निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथगोचरप्रकरणं जन्मराशेःक्रूरचन्द्रास्त्रिषट्दशमगाःशुभाः। सप्ताद्यगश्चापिचन्द्रःशुक्लेद्विनवपञ्चसु १ बुधोव्यन्त्यसमे २।४।६।८।१०। जीवोद्विपञ्चनवसप्तसु। जन्मादिपञ्चसुतथानवाष्टद्वादशेभृगुः २ एकादशेसर्वखटाः शुभाःस्युरितिसङ्ग्रहः। जन्मसम्पद्विपत्क्षेमम्प्रत्यरिःसाधिकावधः। मैत्रातिमैत्राःस्युस्तारास्त्रिरावृत्त्यास्वजन्मभात् ५ क्रमतःसूर्यादिबलन्नृपदर्शनसर्वकार्ययुद्धेषु। शास्त्रकरग्रहयात्रादीक्षासूह्यंविशेषेण २ अनिष्टसूर्यादीनान्दानानिद्वितीयपरिच्छेदान्ते॥
अथपल्लीसरठफलम्। दक्षाङ्गोदरनाभिहृत्सुपतितापल्लीवराङ्गेहनुम्मुक्त्वानुःशुभदस्त्रियाःफलमिदंवामेतरव्यत्ययात्।इयाहुःसरठप्ररोहणफलम्पातेऽन्यथैकेवृथापल्ल्यारोहणकेऽपिवस्त्रसहितंस्नात्वाचरेच्छान्तिकम् १॥
अथपल्लीसरठशान्तिः तयोःस्पर्शमात्रेस्नानङ्कृत्वापञ्चगव्यम्प्राश्याज्यमवलोक्यांशुभनाशार्थंशुभवृद्ध्यर्थवाशान्तिःकार्या पल्ल्याःसरठस्यवाहेम्नाप्रतिमाङ्कृत्वारक्तवस्त्रेणसंवेष्ट्यसम्पूज्यकलशेरुद्रंसम्पूज्यमृत्युञ्जयमन्त्रेणखादिरसमिद्भिरष्टोत्तरशतन्तिलैर्व्याहृतिभिरष्टोत्तरसहस्रंशतंवाहुत्वास्विष्टकृदाद्यभिषेकान्तेस्वर्णवस्त्रतिलदानम् अथकपोतप्रवेशमधुवल्मीकोत्पत्तिपिङ्गलास्वरकाकवैकृतग्राम्यारण्यादिमृगपक्षिविकारेशान्तिः
देवाःकपोतइतिपञ्चवर्चंसूक्तंसहस्रंशतंवाजपित्वा यतइन्द्रभयामहेस्वस्तिदाविशस्त्र्यम्बकमितिमन्त्रैर्हुत्वाव्याहृतिभिरष्टोत्तरशतन्तिलहोमङ्कुर्यात् अथवापञ्चविप्रैःक्रमेणदेवाःकपोतइतिसूक्तंसुदेवोअसीत्यृचङ्कनिक्रददितिशाकुन्तसूक्तन्नमोब्रह्मणेनमोइतिमन्त्रञ्चसहस्रादिसङ्ख्ययाजप्त्वोपनिषदश्चपठित्वाव्याहृतिभिस्तिलहोमङ्कुर्यात्॥
अथकाकस्पर्शमैथुनदर्शनादिशान्तिः सङ्कल्पाग्निप्रतिष्ठापनान्तेकुम्भेसौवर्णमिन्द्रंलोकपालाञ्चसम्पूज्याग्नौचरुंश्रपयित्वापलाशसमिच्चर्वाज्यव्रीहिभिःप्रत्येकमष्टोत्तरसहस्रंशतंवा यतइन्द्रेतिमन्त्रेणहुत्वालोकपालेभ्यस्तैरेवद्रव्यैर्दशकृत्वाहुत्वा लोकपालबर्लिकुम्भाग्रेवायसेभ्योबलिमैन्द्रवारुणेतिमन्त्रेणदत्वायजमानोभिषेकान्तेशतन्दशवाविप्रान्भोजयेत् घरट्टोलूखलमुसलदृषदासनमञ्चकादेरकस्मात्स्फोटनेघृताक्तमधुयुताश्वत्थसमिधःप्रजापतयेहुत्वागायत्र्याष्टोत्तरसहस्रेणाभिमन्त्रयेत्॥
नानाविधदिव्यभौमान्तरिक्षोत्पातेषुशान्तिः सङ्कल्पादिकृत्वाकुम्भेइन्द्ररुद्रौसम्पूज्ययतइन्द्रस्वस्तिदाविशस्पतिःअघोरेभ्योथेतिमन्त्रैःसमिदाज्यचरुव्रीहितिलान्प्रतिद्रव्यमष्टोत्तरशतंहुत्वाव्याहृतिभिःकोटिहोमंलक्षहोममयुतहोमन्तत्पादहोमंवातिलैर्वित्तानुसारेणनिमित्तानुसारेणचसप्तरात्रन्त्रिरात्रमेकरात्रंवाकृत्वासूर्यगणेशक्षेत्रपालदुर्गामन्त्राणाञ्जपङ्कृत्वापायसादिनाब्राह्मणभोजनङ्कार्यं यद्वाचण्डीसप्तशतीजपः अथवारुद्रैर्जपोभिषेकोवा अश्वत्थप्रदक्षिणाशिवपूजागोविप्रपूजादिवेतिनानोत्पातसामान्यशान्तयः॥
कारयेल्लक्षहोमन्तुप्रामेयश्चनराधिपः॥ नृसिंहमन्त्रेणहोमः। सुश्रुते स्थानत्यागाज्जपाद्धोमान्महामारीप्रशाम्यति॥ आथर्वणेतुरौद्रीशान्तिरुक्ता इतिशान्तिसारशान्तिरत्नयोः॥
अथमहामारीशान्तिप्रयोगः॥ आचम्यप्राणानायम्यदेशकालौसङ्कीर्त्यएतद्ग्रामेराजाद्यपचारेणब्रह्मस्वहरणगुरुद्रोहब्रह्महत्यास्त्रीवधस्वस्वधर्मानाचरणादिभिश्च रुद्रकोपोत्थिसोत्थिष्यमाणजनमारणदारुणरोगोपशान्तिपूर्वकमेतद्ग्रामनिवासिनांसर्वेषांलोकानाङ्क्षेमायुरारोग्यैश्वर्याभिवृद्धिद्वाराश्रीमहारुद्रप्रीत्यर्थं सग्रहमखाञ्जनमारशान्तिकरिष्यइतिसङ्कल्प्य गणपतिपूजनस्वस्तिवाचनमातृकापूजननान्दीश्राद्धाचार्यब्रह्मसदस्यर्त्विग्वरणान्तङ्कुर्यात्॥ ततोवस्त्रगन्धादिभिस्तेषाम्पूजनं ततआचार्यः पवित्रपाणिः देशकालौसङ्कीर्त्य यजमानानुज्ञयाचार्यकर्मकरिष्यइतिसङ्कल्प्य पुरुषसूक्तजपादिनात्मतनुम्पावयित्वायदत्रसंस्थितमितिप्रागादिदिक्षुप्रादक्षिण्येनसर्षन्विकीर्य शुचीवइतितृचेन पञ्चगव्येनतथैवप्रोक्ष्यापोहिष्ठेतितृचेनशुद्धाभिरद्भिस्तथैवप्रोक्ष्यकृताञ्जलिःस्वस्त्ययनन्तार्क्ष्यमितिमन्त्रद्वयेनदेवतांसम्प्रार्थ्य महारुद्रप्रतिमायाअग्न्युत्तारणम्प्राणप्रतिष्ठाञ्चकुत्वाकलशस्थापनङ्कुर्यात्॥ तद्यथा महीद्यौरितिभूमिंस्पृष्ट्वाओषधयःसमितिद्रोणपरिमितव्रीहिभिस्तत्रराशिङ्कृत्वा आकलशेष्विति कलशंसंस्थाप्य इमम्मेगङ्गइतितीर्थनजलेनापूर्यगन्धद्वारामितिगन्धंयाओषधीरितिसर्वौषधीः ओषधयःसमितियवान् हिरण्यरूपइतिहिरण्यं स्योनापृथिवीतिसप्तमृदः याःफलिनीरितिपुष्पफलानि सहिरत्नानीतिपञ्चरत्नानि काण्डात्काण्डादितिदूर्वाः अश्वत्थेवइतिपञ्चपल्लवान्॥ युवासुवासाइतिवाससासंवेष्ट्य पूर्णादर्वीतिपूर्णपात्रन्तत्रनिधाय तत्रवस्त्रञ्चन्दनादिनाकृताष्टदलन्न्यसेत् तत्रस्थापितप्रतिमायां महारुद्रं त्र्यम्बकंयजामहइतिमन्त्रेणावाह्यषोडशोपचारैःसम्पूज्यकुम्भस्यपश्चिमतः कुण्डेस्थण्डिलेवावरदनामानमग्निं प्रतिष्ठाप्य चत्वारिशृङ्गेतिध्यात्वास्थण्डिला दीशान्यांवेद्याम्पीठेवा नवग्रहाणां तदङ्गदेवतानाञ्च तत्तन्मन्त्रैरावाहनपूजनादिकृत्वातदीशान्यान्धान्योपरिमहीद्यौरित्यादिनाकलशंसंस्थाप्य तत्रवरुणमावाह्यसम्पूज्यकलशस्यमुखइत्यादिभिःकलशमभिमन्त्र्यदेवदानवइत्यादिभिः कलशंसम्प्रार्थ्यान्वाधानङ्कुर्यात् तत्रप्रधानकीर्तनेविशेषः आदित्यादिग्रहान्प्रत्येकम्प्रतिद्रव्यमेतत्सङ्ख्याभिःसमिच्चर्वाज्याहुतिभिः अधिदेवताः प्रत्यधिदेवताश्चैतत्सङ्ख्याकाभिःसमिदाद्याहुतिभिः विनायकाद्यादेवता एतत्सङ्ख्याहुतिभिः श्रीमहारुद्रम्प्रत्येकं सहस्रसङ्ख्याकाभिः पालाशीसमित्साज्यपायसबिल्वपत्रक्षीरयुतसार्पिर्घृताक्ततिलाहुतिभिर्यक्ष्ये शेषेणस्विकृतमित्यादि ततआज्यसंस्कारःआज्येनसहगृहसिद्धान्नस्यपांयसादीनाञ्चपर्यग्निकरणं स्रुक्स्स्रुवसम्मार्गान्तेगृहसिद्धान्नपायसादीन्यासादितस्थालीष्वादायाग्नावधिश्रित्याभिघारणादिबर्हिष्यासादनान्तङ्कुर्यात् अर्कादिसमिधःपायसबिल्वपत्रक्षीरसर्पिघृतातिलांश्चतत्रैवासाद्याग्न्यर्चनाद्याज्यभागान्तेयजमानोन्वाधानानुसारेणत्यागङ्कुर्यात् ततः सर्त्विगाचार्योऽर्कादिसमिधोदधिमध्वक्ताश्चर्वाहुतीराज्याहुतीश्चसङ्कल्पानुसारिसङ्ख्याकाजुहुयात् तादृशसङ्ख्याकाएवपलाशसमिदादिहविःपञ्चकाहुतीर्जुहुयात् तत्रदधिमधुघृ-
ताक्ताभिस्तिसृभिस्तिसृभिर्दूर्वाभिरेकाहुतिःकार्या तथैवतिसृभिर्दर्भैकाहुतिः एवं होमङ्कृत्वास्विष्टकृदादिप्रायश्चित्तहोमान्तङ्कर्मसमाप्यदिक्पालादिभ्यः सदीपमाषभक्तबलिं वजमानद्वाराकारयेत् स्वयंवाकुर्यात् तत्रलोकपालेभ्योग्रहेभ्योविनायकादिसप्तभ्यस्ततन्मन्त्रैर्वलिं दत्त्वात्र्यम्बकमितिमन्त्रेणमहारुद्रागबलिंसमर्प्य क्षेत्रपालायक्षेत्रस्यपतिनेतिमन्त्रेणबलिन्दद्यात् ततः शूद्रादिनाबलिनिनयनेकृतेशान्तापृथिवीतिभुवम्प्रोक्ष्यसयजमानआचार्यः प्रक्षालितपाणिपाद आचान्तःपूर्णाहुतिंहुत्वापरिस्तरणविमोकादिपर्युक्षणान्तङ्कुर्यात् ततःसर्त्विगाचार्यः प्राङ्मुखंयजमानं समुद्रज्येष्ठाइत्यादिमन्त्रैरभिषिञ्चेत् ततोभिषिक्तोयजमानः स्नात्वाभिषेककालीनवाससीपरित्यज्याहतशुक्लवासांसिपरिधायाचार्येणविभूतिधारणादियस्यस्मृत्यन्तङ्कर्मणिकृतेऽग्नेःपश्चादुपविश्यदक्षिणतःपत्नीमुग्वेश्विभूतिङ्घृत्वाऽऽचार्यादीन्सम्पूज्याचार्यायधेनुन्तन्निष्क्रयंवा ऽन्येभ्यऋत्विग्भ्यः सुवर्णन्तन्निष्क्रयंवादद्यात् तत आचार्येणस्थापितदेवतानामुत्तरपूजनेकृतेतद्धस्तेनैवउत्तिष्ठेतिमन्त्रेणविसर्जनेजातेसोपस्करग्रहपीठम्महारुद्रपीठञ्चतद्धस्तेप्रतिपाद्याग्निपूजान्ते गच्छगच्छेत्यग्निंविसृज्य कर्माङ्गदेवताप्रीत्यर्थं ब्राह्मणभोजनंसङ्कल्प्य भूयसीन्दक्षिणाञ्चसङ्कल्प्यशान्तिसूक्तपाठङ्कारयित्वाकर्मसम्पूर्णमस्त्वितिवाचयित्वापरमेश्वरार्पणङ्कुर्यात् इतिगुर्जरोपाह्वबालकृष्णोपाध्यायसूनुम्रलचन्द्रोपाध्यायविरचितः सग्रहमखजनमारशान्तिप्रयोगःसम्पूर्णः ॥
अथगायत्रीपुरश्चरणप्रयोगः देशकालौसङ्कीर्त्यकरिष्यमाणगायत्रीपुरश्चरणेऽधिकारसिद्ध्यर्थङ्कुच्छ्रत्रयममुकप्रत्याम्नायेनाहमाचरिष्येइतिसङ्कल्प्यहोमादिप्रत्याम्नायविधिनाकृच्छ्राण्यनुष्ठायामुकशर्मणोममगायत्रीपुरश्चरणेऽनेनकृच्छ्रत्रयानुष्ठानेनाधिकारसिद्धिरस्त्वितिविप्रान्वदेत् विप्राअधिकारसिद्धिरस्त्वितिब्रूयुः ततःकरिष्यमाणपुरश्चरणाङ्गत्वेनविहितङ्गायत्रीजपादिकरिष्येइतिसङ्कल्प्यस्वयंविप्रद्वारावाकुर्यात् तद्यथा सप्रणवव्याहृतिकगायत्र्याअयुतञ्जप्त्वाआपोहिष्ठेतिसूक्तम्एतोन्विन्द्रमितितिस्रः ऋतञ्चेतिसूक्तंस्वस्तिनइत्याद्याःस्वस्तिमतीःस्वादिष्ठयेत्याद्याःपावमानीश्चसर्वाःप्रत्येकन्दशवारंस्वयमन्यद्वारावाजपित्वा तत्सवितुरित्यस्याचार्यमृषिंविश्वामित्रन्तर्पयामि गायत्रीछन्दस्त॰ सवितारन्देवतां॰ इतितर्पणङ्कृत्वारुद्रनमस्कृत्यकब्रुद्रायेसादीनिरुद्रसूक्तानिजपेत् ततोदिनान्तरेदेशकालौसङ्कीर्त्यममसकलपापक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थञ्चतुविंशतिलक्षात्मकगायत्रीपुरश्चरणस्वयंविप्रद्वारावाकरिष्ये तदङ्गत्वेनस्वस्तिवाचनम्मातृकापूजनन्नान्दीश्राद्धं विप्रद्वाराजपेजपकर्तृवरणञ्चकरिष्यइतिसंल्पः सङ्कल्पस्यापिऋत्विक्कर्तृकत्वे ऽमुकशर्मणोयजमानस्यसकलपापक्षयेत्यादियजमानानुज्ञयाकरिष्ये एवम्पूर्वत्रापिसङ्कल्पऊह्यः नान्दीश्राद्धान्तेसविताप्रीयतामिति गायत्रीपुरश्चरणेजपकर्तारं त्वांवृणेइतिविप्रमेकैकंवृणुयात् वस्त्रादिभिःपूजयेत् अथनित्यकर्म एकैकोविप्रःस्वयंवाकुशायासनोपविष्टःपवित्रपाणिराचम्यप्राणानायम्यदेवताःप्रार्थयेत् सूर्यःसो
सोयमःकालःसन्ध्येभूतान्यहःक्षपा। पवमानोदिक्पतिर्भूराकाशङ्खेचरामराः १ ब्रह्मशासनमास्थायकल्पध्वमिहसन्निधिम् १ इति ततोदेशकालौसङ्कीर्त्यप्रत्याहिकजपंसङ्कल्प्य गुरवेनमः गणपतये॰ दुर्गायै॰ मातृभ्यो॰ इतिनत्वात्रिःप्राणानायम्य तत्सवितुरितिगायत्र्याविश्वामित्रऋषिःसवितादेवतागायत्रीछन्दः जपेवि॰ विश्वामित्रऋषयेनमःशिरसि गायत्रीछन्दसेनमोमुखे सवितृदेवतायैनमोहृदि इतिन्यस्य तत्सवितुरङ्गुष्ठाभ्यां वरेण्यन्तर्जनी॰ भर्गोदेवस्यमध्यमा॰ धीमह्यनामिका॰ धियोयोनःकनिष्ठिकाभ्यां॰ प्रचोदयात्करतलकरपृष्ठाभ्यान्नमइतिकरन्यासङ्कृत्वैवंहृदयादिषडङ्गन्यासङ्कुर्यात् पूर्वोत्तरीत्यासंस्कृताञ्जपमालाम्पात्रेनिधायसम्प्रोक्ष्य ॐमहामायेमहामालेसर्वशक्तिस्वरूपिणि। चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मांसिद्धिदाभव १ इतिप्रार्थ्य ॐअविघ्नङ्कुरुमालेत्वमितितामादायमन्त्रदेवतांसवितारन्ध्यायन्मन्त्रार्थंस्मरन्मध्यन्दिनावधिजपेत् अतित्वरायांसार्धत्रयप्रहरावधि जपान्तेपुनःप्रणवमुक्त्वा त्वम्मालेसर्वदेवानाम्प्रीतिदाशुभदाभव। शिवङ्कुरुष्वमेभद्रेयशोवीर्यचसर्वदा १ इतिमालांशिरसिनिधायत्रिः प्राणानायम्यन्यासत्रयङ्कृत्वाजपमीश्वरार्पणङ्कुर्यात् प्रत्यहंसमानसङ्ख्यएवजपोनतुन्यूनाधिकः एवम्पुरश्चरणजपसमाप्तौहोमः पुरश्चरणसाङ्गतासिद्ध्यर्थहोमविधिङ्करिष्यइति सङ्कल्प्याग्निम्प्रतिष्ठाप्यपीठसूर्यादिनवग्रहपूजनादिकलशस्थापनान्तेअन्वादध्यात् चक्षुषीआज्येनेत्यन्तेग्रहपीठदेवतान्वाधानमर्कादिसमिच्चर्वाज्याहुतिभिःकृत्वाप्रधानदेवतांसवितारञ्चतुर्विंशतिसहस्रतिलाहुतिभिस्त्रिसहस्रसङ्ख्याकाभिःपायसाहुतिभिर्घृतमिश्रतिलाहुतिभिर्दूर्वाहुतिभिःक्षीरद्रुमसमिदाहुतिभिश्च शेषेणस्विष्टकृतमित्यादिचरुपायसतिलैःसहाज्यस्पपर्यग्निकरणादि आज्यभागान्तेइदंहवनीयद्रव्यमन्वाधानोक्तदेवताभ्यःअस्तुनममेतियजमानस्त्यागङ्कुर्यात् होमेसप्रणवाव्याहृतिरहितास्वाहान्तागायत्रीदुर्वात्रयस्यैकाहुतिः दुर्वासमिधान्दधिमध्वाज्याञ्जनं स्विष्टकृदादिवलिदानान्तेसमुद्रज्येष्ठाइत्यादिभिर्यजमानाभिषेकः प्रतिलक्षंसुवर्णनिष्कत्रयन्तदर्धंवाशक्त्यावादक्षिणा होमान्तेजलेदेवंसवितासम्पूज्यहोमसङ्ख्यादशांशेन २४०० गायत्र्यन्तेसवितारन्तर्पयामीत्युकातर्पणकार्यं तर्पणदशांशेन २४० गायत्र्यन्तेआत्मानमभिषिञ्चामिनमइतिः स्वमूर्ध्न्यभिषेकः होमतर्पणाभिषेकाणाम्मध्येयदेवनसम्भवतितत्स्थानेतद्द्विगुणोजपःकार्यः अभिषेकसङ्ख्यादशांशेनाधिकंवाविप्रभोजनम् पुरश्चरणम्पूर्णमस्त्वितिविप्रान्वाचयित्वेश्वरार्पणङ्कार्यम् प्रसहंयज्जाग्रतइतिशिवसङ्कल्पमन्त्रस्यत्रिःपाठः कर्ताब्राह्मणैःसहहविष्याशीसत्यवागधःशायीपरिगृहीतभूप्रदेशानतिचारीचभवेत् इत्यनन्तदेवीयानुसारेणचतुर्विंशतिलक्षपुरश्चरणप्रयोगः ऋग्विधानेतु मध्याह्नेमितभुक्मौनीत्रिःस्नानार्चनतत्परः। लक्षत्रयञ्जपेद्धीमानितित्रिलक्षम्पुरश्चरणमुक्तं जपशतांशस्त्रिसहस्रंहोमः कलौचतुर्गणम्प्रोक्तमितिपक्षेद्वादशलक्षजपः द्वादशसहस्रहोमइत्याद्युह्यं विष्णु-
शयनमासेषुपुरश्चरणन्नकार्यं तीर्थादौशीघ्रंसिद्धिः बिल्ववृक्षाश्रयेणजपेएकाहात्सिद्धिरितिसर्वमन्त्रप्रकिया इतिगायत्रीपुरश्चरणम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा