निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथपूर्तकमलाकरेअश्वत्थोपनयनं तच्चवर्णैःक्रमेणवृक्षस्थापनादष्टमेएकादशेद्वादशेवर्षेउपनयनोक्तमुहूर्तेपूर्वाह्नेकार्यं शुद्रस्थापिताश्वत्थेपौराणिकमन्त्रैरारामप्रतिष्ठामात्रङ्कार्यन्नोपनयनम् अथप्रयोगः कर्तादेशकालौसङ्कीर्त्यसर्वपापक्षयकुलकोटिसमुद्धरणपूर्वकविष्णुसायुज्यप्राप्तिकामोऽश्वत्थोपनयनङ्करिष्येइतिसङ्कल्प्यनान्दीश्राद्धान्तेआचार्यंवृणुयात् आचार्यःपञ्चामृतैःशुद्धोदकैःसर्वौषधिजलैश्चाश्वत्थमभिषिञ्च्यपिष्टातकेनालङ्कृत्यतत्पूर्वेस्थण्डिलेऽग्निम्प्रतिष्ठाप्यान्वाधाने अग्निंवायुंसूर्यन्त्रिरग्निम्पवमानं प्रजापतिन्द्विरोषधीर्वनस्पतिम्पिप्पलम्प्रजापतिञ्चपालाशसमिच्चर्वाज्यैःप्रत्येकमेकैकयाहुत्याशेषेणेत्यादि अष्टचत्वारिंशन्मुष्टीनान्तूष्णीन्निर्वापप्रोक्षणे श्रपणाद्याज्यभागान्ते युक्तंस्त्राणीत्यश्वत्थंवस्त्रयुग्मेनावेष्ट्ययज्ञोपवीतमितियज्ञोपवीतन्दत्त्वाप्रावेपामेतिमेखलान्त्रिरावेष्ट्यअजिनन्दण्डञ्चतूष्णीन्दत्त्वाअश्वत्थेवइत्यृचागन्धपुष्पैःसम्पूज्यदेवस्यत्वेतिमन्त्रान्तेहस्तङ्गृह्णाम्यश्वत्थेतिस्पृष्ट्वासप्रणवव्याहृतिकाङ्गायत्रीन्त्रिर्जपित्वा अश्वत्थेवोनिषदनसूक्तेन व्याहृतिभिश्चाश्वत्थंस्थापयामीतिस्वर्णशलाकयास्पृष्ट्वाऽऽज्यपलाशसमिच्चरुभिःप्रत्येकन्द्वादशमन्त्रैर्द्वादशाहुतीर्जुहुयात् मन्त्रस्तु भूःस्वाहा अग्नयइदं॰। भुवःस्वा॰ वायव॰। स्वःस्वा॰ सूर्याये॰। अग्नआयूंषि॰ अग्निर्ऋषिः॰ अग्नेपवस्वेतित्रिभिरग्नयेपवमानायेदं॰। प्रजापतेनन्त्व॰ प्रजापतय॰। ओषधयःसंवदन्ते॰ अश्वत्थेवो॰ ओषधीभ्यइदं॰। वनस्पतेशत॰ वनस्पतयइ॰। द्वासुपर्णा॰ पिप्पलायेदं॰। समस्तव्याहृतिभिःप्रजापतयइदं॰ स्विष्टकृदादिहोमशेषंसमाप्याश्वत्थेवइतिगन्धपुष्पधूपदीपनैवेद्यफलताम्बूलाद्यैःसम्पूज्याश्वत्थंस्पृष्ट्वाचार्यायगामन्येभ्योदक्षिणान्दत्त्वाश्वत्थवस्त्रादिकमाचार्यायदत्त्वाष्टशैविप्रान्भोजयेदिति॥
अपुत्रेणपुंसास्त्रियावावटप्लक्षाम्रादेःपुत्रत्वेनप्रतिग्रहःकार्यः देशकालौसङ्कीर्त्यमहापापक्षयकुलत्रयसमुद्धरणप्रजापतिपुरगमननिरयस्थपत्रुद्धारमधुधारातृप्तिसिद्ध्यर्थंसपुत्रत्वसिद्ध्यर्थममुकवृक्षम्प्रतिग्रहीष्येइतिसङ्कल्प्योपवासङ्कृत्वारात्रौअष्टविप्रानाहूयचन्द्रंसम्पूज्यजागरम्भूशयनंवाकृत्वाप्रातर्वृक्षंसम्पूज्यतच्छाया यांविप्रान्सम्भोज्यपुण्याहं वाञ्चयित्वाप्रार्थयेत् अपुत्रोभगवन्तोत्रपुत्रप्रतिकृतिन्तरुम्। ग्रहीष्यामिममानुज्ञाङ्कर्त्तुमर्हथसत्तमाः १ ताम्रपात्रेपञ्चसौवर्णफलानिबीजपञ्चरत्नयुतान्यधिवास्यलोकपालबलीन्दद्यात् परेद्युस्तिलाज्यचरुभिरष्टशतंवनस्पतिमन्त्रेणहुत्वाजातकर्मादिविवाहान्तसंस्कारान्कृत्वाऽभिषिक्तःकर्तापुष्पाञ्जलिमादायप्रार्थयेत् येशाखिनःशिखरिणांशिरसांविभूषायेनन्दनादिषुवनेषुकृतप्रतिष्ठाः। येकामदाःसुरनरोरगकिन्नराणान्तेमेनतस्यदुरितार्तिहराभवन्तु १ एतेद्विजाविधिवदत्रहुतोहुताशःपश्यत्यसौचहिमदीधितिरन्त-
रस्थः। त्वंवृक्षपुत्रपरिकल्प्यमयावृतोऽसिकार्यंसदैवभवताममपुत्रकार्यम् २ अङ्गादङ्गादितिस्पृष्ट्वाविप्रेभ्योदक्षिणान्दत्त्वाविसृजेत् इतिवटादितरुपुत्रविधिः॥
अथसकलकर्मसाधारणपरिभाषा सर्वेषुपाकयज्ञेषुभवेद्ब्रह्माकृताकृतः। पात्रासादनमिच्छातआज्यादिश्रपणादिच १ स्रुवादिमार्जनञ्चेध्मरज्जुप्रहरणन्तथा। पूर्णपात्रम्भवेन्नित्यमाज्यस्योत्पवनेतथा २ व्रीहीणामवघातश्चतण्डुलेषुकृताकृतः। द्रवीभूतघृतस्यापिविलापनविधिस्तथा ३ प्रतिपदोक्ताज्यहोमेपरिस्तरणंविकल्पितम्। अनादिष्टाज्यहोमेतुनित्यम् आज्यभागसहिततद्रहितकर्मणोस्तन्त्रप्रयोगेआज्यभागाननुष्ठानमेवयुक्तं सर्वत्राज्यभागयोर्विकल्पनात् अनेकपाकयज्ञानामेककालानुष्ठानेसमानतन्त्रता तेनस्विष्टकृदाद्येकमेव यत्रद्रव्यन्नोक्तन्तत्राज्यङ्ग्राह्यम् मन्त्रान्तेकर्मकर्तव्यमन्त्रस्यकरणत्वतः। कर्मावृत्तौतुमन्त्रस्याप्यावृत्तिर्गृह्यकर्मणि १ समन्त्रकहोमेतूष्णीन्निर्वापः नाम्नाहोमेनाम्नैर्वानर्वापादि यत्रमन्त्रेणनाम्नावाहोमोनोक्तस्तत्रताम्नैवहोमः समन्त्रकहोमेसहैवानेकदैवत्यचरुपाकेपिनविभागोनाभिमर्शश्च अनुक्तौदक्षिणःकरः दिशामनुक्तौप्राच्युदीचीशान्यः तिष्ठन्नासीनइत्याद्यनुक्तावासीनतैव अनादेशेस्वयङ्कर्ता अविज्ञातस्वरोतन्त्रःसौत्रएकश्रुतिर्भवेत्। होमेषुमन्त्रंस्वाहान्तम्प्रणवाद्यञ्चकारयेत् २ विप्रादीनान्द्विदर्भंस्यात्पवित्रङ्ग्रथितन्नवा। आहुतिप्रमाणं कर्षप्रमाणमाज्यादिलाजामुष्टिमितामताः। अन्नङ्ग्राससमङ्ग्राह्यङ्कन्दानामष्टमोंशकः १ तिलसक्तुकणादीनाम्मृगीमुद्राप्रमाणतः। ताम्रपात्रेणपिहितेताम्रपात्रादिकेशुभे २ अग्निप्रणयनङ्कार्यं मृन्मयेराजतादिके। उत्तमःश्रोत्रियागारान्मध्यमःस्वगृहादितः ३ नाप्रोक्षितमिन्धनमग्नावादध्यात सदोपवीतिनाभाव्यंसदावद्धशिखेनच। सदेतिकर्माङ्गतापुरुषार्थताच तेनकर्मकालेशिखाबन्धाद्यभावेप्रायश्चित्तद्वयमन्यदैकमेव दशविधादर्भाउक्ताः वटप्लक्षबिल्ववैकङ्कतचन्दनदेवदारुसरलवृक्षजाअपिक्वचित्समिधः प्रभुःप्रथमकल्पस्ययोऽनुकल्पेनवर्त्तते। सनाप्नोतिफलन्तस्यपरत्रेतिश्रुतिःस्मृतिः १ बह्वल्पंवास्वगृह्योक्तंयस्ययत्कर्मचोदितम्। तस्यतावतिशास्त्रार्थेकृतेसर्वःकृतोभवेत् २ अथकर्मविशेषेग्निनामानि अग्निस्तुमरुतोनामगर्भाधानेविधीयते। पवमानःपुंसवनेसीमन्तेमङ्गलाभिधः१ प्रबलोजातसंस्कारेपार्थिवोनामकर्मणि। अन्नाशनेशुचिःप्रोक्तःसभ्यःस्याच्चौलकर्मणि २ व्रतादेशेसमुद्भवः गोदानादौसूर्यः विवाहेयोजकः आवसथ्येद्विजनामा प्रायश्चित्तेविटः पाकयज्ञेषुपावकः पित्र्येकव्यवाहनः दैवेहव्यवाहनः शान्तिकेवरदःप्रोक्तःपौष्टिकेबलवर्धनः मृतदाहेक्रव्यादः ज्ञात्वैवमग्निनामानिगृह्यकर्मसमारभेत्। पलाशेनजुहुःकार्याखदिरेणखुवःस्रुचः। तदभावेयथालाभयज्ञियवृक्षजाः तदभावेपपिप्पलपर्णैर्वाहोमः एवञ्चमसादयोपिखदिरादियज्ञियवृक्षजाः काम्येप्रतिनिधिर्नास्तिनित्येनैमित्तिकेहिसः। काम्येप्युपक्रमादूर्ध्वमन्येप्रतिनिधिंविदुः १
नस्पात्प्रतिनिधिर्मन्त्रकर्मदेवाग्निकर्तृषु। नदेशारणिकालेषुत्रिषुप्रतिनिधिर्मतः २ नापिप्रतिनिधातव्यन्निषिद्धंवस्तुकुत्रचित्। स्वकालादुत्तरोगौणःकालःसर्वस्यकर्मणः ३ तर्पणेष्वासनेश्राद्धेभुक्तौमूत्रपुरीषयोः। षट्सुनिर्माल्यकादर्भादर्व्याद्याआभिचारके ४ मन्त्रोपियश्चशूद्रार्थेब्राह्मणःप्रेतभोजने॥
अथकर्माङ्गदेवताः विवाहस्याग्निर्देवता तेनविवाहाङ्गभूतस्वस्तिवाचनाद्यन्तेकर्माङ्गदेवताग्निःप्रीयतामितिवदेत् औपासनेऽग्निसूर्यप्रजापतयः स्थालीपाकेऽग्निः गर्भाधानेब्रह्मा पुंसवनेप्रजापतिः सीमन्तेधाता जातकर्मणिमृत्युः नामकर्मनिष्क्रमणान्नप्राशनेषुसविता चौलेकेशिनः उपनयनेइन्द्रश्रद्धामेधाः अन्तेसुश्रवाः पुनरुपनयनेऽग्निः समावर्त्तनस्येन्द्रः उपाकर्मणिव्रतेषुचसविता वास्तुहोमेवास्तोष्पतिरन्तेप्रजापतिः आग्रयणेआग्रयणदेवताः सर्पवलेःसर्पाः तडागादीनांवरुणः ग्रहयज्ञेआदित्यादिनवग्रहाः कूष्माण्डहोमेचान्द्रायणेअग्न्याधानेचाग्न्यादयः अग्निष्टोमस्याग्निः अन्येष्विष्टकर्मसुप्रजापतिरिति ॥
अथ कलियुगेकार्याकार्यविवेकः गीतागङ्गातथाविष्णुःकपिलाश्वत्थसेवनम्। एकादशीव्रतञ्चैवसप्तमन्नकलौयुगे १ विष्णुंशिवंवाभजताङ्गुरोःपित्रोश्चसेविनाम्। गोवैष्णवमहाशैवतुलसीसेविनामपि २ नस्यात्कलिकृतोदोषःकाश्यान्निवसतामपि। कलौगुरूणाम्भजनमीशभक्त्यधिकंस्मृतम् ३ जपादौयत्रयासङ्ख्याकलौसास्याच्चतुर्गुणा। कलौदानम्महाश्रेष्ठंशिवविष्णोश्चकीर्तनम् ४ कृतेयद्दशभिर्वर्षैस्त्रेतायांहायनेनतु। द्वापरेतत्तुमासेनअहोरात्रेणतत्कलौ ५ प्रथमस्कन्धे कुशलान्याशुसिद्ध्यन्तिनेतराणिकृतानियदितिकलौपुण्यकर्मणांसङ्कल्पेऽपिसिद्धिः पापानान्त्वाचरणादेवेत्युक्तं स्मृत्यन्तरविरोधेतुकलौपाराशरस्मृतिः। ध्यायन्कृतेयजन्यज्ञैस्त्रेतायान्द्वापरेऽर्चयन्। यदाप्नोतितदाप्नोतिकलौसङ्कीर्त्यकेशवम् १ इतिहेमाद्रौव्यासवचनम् अत्रकृतयुगाद्यधिकरणकध्यानादिफलार्थेकल्यधिकरणकङ्कीर्त्तनंविधीयतइतिवाक्यार्थःकौस्तुभकर्तृपितामहैर्भक्तिनिर्णयेविस्तरेणनिरूपितः हेमाद्रौ कलिंसभाजयन्त्यार्यागुणज्ञाःसारभागिनः। यत्रसङ्कीर्त्तनेनैवसर्वःस्वार्थोभिलभ्यते १ इतिश्रीभागवतवचनमुदाहृत्यसङ्कीर्त्तनेनहरिसङ्कीर्तनेनेत्यर्थइतिहेमाद्रावेवव्याख्यातं कृष्णवर्णन्त्विषाकृष्णसाङ्गोपाङ्गास्त्रपार्षदम्। यज्ञैःसङ्कीर्त्तनप्रायैर्यजन्तिहिसुमेधसः १ यज्ञादिस्वस्वाचारमाचरद्भिरपिकालेपषुसङ्कीर्त्तननिष्ठैर्भाव्यमित्याशयइतिकौस्तुभे अनेनचतुर्वर्गफलन्नारायणाश्रयणमात्रेणभवतीतिसिद्धं यावैसाधनसम्पत्तिःपुरुषार्थचतुष्टये। तयाविनातदाप्नोतिनरोनारायणाश्रयः १ इतिभारतोक्तेः श्रीभागवतेऽपि धर्मार्थकाममोक्षाख्यंयइच्छेच्छ्रेआत्मनः। एकंह्येबहरेस्तत्रकारणम्पादसेवनम् १ इति अत्रएकपदावधारणादिपदैरम्यसाधनानपेक्षत्वम्भक्तियोगस्योच्यते ज्ञानयोगादेश्चहरिपादसेवनसापेक्षत्वन्ध्वन्यते तथाचस्य–
ष्टमेकादशादौ तस्मान्मद्भक्तियुक्तस्ययोगिनोवैमदात्मनः। नज्ञानन्नचवैराग्यन्त्रायःश्रेयोभवेदिह १ यत्कर्मभिर्यत्तपसाज्ञानवैराग्यतश्चयत्। योगेनदानधर्मेणश्रेयोभिरितरैरपि २ सर्वमद्भक्तियोगेनमद्भक्तोलभतेञ्जसा। स्वर्गापवर्गम्मद्धामकथञ्चिद्यदिवाञ्छति ३ इति श्रेयःस्रुतिम्भक्तिमुदस्यतेविभोक्लिश्यन्तियेकेवलबोधलब्धये। तेषामसौक्लेशलपवशिष्यतेनान्यद्यथास्थूलतुषावघातिनाम् १ इत्यादिपरस्सहस्रवचनानि ज्ञानयोगस्यभगवदाराधनन्तत्प्रसादञ्चविनैवसिद्धिरितिक्वापिकेनाप्यनुक्तेश्च सर्वापेक्षाचयज्ञादिश्रुतेरश्ववदित्यधिकरणेज्ञानोत्पत्तौयज्ञादिसर्वसाधनापेक्षोक्तेश्च किञ्चभक्तियोगेदुराचारिणोपिदृढवैराग्यरहितस्याप्यधिकारोगम्यते अपिचेत्सुदुराचारोभजतेमामनन्यभाक्। साधुरेवसमन्तव्यःसम्यग्व्यवहितोहिसः १ क्षिप्रम्भवतिधर्मात्माशश्वच्छान्तिन्निगच्छति। कौन्तेयप्रतिजानीहिनमेभक्तःप्रणश्यति २ ननिर्विण्णोनातिसक्तोभक्तियोगोस्यसिद्धिदः। इत्यादिवचनेभ्यःनैवन्दुराचारिणापिदृढवैराग्यादिसाधनचतुष्टयसम्पत्त्यभावेपि वेदान्तश्रवणाद्यनुष्ठितौज्ञानोत्पत्तिर्भवतीतिक्वाप्युपलभ्यते नचयथोक्ताधिकारसम्पत्तिं विनानुष्ठितंसाधनङ्किमपिफलायकल्पते तस्मात्सर्वथासर्वैःकलौश्रीहरिपादसेवनादिभक्तियोगाश्रयणमेवकर्तव्यमितिसिद्धम्॥
अथकलौनिषिद्धानि समुद्रयात्रास्वीकारःकमण्डलुविधारणम्। द्विजानामसवर्णासुकन्यासूपयमस्तथा १ देवराद्यैःसुतोत्पत्तिर्मधुपर्केपशोर्वधः। मांसदानं तथाश्राद्धेवानप्रस्थाश्रमस्तथा २ दत्तावतायाःकन्यायाःपुनर्दानम्परस्पच। दीर्घकालं ब्रह्मचर्यनरमेधाश्वमेधकौ ३ महाप्रस्थानगमनङ्गोमेधश्चतथामखः। इमान्धर्मान्कलियुगेवर्ज्यानाहुर्मनीषिणः ४ मद्यंर्ज्यम्महापापेमरणान्तविशोधनम्। सौत्रामण्यादियज्ञपिसुरापात्रग्रहस्तथा ५ मद्यभक्षादिवामाद्यागमस्यतुनमानता। मीमांसाद्वितये सर्वशिष्टैश्चतदनादरात् ६ औरसोदत्तकश्चैतौपुत्रौकलियुगेस्मृतौ। अन्यान्दशविधान्पुत्रान्क्रीताद्यान्वर्जयेत्कलौ ७ कौस्तुभेस्वयन्दत्तस्तृतीयोपिकलौविहितइतिनवैवकलौनिषिद्धाइत्युक्तं कलियुगेब्रह्महन्त्रादेरेवाव्यवहार्यत्वादिरूपम्पातित्यं तत्संसर्गिणस्तुनरकहेतुदोषसत्त्वेपिपातित्यन्नास्ति संसर्गदोषःपापेष्वितिकलिवर्ज्येषुवचनात् कृतेसम्भाष्यपततित्रेतायांस्पर्शनेनतु। द्वापरेत्वन्नमादायकलौपततिकर्मणा १ इतिवचनाच्च ब्रह्महननादिकर्मणैवपातिसन्नसंसर्गमात्रेणेतितदर्थात् इदञ्चलोकेष्वम्बहिष्कृतपातकिषुलोकविद्विष्टत्वेनापरिहार्यसंसर्गेपातित्याभावपरं नहिलोकेष्वबहिष्कृतानाम्प्रच्छन्नाभक्ष्यभक्षणापेयपानागम्यागमनादिपातकवतान्तज्ज्ञानवतातिशिष्टेनापिसम्भाषणादिसंसर्गोनरकहेतुरपिपरिहर्तुंशक्यते लोकविद्वेषापातात् लोकबहिष्कृततुदानतुपातित्यहेतुरेव तथैवशिष्टाचारादितिमेभाति अतएव त्यजेद्देशङ्कृत युरोत्रेतायाग्राममुत्सृजेत्। द्वापरेकुलमेकन्तुकर्त्तारन्तुकलौयुगे १ इतिवाक्येकर्तृत्यागो
विधीयते त्यागोहिसंसर्गपरिहारएव किञ्चानेनवाक्येनयत्रकुलादौब्रह्महत्यादिपातकीनिष्पद्यतेतत्कुलादिकन्द्वापरादावेवबहिष्कार्यन्नतुकलौकुलादेर्बहिष्कारः किन्तुकर्त्तुरेवकलौबहिष्कारइतिप्रतिपाद्यते नचैतद्वाक्यविरोधिवाक्यान्तरम्पतितसगोत्रसपिण्डादीनाङ्कर्मानर्हत्वासंव्यवहार्यत्वप्रतिपादकङ्क्वापिग्रन्थेउपलभ्यते यत्तुनिर्णयसिन्धौघटस्फोटप्रकरणेगृहेषुस्वैरमापद्येरन्इतिवसिष्ठवचनसामर्थ्यात्पात्रनिनयनात्प्राक्पतितज्ञातीनान्धर्मकार्येष्वधिकारोनास्तीत्यपरार्कव्याख्यानमुपन्यस्तन्तन्नसर्वपतितविषयं किन्तुघटस्फोटार्हप्रायश्चित्तानिच्छुपतितविषयम् अन्यथापात्रनिनयनात्प्रागितिनवदेत् प्रायश्चित्तात्प्रागित्येववदेत् कर्त्तारन्तुकलौयुगेइत्यादिप्रत्यक्षवचनेनविरोधेर्थापत्तिमूलकस्यसर्वपतितविषयककुलवहिष्कारवर्णनस्यपुरुषव्याख्यानरूपस्याप्रामाण्यापाताच्चेतिभातिइतिसङ्क्षेपः नचैवङ्घटस्फोटविधिर्व्यर्थइतिवाच्यं तस्यपारलौकिकदोषपरिहारार्थत्वात् लोकबहिष्कृतपातकिविषयेसम्भाषणादिसंसर्गस्यपातित्यहेतुत्वाभावेऽपिपरत्रनरकजनकदोषहेतुत्ववत्पतितेनसहैककुलत्वसंसर्गस्यापीहपातियादिदोषहेतुत्वाभावेऽपिपारत्रिकदोषहेतुत्वात् अत्रचघटस्फोटविधेरेवार्थापत्तिविधयामानत्वात् तथाच पारत्रिकदोपपरिहारार्थघटस्फोटविधिरितिनर्ताद्वधिबलेनपतितमात्रस्यकुलेबहिष्कारः सत्राख्ययज्ञःकलौवर्ज्यः ब्रह्महत्यादिमहापातकेषुप्रायश्चित्तेननरकनिवृत्तिर्नभवतिकिन्त्विहलोकेव्यवहार्यतामात्रङ्कलौभवति स्वर्णस्तेयादिषुतुप्रायश्चित्तेननरकनिवृत्तिर्व्यवहार्यताच केचित्तुरहस्यकृतेषुमहापापेपुरहस्यप्रायश्चित्तङ्कलौनोपदेष्टव्यमित्याहुः विप्रादिस्त्रीसम्भोगेनभ्रष्टानांशूद्रादीनाम्प्रार्याश्चत्तेऽपिसंसर्गोनिषिद्धः यज्ञेपशुमारणंसोमविक्रयश्चविप्राणाङ्कलौवर्ज्यः ज्येष्ठादिसर्वभ्रातृृणांसमभागःकलौस्मृतः। आततायिद्विजानान्नोधर्मयुद्धेऽपिहिंसनम् १ अब्धौनौयातुर्द्विजस्यप्रायश्चित्तेऽपिसंसर्गोन गवार्थेब्राह्मणार्थेचप्राणत्यागःकलौनहि। द्विजानाङ्गोपशूद्रादौभोज्यान्नत्वङ्कलौनहि १ शिष्यस्यगुरुपत्नीपुनचिरंवासशीलता। आपदिक्षत्रवैश्यादिवृत्तिंविप्रःकलौत्यजेत् २ कलौद्विजोनहिभवेदश्वस्तनिकजीविकः। द्वादशाब्दङ्गुरौवासम्मुखाग्निधमनक्रियाम् ३ यतेर्भिक्षांसर्ववर्णेकलौत्रीणिविवर्जयेत्। नवोदकनिषेधञ्चदक्षिणाङ्गुरुवाञ्छिताम् ४ वृद्धरुग्णादिमरणञ्जलाग्निपतनादिभिः। गोतृप्तिमात्रेभूमिष्ठेपचस्याचनक्रियाम् ५ पितृवादेसाक्षिदण्डङ्कलौपञ्चविवर्जयेत्। घृतदुग्धादिभिःपक्वमन्नंशुद्रात्कलौत्यजेत् ६
भिक्षामटन्यतीरात्रौनवसेद्गृहिणाङ्गृहे। विधूमसन्नमुसलेकालेभिक्षाङ्कलौत्यजेत् ७ चत्वार्यब्दसहस्राणिचत्वार्यब्दशतानिच। कलेर्यदागमिष्यन्तिन्तदात्रेतापरिग्रहः ८ सन्न्यासचनकर्त्तव्योब्राह्मणेनविजानताम्। त्रेतापरिग्रहःसर्वाधानम् अर्धाधानंस्मृतं श्रौतस्मार्ताग्न्योस्तुपृथक्कृतिः। सर्वाधानन्तयोरैक्यकृतिःपूर्वयुगाश्रया ९ अस्यापवादः यावद्वर्णविभागोऽस्तियावद्वेदःप्रवर्तते। सन्न्यासञ्चाग्निहोत्रञ्चतावत्कुर्यात्कलौयुगे १० इति शपथाःशकुनाःस्वप्नाःसामुद्रिकमुपश्रुतिः। देवपूजोपहारादेःसङ्कल्पःकार्यसिद्धये १ प्रश्नोत्तरङ्कालविदांसम्भवन्तिकलौक्वचित्। इतिकलौकार्याकार्यनिर्णयः॥ १५० अथस्वप्नविचारः स्वप्नोद्विविधः इष्टफलोऽनिष्टफलश्चेति तत्रसामान्यतइ-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा