🕉️ 24 November 2026, Tuesday · 08:08:07 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 52/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

स्थिरार्चायाङ्क्रमोविशेषश्च

दिनेत्रोन्मीलनान्तम्पूर्ववत् तत्रस्थरेशिवलिङ्गेस्वर्णसूच्यागन्धेन ॐनमोभगवतेरुद्रायहिरण्यरेतसेपरायपरमात्मनेविश्वरूपायोमाप्रियायनमइत्यङ्त्वाअञ्जनादिनाञ्जयेदितिनेत्रोन्मीलनेलिङ्गेविशेषः ततःसूक्तस्तुत्यादिमण्डलदेवतास्थापनान्तं ततोमण्डलेमूर्तिनिवेशस्ततःशय्यायान्देवतारोहणन्ततःस्तुतिः पूर्वोक्तन्यासाः ततःशय्यायान्देवशयनं ततोग्निस्थापनादि पूर्वोक्तान्वाधानेविष्णौ नारायणंषोडशाज्याहुतिभिः शिवश्चेत् यातइषुःद्रापेसहस्राणीत्यनुवाकस्थऋग्भी रुद्रमाज्येनेतिप्रधानोत्तरमूहइतिविशेषः लोकपालमूर्तिमूर्तिपतिहोमान्तम्पूर्ववत् स्थाप्यदेवताहोमेनैवारश्चरुर्नास्तिसप्तैवहवींषि ततश्चविष्णोःस्थिरार्चायाम्पूर्वोक्तसमित्तिलाज्यहोमोत्तरम्पुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वाइदंविष्णुरितिपादौस्पृष्ट्वापुनस्ताएबहुत्वाअतोदेवेतिशिरःस्पृष्ट्वापुनस्ताएबहुत्वा पुरुषसूक्तेनसर्वाङ्गंस्पृशेत् स्थिरंलिङ्गञ्चेत्समिदाज्यतिलहोमान्ते यातइषुइत्यनुवाकान्तेनद्रापेइतिसहस्राणीसनुवाकाभ्याञ्च प्रत्यृचमाज्यंहुत्वासर्वोवैरुद्रइतिमूलंस्पृशेत् पुनस्ताए वहुत्वाकद्रुद्रायेतिमध्यं पुनस्ताएव हुत्वानमोहिराण्यवाहवइत्यग्रंस्पृशेत् पुनस्ताएवहुत्वासर्वरुद्रेणसर्वाङ्गंस्पृशेत् इत्यधिवासनेविशेषः परेद्युःपीठिकांस्नापयित्वामहीमूष्वित्यावाह्यअदितिर्द्यौरितिस्तुत्वाहीन्नमइतिसम्पूज्य

तेनैवपूर्णाहुतिंहुत्वाउत्तिष्ठब्रह्मणइतिदेवमुत्थाप्यपुष्पाञ्जलिन्दत्वापुरुषसूक्तेस्तुत्वाउदुत्यमित्युत्थाप्यकनिक्रददितिसूक्तेनविष्णुं सद्योजातमितिपञ्चानुवाकैर्लिङ्गङ्गृहम्प्रवेश्यपीठिकायामिन्द्रादिनामभिरष्टरत्नानिक्षिप्त्वासप्तधान्यरौप्यमनःशिलाःक्षिप्त्वापायसेनसंलिप्यप्रणवेनाङ्गन्यासङ्कृत्वासुवर्णशलाकामन्तरिताङ्कृत्वासुलग्नेप्रतितिष्ठपरमेश्वरेतिउक्त्वाऽतोदेवेतिविष्णुंरुद्रेणलिङ्गञ्चस्थापयेत् ततश्चरुहोमप्राणप्रतिष्ठादि इति स्थिरार्चायामधिवासनेपरेद्युःकृत्येचविशेषोऽन्यत्सर्वमुक्तवक्ष्यमाणचलार्चावदेव अथचलप्रतिष्ठायामधिवासनान्तेपरेद्युरेकाहपक्षेसद्योवाउत्तिष्ठब्रह्मणइतिदेवमुत्थाप्यपुरुषसूक्तोत्तरनारायणाभ्यांस्तूयात्॥

122. प्रायःस्थिरचलार्चयोःसाधारणःप्रयोगः

अथप्रायःस्थिरचलार्चयोःसाधारणःप्रयोगः प्रतिष्ठाङ्गम्परेद्युर्होमङ्करिष्य इतिसङ्कल्प्यचक्षुषीआज्येनेत्यन्तेस्थाप्यदेवन्तन्मन्त्रेणघृतपक्कव्रीहिचरुणादशाहुतिभिरग्निंसोमन्धन्वन्तरिङ्कुहूमनुमतिम्प्रजापतिम्परमेष्टिनम्ब्रह्माणमग्निंसोमम्अग्निमन्नादम्अग्निमन्नपतिम्मजापतिविश्वान्देवान्सर्वान्देवानग्निंस्विष्टकृतम्पूजाङ्गहोमेविष्णुश्चेत्सङ्कर्षणादिद्वादशदेवताःशार्ङ्गिणंश्रियंसरस्वतींविष्णुङ्कुसरेणैकैकयाहुत्याविष्णुंषड्वारङ्कुसरेण शिवश्चेद्भवंशर्वईशानम्पशुपतिंरुद्रमुग्रम्भीमम्महान्तङ्कुसरेणैकैकया॰ भवस्यदेवस्थपत्नीमित्याद्यष्टौगुडौदनेनैकैकया॰ भवस्यदेवस्यसुतमित्यादि ८ हरिद्रोदनेनएकै॰ रुद्रंसप्तदशवारंशिवंशङ्करंसहमानंशितिकण्ठङ्कपर्दिनन्ताम्रमरुणमपगुरमाणंहिरण्यवाहुंसस्पिञ्जरंवभ्लुशंहिरण्यमेताःकृसरेणैकैकया॰ शेषेणस्विष्टकृर्तामत्यादि शूर्पेतूष्णींस्थाप्यदेवतायैचतुर्मुष्टीनग्न्यादिषोडशदेवताभ्योनाम्नाचतुश्चतुर्मुष्टीन्निरूप्यतथैवप्रोक्ष्यसघृतजलेश्रपयित्वास्रुच्यावदानधर्मेणस्थाप्यदेवमन्त्रेणदशाहुतीर्हुत्वानामभिर्जुहुयात् अग्नयेस्वाहा १ सोमाय॰ २ धन्वन्तरये॰ ३ कुव्है॰ ४ अनुमत्यै॰ ५ प्रजापतये॰ ६ परमेष्ठिने॰ ७ ब्रह्मणे॰ ८ अग्नये॰ ९ सोमाय॰ १० अग्नयेऽन्नादाय॰ ११ अग्नयेऽन्नपतये॰ १२ प्रजापतये॰ १३ विश्वेभ्योदेवेभ्यः॰ १४ सर्वेभ्योदेवेभ्यः॰ १५ भूर्भुवःस्वरग्नयेस्विष्टकृतेस्वाहा १६ इति सप्ततेअग्नेसमिधःसप्तजिव्हाःसप्तऋषयःसप्तधामप्रियाणि सप्तहोत्राःसप्तधात्वायजन्तिसप्तयोनीरापृणस्वाघृतेन पुनस्त्वादित्यारुद्रावसवःसमिन्धताम्पुनर्ब्रह्माणोवसुनीथयज्ञैः घृतेनत्वन्तन्वंवर्धयस्वसत्याःसन्तुयजमानस्यकामाः इतिमन्त्राभ्याम्पूर्णाहुतिङ्कृत्वाचार्योयाओषधीरितिपुष्पफलसर्वौषधीःसमर्प्यसम्पातोदकताम्रपात्रेआदायदेवमन्त्रेणशतवारमभिमन्त्र्यतेनदेवशिरसिसिञ्चेत् ततउत्तिष्ठब्रह्मणइतिदेवमुत्थाप्यविश्वतश्चक्षुरित्युपतिष्ठेत् एतेउत्थापनोपस्थानेचलार्चायामेव देवन्ध्यात्वाजपेत् ब्रह्मणेनमः विष्णवेनमः रुद्राय॰ इन्द्रादीनष्टौ॰ ८ वसुभ्यो॰ रुद्रेभ्यो॰ आदित्येभ्यो॰ अश्विभ्यां॰ मरुद्भयो॰ कुबेराय॰ गङ्गादिमहानदीभ्यो॰ अग्नीषोमाभ्यां॰ इन्द्राग्निभ्यां॰ द्यावापृथिवीभ्यां॰ धन्वन्तरये॰ सर्वेशाय॰ विश्वेभ्योदेवेभ्यो॰

ब्रह्मणइति ततःसम्पातोदकेनयजमानाभिषेकः देवन्ध्यात्वाप्रतितिष्ठपरमेश्वरेतिपुष्पाञ्जलिन्दत्वासच्चिदानन्दम्ब्रह्मैवभक्तानुग्रहायगृहीतविग्रहंस्वायुधाढ्यन्निजवाहनाद्युपेतं निजहृत्कमलेऽवस्थितंसर्वलोकसाक्षिणमणीयांसम्परमेष्ठ्यसिपरमांश्रियङ्गमयेतिमन्त्रेणपुष्पाञ्जलावागतंविभाव्यार्चायांविन्यस्यप्राणप्रतिष्ठाङ्कुर्यात् यथा अस्यश्रीप्राणप्रतिष्ठामन्त्रस्यब्रह्मविष्णुरुद्राऋषयः ऋग्यजुःसामानिछन्दांसि क्रियामयवपुःप्राणाख्यादेवताआम्बीजं क्रौंशक्तिः प्राणप्रतिष्ठायांविनियोगः ब्रह्मविष्णुरुद्रऋषिभ्योनमः शिरसिऋग्यजुःसामच्छन्दोभ्यो॰ मुखे प्राणाख्यदेवतायै ० हृदि आंवीजाय॰ गुह्ये क्रौंशत्तयै॰ पादयोः ॐकङ्खङ्गङ्घङ्ङम्अम्पृथिव्यप्तेजोवाय्वाकाशात्मनेआंहृदयाय ॐचञ्छञ्जञ्झञ्ञम्इं शब्दस्पर्शरूपरसगन्धात्मनेईंशिरसेस्वाहा ॐटण्ठण्डण्ढण्णम्उंश्रोत्रत्वक्चक्षुर्जिव्हाघ्राणात्मनेऊंशिखायैवषट् ॐतन्थन्दन्धन्नम्एंवाक्पाणिपादपायूपस्थात्मनेऐङ्कवचायहुं ॐपम्फम्बम्भम्मंॐवचनादानविहरणोत्सर्गानन्दात्मनेऔन्नेत्रत्रयायवौषट् ॐयंरंलंवंशंषंसंहङ्क्षम्अं मनोबुद्ध्यहङ्कारचित्तात्मनेअःअस्त्रायफट् एवमात्मनिदेवेचकृत्वादेवंस्पृष्ट्वाजपेत् ॐआंहीङ्क्रौंयंरंलंवंशंषंसंहंसः देवस्यप्राणाइहप्राणाः ॐआंहीं॰ हंसः देवस्यजीवइहस्थितः ॐआंहीं॰ हंसः देवस्यसर्वेन्द्रियाणि ॐआंहीं हंसः देवस्यवाङ्मनश्चक्षुश्रोत्रघ्राणप्राणाइहागत्यस्वस्तयेसुखेनमुचिरन्तिष्ठन्तुस्वाहा अर्चाहृद्यङ्गुष्ठन्दत्वाजपेत् अस्यैप्राणाःप्रतिष्ठन्तुअस्यैप्राणाःक्षरन्तुच। अस्यैदेवत्वमर्चायैमामहेतिचकश्चन १ प्रणवेनसंरुध्यसजीवन्ध्यात्वाध्रुवाद्यौरितित्यृचञ्जप्त्वाकर्णेगायत्रीन्देवमन्त्रञ्चजप्त्वा पुरुषसूक्तेनोपस्थायपादनाभिशिरःस्पृष्ट्वा इहैवैधीतित्रिर्जपेत् ततःकर्ता स्वागतन्देवदेवेशमद्भाग्यात्त्वमिहागतः। प्राकृतन्त्वमदृष्ट्वामाम्बालवत्परिपालय १ धर्मार्थकामसिद्ध्यर्थंस्थिरोभवशिवायनः। सान्निध्यन्तुसदादेवस्वार्चायाम्परिकल्पय २ यावच्चन्द्रावनीसूर्यास्तिष्ठन्त्यप्रतिघातिनः। तावत्त्वयाऽत्रदेवेशस्थेयम्भक्तानुकम्पया ३ भगवन्देवदेवेशत्वम्पितासर्वदेहिनाम्। येनरूपेणभगवंस्त्वयाव्याप्तञ्चराचरम् ४ तेनरूपेणदेवेशस्वार्चायांसन्निधोभव। इतिनमेत् अथाचार्यःकर्तावालिङ्गमर्चांवा भूःपुरुषमावाहयामि भुवःपुरुषमा॰ स्वःपुरुष॰ भूर्भुवःस्वःपुरुष॰ इत्यावाह्य प्रणवेनासनन्दत्वा दुर्वाश्यामाकविष्णुक्रान्तापद्ममिश्रम्पाद्यं ॐइमाआपःशिवतमाःपूताःपूततमामेध्यामेध्यतमाअमृताअमृतरसाःपाद्यास्ताजुषताम्प्रतिगृह्यताम्प्रतिगृह्णातुभगवान्महाविष्णुर्विष्णवे नमइतिपाद्यम् भगवान्महादेवोरुद्रायनमइतिलिङ्गे एवन्देवतान्तरेषूह्यम् इमाआपःशिव॰ आचमनीयास्ताजुषताम्प्रतिगृह्य॰ इमाआ॰ अर्ध्यास्ताइत्यर्घ्यम् पञ्चामृतस्त्रानं देवम्मन्त्रैः संस्नाप्यइदंविष्णुरितिविष्णौनमोअस्तुनीलग्रीवायेतिलिङ्गे कङ्कणंविसृज्यवस्त्रंयज्ञोपवीतञ्चदत्वा इमेगन्धाःशुभादिव्याःसर्वगन्धैरलङ्कृताः। पूतीब्रह्मपवित्रेणपूताःसूर्यस्यरश्मिभिः १ पूताइत्यादिपूर्वषदितिगन्धम् इमेमाल्याःशुभादिन्याः

सर्वमाल्यैरलङ्कृताः। पूताइत्यादिइतिमालाः। इमेपुष्पाइतिपुष्पाणि। वनस्पतिरसोद्भूतो॰ धूपोयम्प्रतिगृह्यताम्। प्रतिगृह्णातुभगवानित्यादि ज्योतिःशुक्रञ्चतेजश्चदेवानांसततम्प्रियम्। भास्करःसर्वभूतानान्दीपो॰ ताम्। प्रतिगृह्णातुभगवानितिदीपन्दत्त्वाविष्णौसङ्कर्षणादिद्वादशनामभिःपुष्पाणिसमर्प्यतैरेवतर्पणङ्कृत्वापायसगुडौदनचित्रौदनानिपवित्रन्तेविततमितिनिवेद्यसङ्कर्षणादिनामभिर्द्वादशगृहसिद्धान्नकृसराहुतीर्हुत्वा कुसरेणैव शार्ङ्गिणे॰ श्रियै॰ सरस्वत्यै॰ विष्णवे॰ इतिहुत्वा विष्णोर्नुकं तदस्यप्रियम॰ प्रतद्विष्णु॰ परोमात्रया॰ विचक्रमे॰ त्रिर्देवःपृथिवीं॰ इतिमन्त्रैःषट्जुहुयात् लिङ्गेतुदीपान्तङ्कृत्वाभवायदेवाय॰ शर्वायदेवाय॰ ईशानायदेवाय॰ पशुपतयेदेवा॰ रुद्रायदेवा॰ उग्रायदेवाय॰ भीमायदेवाय॰ महतेदेवायनमइतिपुष्पाणिदत्त्वातैरेवतर्पणङ्कृत्वापवित्रन्तेइतिपायसङ्गुडौदनञ्चनिवेद्यभवायदेवायस्वाहेत्याद्यष्टभिःकुसरञ्जुहुयात् तिलमिश्रौदनःकृसरः भवस्यदेवस्यपत्न्यैस्वाहेत्याद्यष्टभिर्गुडौदनंहुत्वाभवस्यदेवस्यसुतायस्वाहेत्याद्यष्टभिर्हरिद्रौदनंहुत्वा त्र्यम्बकं॰ मानोमहान्तं॰ मानस्तोके॰ आरात्ते॰ विकिरिद॰ सहस्राणिसहस्र ० इतिद्वादशऋचःएतैःकुसरंहुत्वा शिवाय॰ शङ्कराय॰ सहमानाय॰ शितिकण्ठाय॰ कपर्दिने॰ ताम्राय॰ अरुणाय॰ अपगुरमाणाय॰ हिरण्यबाहवे॰ सस्पिञ्जराय॰ बभ्लुशाय॰ हिरण्यायेतिद्वादशनामभिर्जुर्हुयात् स्विष्टकृदादिहोमशेषंसमाप्यपूर्वोक्तसर्वहविर्भिर्विष्णवेलिङ्गायवावलिन्दद्यात् मन्त्रस्तु त्वामेकमाद्यम्पुरुषम्पुरातनन्नारायणंविश्वसृजंयजामहे। त्वमेवयज्ञोविहितोविधेयस्त्वमात्मनात्मन्प्रतिगृह्णीष्वहव्यम् १ लिङ्गेतुनारायणपदेरुद्रंशिवमितिवदेत् अश्वत्थपर्णेभूर्भुवःस्वरोमितिहुतशेषन्निधायप्रदक्षिणीकृत्य विश्वभुजेसर्वभुजेआत्मनेपरमात्मनेनमइति नत्वाचार्यायद्वादशतिस्रएकांवागान्दत्त्वाऋत्विग्भ्योदक्षिणान्दत्त्वाशतन्द्वादशवाविप्रान्भोजयेदिति प्रासादेनूतनेजलाशयोक्तप्रतिष्ठाविधिःकार्यः तत्रगोरुत्तारणपात्रीप्रक्षेपादिनकुर्यात् वारुणहोमस्थानेवास्तुहोमः इतिस्थिरार्चाचलार्चयोःप्रतिष्ठाप्रयोगः

123. आतोपिसङ्क्षिप्तएकाध्वरविधानेनचलप्रतिष्ठाप्रयोगः

अथातोपिसङ्क्षिप्तएकाध्वरविधानेनचलप्रतिष्ठाप्रयोगः सङ्कल्पादिनान्दीश्राद्धान्तम्प्राग्वत् एकमाचार्यंवृणुयात् आचार्योमुकदेवप्रतिष्ठाकर्मकरिष्येइत्यादिसर्षपविकिरणान्तं सर्वतोभद्रमण्डलेप्राग्वन्नामभिर्ब्रह्मादिमण्डलदेवताआवाह्यसम्पूज्ययथागृह्यमग्निप्रतिष्ठाप्यान्वादध्यात् आज्यभागान्तेस्थाप्यदेवतांसहस्रमष्टोत्तरशतंवासभिदाज्यचरुतिलद्रव्यैर्ब्रह्मादिमण्डलदेवताःप्रत्येकन्दशदशतिलाज्याहुतिभिःशेषेणेत्यादितूष्णीन्निर्वापप्रोक्षणे आज्यभागान्ते तडागनदीतीरगोष्ठचत्वरपर्वतगजाश्वहदवल्मीकसङ्गमेतिदशमृद्भिरष्टवारन्देवंसंस्नाप्यपञ्चगव्यैःक्रमेणस्नापयित्वादूर्वासिद्धार्थपल्लवोपेतैरष्टकलशैरापोहिष्ठादिमन्त्रैरभिषिच्याग्न्युत्तारणङ्कुर्यात् सर्वतोभद्रपीठेदेवचुपवेश्य नाम्नावस्त्रगन्धधूपादिदत्त्वाऽष्टदिक्षुपल्लवादियुतोदकुम्भानष्टौदीपांश्चसंस्थाप्यप्राग्व-

न्नेत्रोन्मीलनं चित्रान्नेनवलिन्दत्त्वापुरुषसूक्तेनस्तुत्वोक्तद्रव्यचतुष्टयंस्थाप्यदेवमन्त्रेणहुत्वाएकैकद्रव्यहोमान्तेदेवंस्पृशेत् आज्यहोमेकुम्भेसम्पातान्क्षिपेत् मण्डलदेवताभ्योहुत्वाहोमशेषंसमाप्यपूर्णाहुतिङ्कुर्यात् ततःपूर्वोक्तरीत्यासूक्तन्यासावाहनप्राणप्रतिष्ठान्तं कृत्वाइहैवैधीतितृचम्पुरुषसूक्तञ्चजप्त्वामूलमन्त्रादिनावाहनादिपञ्चामृतस्नानान्तेसम्पातोदकैरिमाआपः शिवतमाइत्यादिनाभिषेकः वस्त्रादिनैवेद्यान्तम्प्राग्वत् ताम्बूलफलदक्षिणानीराजननमस्कारप्रदक्षिणादिविधाय पुष्पाञ्जलिन्दत्त्वासाचार्यःकर्तादेवन्नत्वाक्षमाप्याचार्यदक्षिणान्तेऽष्टकुम्भोदकैर्यजमानाभिषेकः विष्णुंस्मृत्वाकर्मेश्वरेऽर्पयेदितिसङ्क्षेपः॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬