निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथपुनःप्रतिष्ठा मद्यचाण्डालस्पृष्टावह्निदग्धाविप्ररक्तदूषिताशवपापिस्पृष्टाचप्रतिमापुनःसंस्कार्या खण्डितेस्फुटितेस्थानभ्रंशेपूजनाभावेऽश्वगर्दभादिस्पर्शेपतितरजस्वलाचोरैःस्पर्शेचपुनःप्रतिष्ठा खण्डिताम्भग्नांविधिनोद्धृत्यान्यांस्थाप्य अर्चायाभङ्गचौर्यादौतद्दिनेउपवासः ताम्रादिधातुमूर्तीनाञ्चोरचाण्डालादिस्पर्शेताम्रादिधातूक्तशुद्धिङ्कृत्वापुनःप्रतिष्ठा पूर्वम्प्रतिष्ठितस्याबुद्धिपूर्वकमेकरात्रमेकमासन्द्विमासं वार्चनादिविच्छेदेशूद्ररजस्वलाद्युपस्पर्शनेवाजलाधिवासङ्कृत्वाकलशेनस्नपयेत् ततः पञ्चगव्येनस्नपयित्वाऽष्टसहस्रमष्टशतमष्टाविंशतिसङ्ख्यंवाकलशैःशुद्धोदकेनपुरुषसूक्तेनस्नपयेत् गन्धपुष्पादिनापूजयित्वागुडौदनन्निवेदयेदितिशुद्धिः बुद्धिपूर्वम्पूजनविच्छेदेशूद्रस्पर्शादौचपुनःप्रतिष्टयैवशुद्धिः अन्येतु एकाहपूजाविहतौकुर्याद्द्विगुणमर्चनम्। द्विरात्रेतुमहापूजांसम्प्रोक्षणमतःपरम् १ मासादूर्ध्वपूजाविहतौपुनःप्रतिष्ठाप्रोक्षणविधिर्वाकार्यइत्याहुः पुनःप्रतिष्ठादिमलमासशुक्रास्तादावपिकार्यं देवालयवापीकूपतडागभेदनेआरामसेतुसभाभङ्गेइदंविष्णुर्मानस्तोकेविष्णोः कर्माणिपादोस्येतिचतस्रआज्याहुतीर्हुत्वाब्राह्मणान्भोजयेदिति॥
अथप्रोक्षणविधिः देवमुद्वास्यपञ्चवारम्मृज्जलैःप्रक्षाल्यपञ्चगव्यैःस्नापयित्वा कुशोदकैर्विशोध्यमूलेनाष्टोत्तरशतवारम्प्रोक्ष्यमूलेनमूर्धादिपीठान्तंसंस्पृश्य तत्त्वन्यासलिपिन्यासमन्त्रन्यासपूर्वकम्प्राणप्रतिष्ठाङ्कृत्वामहापूजाङ्कुर्यात् पूजाहीनादिषुह्येषसम्प्रोक्षणविधिःस्मृतः॥
अथजीर्णोद्धारः सचलिङ्गादौभग्नेदग्धेवाकार्यः अयञ्चानादिसिद्धप्रतिष्ठितलिङ्गादौभङ्गादिदोषेपिनकार्यः तत्रतुमहाभिषेकःकार्यः कर्ताऽमुकदेवस्यजीर्णोद्धारङ्करिष्येइत्युक्त्वानान्दीश्राद्धान्तङ्कृत्वाचार्यङ्कृत्वापीठेमण्डलदेवताआवाह्यलिङ्गेॐ व्यापकेश्वरहृदयायनमः ॐव्यापकेश्वरशिरसेस्वाहेत्यादिषडङ्गङ्कृत्वादेवतान्तरेमूलमन्त्रेणषडङ्गङ्कृत्वाऽर्चयेत् अघोरेतिमन्त्रमष्टोत्तरशतञ्जप्त्वाग्निम्प्रतिष्ठाप्यअघोरेणघृताक्तस-
र्धपैःसहस्रंहुत्वेन्द्रादिभ्योनाम्नावलिन्दत्त्वाजीर्णन्देवम्प्रणवेनसम्पूज्यसाज्यतिलैर्मण्डलदेवताहोमङ्कृत्वाप्रार्थयेत् जीर्णभग्नमिदञ्चैवसर्वदोषावहन्नृणाम्। अस्योद्धारेकृतेशान्तिः शास्त्रेस्मिन्कथितात्वया १ जीर्णोद्धारविधानञ्चनृपराष्ट्रहितावहम्। तदधस्तिष्ठतान्देवप्रहरामितवाज्ञया २ क्षीराज्यमधुदूर्वासमिद्भिर्देवमन्त्रेणाष्टोत्तरशतंहुत्वातिलैःसहस्रंहुत्वापायसेनशतंहुत्वालिङ्गम्प्रार्थयेत् लिङ्गरूपंसमागत्ययेनेदंसमधिष्ठितम्। यायास्त्वं सम्मितंस्थानंसन्त्यज्यैवशिवाज्ञया १ अत्रस्थानेचयाविद्यासर्वविद्येश्वरैर्युता। शिवेनसहसन्तिष्ठेतिमन्त्रितजलेनाभिषिच्यविसर्जयेत् अस्त्रमन्त्रितेनखनित्रेणखात्वालिङ्गमादायवामदेवमन्त्रेणनद्यादौक्षिपेत् मूर्तिप्रणवेनक्षिपेत् दारुजम्मधुनाभ्यज्याघोरेणदहेत् हेमादिमयंयोग्यङ्कृत्वातत्रैवस्थापयेत् ततःशान्त्यर्थमघोरेणघृतक्षीरमध्वक्तैस्तिलैःसहस्रंहुत्वाप्रार्थयेत् भगवन्भूतभव्येशलोकनाथजगत्पते। जीर्णलिङ्गसमुद्धारःकृतस्तवाज्ञयामया १ अग्निनादारुजन्दग्धङ्क्षिप्तंशैलादिकञ्जले। प्रायश्चित्तायदेवेशअघोरास्त्रेणतर्पितम् २ ज्ञानतोऽज्ञानतोवापियथोक्तन्नकृतंयदि। तत्सर्वपूर्णमेवास्तुत्वत्प्रसादान्महेश्वर ३ अथयजमानःप्रार्थयेत् गोविप्रशिल्पिभूपानामाचार्यस्यचयज्वनः। शान्तिर्भवतुदेवेशअच्छिद्रञ्जायतामिदम् १ मूर्तौतुविशेषः त्वत्प्रसादेननिर्विघ्नन्देहन्निर्मापयत्यसौ। वासङ्कुरुसुरश्रेष्ठतांववञ्चाल्पकेगृहे १ वसक्लेशंसहित्वेहमूर्तिवैतवपूर्ववत्। यावत्कारयतेभक्तःकुरुतस्यचवाञ्छितम् २ ततोनवाम्मूर्तिलिङ्गंवाकृत्वोक्तविधिनाप्रतिष्ठाकालानपेक्षयामासादर्वाक्स्थापयेत् इतिजीर्णोद्धारः॥
प्रतिमाशिवलिङ्गप्रसादकलशादिङ्गे स्वामिनोमरणम्भवेत् तत्रशान्तिःकुण्डङ्कृत्वाविधानेनततोहोमंसमाचरेत्। चरुञ्चयमदैवत्यंसाधयित्वाविधानतः १ दधिक्षौद्रघृताक्तानामश्वत्थर्सामधान्ततः। जुहुयादष्टशतम्प्राज्ञइमारुद्रेतिमन्त्रवित् २ माषैर्मुद्गैस्तिलैश्चैवघृतेनमधुनापिच। एभिःपञ्चसहस्राणिशक्तिबीजेनहोमयेत् ३ शक्तिबीजं ह्रीम्बीजं भूमिन्धेनुमनड्वाहंस्वर्णधान्यंसदक्षिणम्। दत्त्वाथपञ्चगव्येनस्नायाद्देवालयेद्विजः ४ बलिदद्याद्यमायाथकृसरैःपायसैस्तथा। ईशानायबलिन्दत्वाकृतकृत्योभवेन्नरः ५ अत्रमूलङ्कमलाकरे॥
अथपुष्पादिविचारः अपर्युषितनिच्छिद्रैःप्रोक्षितैर्जन्तुवर्जितैः। आत्मारामोद्भवैर्मुख्यैर्भक्त्यासम्पूजयेत्सुरान् १ त्यजेत्कीटावपन्नानिशीर्णपर्युषितानिच। स्वयम्पतितपुष्पाणिमलाद्युपहतानिच २ मुकुलैर्नार्चयेद्देवमपक्वैःकृमियुक्फलैः। पुष्पाभावेपत्रपूजापत्रालाभेफलैरपि ३ निवेदयेत्फलालाभेतृणगुल्मौषधीरपि। समित्पुष्पकुशादीनिब्राह्मणःस्वयमाहरेत् ४ शुद्रानीतैःक्रयक्रीतैःकर्मकुर्वन्पतत्यधः। लक्षपुष्पा-
र्चनङ्क्रयक्रीतैरपि केचित् धर्मार्जितधनक्रीतैर्यःकुर्यात्केशवार्चनम्। नपर्युषितदोषोस्तिमालाकारगृहेषुच १ इत्याद्युक्तेर्मालाकारानीतैःक्रयक्रीतैरपिपुष्पपत्रैःपूजयन्ति नित्यपूजार्थम्परोपवनादेरपिपुष्पादिग्रहेचौर्यदोषोन पूजार्थम्पुष्पादिनयाचेत समित्पुष्पकुशादीनिवहन्तन्नाभिवादयेत्। तद्धारीचैवनान्यान्हिनिर्माल्यन्तद्भवेत्तयोः १ देवोपरिधृतं वामहस्तेऽधोवस्त्रेचधृतञ्जलेन्तःक्षालितञ्चपुष्पन्निर्माल्यं वर्ज्यम्पर्युषितम्पुष्पंवर्ज्यपर्युषितञ्जलम्। नवर्ज्यन्तुलसीपत्रन्नवर्ज्यतीर्थजञ्जलम् १ प्रहरन्तिष्ठतेजातीकरवीरमहर्निशम्। नैवपर्युषितम्पद्मन्तुलसीविल्वपत्रकम् २ कुन्दञ्चदमन्नचैवागस्त्यञ्चकलिकातथा। विल्वादेरपर्युषितत्वदिनसङ्ख्या बिल्वः ३० अपामार्गः ३ जाती १ तुलसी ६ शमी ६ शतावरी ११ केतकी ४ भृङ्गराजः ९ दूर्वा ८ मन्दारः १ पद्मं १ नागकेसरः २ दर्भाः ३० अगस्त्यः ३ तिलः १ मल्लिका ४ चम्पकः ९ करवीरं ८ एतेषामेतद्दिगोत्तरम्पर्युषितत्वं तुलसीग्रहणकालः वैधृतौचव्यतीपातेभौमभार्गवभानुषु। पर्वद्वयेचसङ्क्रान्तौद्वादश्यांसूतकद्वये १ तुलसींयेविचिन्वन्तितेछिन्दन्तिहरेःशिरः। नैवच्छिन्द्याद्रवौदूर्वान्तुलसीन्निशिसन्ध्ययोः २ धात्रीपत्रङ्कार्तिकेचपुण्यार्थीमतिमान्नरः। द्वादश्याञ्चदिवास्वापस्तुलस्यावचयस्तथा ३ विष्णोश्चैवदिवास्नानंवर्जनीयंसदाबुधैः। अत्र दिवानिषेधाद्रात्रौस्नानादिषोडशोपचारैःपूजाकार्या दिवतुगन्धादिपुष्पाञ्जल्यन्ताएवोपचाराइतिकमलाकराह्निके विष्णोर्द्वादश्यान्निर्माल्यापनयनमपिनकार्यमितितन्त्रान्तरेस्मर्यते एतदपवादःपुरुषार्थचिन्तामणौनारदीये पञ्चामृतेनसंस्नाप्यएकादश्याञ्जनार्दनम्। द्वादश्याम्पयसास्नाप्यहरिसायुज्यमश्नुते १ इति देवार्थेतुलसीछेदोहोमार्थेसमिधान्तथा। इन्दुक्षयेनदुप्येतगवार्थन्तुतृणस्यच १ तुलसीग्रहणमन्त्रः तुलस्यमृतजन्मासिसदात्वङ्केशवप्रिये। केशवार्थंविचिन्वामिवरदाभवशोभने १ जातिमल्लिकाकरवीराशोकोत्पलचम्पकबकुलविल्वशमीकुशाएतानिसर्वदेवतानांविहितानि अथ विहितप्रतिषिद्धत्वाद्वैकल्पिकानि पाटलाशमीपत्रञ्चदुर्गायाः कुन्दपलाशबकुलदूर्वाः शिवस्य कुमुदतगरेसूर्यस्य तुलसीभृङ्गराजतमालपत्राणिशिवदुर्गयोः अगस्तिमाधवीलतालोध्रपुष्पविष्णुशिवयोः धत्तूरमन्दारौविष्णुसूर्ययोः इतिविकल्पिनानि अथविष्णोःप्रियाणि मालतीजातीकेतकीमल्लिकाशोकचम्पकपुन्नागवकुलोत्पलकुन्दकरवीरपाटलातगरपुष्पाणि अन्यानिचसुरभीणिविष्णोःप्रियाणि अपामार्गभृङ्गराजखदिरशमीदूर्वाकुशदमनकबिल्वतुलसीपत्राण्युत्तरोत्तराधिकप्रियाणितुलसीसर्वाधिका जातिपुष्पसहस्रेणमालार्पणेकल्पकोटिसहस्रंविष्णुपुरेवासः आम्रमञ्जर्यापूजनेगोकोटिदानफलम् अथशिवस्य चतुर्णाम्पुष्पजातीनाङ्गन्धमाघ्रातिशङ्करः। अर्कस्यकरवीरस्यविल्वस्यचबकस्यच १ दशसुवर्णदानफलंश्वेतार्कपुष्पं ततःसहस्रगुणम्बकपुष्पम् एवं धत्तूरशमीपुष्पद्रोणपुष्पनीलोत्पलानामुत्तरोत्तराणांसहसगुणत्वम् मणिमुक्ताप्रवालै-
स्तुरत्नैरप्यर्चनङ्कृतम्। नगृह्णामिविनादेविबिल्वपत्रैर्वरानने १ सर्वकामप्रदम्बिल्वन्दारिद्र्यस्यविनाशनम्। नीलोत्पलसहस्रेणमालार्पणेकल्पकोटिसहस्रंशिवपुरेवासः धत्तूरैर्बृहतीपुष्पैश्चपूजनेगोलक्षफलम् पाटलामन्दारापामार्गजातीचम्पकोशीरतगरनागकेसरपुन्नागजपामल्लिसहकारकुमुम्भपुष्पाणिशिवप्रियाणि धत्तूराणिकदम्बानिरात्रौदेयानिशङ्करे। मदनरत्ने केतकानिकदम्बानीतिपाठः अभावेपुष्पपत्राणामन्नाद्येनाभिपूजयेत्। शालितण्डुलगोधूमयवैर्वापिसमाचरेत् १ अथनिषिद्धानि बन्धूककुन्दातिमुक्तकेतकीकपित्थबकुलशिरीषनिम्बानि पुष्पपत्रादिकंस्वाभिमुखमुत्तानमर्पयेत् पत्रम्पुष्पम्फलञ्चैवयथोत्पन्नन्तथार्पयेत्। इतिवचनात् विल्वपत्रन्तुस्वाभिमुखाग्रन्न्युब्जमर्पयेत् पक्वाम्रफलस्यशिवार्पणेवर्षायुतंशिवपुरेवासः सव्यंव्रजेत्ततोसव्यम्प्रणालीन्नैवलङ्घयेदित्यादिस्थिरलिङ्गेप्रदक्षिणामकारः चरेतुसव्येनैव देव्याअपिवकुलकुन्दादिसहितान्येतान्येवप्रियाणि धान्यानांसर्वपत्रैश्चपुष्पैर्देवीम्प्रपूजयेत्। दूर्वाकुन्दैःसिन्धुवारैर्वन्धूकागस्तिसम्भवैः १ विल्वपत्रैःपूजनेराजसूयफलं करवीरस्रजाग्निष्टोमंस्य बकुलस्रजावाजपेयस्य द्रोणस्रजाराजम्यस्येति एवंसूर्यविघ्नेशादेरपिप्रायोविष्णुवत्ज्ञेयानि॥
अथशिवनिर्माल्यग्रहणविचारः अग्राह्यंशिवनैवेद्यम्पत्रम्पुष्पम्फलञ्जलम्। शालग्रामशिलासङ्गात्सर्वंयातिपवित्रताम् १ शैवसौरनैवेद्यभक्षणेचान्द्रायणम् अभ्यासेद्विगुणम् मत्याभ्यासेसान्तपनम् अन्यनिर्माल्येप्यनापद्येवम् इदञ्चज्योतिर्लिङ्गस्वयम्भूलिङ्गसिद्धप्रतिष्ठापितलिङ्गातिरिक्तस्थावरलिङ्गविषयं ज्योतिर्लिङ्ङ्गादौतुपूजकेनदत्तम्फलतीर्थादिकम्भक्तयाशुद्ध्यर्थग्राह्यन्नलोभेन पञ्चायतनस्थितलिङ्गेपुचरेषुप्रतिमासुचान्नादेरपिस्वयङ्ग्रहणेपिनदोषः ज्योतिर्लिङ्गाद्यन्यस्थिरलिङ्गेषुतीर्थोदकचन्दनमात्रंश्रद्धावद्भिःशिवोपासकैरेवग्राह्यं ज्योतिर्लिङ्गादौपूजकदत्तमन्नमपिभक्ष्यमितिकेचित् ॥
अथसाधारणमुहूर्तविचारः त्र्युतरारोहिणीध्रुवम् मघाभरणीपूर्वात्रयङ्क्रूरं श्रवणत्रयपुनर्वसुखात्यश्चरम् अश्विनीहस्तपुष्यङ्क्षिप्रम् अनुराधारेवतीमृगचित्रम्मृदु कृत्तिकाविशाखेमिश्रम् मूलाश्लेषाज्येष्ठार्द्रास्तीक्ष्णम् इतिनक्षत्रसञ्ज्ञाः यत्रनोक्तातिथिस्तत्रग्राह्यारिक्ताममांविना। वारोपियत्रनप्रोक्तस्तत्रार्कार्किकुजान्विना १ चरमृदुक्षिप्रध्रुवमूलविशाखामघासुसकुजेशुभवारेभूकर्षणंहितं सूर्यसक्तनक्षत्रात्र्यष्टनवाष्टसुअशुभंशुभमशुभंशुभमितिहलचक्रम् अत्रैवनक्षत्रेशनिभौमभन्नवारेबीजवापः सस्यारोपणं
च धान्यच्छेदश्च क्षीरवृक्षजन्यःखलमध्येस्तम्भः धान्यानाम्मर्दनञ्ज्येष्ठामूलमघाश्रवणरेवतीरोहिण्यनुराधाफल्गुनीद्वयेशुभं धान्यसङ्ग्रहः क्षिप्रध्रुवचरमृदुमूलेषुज्ञगुरुशुक्रेषुचरभिन्नलग्नेशुभः ॐधनदायसर्वलोकहितायदेहिमेधान्यंस्वाहेतिमन्त्रं लिखित्वाधान्यागारेक्षिपेत् तेनधान्यवृद्धिः बुधमन्ददिनेनैवधनधान्यव्ययःशुभः। अद्यान्नवान्नंसद्वारेमृदुक्षिप्रचरेदिवा १ अथवस्त्रादि वस्त्रभूषणविधिर्ध्रुवाश्विनीहस्त-
पञ्चकपुनर्वसुद्वये। पौष्णवासवभयोवश्चसत्तिथौमन्दभौमशशिवासरान्विना १ अनुक्तेपीष्टदंवस्त्रंविप्राज्ञोत्सवलब्धिषु। ध्रुवपुष्यादितौयोषिद्धत्तेयावस्त्रभूषणे १ नप्राप्नोतिपतिप्रीतिंस्नातिवारुणभेचया। पादुकासनशय्यादेर्भोगःसत्तिथिवासरे २ ध्रुवक्षिप्रमृदुश्रोत्रभरणीषुपुनर्वसौ। चेन्नव्यवस्त्रम्मध्यांशेदग्धस्फुटितपङ्कितम् ३ तत्त्यजेच्छान्तिकङ्कुर्यात्त्यजेदेवान्त्यभागयोः। विज्ञेयमेतच्छय्यायामास्तृतौपादुकास्वपि ४ सूचीकर्मानुराधाश्विचित्रामृगपुनर्वसौ।वस्त्रङ्क्षाल्यन्धारणोक्तेकाले बुधदिनंविना ५ भोजनम्भाजनेरौप्यस्वर्णकांस्यादिनिर्मिते। कुर्यादमृतयोगेषुचरक्षिप्रमृदुध्रुवैः ६ स्याद्भूषणानाङ्घटनञ्चरक्षिप्रमृदुध्रुवैः। शुभवारेरत्नवताम्मिश्रभेपिरवौकुजे ७ इतिवस्त्रादिविचारः शस्त्राणाङ्घटनङ्क्रूरमिश्राश्विमृगतीक्ष्णभे। शस्त्रन्धार्यन्ध्रुव
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा