निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
लिङ्गस्थौल्यङ्कृत्वालिङ्गात्सर्वतोलिङ्गसमविस्तारम्पीठंवर्तुलकुर्यात् पीठोच्चतालिङ्गोच्चद्विगुणा पीठाद्वहिःपीठोत्तरभागेलिङ्गसमदीर्घामूलेदैर्ध्यसमविस्ताराअग्रेतदर्धविस्ताराप्रनालिका लिङ्गोच्चत्वत्रिगुणापीठोच्चतेतिकेचित् अथपीठमध्यभागेलिङ्गात्द्विगुणस्थूलम्पीठोच्चतातृतीयांशेनकण्ठङ्कुर्यात् कण्ठस्योर्ध्वाधोभागयोःसमवप्रद्वयङ्कृत्वापीठोपरिलिङ्गविस्तारषष्ठांशेनमेखलाङ्कृत्वातदन्तःसंलग्नन्तत्समङ्खातङ्कुर्यात् प्रनालिकायामपिविस्तारतृतीयांशेनखातःपीठवन्मेखलाचकार्येति गृहेलिङ्गद्वयन्नार्च्यं शालग्रामद्वयन्तथा।
द्वेचक्रेद्वारकायास्तुनार्च्येसूर्यद्वयन्तथा १ शक्तित्रयन्त्रिविघ्नेशन्द्वौशङ्खौनार्चयेत्सुधीः। अन्यत्रतु चक्राङ्कमिथुनम्पूज्यन्नैकञ्चक्राङ्कमर्चयेत्। इत्युक्तन्तेनविकल्पः नार्चयेच्चतथामत्स्यकूर्मादिदशकङ्गृहे। अग्निदग्धाश्चभग्नाश्चनपूज्याःप्रतिमागृहे १ भग्नावास्फुटितावापिशालग्रामशिलाशुभा। शालग्रामाःसमाःपूज्याःसमेषुद्वितयन्नहि २ विषमानैवपूज्यन्तेविषमेष्वेकएवहि। ससृवर्णशालग्रामदानेपृथ्वीदानफलं शतशालग्रामपूजनेऽनन्तफलम् अविभक्तानामपिभ्रात
णान्देवतार्चनमग्निहोत्रसन्ध्याब्रह्मयज्ञश्चपृथगेव स्त्रीशूद्रोवास्पर्शसहितंशालग्रामचक्राङ्कितबाणलिङ्गानिनार्चयेत् शुद्रोवाऽनुपनीतोवासधवाविधवाङ्गना। दूरादेवास्पृशन्पूजाम्प्रकुर्याच्छिवकृष्णयोः १ शालग्रामबाणयोरेवस्पर्शननिषेधोनतुप्रतिमादौ सर्ववर्णैस्तुसम्पूज्याःप्रतिमाःसर्वदेवताः। लिङ्गान्यपितुपूज्यानिमणिभिःकल्पितानिच १ इत्युक्तेः शालग्रामशिलाक्रीतामध्यमायाचिताऽधमा। उक्तलक्षणसम्पन्नापारम्पर्यक्रमागता १ उत्तमासातुविज्ञेयागुरुदत्तातुतत्समा। तत्राप्यामलकीतुल्यापूज्यासूक्ष्मैवयाभवेत् २ यथायथाशिलासूक्ष्मातथास्यात्तुमहत्फलम्। यवमात्रन्तुगर्तुःस्वाद्यवार्धंलिङ्गमुच्यते ३ शिवनाभिरितिख्यातस्त्रिषुलोकेषुदुर्लभः। शालग्रामशिलायास्तुप्रतिष्ठानैवविद्यते ४ महापूजान्तुकृत्वादौपूजयेत्तान्ततोबुधः। बाणलिङ्गानिराजेन्द्रख्यातानिभुवनत्रये ५ नप्रतिष्ठानसंस्कारस्तेषामावाहनन्तथा। वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाविप्राद्यैःक्रमेणपूज्याः तल्लक्षणन्तु पञ्चचक्रोवासुदेवः पइभिश्चक्रैःप्रद्युम्नः सप्तभिःसङ्कर्षणः एकादशभिरनिरुद्धइति प्रणवोच्चारणाच्चैवशालग्रामशिलार्चनात्। ब्राह्मणीगमनाच्चैवशुद्रश्चाण्डालतांव्रजेत् १ दीक्षायुक्तैस्तथाशुद्रैर्मद्यपानविवर्जितैः। कर्तव्यं ब्राह्मणद्वाराशालग्रामशिलार्चनम् २ विष्णुप्रीतिकरन्नित्यन्तुलसीकाष्ठचन्दनम्। कार्तिकेकेतकीपुष्पंयेनदत्तंहरेःकलौ ३ दीपदानञ्चदेवर्षेतारितन्तेनवैकुलम्। शालग्रामसम्बन्धितोयवच्चक्राङ्कशिलातोयस्यापिपानविधानात्सापिशालग्रामसन्निधौपूज्या अग्राह्यंशिवनिर्माल्यम्पत्रम्पुष्पम्फलञ्जलम्। शालग्रामस्यसंस्पर्शात्सर्वयातिपवित्रताम् १ मध्यमानामिकामध्येपुष्पंसङ्गृह्यपूजयेत्। अङ्गुष्ठतर्जन्यग्राभ्यान्निर्माल्यमपनोदयेत् २ विनाभस्मत्रिपुण्ड्रेणविनारुद्राक्षमालया। पूजितोपिमहादेवोनस्यात्तस्यफलप्रदः ३ विनामन्त्रन्नविभृयाद्रुद्राक्षानभुविमानवः। पञ्चामृतम्पञ्चगव्यंस्नानकालेप्रयोजयेत् ४ रुद्राक्षस्यप्रतिष्ठायाम्मन्त्रम्पञ्चाक्षरन्तथा। त्र्यम्बकादिकमन्त्रञ्चतथातत्रप्रयोजयेत् ५ अष्टोत्तरशतङ्कुर्याच्चतुःपञ्चाशदेवतु। सप्तविंशतिमानावामालाहीनानयुज्यते ६ सप्तविंशतिरुद्राक्षमालयादेहसंस्थया।
यः करोतिनरःपुण्यंसर्वङ्कोटिगुणम्भवेत् ७ अथरुद्राक्षतुलस्यादिसर्वजपमालानांसंस्कारः कुशोदकसहितैःपञ्चगव्यैर्मालाम्प्रक्षाल्यॐहीम्म्अम्आम्इम्ईम्उम्ऊम्ऋम्ऋम्ऌंलृम्एम्ऐम्ओम्औम्अम्अः कङ्खङ्गङ्घङ्ङं चञ्छञ्जञ्झञ्ञं टण्ठण्डण्ढण्णं तन्थन्दन्धनं पम्फम्बम्भमं यंरंलंवंशंषंसंहङ्क्षम् इत्येतानिपञ्चाशन्मातृकाक्षराणि अश्वत्थपत्रंस्थापितमालायांविन्यस्य ॐसद्योजातं॰ वामदेवाय॰ अघोरेभ्यो॰ तत्पुरुषाय॰ ईशानःसर्वविद्याना॰ इतिपञ्चमन्त्राञ्जपित्वा सद्योजातेतिमन्त्रेणमालाम्पञ्चगव्येनप्रोक्ष्यशीतजलेनप्रक्षाल्यवामदेवेतिचन्दनेनाघृष्याघोरेतिमालान्धूपयित्वातत्पुरुषेतिचन्दनकस्तूर्यान्दिनालेपयित्वेशानइतिमन्त्रेणप्रतिमणिंशतवारन्दशवारंवाभिमन्त्र्यअघोरइतिमन्त्रेणमेरुंशतवारमभिमन्त्रयेत् ततएतैरेवपञ्चभिर्मन्त्रैर्मालाम्पञ्चोपचारैःपूजयेदिति
बोपदेवः रुद्राक्षान्कण्ठदेशेदशनपरिमितान्मस्तकेविंशन्तीद्वे षट्षषट्कर्णप्रदेशेकरयुगुलकृतेद्वादशद्वादशैव। बाव्होरिन्दोःकलाभिर्नयनयुगकृतेएकमेकं शिखायांवक्षस्यष्टाधिकंयःकलयनिशतकंसस्वयन्नीलकण्ठः १ रुद्राक्षदानाद्रपदप्राप्तिः पञ्चविंशत्पलंलिङ्गेष्वभ्यङ्गङ्कारयेदथ।
स्नापयेत्तिलतैलैश्वकरयत्रोद्भवैःशिवम् १ स्नानं पलशतञ्ज्ञेयमभ्यङ्गःपञ्चविंशतिः १ पलानान्द्विसहस्रेणमहास्नानञ्जलेनतत्। पयोदधिघृतक्षौद्रशर्कराद्यैस्ततःक्रमात् २ शिवस्यसर्पिषा स्नानम्प्रोक्तम्पलशतेनवै। तावतामधुनाचैवदध्नाचपयसापिच ३ पलसार्धसहस्रेणरसे-नैवैक्षवेणच। भत्त्याचोष्णोदकैःशीतोदकैःसंस्नापयेच्छिवम् ४ श्रीविष्णुङ्क्षीरदध्याद्यैःक्रमाद्दशगुणोत्तरैः।
स्नापयेत्केचिदूचुश्चक्षीराद्यैःपञ्चभिःसमैः ५ अथश्रीविष्ण्वादिपञ्चायतनानि विष्णुर्मध्येशिवेभास्यसूर्यार्याईशदिक्क्रमात। शम्भौमध्येविष्णुसूर्यगजास्यार्यास्तथाक्रमात् १ रवौमध्यगतेरुद्रगणेशाच्युतशक्तयः। मध्येदेवीविष्णुशिवगणेशरवयःक्रमात् २ मध्येगणपतिर्विष्णुशिवसूर्याम्बिकास्तथा। ईशानदक्क्रमेणैवपञ्चायतनपञ्चकम् ३ अथकेशवादिचतुर्विंशतिमूर्तिनिर्णायकबोपदेवश्लोकःसिन्धौव्याख्यातः तस्यायंसङ्ग्रहः केशवादेश्चतुर्वाहोर्द
क्षिणोर्ध्वकरक्रमात्। शङ्खचक्रगदापद्मायुधैःकेशवउच्यते १ नारायणः पद्मगदाचक्रशङ्खायुधैःक्रमात्। माधवश्वक्रशङ्खाभ्याम्पद्मेनगदया भवेत् २ गोविन्दोगदयापद्मशङ्खचक्रैःक्रमाद्भवेत्। विष्णुःपद्मेनशङ्खेनचक्रेणगदयाक्रमात् ३ शङ्खपद्मगदाचक्रैर्मधुसूदनईरितः। त्रिविक्रमोगदाचक्रशङ्खपद्मैरनुक्रमात् ४ वामनःशङ्खचक्राभ्याम्पद्मेनगदयापिच। चक्रेणगदयाशङ्खपद्माभ्यांश्रीधरःस्मृतः ५ हृषीकेशःस्मृतश्चक्रपद्मशङ्खगदायुधैः। पद्मनाभःपद्मचक्रगदाशङ्खैःक्रमात्स्मृतः ६ दामोदरःशङ्खगदाचक्रपद्मैरुदीर्यते। सङ्कर्षणःशङ्खपद्मचक्रायुधगदायुधैः ७ वासुदेवश्चक्रगदापद्मशङ्काख्यलक्षणैः। प्रद्युम्नःस्याच्छङ्खगदापद्मचक्रैःक्रमाद्धृतैः ८ अनिरुद्धोगदाशङ्खपद्मचक्रैरनुक्रमात्। पद्मशङ्खगदाचक्रायुधैःस्यात्पुरुषोत्तमः ९ अधोक्षजो गदाशङ्खचक्रपद्मैःकरस्थितैः। नरसिंहःपद्मगदाशङ्खचक्रायुधैर्भवेत् १० अच्युतःपद्मचक्राभ्यांशङ्खेनगदयाक्रमात्। जनार्दनश्चक्रशङ्खगदापद्माढ्यबाहुभिः ११ उपेन्द्रोगदया चक्रपद्मशङ्खान्वितैःकरैः। चक्रपद्मगदाशङ्खैःकरस्थैःस्यात्क्रमाद्धरिः १२ श्रीकृष्णाख्योगदापद्मचक्रशङ्खैर्मतोविभुः। इतिप्रोक्ताःकेशवादिचतुर्विंशतिमूर्तयः १३॥
अथसिन्ध्वनुसारेणदेवप्रतिष्ठाप्रयोगः यजमानोद्वादशादिहस्तम्मण्डपङ्कृत्वा आग्नेयेपूर्वतोवाहस्तमात्रङ्कुण्डंस्थण्डिलंवाकृत्वामध्येवेदीन्तदुपरिसर्वतोभद्रङ्ग्रहचिकीर्षायाम्पूर्वतःईशान्यांवाग्रहवेदीम्प्रासादसंस्कारेमण्डपसंस्कारेवाचिकीर्षितेनैर्ऋतेवास्तुपीठङ्कृत्वाअस्याम्मूर्तौलिङ्गेवादेवतासान्निध्यार्थन्दीर्घायुर्लक्ष्मीसर्वकामसमृद्ध्यक्षय्यसुखका-
मोऽमुकदेवमूर्तिप्रतिष्ठाङ्करिष्यइतिसङ्कल्प्य स्वस्तिवाचनादिनान्दीश्राद्धान्तेआचार्यं वृत्वाष्टौचतुरोवाऋत्विजोतृत्वापूजयेत् आचार्योयदत्रेतिसर्षपान्विकीर्यापोहिष्ठेतिकुशोदकैभूमिम्प्रोक्ष्य देवाआयान्तुयातुधानाअपयान्तुविष्णोदेवयजनंरक्षस्वेतिभूमौप्रादेशङ्कृत्वामण्डपप्रतिष्ठाङ्कृत्वानकृत्वावामूर्तिपञ्चगव्यहिरण्ययवदुर्वाश्वत्थपलाशपर्णान्युदकुम्भेप्रक्षिप्यताभिरद्भिरापोहिष्ठेतितिसृभिः हिरण्यवर्णाःशुचयःपावकायासुजातःकश्यपोयास्विन्द्रः। अग्निंयागर्भन्दधिरेविरूपास्तानआपःशꣳस्योनाभवन्तु १ यासाꣳराजावरुणोयातिमध्येसत्यानृतेअवपश्यञ्जनानाम्। मधुश्चुतःशुचयोयाःपावकास्ता॰ २ यासान्देवादिविकृण्वन्तिभक्षंयाअन्तरिक्षेवहुधाभवन्ति। याःपृथिवीम्पयसोन्दन्तिशुक्रास्तान॰ ३ शिवेनमाचक्षुषापश्यतापःशिवयातनुवोपस्पृशतत्वचम्मे। सर्वाꣳअग्नीꣳरप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त ४ पवमानः सुवर्जनः पवित्रेणविचर्षणिःयःपोतासपुनातुमा पुनन्तुमादेवजनाः पुनन्तुमनवोधिया पुनन्तुविश्वआयवः जातवेदःपवित्रवत् पवित्रेणपुनाहिमा शुक्रेणदेवदीद्यत् अग्नेक्रत्वाऋतूꣳरनु १ यत्तेपवित्रमर्चिषि अग्नेविततमन्तरा ब्रह्मतेनपुनीमहे उभाभ्यान्देवसवितः पवित्रेणसवेनच इदम्ब्रह्मपुनीमहे वैश्वदेवीपुनतीदेव्यागात् यस्यैवव्हीस्तनुवोवीतपृष्ठाः तयामदन्तःसधमाद्येषु वयꣳस्यामपतयोरयीणाम् २ वैश्वानरोरश्मिभिर्मापुनातु वातःप्राणेनेपिरोमयोभूः द्यावापृथिवीपयसापयोभिः ऋतावरीयज्ञियेमापुनीताम् बृहद्भिःसवितस्तृभिः वर्षिष्ठैर्देवमन्मभिः अग्रेदक्षैःपुनाहिमा येनदेवाअपुनत येनापोदिव्यङ्कशः तेनदिव्येनब्रह्मणा ३ इदम्ब्रह्मपुनीमहे यःपावमानीरध्येति ऋषिभिःसम्भृतꣳरमं सर्वꣳसपूतमश्नाति स्वदितम्मातरिश्वना पावमानीर्योअध्येति ऋषिभिःसम्भृतꣳरसं तस्मैसरस्वतीदुहे क्षीरꣳसर्पिर्मधूदकम् पावमानीःस्वस्त्ययनीः ४ मुदुघाहिपयस्वतीः ऋषिभिःसम्भृतोरसः ब्राह्मणेष्वमृतꣳहितम् पावमानीर्दिशन्तुनः इमलोकमथोअमुं कामान्त्समर्धयन्तुनः देवीर्देवैःसमाभृताः पावमानीःस्वस्त्ययनीः सुदुघाहितृतश्चुतः ऋषिभिःसम्भृतोरसः ५ ब्राह्मणेष्वमृतꣳहितं येनदेवाःपवित्रेण आत्मानम्पुनतेसदा तेनसहस्रधारेणपावमान्यःपुनन्तुमा प्राजापत्यम्पवित्रं शतोद्यामꣳहिरण्मयं तेनब्रह्मविदोवयम् पूतं ब्रह्मपुनीमहे इन्द्रःसुनीतीसहमापुनातु सोमःस्वस्त्यावरुणःसमीच्या यमोराजाप्रमृणाभिःपुनातुमा जातवेदामोर्जयन्त्यापुनातु ६ इत्यनुवाकेनचाभिषिच्यव्याहृतिभिरिदंविष्णुरितिचफलयवदूर्वाःसमर्प्यरक्षोहणमितिदेवहस्तेकङ्कणम्बध्वावाससाच्छाद्य अवतेहेळोउदुत्तममितिजलेऽधिवासयेत् अथचलप्रतिष्ठायामग्निम्प्रतिष्ठाप्यध्यात्वाग्रहा
दिपक्षेग्रहान्वास्तुदेवताश्चप्रतिष्ठाप्यान्वादध्यात्चक्षुषीआज्येनेत्यन्तेग्रहादिहोमपक्षेग्रहानधिदेवतादींश्चसमिच्चर्वाज्येनवास्तुपीठदेवताश्चान्वाधानेउद्दिश्यइन्द्रम्पृथिवींशर्वअग्निम्अग्निभूतिम्पशुपर्तियमंयजमानमूर्तिउग्रन्निर्ऋतिसूर्यमूर्तिरुद्रवरुणञ्ज-
लमूर्तिभवंवायुंवायुमूर्तिईशानङ्कुबेरंसोममूर्तिमहादेवम्ईशानम्आकाशम्भीमम्एताःलोकपालमूर्तिमूर्तिपतिदेवताःपलाशोदुम्बराश्वत्थशम्यपामार्गसमिद्भिराज्याहुतिभिस्तिलाहुतिभिवप्रतिदैवतम्प्रतिद्रव्यमष्टाष्टसङ्ख्याकाभिःस्थाप्यदेवताममुकाम्पलाशोदुम्बराश्वत्थशम्यपामार्गसमित्तिलचर्वाज्यैःप्रतिद्रव्यमष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिसङ्ख्ययावाअग्निर्यजुर्भिरित्यनुवाकेनविश्वान्देवांस्तिलाज्याभ्यान्दशदशाहुतिभिः एवं द्वितीयेपर्यायेएताएवदेवतास्तत्तत्सङ्ख्याकैस्तैरेवद्रव्यैरेवन्तृतीयेपर्यायेएताएवदेवतास्तत्तत्सङ्ख्याकैस्तैरेवद्रव्यैर्ब्रह्मादिमण्डलदेवतास्तिलाज्याहुतिभिःप्रतिदैवतन्दशदशसङ्ख्याकाभिःशेषेणस्विष्टकृतमित्यादि शूर्पेप्रधानदेवतार्थन्तूष्णीञ्चतुरोमुष्टीन्निरूप्यहोमपर्याप्तङ्गृहीत्वातथैवप्रोक्ष्यगोक्षीरेनीवारचरुंश्रपयेदाज्यभागान्तेयजमानःइदमुपकल्पितमन्वाधानोक्तद्रव्यजातमन्वाधानोक्ताहुतिसङ्ख्यापर्याप्तमन्वाधानोक्ताभ्योयक्ष्यमाणाभ्योदेवताभ्योस्तुनममेतित्यागङ्कुर्यात् गृहसिद्धान्नादिनाग्रहादिहोमंविधायलोकपालमूर्तिमूर्तिपतिभ्यःसमित्पञ्चकन्तिलाज्येचजुहुयात् प्रतिद्रव्यहोमान्तेदेवम्पादनाभिशिरसिस्पृशेत् आज्यहोमेचोत्तरतःसजलकुम्भे सम्पातान्नयेत् तेषाम्मन्त्राः इन्द्रायेन्दोइतीन्द्रस्य स्योनेतिपृथिवीमूर्तेः अघोरेभ्यइतितत्पतेःशर्वस्य अग्नआयाहीत्यग्नेः अग्निन्दूतमित्यग्निमूर्तेःनमःशर्वायचपशुपतयेचेतिपशुपतेः यमायसोममितियमस्य आसहिवीरेतियजमानमूर्तेः स्तुहिश्रुतमितितत्पतेरुग्रस्य असुन्वन्तमितिनिर्ऋतेः आकृष्णेनेतिसूर्यमूर्तेः योरुद्रोअग्नावितितत्पतेरुद्रस्य इमम्मे॰ वरुणस्य शन्नोदेवी॰ जलमूर्तेः नमोभवायचेतिभवस्य आनोनियुद्भिः॰ वायोः वातआवातु॰ वायुमूर्तेः तमीशानं ० ईशानस्य आप्यायस्व॰ कुबेरस्य वयंसोम॰ सोममूर्तेः तत्पुरुषाय॰ महादेवस्य अभित्वादे॰ ईशानस्स आदित्प्रत्नस्य॰ आकाशस्य नमउग्रायचेतिभीमस्य ततःस्थाप्यदेवमन्त्रेणसमित्पञ्चकपायसचरुतिलाज्यहोमः प्रतिद्रव्यहोमान्तेदेवेपादनाभिशिरस्पर्शः देवमन्त्रश्चतान्त्रिकोमूलमन्त्रोदेवगायत्रीवावैदिकोवाग्राह्यः अग्निर्यजुर्भिः सवितास्तोमैः इन्द्रउक्थामदैः मित्रावरुणावाशिषा अङ्गिरसोधिष्णियैरग्निभिः मरुतःसदोहविर्धानाभ्याम्आपःप्रोक्षणीभिःओषधयोबर्हिषा अदितिर्वेद्या सोमोदीक्षया त्वष्टेध्मेन विष्णुर्यज्ञेन वसवआज्येन आदित्यादक्षिणाभिः विश्वेदेवाऊर्जा पूषास्वगाकारेण बृहस्पतिःपुरोधसा प्रजापतिरुद्गीथेन अन्तरिक्षम्पवित्रेण वायुःपात्रैः अहꣳश्रद्धयास्वाहेत्यनुवाकेनतिलाज्ययोर्दशदशाहुतयः ततोदेवस्यपादौस्पृशेत् सम्पातजलेनदेवमभिषिञ्चेत् एवमेवाद्वितीयपर्यायेणहुत्वादेवस्यनाभिंस्पृशेत् एवन्तृतीयपर्यायेणहुत्वाशिरःस्पृशेत् प्रतिपर्यायंसम्पाताभिषेकः एकपर्यायेआहुतिसङ्ख्या पलाशसमिधः १९२ उदुंवर. १९२ अश्वत्थ. १९२ शमी. १९२ अपामार्ग. १९२ आज्यम् १९२ तिलाः १९२ स्थाप्यदेवस्याष्टाविंशतिप्रक्षेसमित्पञ्चकं १४० चर्वाज्यतिलाः ८४ अनुवाक २० मिलिताः १५८८ पर्यायत्रये
४७६४ एवंहुत्वार्चांशोधयेत् देवन्नत्वा स्वागतन्देवदेवेशविश्वरूपनमोस्तुते। शुद्धेपित्वदधिष्ठानेशुद्धिङ्कुर्मःसहस्वताम् १ इतिप्रार्थ्यउत्तिष्ठुब्रह्मणस्पतइतिसर्त्विगुत्थाप्याग्न्युत्तारणङ्कुर्यात् अग्निःसप्तिमितिसूक्तमग्निपदहीनम्पठित्वातत्सहितम्पुनःपठेत् एवमष्टशतमष्टाविंशतिवारंवापठञ्जलम्पातयेत् ततोर्चाद्वादशवारम्मृदाजलेनचप्रक्षाल्यमन्त्रैः पञ्चगव्यङ्कृत्वा पयःपृथिव्याम्पयओषधीपुपयोदिव्यन्तरिक्षेपयोधाः। पयस्वतीःप्रदिशःसन्तुमह्यम् १ आवोराजानमितिचसंस्नाप्यआप्यायस्वेतिपञ्चमन्त्रैःपञ्चामृतेनसंस्नाप्य लिङ्गञ्चेन्नमस्तेरुद्रइत्यष्टाभिःसंस्नाप्यघृताभ्यङ्गमुद्वर्तनमुष्णोदकेनक्षालनञ्चकृत्वागन्धन्दत्वासम्पातोदकैरभिषिच्यसपल्लवैश्चतुर्भिःकुम्भैःक्रमेणापोहिष्ठा॰ योवः॰ तस्मा॰ आकलशेषु ० इतिसंस्नाप्यसमुद्रज्येष्ठेतिचतसृभिराकलशेष्वितिचमिलितचतुःकुम्भैःसंस्नाप्य औदुम्बरादिपीठेऽर्चामुपवेश्यपरितोऽष्टदिक्षुसजलकुम्भेपुगन्धपुष्पदूर्वाःक्षिप्त्वाद्यकुम्भेसप्तमृदः द्वितीयेपुष्करपर्णशमीविकङ्कताश्मन्तकत्वचःपल्लवांश्च तृतीये सप्तधान्यानि चतुर्थेपञ्चरत्नानि पञ्चमेफलपुष्पाणि षष्ठेकुशदूर्वालोचनाः सप्तमेसम्पातोदकम् अष्टमेसर्वौषधीःक्षिप्त्वा क्रमेणापोहिष्ठेतित्रिभिः हिरण्यवर्णाःशुचयइतिचतुर्भिः पवमानानुबाकेनचाभिषिच्यएककुम्भेशमीपलाशवटखदिरबिल्वाश्वत्थविकङ्कतपनसाम्रशिरीषोदुम्बराणोम्पल्लवान्कपायांश्चक्षिप्त्वाऽश्वत्थेवइत्यभिषिच्यपञ्चरत्नोदकेनहिरण्यवर्णाःशुचयइतिसंस्नाप्यवाससीदत्वोपरिवितानंवध्नन्तिकेचित् यज्ञोपवीतगन्धपुष्पधूपदीपान्दत्वा हिरण्यगर्भः॰ १ यआत्मदा॰ २ यःप्राणतो॰ ३ यस्येमे॰ ४ येनद्यौ॰ ५ यङ्क्रन्दसी॰ ६ आपोहयत्॰ ७ यश्चिदापो॰ ८ इत्यष्टौपीठदीपान्दत्वासुवर्णशलाकयातैजसपात्रस्थम्मधुघृतञ्चगृहीत्वाचित्रन्देवाना॰ तेजोसि॰ शुक्रमस्यमृतमसिधामनामासि प्रियन्देवानामनाधृष्टन्देवयजनमितिमन्त्राभ्याम्ॐनमोभगवतेतुभ्यं शिवायहरयेनमः हिरण्यरेतसेविष्णोविश्वरूपायतेनमइतिचदक्षिणसव्येदेवनेत्रेमन्त्रावृत्त्यालिखेत् अञ्जन्तित्वेत्यञ्जनेनाङ्त्वा देवस्यत्वासवितुःप्रसवे॰ इन्द्रस्येन्द्रियेणानज्मीतिमध्वाज्यशर्कराभिरङ्ङ्त्वा अञ्जनेनपुनरञ्जयेत् ततआदर्शभक्ष्यादिदर्शयेत् अत्रकर्ताचार्यायगामृत्विग्भ्योदक्षिणान्दद्यात् आचार्यःप्रत्यृचमादौप्रणवंवदन्पुरुषसूक्तेनस्तुत्वावंशपात्रस्थपञ्चवर्णोदनेनदेवन्नीराजयित्वारुद्रायचतुष्पथादौदद्यात् मन्त्रस्तु ॐनमोरुद्रायसर्वभूताधिपतयेदीप्तशूलधरायोमादयितायविश्वाधिपतयेरुद्रायवै नमोनमः शिवमगर्हितङ्कर्मास्तुस्वाहेति अश्वत्थपर्णेभूतेभ्योनमइति अथाचार्यः सर्वतोभद्रेदेवताआवाहयेत् मध्येब्रह्माणम् पूर्वादिदिक्षुइन्द्रादिलोकपालान् ईशानेन्द्राद्यन्तरालेषुबसून १ रुद्रान् २ आदित्यान् ३ अश्विनौ ४ विश्वान्देवान् ५ पितृन् ६ मामान् ७ स्कन्दवृषौ ८ ब्रह्मेशानाद्यन्तरालेषु दक्षं १ विष्णुं २ दुर्गां ३ स्वधाकारं ४ मृत्युरोगान् ५ समुद्रानुसरितः ६ मरुतः ७ गणपतिं ८ मध्येपृथिवीम्मेरुं
स्थाप्यदेवञ्चावाह्य प्रागादिषु वज्रंशक्तिदण्डङ्खङ्गम्पाशम्अङ्कुशङ्गदांशूलं तद्वाह्येगौतमम्भरद्वाजंविश्वामित्रङ्कश्यपञ्जमदग्निंवसिष्ठमत्रिम्अरुन्धतीञ्च तद्बाह्येनवग्रहान् तद्वाह्येऐन्द्रीङ्कौमारीम्ब्राह्मींवाराहीञ्चामुण्डांवैष्णवीम्माहेश्वरींवैनायकीम्एतानामभिरावाह्यसम्पूज्य प्रतिमायान्देवतन्मन्त्रेणावाह्यमण्डलमध्येप्रतिमांसुप्रतिष्ठितोभवेतिनिवेश्यसम्पूज्यवह्नौमण्डलदेवतानान्नामभिस्तिलाज्येनदशदशाहुतीर्हुत्वापुष्पाञ्जलिंसमर्प्यनमोमहदितिदेवन्नत्वा मण्डलादुत्तरतःस्वस्तिकेमञ्चकन्तदुपरिशय्याङ्कृत्वाउत्तिष्ठेतिदेवमुत्थाप्यमङ्गलघोषैः शय्यायान्देवमुपवेश्य पुरुषसूक्तोत्तरनारायणाभ्यांस्तुत्वादेवेन्यासङ्कुर्यात् तथाहि पुरुषात्मनेनमः प्राणात्मने॰ प्रकृतितत्वाय॰ बुद्धितत्वाय॰ अहङ्कारतत्वाय॰ मनस्तत्वाय॰ इतिसर्वाङ्गेषु प्रकृतितत्वाय॰ बुद्धितत्वाय॰ हृदि शब्दतत्वाय॰ शिरसि स्पर्शतत्वाय॰ त्वचि रूपतत्वाय॰ हृदि एवंहृद्येवरसगन्धश्रोत्रत्वक्चक्षुजिव्हाघ्राणवाक्पाणिपादपायूपस्थपृथिव्यप्तेजोवाय्वाकाशसत्वरजस्तमोदेहतत्वानिविन्यसेत् ततःपुरुषसूक्ताद्यम्ऋग्द्वयङ्करयोः तदुत्तरद्वयञ्जानुनोः तदुत्तरद्वयङ्कट्योः ततस्तस्रोनाभिहृत्कण्ठेषु ततोद्वयम्बाव्होः ततोद्वयन्नासयोः ततोद्वयमणोः अन्त्यांशिरसि ततःसुखशायीभवेतिशय्यायान्देस्वापयित्वा मण्डलशय्ययोरन्तरानगन्तव्यमितिप्रैषन्दत्वास्विष्टकृदादिहोमशेषंसमाप्यमण्डलदेवताभ्योनामभिश्चरुणावलीन्दद्यात् नीवारचरुशेषेणदग्बलिं ततोधामन्तइतिपूर्णाहुतिञ्जुहुयात् इत्यधिवासनम् अथस्थिरार्चायाङ्क्रमोविशेषश्च सङ्कल्पादिजलाधिवासान्तङ्कृत्वादेवन्नत्वास्वागतन्देवदेवेशेत्यादिप्रार्थनोत्थापनाग्न्युत्तारणा-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा