतिष्ठाप्यःसुखार्थिभिः २ मातृभैरवाद्याःसर्वैः शिर्वालङ्गंयतिनापि पुराणप्रसिद्धजीर्णलिङ्गंस्त्रीशूद्रैरपिपूज्यं नूतनस्थापितलिङ्गंस्त्रीशूद्रोवापिनस्पृशेत्। शिवादिप्रतिष्ठायांस्त्रीशूद्रादेर्नाधिकारः शूद्रोवाऽनुपनीतोवा स्त्रियोवापतितोपिवा। केशवंवाशिवंवापिस्पृष्ट्वानरकमश्नुते १ स्थिरप्रतिमाःप्राङ्मुखीरुदङ्मुखोयजेत चलप्रतिमासुप्राङ्मुखः सौवर्णीराजतीताम्रीमृन्मयीप्रतिमाभवेत्। पाषाणधातुमुक्तावाकांस्यपित्तलयोरपि १ अङ्गुष्ठपर्वमानात्सावितस्तिंयावदेवतु। गृहेषुप्रतिमाकार्यानाधिकाशस्यतेबुधैः २ मृद्दारुलाक्षागोमेदमधूच्छिष्टेनचक्वचित्। श्रीमद्भागवते शैलीदारुमयीलौहीलेप्यालेख्याचसैकती। मनोमयीमणिमयीप्रतिमाऽष्टविधास्मृता १ लौहीसौवर्णी दारुमधूकवृक्षस्यैव सप्ताङ्गुलाधिकाद्वादशाङ्गुलपर्यन्ता गृहेप्रतिमेतिदेवीपुराणे अर्चकस्यतपोयोगादर्चनस्यातिशायनात्। अभिरूप्याच्चविम्बानान्देवःसान्निध्यमृच्छति १ प्रतिमापट्टयन्त्राणान्नित्यंस्नानकारयेत्। कारयेत्पर्वदिवसेयदाचमलधारणम् २ पार्थिवलिङ्गपूजादिविचारोद्वितीयपरिच्छेदेउक्तः अथपञ्चसूत्रीनिर्णयः लिङ्गोच्चतालिङ्गविस्तारोलिङ्गस्थौल्यम्पीठविस्तारःप्रनालिकामानञ्चेतिपञ्चसूत्राणि तत्रलिङ्गमस्तकविस्तारंलिङ्गोच्चतातुल्यङ्कृत्वातद्द्विगुणसूत्रवेष्टनार्ह

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬