🕉️ 24 November 2026, Tuesday · 08:12:40 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, शान्ति, विवाह, आह्निक, प्रतिष्ठा · पृष्ठ 54/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

शस्त्रादिविचारः

क्षिप्रमृदुज्येष्ठाविशाखके १ सेवाकार्याक्षिप्रमैत्रध्रुवैर्ज्ञेज्यार्कभार्गवे। मन्देपिचेत्सेवकर्क्षंस्वामिभान्नद्वितीयकम् २ हस्तषट्कध्रुवश्रोत्ररेवतीपुष्यभेशुभम्। पुनर्वसौचशिविकागजाश्वादिषुरोहणम् ३ राज्ञांविलोकनङ्क्षिप्रश्रुतिद्वयमृदुध्रुवे। नृत्यारम्भःपुष्यमृगध्रुवज्येष्ठाधनिष्ठयोः ४ अनुराधाशतभिषग्घस्तेस्याच्छुभवासरे। विपणिःस्यान्मृदुक्षिप्रध्रुवैरिक्ताकुजान्विना ५ क्रयःकार्योश्विनीस्वातीश्रवश्चित्राशतान्त्यभे। विक्रयोभरणीपूर्वात्रयाश्लेषासुमिश्रभे ६ सेतुबन्धोध्रुवेस्वात्याञ्जीवार्कशनिवासरे। नानापशुक्रियाहस्तपुष्याद्रामृगमिश्रभे ७ पुनर्वसौधनिष्ठाश्विपूर्वाज्येष्ठाशतान्त्यभे। त्यक्त्वार्कभौमेन्दुशनीन्श्रुतिचित्राध्रुवाणिच ८ अमारिक्ताष्टमीश्चापि गतिक्रयमुखाःशुभाः। द्रव्यंलघुचरैर्योज्यंवद्ध्यर्थचरलग्नके ९ ऋणम्भौमेनगृह्णीयाद्वृद्धियोगेऽर्कसङ्क्रभे। धनिष्ठापञ्चकेहस्तेत्रिपुष्करद्विपुष्करे १० भौमादिपुऋणच्छेदङ्कुर्याच्चधनसङ्ग्रहम्। बुधेधनन्नदेयंसङ्ग्रहस्तुबुधेशुभः ११ शन्यर्कारैत्रिपादर्दोभद्रातिथ्यात्रिपुष्करः। मृगचित्रार्धानिष्ठासुतत्तिथ्यह्निद्विपुष्करः १२ शुभाशुभेषुत्रिगुणं द्विगुणञ्चफलङ्क्रमात्। मिश्रक्रूरेषुतीक्ष्णेषु स्वात्यान्द्रव्यंलभ्यते १३ दत्तम्प्रयुक्तन्निक्षि-

नष्टद्रव्यविचारः

प्तन्नष्टञ्चेत्याहनारदः। अन्धम्मन्दञ्चचिबिटंसुलोचनमितिक्रमात् १४ गणनीयंरोहिणीभादन्धेनष्टंलभेद्दुतम् १५ मन्देयत्नाल्लभेतैवचिबिटस्वक्षयोर्नहि। अन्विष्यम्पूर्वतोन्धेषुमन्न्दसञ्ज्ञेषुदक्षिणे १६ प्रतीच्याञ्चिविटाख्येधुसुलोचनउदग्दिशि। राजाभिषेकःश्रवणेब्रुवर्क्षेज्येष्ठामृदुक्षिप्रउदग्रवौस्यात्। त्यक्त्वाररिक्ताधिकचैत्ररात्रीश्चन्द्रेज्यशुक्राभ्युदयेशुभाय १ जलाशयानाङ्खननम्मघापुष्यध्रुवेमृगे। पूर्वाषाढानुराधान्त्यधनिष्ठाशतहस्तभे १ जलराशिगतेचन्द्रेलग्नस्थेचबुधेगुरौ।

क्षौरञ्चौलोक्तनक्षत्रवारादिषुशुभञ्जगुः २ पञ्चमेपञ्चमेराज्ञान्दिनेन्येषांयदृच्छया। श्मश्रुकर्मभवेन्नैवनव-

क्षीरविचारः

मेदिवसेक्वचित् २ क्षौरम्भूतेरतन्दर्शेवर्जयेच्चजिजीविषुः। क्षौरन्नक-

१ पशुगमनपशुक्रियादिकमित्यर्थः॥

र्युरभ्यक्तमुक्तस्नातविभूषिताः ४ प्रयाणसमरारम्भेनरात्रौनचसन्ध्ययोः। श्राद्धाहप्रतिपद्रिक्ताव्रताह्निचनवैभृतौ ५ प्रशस्तञ्जन्मनक्षत्रंसर्वकर्मसुकीर्तितम्। क्षौरप्रयाणभैषज्यविवादेषुनशोभनम् ६ षष्ठ्यमापूर्णिमापातचतुर्दश्यष्टमीतथा। आसुसन्निहितम्पापन्तैलेषुस्त्रीभगेक्षुरे ७ राजकार्यनियुक्तानान्नराणाम्भूपजीविनाम्। श्मश्रुलोमनखच्छेदेनास्तिकालविशोधनम् ८ क्षौरन्नैमित्तिकङ्कार्यनिषेधेसत्यपिध्रुवम्। यज्ञेमृतौबन्धमोक्षेनृपविभाज्ञयापिच ९ प्राग्वयस्कैःसपितृकैर्नकार्यमुण्डनंसदा। मुण्डनस्यनिषेधेपिकर्तनन्तुविधीयते १० उदङ्मुखःप्राङ्मुखोवावपनङ्कारयेत्सुधीः। केशश्मश्रुलोमनखान्युदक्संस्थानिवापयेत् ११ आनर्तोहिच्छत्रःपाटलिपुत्रोदितिर्दितिःश्रीशः। क्षौरेस्मरणादेषान्दोषानश्यन्तिनिःशेषाः १२

131. रोगोत्पत्तौनक्षत्रफलम्

अथरोगोत्पत्तौनक्षत्रफलम् अश्विन्यांरोगोत्पत्तौएकाहन्नवदिनानिवापञ्चविंशतिदिनानिवापीडा १ भरण्यामेकादशैकविंशतिर्वामासंवामृत्युर्वा २ कृत्तिकायान्दशनववैकविंशतिर्वा ३ रोहिण्यान्दशवानववासप्तवात्रीणिवाहानि ४ मृगेपञ्चनववात्रिंशद्वा ५ आर्द्रायाम्मृत्युर्वादशाहंवामासंवा ६ पुनर्वसौसप्तनववामृत्युर्वा ७ पुष्येसप्तवामृत्युर्वा ८ आश्लेषायाम्मृत्युर्विंशतिस्त्रिंशद्वानववादिनानिपीडा ९ मघायाम्मृत्युर्वासार्धमासम्बामासंवाविंशतिदिनानिवापीडां १० पूर्वाफल्गुन्याम्मृत्युर्वाब्दमासंवापीडापञ्चदशवांषष्टिर्वादिनानि ११ उत्तरायांसप्तविंशतिः पञ्चदशसप्तवादिनानि १२ हस्तेमृत्यु-

रष्टवानववासप्तवापञ्चदशवाहानि १३ चित्रायाम्पक्षमष्टवादशवाएकादशवाहानि १४ स्वात्याम्मृत्युर्वैकद्वित्रिचतुःपञ्चमासैर्वादशदिनैर्वारोगनाशः १५ विशाखायाम्मासंवापक्षंवाष्टदिनविंशतिदिनंवापीडा १६ अनुराधायान्दशरात्रमष्टाविंशतिरात्रंवा १७ ज्येष्ठायमृत्युपक्षंवामासंवैकविंशतिरात्रंवापीडा १८ मूलेमृत्युःपक्षन्नवरात्रंविंशतिरावापीडा १९ पूर्वाषाढायाम्मृत्युर्वाद्वित्रिषडादिमासैविंशतिदिनैःपक्षेणवारोगनाशः २० उत्तराषाढायांसार्धमासंविंशतिरात्रंवामासंवा २१ श्रवणेपञ्चविंशतिर्दशवाएकादशवापष्टिर्वाहानि २२ धनिष्ठायान्दशरात्रम्पक्षम्मासन्त्रयोदशरात्रंवा २३ शततारकायान्द्वादशैकादशवा २४ पूर्वाभाद्रायाम्मृत्युर्वाद्वित्र्यादिमासंवादशरात्रंवा २५ उत्तराभाद्रायांसार्धमासम्पक्षंसप्ताहन्दशहंवा २६ रेवत्याञ्ज्वरात्पत्तौदशाहमष्टाविंशतिरात्रंवापीडा २७ जन्मनक्षत्रेजन्मराशौअष्टमचन्द्रेरोगोत्पत्तौमृत्युः २८ अर्कादिकारेकमेणमघाद्वादश्यौविशाखैकादश्यौपञ्चम्यार्द्रेतृतीयोत्तरापाढेशततारापष्ठ्यौअष्टम्यश्वि-

श्वेतकरवीरपूजा। बिल्वफलधूप। यन्मेतिमत्रः। तिलमापसर्पिर्व्रीहियवद्रव्यम्। सावित्र्याष्टोत्तरशतहुत्वातैरेवार्यभ्णेबलिन्दद्यात्॥

न्यौपूर्वाषाढानवम्यौचेतित्रयाणांयोगेमृत्युः एवमर्कादौअनुराधाभरण्यौआर्द्रोत्तराषाढेमघाशततारेविशाखाश्विन्यौज्येष्ठामृगौश्रवणाश्लेषेपूर्वाभाद्रपदाहस्तौचेन्मृत्युयोगः अत्रोक्तास्तिथिवारनक्षत्रशान्तयोविस्तृताःकार्याः येषुनक्षत्रेषुमरणमुक्तन्तत्रशान्तिरावश्यकी अन्यत्रकृताकृता॥

132. सर्वनक्षत्रसाधारणःशान्तिप्रयोगः

अथसर्वनक्षत्रसाधारणःशान्तिप्रयोगः देशकालौसङ्कीर्त्यममोत्पन्नव्याधेजींवच्छरीराविरोधेनसमूलनाशार्थममुकनक्षत्रशान्तिङ्करिष्यइतिसङ्कल्प्यगणेशपूजादि आचार्यङ्कृत्वाकुम्भोपरिपूर्णपात्रेद्वादशदलेनक्षत्रदेवताप्रतिमांसौवर्णीसम्पूज्यद्वादशदलेपुसङ्कर्षणादिद्वादशमूर्तीर्द्वादशादित्यान्वासम्पूज्यदुर्वासमित्तिलक्षीराज्यैर्गायत्र्यातत्तद्देवृतायैअष्टोत्तरशतंहुत्वामरणादिपीडाधिक्योक्तौसहस्रंहुत्वादध्योदनबलिन्दत्त्वाचार्यायगांव्रतिमाञ्चदद्यादितिसङ्क्षेपः शान्तिमयूखादौनक्षत्रभेदेनहविर्मन्त्रबलिधूपादिभेदस्तिथिवारदेवतामन्त्रादिभेदइत्यादिविस्तरोद्रष्टव्यः कर्मविपाके जातवेदसइत्युचोऽयुतंलक्षंवाजपोरुद्रेन मकानुवाकैः सहस्रकलशस्नानंवाविष्णौसहस्रावृत्तपुरुषसूक्तेनसहस्रघटस्नानंवाज्वरनाशकं यद्वाश्रीभागवतस्थज्वरस्तोत्रजपः॥

133. सर्करोगनाशकानि

अथसर्करोगनाशकानि रोगानुसारेणलघुरुद्रमहारुद्रातिरुद्राणाञ्जपोभिषेकोवा विष्णुसहस्रनामस्तोत्रस्यशतंसहस्रमयुतंवाजपः सौरञ्जपःसूर्यनमस्कारार्ध्यदानानिमुञ्चमित्वेतिसूक्तजपोऽच्युतानन्तगोविन्देतिनामत्रयजपोमृत्युञ्जयजपश्चरोगानुसारेणेतिसर्वरोगहराणि ज्येष्ठामूलश्रुतिस्वातीमृदुक्षिप्रपुनर्वसौ। गुरुशुक्रेन्दुवारेषुशस्तम्भेषजभक्षणम् १ रिक्तायाञ्चरलग्नेमिश्रक्षिप्रेन्द्रमूलपूर्वासु। चित्राभरणीश्रवणत्रयभेरविकुजबुधार्कजेस्नायात् २ वैधृतीचव्यतीपातेभद्रायांसङ्क्रमेतथा। रोगमुक्तस्नानमत्रचन्द्रताराबलन्नवा ३॥

134. आभ्यङ्गः

अथाभ्यङ्गः भद्रासङ्क्रमपातवैधृतिसितेज्यार्कारषष्ठ्यादिषुश्राद्धाहेप्रतिपद्द्वयेपरिहरेद्धेतुंविनाभ्यञ्जनम्। माङ्गल्यंविजयोत्सवोब्दवदनन्दीपावलीहेतवोभ्यङ्गस्पाथबुधाम्बुपर्क्षपितृभाभ्यङ्गात्पतिघ्न्यङ्गना १ अथापवादः सार्षपङ्गन्धतैलञ्चयत्तैलम्पुष्पवासितम्। द्रव्यान्तरयुतन्तैलम्पकतैलन्नदुष्यति १ किञ्चिद्गोघृतयुक्तंवाविप्रपादरजोन्वितम्। नित्याभ्यङ्गेचनोदुष्टन्तैलनिन्द्येह्निसर्वदा २ रवौपुष्पङ्गुरौदूर्वाम्भौमवारेचमृत्तिकाम्। भार्गवेगोमयङ्क्षिप्वातैलस्नानंसुखावहम् ३ ॥

१२५ गृहारम्भः वैशाखेफाल्गुनेपौषेश्रावणेमार्गशीर्षके। गृहारम्भप्रवेशौस्तःस्तम्भोच्छ्रायश्चशस्यते १ ज्येष्ठकार्तिकमाघांश्चशुभदान्प्राहनारदः। तृणगेहंसर्वमासेपौषेमुख्यगृहन्नहि २ हस्तत्रयध्रुवमृदुधनिष्ठाद्वयपुष्यभे। रिक्ताअर्ककुजौत्यत्त्कागृहङ्कुर्याद्विशेदपि ३ शिलान्यासञ्चखातञ्चश्रुत्यश्विक्रूरमित्रभैः। आश्लेषामूलपुष्यार्कमृ-

गान्त्यध्रुवभैरपि ४ केन्द्राष्टमेपापहीनेवेश्मकृत्यंस्थिरोदये। धनिष्ठापञ्चकेवर्ज्यःस्तम्भोच्छ्रायःसदाबुधैः ५ नेष्टानिसप्तसूर्यर्क्षादिष्टान्येकादशाष्टमात्। दशशिष्टानिनेष्टानिचक्रेस्युर्वृषवास्तुनि ६ यद्वातुर्यात्पञ्चदशात्त्रयोविंशतिसङ्ख्याकात्। वेदाब्धिपञ्चनेष्टानिगृहारम्भप्रवेशयोः ७ स्नानपाकस्वापवस्त्रभुजीनाम्पशुकोशयोः। देवानां चगृहान्कुर्यात्पूर्वादौमुख्यवेश्मनः ८ उदग्दिशन्ध्रुवमुखाज्ज्ञात्वाप्राचीम्प्रसाधयेत्। कोणाध्वभ्रमकूपद्वाःपङ्कस्तम्भद्रुमामरैः ९ विद्धादुष्टाद्वार्नदोषोगृहोच्चद्विगुणान्तरे। सूत्रम्भित्तिशिलान्यासंस्तम्भस्यारोपणन्तथा १० आग्नेयीन्दिशमारभ्यकुर्यादित्याहकश्यपः। अन्यवेश्मस्थितन्दारुनान्येवेश्मनियोजयेत् ११ नूतनेनूतनङ्काष्ठञ्जीर्णेजीर्णं प्रशस्यते। द्वात्रिंशाधिकहस्तेचतृणागारेचतुर्मुखे १२ नतत्रचिन्तयेद्धीमान्गुणानायव्ययादिकान्॥

136. गृहप्रवेशः

अथगृहप्रवेशः वास्तुपूजाविधिःकार्यःपूर्वमेवप्रवेशतः। मैत्रध्रुवक्षिप्रचरमूलभैर्धनपुत्रकृत् १ वास्तुशान्तिप्रयोगोन्यतोज्ञेयः वास्तुशान्तिर्दिवैवोक्ताप्रवेशस्तुनिशिक्वचित्। गृहप्रवेशःप्रारम्भोदितमासादिकैःशुभः १ क्वचिन्माघोर्जशुक्रेषुकैश्चिदुक्तोमृदुधुवे। श्रेष्ठःक्षिप्रैश्चरैर्मध्योनिन्द्यस्तीक्ष्णोग्रमिश्रभैः २ त्रिषडायेखलैःसद्भिःषडष्टव्ययवर्जितैः। शुद्धेम्बुरन्ध्रेचतनौविजनुर्लग्नभाष्टमे ३ ऋक्षाणिपञ्चसूर्यर्शान्नेष्टान्यष्टचतुर्दशात्। शेषभानिशुभान्येवम्प्रवेशेघटचक्रकम् ४ इतिवास्तुप्रकरणम्॥

137. धनाद्यर्थगमनं

अथधनाद्यर्थगमनं श्रुतिद्वयाश्विपुष्पान्त्यानुराधामृगहस्तभे। पुनर्वसौगोचरेष्टप्रदवारेब्रजेन्नरः १ अभिजिद्भङ्गमेश्रेष्ठन्दक्षिणाशांविनाक्षणः। मघाचित्रात्रयाश्लेषाभरण्यार्द्राःसकृत्तिकाः २ पूर्वाभाद्राचनेष्टाःस्युःप्रयाणेजन्मभन्तथा। त्यजेद्रिक्ताम्पर्वषष्ठ्यष्टमीद्वादशिकास्तिथीः ३ कृत्तिकाभरणीपूर्वामघानाङ्घटिकाःक्रमात्। एकविंशतिसप्ताथषोडशैकादशत्यजेत् ४ ज्येष्ठाश्लेषाविशाखासुस्वात्याञ्चापिचतुर्दश। भृगोर्मतेसङ्कटेऽपिसर्वांस्वातीम्मघान्त्यजेत् ५ भरण्याःपूर्वमर्धञ्चचित्राश्लेषान्तकोत्तरम्। वारशूलःसोमशनीप्राच्यामीज्यस्तुदक्षिणे ६ रविशुक्रौमतीच्यांस्यादुदीच्याम्बुधमङ्गलौ। पूर्वादिदिक्षुमेषाद्याःक्रमात्त्रिश्चन्द्रराशयः ७ सम्मुखोदक्षिणोऽब्जःसन्पृष्ठेवामेऽतिनिन्दितः। दिशियत्रोदेतिशुक्रस्तान्दिशन्नव्रजेन्नरः ८ नव्रजेत्सम्मुखेज्ञेपिशुभम्पृष्ठोपिवामतः। रेवतीमेषगेचन्द्रेशुक्रान्ध्यात्सम्मुखंव्रजेत् ९ प्रयाणेशुभाःकेन्द्र १।४। ७।१० कोणेषु ९।५ शस्ताःखलास्त्रायपट्खेष्व ३।११।६।१० निष्टःशनिःखे १०। कविःसप्तमे ७ ग्लौःषडष्टान्त्यलग्ने ६।८।१२।१ विलग्नेश्वरोप्यस्तषष्ठाष्टमान्त्ये ७।६।८।१२॥१॥ केन्द्रेवक्रीवक्रिवर्गोलग्नेवारश्चवक्रिणः। कुम्भःकुम्भनवांश्चलप्रेत्याज्यप्रयत्नतः २ मीनलग्नेतदंशेवायातुर्मार्गोऽतिदुःखदः। शत्रुर्लग्नभतःषष्ठन्तत्पतिर्वामृतिप्रदः ३ शत्रुक्षेत्रेतदंशेवातद्दृष्टेगमनन्नसत्। लग्नेस्तङ्गतराशिश्चजन्मराशिश्चनो

शुभः ४ शशीवर्गोत्तमेलग्नेवर्गोत्तमयुतेजयः। शुक्लादितिथिवारर्क्षयोगोऽश्वैरष्टभिस्त्रिभिः ५ त्रिस्थस्तष्टोवशिष्टश्चेत्सर्वाङ्कःसार्वकामिकः। त्रिषुक्रमाद्भवेच्छून्यन्दुःखदारिद्यमृत्युदम् ६ यद्येकस्मिन्नेवदिनेपुराद्गच्छेत्पुरान्तरम्। प्रावेशिकीकालशुद्धिस्तदाज्ञेयानयात्रिकी ७ प्रवेशान्निर्गमोनेष्टःप्रवेशोनिर्गमादपि। जिष्णोःकदापिनवमेधिष्ण्येवारेतिथौतथा ८ याम्यादिग्गमनंशय्यावितानञ्छादनङ्गृहे। नकुम्भमीनगेचन्द्रेतृणकाष्ठस्यसङ्ग्रहः ९ तर्पिताग्निसुहृद्विप्रभार्यादिस्तृप्तिमान्व्रजेत्। स्वकीयाम्परकीयांवास्त्रियम्पुरुषमेववा १० ताडयित्वातुयोगच्छेद्ब्राह्मणानवमान्यच। व्याधितःक्षुधितोवाऽपितदन्तन्तस्यजीवितम् ११ क्रोधङ्क्षौरन्तथावान्तिन्तैलाभ्यङ्गाश्रुमोचनम्। मद्यम्मांसङ्गुडन्तैलंसितान्यतिलकन्तथा १२ श्वेतभिन्नञ्चवसनम्प्रयाणेपरिवर्जयेत्। क्षौरम्पञ्चदिनन्दुग्धन्त्रिदिनंसप्तरात्रकम्।मैथुनञ्चापरन्तैलम्मध्वाज्यन्तद्दिनेत्यजेत्। स्त्र्यार्तवम्बीजदानातन्तथाकुशकुनांस्त्यजेत् १४ सुमुहूर्तेस्वयङ्गमनासम्भवेप्रस्थानङ्कार्यम् प्रस्थानन्नामाभीष्टवस्तुचालनं यज्ञोपवीतकंशस्त्रम्मधुचस्थापयेत्फलम्। विप्रादिःक्रमतःसर्वैःस्वर्णधान्याम्बरादिकम् १ राजादशाहम्पञ्चाहमन्योनप्रस्थितोवसेत्। स्वयङ्गमनाद्वस्तुस्थापमाख्यप्रस्थानेर्धफलम् प्रस्थानदेशावधिः गेहाद्गेहान्तरङ्गर्गःसीम्नःसीमान्तरम्भृगुः। बाणक्षेपम्भरद्वाजोवसिष्ठोनगराद्वहिः १ प्रस्थापिकृतेनेयान्महादोपान्वितेदिने। प्रस्थानदिनेपिक्रोधादिकंवर्जयेत् शकुनापशकुनप्रपञ्चोऽन्यत्र इतियात्राप्रकरणम्॥

पूज्यचधान्यराशौहोमञ्चकुर्यादिहदेवमन्त्रैः १ शिवपूजाम्प्रकुर्वीतप्रतिमापूजनन्ततः॥ अघोरप्रतिमान्दद्याद्ब्रह्मणायसदक्षिणाम् २ अनेनसहगच्छत्वङ्क्रीडस्वचसुखञ्चिरम्॥ मान्तथैवाधुनामञ्चक्षमाङ्कुरुममोपरि ३ शिवाग्रेतुसमागत्यकृत्वाचैवान्तरेपटम्॥ उभाभ्यान्नारिकेलञ्चभङ्क्त्वाभूयोधिगम्यताम् ४ निवर्तसूक्तञ्जाप्त्वादावधोरद्विजपुङ्गवम्॥ अघोरप्रतिग्राहिणम्ब्राह्मणमित्यर्थः विसर्जयेत्पुनस्तञ्चनैवपश्येत्कदाचन ५ कांस्यपात्रेघृतङ्कृत्वादृष्ट्वारूपंस्वकंस्वकम्॥ तत्पात्रम्ब्राह्मणेदद्यादक्षिणासंयुतन्ततः ६ पादप्रक्षालनङ्कृत्वाआचम्यचयथाविधि॥ शान्तिमन्त्रान्पठेत्पश्चात्पूजाङ्गृह्यशिवन्त्रजेत् ७ धूपदीपादिनैवेद्यन्ताम्बूलैदक्षिणादिभिः॥ वस्त्रैराभरणैर्दिव्यैस्तोषयेच्छङ्करन्ततः ८ शिवस्यप्रार्थनाङ्कृत्वाजपेत्सूक्तङ्कनिक्रदत्॥ प्रदक्षणीभद्रचेतिपठेत्सूक्तंशिवोपरि ९ पुष्पाञ्जलिञ्चयुगपद्दद्याञ्चैवान्तरम्पटम्॥ पुनःपुनर्नमस्कृत्यपश्चात्तञ्चविलोकयेत् १० प्रणामालिङ्गनङ्कुर्यात्स्वागतङ्क्षेमपृच्छनम्॥ ततोद्विजवराःसर्वेसूक्तानिस्वस्तिकानिच ११ पठित्वाहोमदेशञ्चगच्छेयुश्चमुदान्विताः॥ प्रतिमापूजनङ्कृत्वावह्नेश्चापियथाक्रमम् १२ होमशेषंसमाप्यैवम्ब्रह्माचार्यादिकान्यजेत्॥ अभिषेकन्ततःकुर्युरुभयोर्मङ्गलंवदेत् १३ स्वस्तिशब्दन्तथाब्रूयुर्गाञ्चदद्यात्पयस्विनीम्॥ देवान्वह्निंविसृज्याथकुम्भेलक्ष्मीन्निधायच १४ आचार्यब्रह्मऋत्विग्भिर्वाद्यघोषपुरःसरम्॥ स्वगृहञ्चशनैर्गच्छेत्सार्धन्तेनप्रवासिना १५ देवानाञ्चैवतृप्त्यर्थङ्कर्तव्यन्द्विजभोजनम्॥ एवङ्कृतेविधानेतुनस्याद्विघ्नङ्कदाचन १६ देवद्विजप्रसादेनकल्याणंस्यान्नसंशयः॥ आयुष्यङ्क्षेममारोग्यम्पुत्रपौत्रप्रवर्धनम् १७ सौभाग्यमतुलञ्चैवलभेदस्यप्रसादतः॥ आरामेपुण्यतीर्थेवादेवागारेथसङ्गमे १८ सुपवित्रनदीतीरेविधानङ्क्षेमदम्भवेत्॥

अथप्रयोगः सुमुहूर्तेचन्द्रताराबलान्वितेपुण्याहंवाचयित्वाचार्यब्रह्मर्विगादीन्वृत्वादेशकालौसङ्कीर्त्यास्माकंसकुटुम्बानाङ्क्षेमायुरारोग्यैश्वर्याभिवृद्ध्यर्थंसर्वत्रमङ्गलाभ्युदयार्थमात्मनोबन्ध्वादीनान्द्वादशाब्दाधिकप्रवासस्थितिजनितपापग्रहपीडापरिहारार्थंवियोगग्रहशान्तिङ्करिष्यइतिसङ्कल्प्यतदङ्गस्थण्डिलोल्लेपनकलशस्थापनेकरिष्यइतिसङ्कल्प्यदधिदूर्वामृत्पञ्चगव्यसर्वौषधीहिरण्यरत्नफलपुष्पपञ्चपल्लवाद्यलङ्कृतेषुपञ्चधान्यपुञ्जस्थितपञ्चकलशेषुतीर्थवारिणापूर्णेषुस्थापितवंशपात्रोपरिअष्टदलालङ्कृतवस्त्रेषुगणेशमृत्युञ्जयविष्णुलक्ष्म्यघोरप्रतिमानामग्न्युत्तारणङ्कृत्वातत्तन्मन्त्रैःकलशावाहनपूजनस्थापनादिपूर्वकन्तत्तन्मन्त्रैस्तत्तद्देवतानामावाहनादिपूजाङ्कुर्यात् ततोन्वाधानङ्कृत्वातत्तदुद्देशेनप्रतिदैवतन्दूर्वातिलाज्यचरुशर्कराभिरष्टसहस्रमष्टशतमष्टाविंशतिंवाहुतीर्हुवा अघोरमन्त्रेणाघोरायहुत्वा रुद्राभिषेकङ्कृत्वाशिवालयेऽन्तःपटन्धृत्वोभावपियुगपच्छिवस्यपुरतोनारीकेलफलम्प्रत्येकम्भङ्क्त्वाहामदेशङ्गत्वानिवर्तध्वमितिसूक्तञ्जपेताम्। ततोऽघोरम्प्रार्थयेताम्॥ अघोरत्वम्महाकायनृणांविश्लेषकारक॥ त्वत्क्षोभजनितङ्घोरन्नृणांविश्लेषजम्फलम् १ वियोगविषमाक्षस्त्वंविषमाङ्घिकरायुध॥ विबुद्धिर्विगतस्थायीविलापीविगताश्रयः २ योगभ्रष्टोयोगध्वंसीयोगीयोगविघातकः॥ नृनार्योर्योगहन्ताच

बन्धुयोगवियोगकृत् ३ गच्छत्यनुदिनञ्चोर्वीप्राणिनाङ्क्लेशहेतवे॥ योगविश्लेषकार्यत्वाद्वियोगन्त्वाम्प्रचक्षते ४ भावियोगमहाघोरप्राणिनाङ्क्लेशदायक॥ शरणागतमापन्नन्त्राहिमांशोकसागरात् ५ द्विजंसमभ्यर्च्याघोरप्रतिमान्दद्यादाज्यावेक्षणङ्कृत्वाशान्तिमन्त्राञ्जपित्वापादौप्रक्षाल्यशिवङ्गन्धपुष्पैस्तोषयित्वास्वस्तिनोआनोभद्राकनिक्रदत्प्रदक्षिणीभद्रंवदेतिसूक्तानिपठम् अन्तःपटन्निष्कास्ययुगपच्छिवोपरिपुष्पाञ्जलिन्दत्त्वामुहुःशिवन्नमस्कृत्यसम्प्रार्थ्यबन्धुंविलोकयेत्॥ तौप्रणामाक्षेमालिङ्गनेकृत्वास्वागतम्पृष्ट्वा येयज्ञेनेत्याशिषोदत्त्वाहोमशेषंसमाप्याभिषेकं कृत्वाग्न्युद्वासनङ्कृत्वाकुम्भेलक्ष्मीप्रतिमान्निधायवाद्यघोषपुरःसरम्ब्राह्मणैःसहप्रवासिनाचसहगृहम्प्रविशेत्॥ततोब्राह्मणान्सम्भोज्यद्विजान्वस्त्रालङ्कारदक्षिणादिभिःसन्तोष्यस्वस्तिभवन्तोब्रुवन्त्वितिब्रूयात् तेचस्वस्तिरस्त्वितिप्रत्यूचुः॥ इतिप्रवासादागतग्रहविधानंशान्तिसारे॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬