निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
ष्टफलोयथा नदीसमुद्रतरणमाकाशगमनन्तथा। गृहनक्षत्रमार्तण्डचन्द्रमण्डलदर्शनम् १ हर्म्यस्यारोहणञ्चैवप्रासादशिरसोपिवा। स्वप्नेचमदिरापानंवसामांसस्यभक्षणम् २ कृमिविष्ठानुलेपश्चरुधिरेणाभिषेचनम्। भोजनन्दधिभक्तस्यश्वेतवस्त्रानुलेपनम् ३ रत्नान्याभरणादीनिस्वप्नेदृष्ट्वाप्रसिद्ध्यति। देवताविप्रपृथ्वीशान्प्रशस्ताभरणाङ्गनाः ४ वृषेभपर्वतक्षीरिफलिवृक्षाधिरोहणम्। दर्पणामिषमाल्याप्तिं शुक्लपुष्पाम्बराश्रितान्। दृष्ट्वास्वप्नेर्थलाभःस्याद्व्याधिमोक्षञ्चजायते ५ अथानिष्टफलः दुष्टङ्किंशुकवल्मीकपारिभद्राधिरोहणम्। तैलकार्पासपण्याकलोहप्राप्तिर्विपत्तये १ विवा-
हकरणंस्वप्नेरक्तस्रग्वस्त्रधारणम्। स्रोतसाहरणन्नेष्टम्पक्वामांसस्यभोजनम् २ आदित्यस्याथचन्द्रस्यनिष्प्रभस्यावलोकनम्। नक्षत्रादेश्चपातस्यस्वप्नेमरणशोककृत् ३ अशोककरवीरपलाशानाम्पुष्पितानांस्वप्नेदर्शनेशोकः नौकारोहणेप्रवासः रक्तवस्त्रगन्धधारिण्यास्त्रियालिङ्गनेमृत्युः घृततैलादिनाभ्यङ्गेव्याधिः केशदन्तपातेधननाशः पुत्रशोकोवाखरोष्ट्रमहिषैर्यानेतद्युक्तरथारोहणेवामृत्युः कर्णनासाकरादिच्छेदेपङ्कमज्जनेतैलाभ्यङ्गेविषभक्षणेप्रेतालिङ्गनेनलदमालिनोदिगम्बरस्ययानेकृष्णपुरुषदर्शनेच मृत्युः ॥
अथजागृतावनिष्टानि अरुन्धतीन्ध्रुवञ्चैवनभोमन्दाकिनीन्तथा। स्वनासाग्रञ्चचन्द्राङ्कमायुर्हिनोनपश्यति १ पांसुपङ्कादिषुन्यस्तचरणङ्खण्डितंयदि। स्नानाम्बुलिप्तगात्रस्ययस्यास्पयम्प्राक्प्रशुष्यति २ गात्रेष्वार्द्रेषुसर्वेषुसूर्यादिद्वयदर्शनम्। स्वर्णप्रतीतिर्वृक्षेषुस्वपदानामदर्शनम् ३ पिहितेकर्णयुगुलेयस्यघोषानुपश्रुतिः। अदर्शनं स्वशिरसःप्रतिबिम्बेजलादिषु ४ छिद्रप्रतीतिश्छायायांसचिरन्नैवजीवति॥
अथविशेषतइष्टफलाःस्वप्नाः यस्तुपश्यतिवैस्वप्नेराजानङ्कुञ्जरंयम्। सुवर्णंवृषभङ्गांवाकुटुम्बन्तस्यवर्धते १ वृषवृक्षंवारुह्यतत्रस्थस्यजागरेघनाप्तिः श्वेतसर्पेणदक्षिणभुजदंशेदशदिनेसहस्रधनलाभः जलस्थस्यवृश्चिकोरगग्रासेजयपुत्रधनानि प्रासादशैलारोहणेसमुद्रतरणेराज्यं तडागमध्येपद्मपत्रेषुघृतपायसभोजनेराज्यम् बलाकाकुक्कुदर्शनेभार्याप्राप्तिः निगडैर्बन्धेबहुपाशबन्धेवापुत्रधनादि आसनेशयनेयाने
शरीरेवाहनेगृहे। ज्वलमानेविबुध्येततस्यश्रीःसर्वतोमुखी १ सूर्यचन्द्रमण्डलदर्शनेरोगिणोरोगनाशोऽन्यस्यधनं सुरारुधिरयोःपानेविप्रस्यविद्याशूद्रादेर्धनं शुक्लाम्बरगन्धधारिण्यासुभगस्त्रियालिङ्गनेसम्पत्तिः छत्रपादुकोपानत्खड्गलाभेधनं वृषभयुक्तरथारोहणेधनं दधिलाभेवेदाप्तिः दधिपयःपानेघृतलाभेचयशः घृतभक्षणेक्लेशः अन्त्रैर्वेष्टनेराज्यम् मनुष्यस्यचरणमांसभक्षणेशतंलाभःबाहुभक्षणेसहस्रं शीर्षमांसभक्षणेराज्यं वासहस्रधनंवा सफेनक्षीरपानेसोमपानं गोधूमदर्शनेधनलाभः यवदर्शनेयज्ञः गौरसर्षपदर्शनेलाभः नागपत्रंलभेत्स्वप्नेकर्पूरागमनन्तथा। चन्दनम्पाण्डुरम्पुष्पन्तस्यश्रीःसर्वतोमुखी १ सर्वाणिशुक्लान्यतिशोभनानिकार्पासभस्मौदनतक्रवर्ज्यम्। सर्वाणिकृष्णान्यतिनिन्दितानिगोहस्तिदेवद्विजवाजिवर्ज्यम् २ स्वप्नस्तुप्रथमेयामेवत्सरान्तेफलप्रदः। द्वितीयेऽष्टमासैः तृतीयेत्रिमासान्ते चतुर्थेयामेमासान्ते अरुणोदयेदशाहान्ते सूर्योदयेसद्यःफलम्॥
अथदुःस्वप्नदर्शनेकृत्यं योमेराजन्नित्यृचासूर्योपस्थानेदुःस्वप्ननाशः अधःस्वप्नस्येतिजपाद्वा क्वचिद्दर्शवच्छ्राद्धेनदुःस्वप्ननाशः चण्डीसप्तशतीपाठेनवा यद्वा श्रीविष्णुसहस्रनामस्तोत्रजपःकार्यः अथवाश्रीभारतस्थस्यश्रीमद्भागवतस्थस्यवागजेन्द्रमोक्षस्यश्रवणम्पाठोवा इतिदुःस्वप्ननाशकविधिः॥
इत्थङ्गर्भाधानादुद्वाहान्ताःसमस्तसंस्काराः। सपरिकनिर्णीताअस्मिंस्तार्तीयपूर्वार्धे १ ततआह्निकआचारस्ततआधानादिकाःप्रकीर्णार्थाः। शान्तिकपौष्टिकमुख्यानित्यानैमित्तिकाश्चोक्ताः २ पूर्वपरिच्छेदकयोःकालःसामान्यतोविशेषाच्च। निर्णीतःसहकृत्यैस्तिथिमासाद्येषुविध्युक्तैः ३ नानापापेप्रायश्चित्तंव्यवहारविस्तरश्चापि। उपदानमहादानादिविधिश्चोक्तोमयूखादौ ४ श्राद्धविधिःसाङ्गोप्याशौचेनिर्णीतिरन्त्यसंस्कारः। तार्तीयीकस्योत्तरखण्डेग्रेसम्प्रवक्ष्यन्ते ५ मूलभूतानिपद्यानिविकृतानिक्वचित्क्वचित्। निर्विकाराण्यपिनवान्यप्युक्तान्यत्रकानिचित् ६ मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसाबुधाः। कृतकार्याःप्राङ्निवन्धैस्तदर्थन्नायमुद्यमः ७ येपुनर्मन्न्दमतयोऽलसाअज्ञाश्चनिर्णयम्। धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया ८ निबन्धोयं धर्मसिन्धुसारनामासुबोधनः। अमुनाप्रीयतांश्रीमद्विवलोभक्तवत्सलः ९ प्रेम्णासद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि। संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव १० श्रीकाश्युपाध्यायवरोमहात्मावभूवविद्वद्द्विजसार्वभौमा। तस्मादुपाध्यायकुलावतंसौयज्ञेश्वरोनन्तइमावभूताम् ११ यज्ञेश्वरोयज्ञविधानदक्षोन्दैवज्ञवेदाङ्गसुशास्त्रशिक्षः। भक्तोत्तमोऽनन्तगुणैकधामानन्ताह्वयोनन्तकलावतारः १२ एषोत्यजज्जन्मभुवंस्वकीयान्ताङ्कौङ्कणाख्यांसुविरक्तिशाली। श्रीपाण्डुरङ्गेवसतिंविधायभीमातटेमुक्तिमगात्सुभत्तया १३ तस्यानन्ताभिधानस्योपाध्यायस्यसुतःकृती। काशीनाथाभिधोधर्मसिन्धुसारंसमातनोत् १४ इति श्रीमत्काश्युपाध्यायसूरिसूनुयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनायोपाध्यायविरचिते धर्मसिं॰तृती॰पूर्वार्धःसमाप्तः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा